सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

६६८ बृहत्संहिता
२३९. राशौ राशौ स्थितः सूर्यः शशी वा मित्रसंयुतः?
अधिमित्रेण सन्दृष्टो यथालाभप्रदः स्मृतः॥
इति कस्य वचनम्?
(अ) कश्यपस्य (स) विश्वामित्रस्य
(ब) नारदस्य (द) गौतमस्य
२४०. क्षीरोदे देवान् कः केतुं दास्यति?
(अ) रामः (स) विष्णुः
(ब) कृष्णः (द) केशवः
२४१. केतुं देवान् स्यतीति क आह?
(अ) ब्रह्मा (स) शिवः
(ब) विष्णुः (द) नारदः
२४२. असुरास्तं ध्वजं दृष्ट्वा ध्वजस्तेजःसमाहताः।
विसंज्ञाः समरे भग्नाः पराभूता प्रदुद्रुवुः॥
इति केनोक्तम्?
(अ) गर्गेण (स) नारदेन
(ब) वसिष्ठेन (द) गौतमेन
२४३. प्रौष्ठपादे प्रतिपदि ध्वजार्थं पूर्वतो वनम्।
गत्वा वृक्षं परीक्षेत वयःसारगुणान्वितम्॥
इति कस्य महर्षेः वाक्यम्?
(अ) गर्गस्य (स) अत्रेः
(ब) वसिष्ठस्य (द) पराशरस्य
२४४. ध्वजार्थं को वृक्षः शुभः?
(अ) अर्जुनवृक्षः (स) प्रियकः
(ब) उदुम्बरवृक्षः (द) धवः
२४५. ध्वजार्थं काष्ठं राजा कदा नगरे प्रवेशयेत्?
(अ) भाद्रशुक्लाष्टम्याम् (स) आषाढशुक्लाष्टम्याम्
(ब) श्रावणशुक्लाष्टम्याम् (द) आश्विनशुक्लाष्टम्याम्
२४६. प्रोष्ठपादे सिताष्टम्यां ज्येष्ठायोगे स्वलंकृताम्।
यष्टिं पौरन्दरीं राजा नगरं सम्प्रवेशयेत्॥
इति कस्य कथनम्?
(अ) वसिष्ठस्य (स) नारदस्य
(ब) कश्यपस्य (द) गर्गस्य
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्ना: ६६९
२४७. नगरे किंवर्णिका पताका शुभा?
(अ) श्वेता (स) हरिता
(ब) रक्ता (द) कृष्णा
२४८. राजा कदा जागरणं कुर्यात्?
(अ) एकादश्याम् (स) त्रयोदश्याम्
(ब) दशम्याम् (द) नवम्याम्
२४९. तत्र श्रवणयोगेन ध्वजोत्थानं प्रशस्यते।
द्वादश्यां विजये वाश्वमुहूर्त्ते वा दिनेऽथ वा ॥
इति कस्योक्तिः?
(अ) गर्गस्य (स) गौतमस्य
(ब) गालवस्य (द) अत्रे:
२५०. ध्वजोपरि शक्रकुमार्यः विधातव्या कति?
(अ) पञ्च (स) अष्टौ
(ब) सप्त (द) दश
२५१. ध्वजाय प्रथमाभूषणं केन प्रदत्तम् ?
(अ) ब्रह्मणा (स) शिवेन
(ब) विश्वकर्मणा (द) विष्णुना
२५२. नीराजनशान्तिः कदा कर्तव्या?
(अ) कार्तिकशुक्लाष्टम्याम् (स) कार्तिकशुक्लद्वादश्याम्
(ब) आश्विनशुक्लाष्टम्याम् (द) कार्तिकशुक्लपौर्णमास्याम्
२५३. शालिजातकसिद्धार्थान् कुष्ठं भल्लातकं तथा।
अश्वेषु कण्ठे बध्नीयात् सप्ताहं शान्तिमाचरेत् ॥
इति वचनं केन भणितम्?
(अ) कश्यपेन (स) पराशरेण
(ब) वसिष्ठेन (द) विश्वामित्रेण
२५४. कति हस्तपरिमिता वेदी ब्राह्मणानां यज्ञे विधातव्या?
(अ) सप्तहस्ता (स) दशहस्ता
(ब) पञ्चहस्ता (द) अष्टहस्ता
२५५. यज्ञे विवाहे ब्राह्मणानां वेदिमानं किम्?
(अ) त्रिसप्त हस्ता (स) अष्टौ हस्ता
(ब) दश हस्ता (द) नव हस्ता
२५६. त्रिसप्तहस्तविस्तारा वेदी केषां कृते?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६७० बृहत्संहिता
(अ) ब्राह्मणानां कृते (स) वैश्यानां कृते
(ब) क्षत्रियाणां कृते (द) शूद्राणां कृते
२५७. अश्वं समारूह्य राजा कस्यां दिशि प्रस्थानं कुर्यात्?
(अ) ऐशान्याम् (स) प्रतीच्याम्
(ब) पूर्वस्याम् (द) उदीच्याम्
२५८. 'नामानुरूपेण फलं विहगानां विनिर्दिशेत्' इति कस्य कथनम्?
(अ) कश्यपस्य (स) गालवस्य
(ब) गौतमस्य (द) विश्वामित्रस्य
२५९. मैथुनं कुरुते यत्र तत्र वै निधिमादिशेत्।
भुक्तं छर्दयते यत्र तत्र काचमधो भवेत्॥
इति कस्योक्तिः?
(अ) वसिष्ठस्य (स) कश्यपस्य
(ब) गौतमस्य (द) नारदस्य
२६०. राजानं पुष्यस्नानं कः कारयति?
(अ) पुरोहितः (स) प्रजा
(ब) ज्योतिषी (द) मन्त्रिणः
२६१. पुष्यस्नानं कुत्र कर्तव्यम्?
(अ) शोभने कानने (स) नूतनलतायुते वने
(ब) दुर्गन्धवृक्षरहिते स्थाने (द) अशुभकारकै पक्षिभिः रहिते स्थाने
२३२. समुद्रतीरे सोद्याने नदीनां सङ्गमे शुभे।
महाह्रदेऽथवा तीर्थे देवतायतने तथा॥
सर्वर्तुकुसुमोपेते वने द्विजवरैर्युते।
गृहे रम्ये विविक्ते वा पुष्यस्नानं समाचरेत्॥
इति कस्य वाक्यम्?
(अ) वसिष्ठस्य (स) वृद्धगर्गस्य
(ब) गर्गस्य (द) शौनकस्य
२६३. पुष्यस्नानविधौ पुरोहितः किं कुर्यात् ?
(अ) दध्यक्षतबलिं चरेत् (स) पुण्यक्षेत्रे पुष्पबलिं चरेत्
(ब) पायसबलिं दद्यात् (द) पायसदधिपुष्पयुतं बलिं दद्यात्
२६४. कस्यां दिशि बलिं चरेत् ?
(अ) पूर्वस्यां दिशि (स) वायव्यकोणे
(ब) उत्तरस्यां दिशि (द) ऐशान्यां दिशि
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्नाः ६७१
२६५. बलिप्रदानान्तरं पुरोधा किं कुर्यात् ?
(अ) आवाहनं कुर्यात् (स) प्रार्थनां कुर्यात्
(ब) मन्त्रान् पठेत् (द) आवाहनसामग्रीं निरीक्षेत्
२६६. आगच्छन्तु सुराः सर्वे येऽत्र पूजाऽभिलाषिणः ।
दिशो नागा द्विजाश्चैव ये चाऽप्यन्येऽंशभागिनः ॥
अनेन मन्त्रेण किं कुर्यात् ?
(अ) आवाहनम् (स) वन्दनम्
(ब) पूजनम् (द) विसर्जनम्
२६७. 'पूजां प्राप्य प्रयास्यन्ति दत्वा शान्तिं महीपतेः' इदं वाक्य कः कथयति?
(अ) पुरोहितः (स) आचार्यः
(ब) सचिवः (द) अङ्गरक्षकः
२६८. आवाहनानन्तरं तदानीं पुरोहितादयः किं कुर्युः?
(अ) तां रात्रिं तत्रैव व्यतीयुः।
(ब) गच्छन्तु।
(स) केवलं पुरोहितः तां रात्रीं तत्रैव तिष्ठेत्।
(द) सर्वे तत्रैव निवसन्तु।
२६९. द्वितीयेऽह्नि कस्य वचनं पठितव्यम् ?
(अ) वसिष्ठस्य (स) शौनकस्य
(ब) पराशरस्य (द) वृद्धगर्गस्य
२७०. यात्राप्रस्थानकाले कस्य ग्रन्थानुसारं पूजा विधातव्या?
(अ) यात्रानां पुस्तकानुसारम् (स) कर्मकाण्डप्रदीपानुसारम्
(ब) ग्रहशान्त्यानुसारम् (द) पूजापारिजातानुसारम्
२७१. नमः शम्भो त्रिनेत्राय रुद्राय वरदाय च ।
वामनाय विरूपाय स्वप्नाधिपतये नमः ॥
अयं मन्त्रः कदा पठितव्यः?
(अ) यात्रायाः पूर्वसन्ध्यायां (स) उत्थाय
(ब) यात्राकाले (द) यात्रातः पूर्वम्
२७२. ग्रहयज्ञे मण्डलं विधाय कस्य पूजा विधातव्या?
(अ) देवतानाम् (स) मातृकानाम्
(ब) पितॄणाम् (द) लोकपालानाम्
२७३. यात्राकालिके ग्रहयज्ञे कतिसङ्ख्याकाः कलशाः भवन्ति?
(अ) चत्वारः कलशाः (स) सप्त कलशाः
(ब) पञ्च कलशाः (द) अष्टौ कलशाः
CC-0. JK Sanskrit Academy, Jammmmu. Digitized by S3 Foundation USA

६७२ बृहत्संहिता
२७४. बृहत् रूपे कति कलशाः?
(अ) अष्टोत्तरशतकलशाः (स) अष्टाविंशतिकलशाः
(ब) अष्टौ कलशाः (द) चतुर्विंशति कलशाः
२७५. मण्डलस्य कस्यां दिशि वेदी भवेत्?
(अ) मण्डलस्य पूर्वभागे (स) मण्डलस्य दक्षिणभागे
(ब) मण्डलस्योत्तरभागे (द) मण्डलस्य पश्चिमभागे
२७६. चतुर्षु कलशेषु कतिविधा औषधयः प्रक्षेपणीयाः?
(अ) षोडश (स) चतुर्दश
(ब) पञ्चदश (द) सप्तदश
२७७. अन्यानि मङ्गलद्रव्याणि कियन्ति?
(अ) त्रीणि (स) चत्वारि
(ब) पञ्च (द) सप्त
२७८. आसने प्रथमं किं स्तरणीयम् ?
(अ) वृद्धवृषभचर्म (स) मृगचर्म
(ब) युवावृषभचर्म (द) गजचर्म
२७९. गोचर्मोपरि किं भवेत् ?
(अ) युवावृषभचर्म (स) अजाचर्म
(ब) वत्सचर्म (द) सिंहचर्म
२८०. वृषभचर्मोपरि किं स्तरणीयम् ?
(अ) सिंहचर्म (स) गजचर्म
(ब) अजाचर्म (द) व्याघ्रचर्म
२८१. सिंहचर्मोपरि आसने किं स्यात् ?
(अ) मृगचर्म (स) गजचर्म
(ब) व्याघ्रचर्म (द) अजाचर्म
२८२. नृपस्यासने कतिविधानि चर्माणि?
(अ) चतुर्विधानि (स) त्रिविधानि
(ब) पञ्चविधानि (द) षड्विधानि
२८३. नृपासने चर्मोपरि किं स्तरणीयं भवति?
(अ) सुवर्णासनम् (स) ताम्रासनम्
(ब) रजतासनम् (द) लौहासनम्
२८४. राज्ञ आसनं कियद्विस्तृतं भवेत्?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्नाः ६७३
(अ) सपादहस्तपरिमितम् (स) द्विहस्तपरिमितम्
(ब) सार्धहस्तपरिमितम् (द) सार्धद्विहस्तपरिमितम्
२८५. नृपासनं कस्योपरि समाच्छादनीयम्?
(अ) व्याघ्रचर्मोपरि (स) सिंहचर्मोपरि
(ब) गजचर्मोपरि (द) वृषभचर्मोपरि
२८६. नृपः स्वासने केन सह तिष्ठेत्?
(अ) मन्त्रिणा सह (स) प्रजाभिः साकम्
(ब) सचिवेन साकम् (द) पुरोधसमम्
२८७. पुरोधा स्वासनस्थं राजानं केन वस्तुना समभिषिञ्चेत्?
(अ) घृतेन (स) पयसा
(ब) जलेन (द) पञ्चगव्येन
२८८. आज्यं तेजःसमुद्दिष्टमाज्यं पापहरं परम्।
आज्यं सुराणामाहारं सर्वमाज्ये प्रतिष्ठितम्॥
केन पठितोऽयं मन्त्रः?
(अ) वसिष्ठेन (स) गौतमेन
(ब) गर्गेण (द) वृद्धगर्गेण
२८९. घृताभिषेककाले केनाच्छादयति राजानम्?
(अ) कम्बलेन (स) कार्पासवस्त्रेण
(ब) पट्टवस्त्रेण (द) सामान्यवस्त्रेण
२९०. कियद्भिर्मन्त्रैरभिषिक्तो भवति नृपः?
(अ) अष्टभिर्मन्त्रैः (स) पञ्चदशमन्त्रैः
(ब) द्वादशमन्त्रैः (द) षोडशमन्त्रैः
२९१. द्वितीयवेद्यां कीदृगासनं समास्तीर्यते?
(अ) वृषभचर्मणः (स) व्याघ्रचर्मणः
(ब) गजचर्मणः (द) सिंहचर्मणः
२९२. द्वितीयायां वेद्यां वृषभचर्मोपरि किं समास्तीर्यते?
(अ) गजचर्म (स) कृष्णमृगचर्म
(ब) मार्जारचर्म (द) हरिणचर्म
२९३. स्वाहावसानसमये स्वयमुज्ज्वलार्चिः
स्निग्धप्रदक्षिणशिखो हुतभुङ्नृपस्य।
गङ्गादिवाकरसुताजलचारुहारं
भूमिं समुद्रवसनां वशगां करोति॥
केनोच्चरितोऽयं मन्त्रः?
बृ० सं० प्र०-४३
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६७४ बृहत्संहिता
(अ) पुरोहितेन (स) प्रजावर्गेण
(ब) सचिवेन (द) निजसचिवेन
२९४. दत्वा वित्तं ब्राह्मणेभ्यो गावो हेमपरिष्कृता ।
वास्तुयुग्मं महीं रूप्यं तेभ्यश्च बहुभोजनम् ॥
कस्येदं वाक्यम्?
(अ) वृद्धगर्गस्य (स) वशिष्ठस्य
(ब) गर्गस्य (द) शौनकस्य
२९५. पुष्यस्नानेन किं फलं प्राप्नोति राजा?
(अ) सुखं प्राप्नोति (स) यशः प्राप्नोति
(ब) शुभं लभते (द) धनानि लभते
२९६. पुष्यस्नानमिन्द्राय केनोक्तम्?
(अ) वसिष्ठेन (स) गर्गेण
(ब) सुराचार्येण (द) विश्वामित्रेण
२९७. पुष्यस्नानं किं फलं ददाति राजानम्?
(अ) सौभाग्यं करोति (स) धनं ददाति
(ब) पूजावृद्धिं करोति (द) आयुर्वृद्धिं करोति
२९८. प्रतिपुष्येण यो राजा स्नायति विधिपूर्वकम्।
तस्य राष्ट्रे न सीदन्ति मर्त्या ये जन्तवो मुनिः॥
इदं वचनं कस्यास्ति?
(अ) वसिष्ठस्य (स) पराशरस्य
(ब) गर्गस्य (द) बृहस्पतेः
२९९. अनेन विधिना केषामन्येषामभिषेको भवति?
(अ) गजस्य (स) वृषभस्य
(ब) अश्वस्य (द) प्रजावर्गस्य
३००. कियदङ्गुलपरिमितं मुकुटं राजा अन्यान् परिधापयितुं शक्नोति?
(अ) द्व्यङ्गुलपरिमितम् (स) चतुरङ्गुलपरिमितम्
(ब) त्र्यङ्गुलपरिमितम् (द) पञ्चाङ्गुलपरिमितम्
३०१. राजा कियदङ्गुलपरिमितं मुकुटं परिदधाति?
(अ) अष्टाङ्गुलपरिमितम् (स) पञ्चदशाङ्गुलपरिमितम्
(ब) द्वादशाङ्गुलपरिमितम् (द) नवाङ्गुलपरिमितम्
३०२. कियत्परिमितं दैर्घ्यं भवति राज्ञः मुकुटम्?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्नाः ६७५
(अ) षोडशाङ्गुलपरिमितम् (स) चतुर्विंशत्यङ्गुलपरिमितम्
(ब) दशाङ्गुलपरिमितम् (द) विंशत्यङ्गुलपरिमितम्
३०३. महिष्याः मुकुटस्य कियदङ्गुलपरिमितो विस्तारो भवेत्?
(अ) सप्ताङ्गुलपरिमितम् (स) अष्टाङ्गुलपरिमितम्
(ब) दशाङ्गुलपरिमितम् (द) एकादशाङ्गुलपरिमितम्
३०४. राज्ञ्याः मुकुटस्य दैर्घ्यं भवेत्—
(अ) चतुर्दशाङ्गुलम् (स) सप्तदशाङ्गुलम्
(ब) द्वादशाङ्गुलम् (द) अष्टादशाङ्गुलम्
३०५. युवराजस्य मुकुटविस्तारो भवेत्—
(अ) षडङ्गुलम् (स) अष्टाङ्गुलम्
(ब) सप्ताङ्गुलम् (द) दशाङ्गुलम्
३०६. युवराजस्य मुकुटस्य दैर्घ्यं कियत् परिमितम्भवेत्?
(अ) दशाङ्गुलम् (स) त्रयोदशाङ्गुलम्
(ब) द्वादशाङ्गुलम् (द) पञ्चदशाङ्गुलम्
३०७. राज्ञां प्रजाभ्य दीयमानस्य मुकुटस्य विस्तारो भवति?
(अ) द्व्यङ्गुलम् (स) पञ्चाङ्गुलम्
(ब) चतुरङ्गुलम् (द) त्र्यङ्गुलम्
३०८. पञ्चशिखं मुकुटं कस्य कृते भवति?
(अ) राज्ञः (स) राजकुमारस्य
(ब) महिष्याः (द) राजकुमार्याः
३०९. क्रियमात्रं यदा पत्रं मध्ये स्फुटति भिद्यते।
तदा नृपभयं प्रोक्तं यत्स्थाने वा प्रकल्पितम्॥
इति कस्य वचनम्?
(अ) कश्यपस्य (स) वसिष्ठस्य
(ब) गर्गस्य (द) पराशरस्य
३१०. एकशिखायुतं मुकुटं कस्य कृते?
(अ) सेनापतेः (स) महिष्याः
(ब) युवराजस्य (द) प्रजायाः
३११. उत्तमखड्गः कियदङ्गुलपरिमितं भवति?
(अ) पञ्चाशदङ्गुलपरिमितम् (स) त्रिंशदङ्गुलपरिमितम्
(ब) चत्वारिंशदङ्गुलपरिमितम् (द) चतुश्चत्वारिंशदङ्गुलपरिमितम्
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६७६ बृहत्संहिता
३१२. मृत्योः सूचकं भवति?
(अ) खड्गात् शब्दानिःसरणम् (स) खड्गस्य पतनम्
(ब) खड्गस्य कम्पनम् (द) खड्गस्य कुटिलम्
३१३. खड्गस्य प्रमाणाधिक्यात् किं कर्तव्यम्?
(अ) कर्तितव्यम् (स) घर्षणीयम्
(ब) वक्रीकर्तव्यम् (द) तापनीयम्
३१४. तत्र देशे दिशः कालं व्याहारं द्रव्यदर्शनम्।
अङ्गप्रत्यङ्गसंस्पर्शं समीक्ष्य फलमादिशेत्॥
कस्य वाक्यमिदम्?
(अ) पराशरस्य (स) वसिष्ठस्य
(ब) गौतमस्य (द) धौम्यस्य
३१५. प्रश्नः कुत्र कर्तव्यः?
(अ) जलपूर्णभूमौ (स) फलितवृक्षभूमौ
(ब) अङ्कुरितदूर्वाभूमौ (द) सुगन्धभरितभूमौ
३१६. वेलाः सर्वाः प्रशस्यन्ते पूर्वाह्ने परिपृच्छताम्।
सन्ध्ययोरपराह्ने तु क्षपायान्तु विगर्हिता॥
कस्य वाक्यमिदम्?
(अ) वसिष्ठस्य (स) गर्गस्य
(ब) पराशरस्य (द) शौनकस्य
३१७. कियन्ति पुरुषसंज्ञकाङ्गानि?
(अ) एकोनविंशतिः (स) एकविंशतिः
(ब) विंशतिः (द) द्वाविंशतिः
३१८. पुत्रेच्छुः राजा केन वस्तुना शस्त्रस्नानं कारयेत्?
(अ) घृतेन (स) जलेन
(ब) दुग्धेन (द) पयसा
३१९. शस्त्रं राजा जलेन किमर्थं स्नापयति?
(अ) धनार्थम् (स) विजयार्थम्
(ब) पुत्रार्थम् (द) ऐश्वर्यार्थम्
३२१. अङ्गुष्ठेन लिखेद् भूमिं क्षेत्रचिन्तां विचिन्तयेत्।
हस्तेन पादौ कण्डूयेत् कुर्याद्दाशीकृतां सताम्॥
इति कस्य वाक्यम्?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्नाः ६७७
(अ) पराशरस्य (स) वसिष्ठस्य
(ब) गर्गस्य (द) शौनकस्य
३२२. कुटुम्बस्य वृद्धिः कदा भवति?
(अ) प्रश्नकाले धान्यपूर्णपात्रदर्शनात् (स) पयःपूर्णपात्रदर्शनात्
(ब) जलपूर्णकुम्भदर्शनात् (द) घृतपूर्णपात्रदर्शनात्
३२३. प्रश्नकाले पादाङ्गुष्ठस्पर्शने कश्चौरः?
(अ) दासचौरः (स) दूतचौरः
(ब) दासी चौरः (द) भगिनी चौरः
३२४. हस्ताङ्गुलीस्पर्शने कश्चौरः?
(अ) निजकन्या (स) निजभार्या
(ब) निजपुत्रः (द) निजमित्रम्
३२५. प्रश्नकाले दक्षिणोरुस्पर्शने किं फलम्?
(अ) द्वे कन्यके (स) चतस्रः कन्यकाः
(ब) तिस्रः कन्यकाः (द) षट् कन्यकाः
३२६. प्रश्नकाले शिरःस्पर्शे कस्मिन् नक्षत्रे बालकस्य जन्म?
(अ) अश्विनीनक्षत्रे (स) मूलनक्षत्रे
(ब) उत्तराषाढानक्षत्रे (द) हस्तनक्षत्रे
३२७. प्रश्नकाले केशस्पर्शनात् का सन्ततिसङ्ख्या?
(अ) त्रयः पुत्राः (स) द्वौ पुत्रौ
(ब) चतस्रः कन्यकाः (द) तिस्रः कन्याः
३२८. केवलैका कन्यका किं स्पर्शने भवति?
(अ) पादाङ्गुष्ठस्पर्शने (स) अङ्गुष्ठस्पर्शने
(ब) पार्णियुग्मस्पर्शने (द) तर्जनीस्पर्शने
३२९. प्रश्नकाले दक्षिणोरुस्पर्शने कति सन्तत्यः?
(अ) चतस्रः कन्यकाः (स) द्वौ पुत्रौ
(ब) पञ्च कन्यकाः (द) त्रयः पुत्राः
३३०. इदं सम्यग् विजानाति चेत् सः किं लभते?
(अ) राज्ञः समादरं लभते (स) समाजतः समादरं लभते
(ब) प्रजाभ्यः समादरं लभते (द) सर्वतः समादरं लभते
३३१. प्रश्नकाले कर्णस्पर्शात् कति पुत्राः जायन्ते?
(अ) पञ्च पुत्राः (स) षट् पुत्राः
(ब) चत्वारः पुत्राः (द) सप्त पुत्राः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६७८ बृहत्संहिता
३३२. हस्तस्पर्शने कति पुत्राः जायन्ते?
(अ) त्रयः पुत्राः (स) पञ्च पुत्राः
(ब) चत्वारः पुत्राः (द) द्वौ पुत्रौ
३३३. ललाटमध्ये स्पर्शने कति कन्यकाः जायन्ते?
(अ) चतस्रः कन्यके (स) पञ्च कन्यके
(ब) तिस्रः कन्यके (द) द्वे कन्यके
३३४. स्त्रियाः शिरःस्पर्शने कस्मिन्नक्षत्रे सन्ततिर्जायते?
(अ) कृत्तिकानक्षत्रे (स) मृगशिरानक्षत्रे
(ब) रोहिणीनक्षत्रे (द) आर्द्रानक्षत्रे
३३५. श्वेतपिटकं कस्य कृते शुभम्?
(अ) विप्रस्य कृते (स) वैश्यस्य कृते
(ब) क्षत्रियस्य कृते (द) शूद्रस्य कृते
३३६. क्षत्रियस्य कृते किंवर्णकं पिटकं शुभम्भवति?
(अ) रक्तवर्णकम् (स) धूम्रवर्णकम्
(ब) श्वेतवर्णकम् (द) कृष्णवर्णकम्
३३७. अन्त्यजस्य कृते किंवर्णकं पिटकं शुभम्?
(अ) कृष्णवर्णकम् (स) धूम्रवर्णकम्
(ब) रक्तवर्णकम् (द) सर्ववर्णकम्
३३८. क्व गतं पिटकं धनलाभाय भवति?
(अ) हस्तगतम् (स) शिरोगतम्
(ब) पादगतम् (द) ऊरुगतम्
३३९. नासिकायां पिटकः स्यात्तदा किं लभते?
(अ) वस्त्रलाभः (स) भोजनलाभः
(ब) धनलाभः (द) मानलाभः
३४०. यदि गण्डस्थले पिटकः स्यात्तदा को लाभः?
(अ) पुत्रलाभः (स) कन्यालाभः
(ब) राज्यलाभः (द) धनलाभः
३४१. नेत्रपुटस्थपिटकः किं ददाति?
(अ) शोकम् (स) दैन्यम्
(ब) दुःखम् (द) क्लेशम्
३४२. कराङ्गुलिगतः पिटकः किं ददाति?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्ना: ६७९
(अ) सौभाग्यम् (स) अन्नम्
(ब) धनम् (द) फलानि
३४३. बाहुगतः पिटकः किं करोति?
(अ) शोकं ददाति (स) शत्रून्नाशयति
(ब) सौभाग्यं करोति (द) मैत्रीं विस्तारयति
३४४. मणिबन्धगः पिटकः किं करोति?
(अ) अन्नवस्त्रादिलाभं करोति (स) हस्तबन्धनं करोति
(ब) भूषणलाभं करोति (द) शत्रून्नाशयति
३४५. हृद्गतः पिटकः किं करोति?
(अ) धनलाभं करोति (स) सौख्यलाभं करोति
(ब) पुत्रलाभं करोति (द) मित्रलाभं करोति
३४६. क्व गतः पिटकः शस्त्रपीडां करोति?
(अ) शिरोगतः (स) गलगतः
(ब) हस्तगतः (द) बाहुगतः
३४७. नाभिगतः पिटकः किं ददाति?
(अ) धनधान्यम् (स) विद्याम्
(ब) सौभाग्यम् (द) सर्वसौख्यम्
३४८. क्व गतः पिटकः वनितां ददाति?
(अ) गलङ्गतः (स) हस्तगतः
(ब) नाभिगतः (द) पादगतः
३४९. जानुगतः पिटकः किं करोति?
(अ) शत्रुबाधां करोति (स) दस्युभयङ्करोति
(ब) चौरभयं करोति (द) राजभयङ्करोति
३५०. मार्गे क्व गतः पिटकः कष्टं प्रापयति?
(अ) गुल्फगतः (स) पार्ष्णिगतः
(ब) पादतलगतः (द) करगतः
३५१. पादगतः पिटकः किं करोति?
(अ) भ्रामयति (स) परदेशं गमयति
(ब) पर्यटनं कारयति (द) देशान्तरं प्रापयति
३५२. अगुष्ठस्थः पिटकः किं करोति?
(अ) बन्धुभिः पूजयति (स) सम्मानं ददाति
(ब) सर्वैः सत्कारयति (द) सर्वत्र पूजां ददाति
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६८० बृहत्संहिता
३५३. दक्षिणाङ्गगताः पिटकाः केषां कृते शुभावहाः?
(अ) स्त्रीणां कृते (स) वैश्यानां कृते
(ब) पुरुषाणां कृते (द) कन्यकानां कृते
३५४. वामाङ्गे गताः पिटकाः केषां कृते दुःखदा?
(अ) नारीणां कृते (स) कुमारीणां कृते
(ब) वृद्धानां कृते (द) बालानां कृते
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्नोत्तराणि
१. अ २७. ब ५३. स ७९. अ १०५. स
२. स २८. अ ५४. अ ८०. अ १०६. अ
३. द २९. स ५५. ब ८१. स १०७. अ
४. ब ३०. द ५६. ब ८२. ब १०८. ब
५. अ ३१. ब ५७. ब ८३. स १०९. ब
६. अ ३२. द ५८. द ८४. अ ११०. स
७. अ ३३. अ ५९. अ ८५. ब १११. अ
८. अ ३४. द ६०. द ८६. अ ११२. द
९. अ ३५. ब ६१. ब ८७. अ ११३. अ
१०. ब ३६. ब ६२. स ८८. अ ११४. अ
११. अ ३७. द ६३. अ ८९. अ ११५. अ
१२. अ ३८. ब ६४. अ ९०. ब ११६. ब
१३. अ ३९. अ ६५. ब ९१. अ ११७. ब
१४. अ ४०. अ ६६. अ ९२. स ११८. अ
१५. अ ४१. अ ६७. ब ९३. ब ११९. अ
१६. अ ४२. द ६८. अ ९४. ब १२०. स
१७. अ ४३. अ + द ६९. द ९५. द १२१. अ
१८. अ ४४. ब ७०. द ९६. द १२२. द
१९. द ४५. अ ७१. ब ९७. द १२३. स
२०. अ ४६. अ ७२. अ ९८. स १२४. द
२१. अ ४७. अ ७३. अ ९९. स १२५. अ
२२. अ ४८. अ ७४. स १००. अ १२६. अ
२३. अ ४९. अ ७५. अ १०१. स १२७. ब
२४. अ ५०. अ ७६. ब १०२. अ १२८. अ
२५. अ ५१. अ ७७. स १०३. अ १२९. अ
२६. स ५२. अ ७८. अ १०४. अ १३०. अ
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६८२ बृहत्संहिता
१३१. अ १५८. अ १८७. अ २१६. अ २४५. अ
१३२. द १५९. द १८८. अ २१७. अ २४६. द
१३३. स १६०. अ १८९. अ २१८. द २४७. अ
१३४. अ १६१. अ १९०. अ २१९. स २४८. अ
१३५. ब १६२. अ १९१. द २२०. अ २४९. अ
१३६. द १६३. द १९२. स २२१. ब २५०. ब
१३७. अ १६४. अ १९३. द २२२. अ २५१. ब
१३८. द १६५. स १९४. अ २२३. अ २५२. द
१३९. अ १६६. द १९५. अ २२४. ब २५३. अ
१४०. अ ब १६७. ब १९६. अ २२५. अ २५४. अ
स द १६८. ब १९७. अ २२६. अ २५५. अ
१४१. द १६९. स १९८. अ २२७. ब २५६. अ
१४२. द १७०. ब १९९. अ २२८. अ २५७. अ
१४३. अ १७१. अ २००. अ २२९. अ २५८. अ
१४४. अ १७२. ब २०१. द २३०. स २५९. स
१४५. अ ब १७३. ब २०२. अ २३१. स २६०. अ ब
स १७४. द २०३. अ २३२. स २६१. अ
१४६. अ १७५. द २०४. ब २३३. ब २६२. स
१४७. अ १७६. द २०५. अ २३४. अ २६३. द
१४८. अ १७७. स २०६. अ २३५. अ २६४. द
१४९. अ १७८. ब २०७. अ २३६. ब २६५. ब
१५०. द १७९. अ २०८. अ २३७. स २६६. अ
१५१. द १८०. ब २०९. अ २३८. स २६७. अ
१५२. ब १८१. अ २१०. द २३९. अ २६८. अ
१५३. अ १८२. द २११. अ २४०. द २६९. द
१५४. अ १८३. द २१२. अ २४१. अ २७०. अ
१५५. अ १८४. द २१३. अ २४२. अ २७१. द
१५६. अ १८५. अ २१४. अ २४३. अ २७२. अ
१५७. अ १८६. अ २१५. ब २४४. द २७३. अ
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्नोत्तराणि ६८३
२७४. अ २९१. अ ३०७. अ ३२३. अ ३३९. अ
२७५. स २९२. स ३०८. अ ३२४. अ ३४०. अ
२७६. अ २९३. अ ३०९. अ ३२५. अ ३४१. अ
२७७. अ २९४. ब ३१०. अ ३२६. अ ३४२. अ
२७८. अ २९५. अ ३११. अ ३२७. अ ३४३. ब
२७९. अ २९६. ब ३१२. अ ३२८. ब ३४४. स
२८०. अ २९७. ब ३१३. अ ३२९. अ ३४५. ब
२८१. ब २९८. ब ३१४. अ ३३०. अ ३४६. अ
२८२. द २९९. अ ३१५. ब ३३१. अ ३४७. अ
२८३. अ ३००. अ ३१६. ब ३३२. अ ३४८. अ
२८४. अ ३०१. अ ३१७. अ ३३३. अ ३४९. अ
२८५. अ ३०२. अ ३१८. अ ३३४. अ ३५०. अ
२८६. अ ३०३. अ ३१९. अ ३३५. अ ३५१. अ
२८७. अ ३०४. अ ३२०. अ ३३६. अ ३५२. अ
२८८. द ३०५. अ ३२१. अ ३३७. द ३५३. अ
२८९. अ ३०६. ब ३२२. अ ३३८. अ ३५४. अ
२९०. द
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

महत्वपूर्ण ग्रन्थ
• कर्मविपाक संहिता । 'सरलाख्य' भाषाटीका सहित । पं० श्री लालजी
उपाध्याय
• खेटकौतुकम् । खानखाना विरचित । श्री नारायणदासकृत हिन्दी व्याख्या
सहित
• जातकालङ्कार । सान्वय 'हरभानु' संस्कृत टीका एवं 'प्रज्ञावर्द्धिनी' हिन्दी टीका
सहित । डॉ० सत्येन्द्रमिश्र
• जैमिनीसूत्र । संस्कृत-हिन्दी टीका सहित । पं० सीताराम झा
• ज्योतिषरत्नमाला । हिन्दी टीका सहित । पं० सीताराम झा
• ज्योतिष कल्पद्रुम (मुहूर्त परिजात) । पं० सोहनलाल व्यास
• ज्योतिष प्रश्नफलगणना । 'विमला' हिन्दी व्याख्योपेता । श्री दयाशङ्कर
उपाध्याय
• ताजिकनीलकण्ठी । संस्कृत-हिन्दी व्याख्या साहित्य । पं० सीताराम झा
• फलितप्रकाश । डॉ० बालमुकुन्द पाण्डेय
• बीजगणित । श्रीभास्कराचार्यकृत । व्याख्याकार—विशुद्धानन्द गौड
• बृहज्ज्योतिषसार । हिन्दी टीका, विशेष विवरण, विविध प्रकार के चक्र,
सारणी आदि से सुसज्जित फलित का अभिनव ग्रन्थ । सम्पा०—
श्रीवासुदेव गुप्त
• बृहत्संहिता । वराहमिहिरकृत । 'विमला' हिन्दी टीका सहित । पं० अच्युतानन्द
झा
• बृहत्संहिता । 'भट्टोत्पल्लविवृति' समन्वित 'विमला' हिन्दी टीका सहित । पं०
अच्युतानन्द झा । १-२ भाग
• भार्गवनाडिका । हिन्दी व्याख्या सहित । व्याख्याकार—महर्षि अभय
कात्यायन
• मानसागरी । 'सुबोधिनी' हिन्दी व्याख्या, प्रपत्ति, विशेष विवरण सहित ।
सम्पा०—पं० मधुकान्त झा
• मुहूर्तपारिजात (ज्योतिष कल्पद्रुम) । पं० सोहनलाल व्यास । सम्पा०—पं०
सीताराम झा
• मुहूर्तमार्तण्ड । 'प्रभा' संस्कृत 'तत्त्वप्रकाशिका' संस्कृत-हिन्दीव्याख्या,
उपपत्ति, उदाहरण एवं परिशिष्ट सहित । पं० लषणलाल झा
• वेदाङ्गज्योतिष । लगधमुनिकृत । दुर्लभ सोमाकर भाष्य एवं आचार्य शिवराज
कौण्डिन्न्यायनकृत हिन्दी व्याख्या, विशेष टिप्पणी सहित
चौखम्बा विद्याभवन चौखम्बा इण्डोवेस्टर्न पब्लिशर्स IWP
वाराणसी वाराणसी
email:[email protected] www.indowesternpublishers.com
ISBN : 978-93-85098-30-7 [HB], 978-93-85098-43-0 [HB, Set of 2 Vol.]