बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
वस्तुनिष्ठप्रश्नाः ६४७
४२. कस्मिन्नक्षत्रे सञ्चरन् मङ्गलः मेघान् नाशयति?
(अ) अश्विन्यां (स) रोहिण्याम्
(ब) मृगशिरसि (द) मूले
४३. धनिष्ठायां सञ्चरतः बुधस्य किं फलं भवति?
(अ) अनावृष्टिः (स) रोगवृद्धिः
(ब) महोत्पाताः (द) भयम्
४४. किन्नाम नक्षत्रे सञ्चरन् बुधः जलजद्रव्यान् घोटकांश्च नाशयति?
(अ) मृदुसंज्ञकनक्षत्रे (स) उग्रसंज्ञकनक्षत्रे
(ब) ध्रुवसंज्ञकनक्षत्रे (द) क्रूरसंज्ञकनक्षत्रे
४५. कस्मिन् मासे समुदितो बुधः भयं करोति?
(अ) आषाढे (स) वैशाखे
(ब) श्रावणे (द) फाल्गुने
४६. कदा अस्तङ्गतो बुधः शुभं करोति?
(अ) माघे (स) फाल्गुने
(ब) श्रावणे (द) पौषे
४७. कतिसङ्ख्यकेऽध्याये बृहस्पतेश्चारो वर्णितः?
(अ) अष्टमेऽध्याये (स) सप्तमेऽध्याये
(ब) पञ्चमेऽध्याये (द) नवमेऽध्याये
४८. बृहस्पतेः कस्मिन्मासे रूपवतां पीडा जायते?
(अ) चैत्रमासे (स) वैशाखमासे
(ब) फाल्गुनमासे (द) ज्येष्ठमासे
४९. बार्हस्पत्यवर्षः कदाऽऽरभ्यते?
(अ) यस्मिन्नृक्षे समुदेति गुरुस्तस्मिन्नक्षत्रे वर्षो भवति।
(ब) यस्मिन् राशौ समुदेति गुरुस्तदा वर्षो भवति।
(स) यस्मिन् योगे समुदेति गुरुस्ततः वर्षो भवति।
(द) यस्मिन् करणे समुदेति अङ्गिरसस्ततः वर्षो भवति।
५०. कतमे.वर्षे त्रीणि नक्षत्राणि भुनक्ति गुरुः?
(अ) पञ्चमे वर्षे (स) अष्टमे वर्षे
(ब) सप्तमे वर्षे (द) नवमे वर्षे
५१. द्वादशतमो वर्षः कियतां नक्षत्राणां भवति गुरोः?
(अ) त्रयाणां नक्षत्राणाम् (स) चतुर्णां नक्षत्राणाम्
(ब) पञ्चानां नक्षत्राणाम् (द) सप्तानां नक्षत्राणाम्
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
६४८ बृहत्संहिता
५२. पञ्चमो वर्षः कतीनां नक्षत्राणां भवति?
(अ) त्रयाणाम् (स) द्वयोः
(ब) चतुर्णाम् (द) पञ्चानाम्
५३. पौष्टिककर्मणः सिद्धिः गुरोः कस्मिन् वर्षे सिद्ध्यति?
(अ) कार्तिके वर्षे (स) पौषे वर्षे
(ब) माघे वर्षे (द) भाद्रे वर्षे
५४. पितॄणां पूजावृद्धिः गुरोः कस्मिन् वर्षे भवति?
(अ) माघे वर्षे (स) कार्तिके वर्षे
(ब) मार्गशीर्षे वर्षे (द) पौषे वर्षे
५५. अलब्धस्य लाभः लब्धस्य परिरक्षणं गुरोः कस्मिन् वर्षे भवति?
(अ) श्रावणे वर्षे (स) भाद्रवर्षे
(ब) आषाढे वर्षे (द) आश्वयुजि वर्षे
५६. प्राणिपुण्यवृद्धिः वृष्टिश्च गुरोः कस्मिन् वर्षे जायते?
(अ) श्रावणे वर्षे (स) ज्येष्ठवर्षे
(ब) आश्विने वर्षे (द) भाद्रे वर्षे
५७. गुरोः कस्मिन् वर्णे व्याधिभयं जायते?
(अ) अग्निवर्णे (स) हरितवर्णे
(ब) पीतवर्णे (द) श्यामवर्णे
५८. ईश्वरादयो पञ्च संवत्सराः कतमे युगे प्रवर्तन्ते?
(अ) चतुर्थे (स) द्वितीये
(ब) पञ्चमे (द) तृतीये
५९. को नामा तृतीयो युगः?
(अ) ऐन्द्रनामा (स) प्रोष्ठपदनामा
(ब) हुताशनामा (द) पितृसंज्ञकनामा
६०. विलम्बीसंवत्सरः कतमे युगे समायाति?
(अ) पञ्चमे (स) तृतीये
(ब) चतुर्थे (द) सप्तमे
६१. पितृसंज्ञकः युगः कतमः सङ्ख्यकः?
(अ) पञ्चमसङ्ख्यकः (स) चतुर्थसङ्ख्यकः
(ब) सप्तमसङ्ख्यकः (द) षष्ठसङ्ख्यकः
६२. क्रोधी नामा संवत्सरः कतमे युगे समायाति?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वस्तुनिष्ठप्रश्नाः ६४९
(अ) पञ्चमे (स) अष्टमे
(ब) सप्तमे (द) चतुर्थे
६३. अष्टमयुगस्य नाम किमस्ति?
(अ) वैश्वः (स) प्रोष्ठपदः
(ब) पितृ (द) त्वाष्ट्रः
६४. चित्रभानुवर्षः कस्मिन् युगे समायाति?
(अ) हुताशनामके युगे (स) प्रोष्ठपदनामके युगे
(ब) पितृसंज्ञकयुगे (द) हुताशनामके युगे
६५. ऐन्द्रे युगे कति वत्सराः भवन्ति?
(अ) चत्वारः (स) त्रयः
(ब) पञ्च (द) षट्
६६. विक्रमनामकः संवत्सरः कतमे युगे समायाति?
(अ) दशमे (स) अष्टमे
(ब) सप्तमे (द) द्वादशतमे
६७. कतमो युगः सौम्यनामा?
(अ) दशमो युगः (स) सप्तमो युगः
(ब) नवमो युगः (द) अष्टमो युगः
६८. समेषां विनाशः किन्नामके संवत्सरे भवति?
(अ) अनलनामके संवत्सरे (स) प्रमाथीनामके संवत्सरे
(ब) क्षयनामके संवत्सरे (द) परिधावीनामके संवत्सरे
६९. क्षयनामा संवत्सरः कतमे युगे समायाति?
(अ) दशमे (स) अष्टमे
(ब) एकादशतमे (द) द्वादशतमे
७०. शुक्राचार्यस्य कति वीथयो भवन्ति?
(अ) षष्ठ (स) अष्टौ
(ब) सप्त (द) नव
७१. कियन्ति मण्डलानि शुक्रस्य भवन्ति?
(अ) पञ्चमण्डलानि (स) सप्तमण्डलानि
(ब) षण्मण्डलानि (द) अष्टौ मण्डलानि
७२. स्वाती-भरणी-कृत्तिकानक्षत्राणि कस्यां वीथौ समायान्ति?
(अ) नागवीथ्याम् (स) गोवीथ्याम्
(ब) गजवीथौ (द) मृगवीथ्याम्
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
६५० बृहत्संहिता
७३. अजनामा वीथि कतिसङ्ख्यका?
(अ) अष्टमी (स) पञ्चमी
(ब) सप्तमी (द) नवमी
७४. नाग-गज-ऐरावतवीथयः कस्मिन् दिङ्मार्गे भवन्ति शुक्रस्य?
(अ) दक्षिणमार्गे (स) उत्तरस्यां दिशि मार्गे
(ब) पूर्वदिङ्मार्गे (द) मध्यमार्गे
७५. ऐरावतः वीथिः कस्मिन् दिङ्मार्गे?
(अ) दक्षिणदिङ्मार्गे (स) मध्यमार्गे
(ब) उत्तरमार्गे (द) मध्यमोत्तरमार्गे
७६. कं दिशमाश्रितः समुदितो शुक्रः सुभिक्षं करोति?
(अ) दक्षिणदिशमाश्रितः (स) मध्यमदिशमाश्रितः
(ब) उत्तरदिशमाश्रितः (द) पूर्वदिशमाश्रितः
७७. शुक्रस्य कियन्ति मण्डलानि भवन्ति?
(अ) चत्वारि (स) षट्
(ब) पञ्च (द) त्रीणि
७८. भरण्यादीनि चत्वारि नक्षत्राणि कियतः मण्डलस्य?
(अ) प्रथममण्डलस्य (स) तृतीयमण्डलस्य
(ब) द्वितीयमण्डलस्य (द) चतुर्थमण्डलस्य
७९. मघादीनि पञ्च नक्षत्राणि कियन्मण्डलस्य?
(अ) तृतीयमण्डलस्य (स) चतुर्थमण्डलस्य
(ब) प्रथममण्डलस्य (द) द्वितीयमण्डलस्य
८०. कियन्ति नक्षत्राणि भवन्ति?
(अ) सप्तविंशतिः (स) चतुर्विंशतिः
(ब) पञ्चविंशतिः (द) अष्टाविंशतिः
८१. चतुर्थ-पञ्चममण्डलगतानि नक्षत्राणि कस्यां दिशि शुभकृतानि?
(अ) पूर्वस्याम् (स) पश्चिमस्याम्
(ब) दक्षिणस्याम् (द) उत्तरस्याम्
८२. कस्मिन् मण्डले समुदीयमानः शुक्रः ब्राह्मणक्षत्रियाणां शुभं करोति?
(अ) तृतीयमण्डले (स) पञ्चममण्डले
(ब) चतुर्थमण्डले (द) द्वितीयमण्डले
८३. कस्मिन् ऋतौ स्थितः शनैश्चरः मध्यदेशीयान् पीडयति?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वस्तुनिष्ठप्रश्नाः ६५१
(अ) भरणीनक्षत्रे (स) मृगशिरसिस्थः
(ब) रोहिणीनक्षत्रे (द) अश्विनीनक्षत्रे
८४. कस्मिन्नक्षत्रे सञ्चरन् शनैश्चरः कोशलदेशीयान् पीडयति?
(अ) हस्तनक्षत्रे (स) मघानक्षत्रे
(ब) आश्लेषानक्षत्रे (द) पूर्वफल्गुनीनक्षत्रे
८५. कस्मिन्नक्षत्रे स्थितः शनैश्चरः कुसुम्भपुष्पाणि नाशयति?
(अ) अनुराधानक्षत्रे (स) मूलनक्षत्रे
(ब) विशाखानक्षत्रे (द) भरणीनक्षत्रे
८६. शवर-यवनानां कदा पीडयति शनिः?
(अ) रेवत्यां गतः (स) ज्येष्ठायाङ्गतः
(ब) मूले गतः (द) उत्तरभद्रपदायाङ्गतः
८७. प्रजासु कदा अनीतिः समुदेति?
(अ) कृत्तिकागतो गुरुः (स) स्वात्याङ्गतो गुरुः
(ब) भरणीगतो गुरुः (द) चित्रायाङ्गतो गुरुः
८८. कतिधा शनैश्चरपुत्रकेतवः?
(अ) षड्विधा (स) चत्वारिंशद्विधा
(ब) पञ्चाशद्विधा (द) अशीतिविधा
८९. गुरुपुत्राः केतवः कियन्तः सङ्ख्यकाः?
(अ) पञ्चषष्टि (स) एकोनसप्तति
(ब) चतुःषष्टि (द) पञ्चपञ्चाशत्
९०. बुधपुत्राः केतवः कियन्तः सङ्ख्यकाः?
(अ) चत्वारिंशत् (स) पञ्चचत्वारिंशत्
(ब) पञ्चाशत् (द) अष्टचत्वारिंशत्
९१. मङ्गलपुत्राः केतवः कतिविधाः?
(अ) षड्विधाः (स) पञ्चविधाः
(ब) सप्तविधाः (द) चतुर्विधाः
९२. राहुपुत्राः केतवः कतिविधाः?
(अ) दशविधाः (स) त्रयस्त्रिंशद्विधाः
(ब) विंशतिविधाः (द) पञ्चविंशतिविधाः
९३. अग्निपुत्राः केतवः कतिविधाः?
(अ) शतविधाः (स) नवविधाः
(ब) विंशतित्युत्तरशतविधाः (द) अशीतिविधाः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
६५२ बृहत्संहिता
९४. वरुणपुत्राः केतवः कतिविधाः?
(अ) त्रिंशद्विधाः (स) पञ्चत्रिंशद्विधाः
(ब) द्वात्रिंशद्विधाः (द) चतुस्त्रिंशद्विधाः
९५. कालपुत्राः केतवः कतिविधाः सन्ति?
(अ) नवविधाः (स) पञ्चनवतिविधाः
(ब) अशीतिविधाः (द) षण्णवतिविधाः
९६. विदिशः पुत्राः केतवः कतिविधाः?
(अ) पञ्चविधाः (स) अष्टविधाः
(ब) सप्तविधाः (द) नवविधाः
९७. सप्तर्षयः कस्यां दिशि दृश्यन्ते?
(अ) पूर्वस्याम् (स) दक्षिणस्याम्
(ब) पश्चिमायाम् (द) उत्तरस्याम्
९८. सप्तर्षयः एकस्मिन् नक्षत्रे कियन्ति वर्षाणि निवसन्ति?
(अ) पञ्चाशद्वर्षाणि (स) शतं वर्षाणि
(ब) अशीतिवर्षाणि (द) नवतिवर्षाणि
९९. युधिष्ठिरशासनकाले कस्मिन्नक्षत्रे सप्तर्षय आसन् ?
(अ) भरण्याम् (स) मघायाम्
(ब) आश्लेषायाम् (द) पूर्वाषाढायाम्
१००. महर्षिर्मरीचिः कस्यां दिशि निवसति?
(अ) पूर्वस्यां दिशि (स) उत्तरस्यां दिशि
(ब) पश्चिमायां दिशि (द) दक्षिणस्यां दिशि
१०१. मरीचेः पश्चिमभागे कस्तिष्ठति?
(अ) अत्रिः (स) वसिष्ठः
(ब) अङ्गिरा (द) क्रतुः
१०२. वसिष्ठस्य पश्चिमे कस्यर्षेः स्थानम्?
(अ) अङ्गिरसः (स) पुलस्त्यस्य
(ब) अत्रेः (द) पुलहस्य
१०३. सप्तर्षीणां मध्यभागे कस्तिष्ठति?
(अ) अरुन्धती (स) क्रतुः
(ब) वसिष्ठः (द) अङ्गिरा
१०४. कस्याश्रये स्थिता अरुन्धती?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वस्तुनिष्ठप्रश्नाः ६५३
(अ) वसिष्ठस्य (स) अङ्गिरसः
(ब) केतोः (द) पुलहस्य
१०५. कृत्तिकादित्रिषु मध्यवर्गे कति देशाः सन्ति?
(अ) पञ्चदश (स) चतुस्त्रिंशत्
(ब) चतुर्विंशतिः (द) अष्टत्रिंशत्
१०६. पूर्वस्यां दिशि कति देशाः सन्ति?
(अ) त्रयस्त्रिंशत् (स) षट्त्रिंशत्
(ब) पञ्चत्रिंशत् (द) चत्वारिंशत्
१०७. आश्लेषादिवर्गे आग्नेय्यां दिशि कति देशाः सन्ति?
(अ) सप्तविंशतिः (स) एकोनविंशतिः
(ब) अष्टाविंशतिः (द) विंशतिः
१०८. दक्षिणस्यां दिशि कतिसङ्ख्यकाः देशाः सन्ति?
(अ) पञ्चाशत्तमाः (स) पञ्चपञ्चाशत्तमाः
(ब) त्रिषष्टितमाः (द) षट्पञ्चाशत्तमाः
१०९. नैर्ऋत्यकोणे कतिसङ्ख्याकाः देशाः सन्ति?
(अ) पञ्चविंशतिः (स) सप्तविंशतिः
(ब) एकोनत्रिंशत् (द) अष्टाविंशतिः
११०. पश्चिमायां दिशि कति देशाः विद्यन्ते?
(अ) चतुर्विंशतिः (स) अष्टादश
(ब) त्रयोविंशतिः (द) विंशतिः
१११. वायव्यकोणे कतिसङ्ख्याकाः देशाः सन्ति?
(अ) विंशतिः (स) षोडश
(ब) अष्टादश (द) चतुर्विंशतिः
११२. उत्तरस्यां दिशि कति देशाः सन्ति?
(अ) पञ्चत्रिंशत् (स) द्वात्रिंशत्
(ब) द्वाविंशतिः (द) पञ्चाशत्
११३. ईशानकोणे कतिसङ्ख्याकाः देशाः सन्ति?
(अ) सप्तविंशतिः (स) अष्टादश
(ब) त्रयोविंशतिः (द) त्रयस्त्रिंशत्
११४. पूर्वादीनि त्रीणि नक्षत्राणि केषामधीनानि?
(अ) विप्राणाम् (स) वैश्यानाम्
(ब) क्षत्रियाणाम् (द) शूद्राणाम्
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
६५४ बृहत्संहिता
११५. सितकुसुमाहिताग्निं मन्त्रज्ञसूत्रभाष्याज्ञाः आकरिकनामितद्विजघटकार-
पुरोहिताब्दज्ञाः पदार्थाः किन्नक्षत्रगताः?
(अ) कृत्तिकानक्षत्रगताः (स) मृगशिरानक्षत्रगताः
(ब) रोहिणीनक्षत्रगताः (द) आर्द्रानक्षत्रगताः
११६. सुव्रतादयः पदार्थाः किन्नक्षत्रगताः?
(अ) भरणीनक्षत्रगताः (स) अश्विनीनक्षत्रगताः
(ब) कृत्तिकानक्षत्रगताः (द) रोहिणीनक्षत्रगताः
११७. पत्रवाहकाः किन्नक्षत्रगताः?
(अ) आर्द्रानक्षत्रगताः (स) पुनर्वसुनक्षत्रगताः
(ब) मृगशिरानक्षत्रगताः (द) पुष्यनक्षत्रगताः
११८. सत्यवादिनः कस्मिन्नक्षत्रे समुत्पन्नाः भवन्ति?
(अ) पुनर्वसुनक्षत्रे (स) आश्लेषानक्षत्रे
(ब) पुष्यनक्षत्रे (द) मघानक्षत्रे
११९. भगवद्भक्तः सत्यभाषी च किन्नक्षत्रगतः पदार्थः?
(अ) श्रवणनक्षत्रगतपदार्थः (स) शततारकानक्षत्रगतपदार्थः
(ब) धनिष्ठानक्षत्रगतपदार्थः (द) विशाखानक्षत्रगतपदार्थः
१२०. फलाहार-औषधादयो किन्नक्षत्रगतपदार्थाः?
(अ) अनुराधानक्षत्रगतपदार्थाः (स) मूलनक्षत्रगतपदार्थाः
(ब) ज्येष्ठानक्षत्रगतपदार्थाः (द) पूर्वाषाढानक्षत्रगतपदार्थाः
१२१. द्रव्यक्रेतारो विक्रेतारश्च किन्नक्षत्रगताः?
(अ) रेवतीनक्षत्रगताः (स) भरणीनक्षत्रगताः
(ब) अश्विनीनक्षत्रगताः (द) मृगशिरानक्षत्रगताः
१२२. क्रूराः मांसभक्षकाः नीचकुलोत्पन्नाः किन्नक्षत्रगताः?
(अ) कृत्तिकानक्षत्रगताः (स) मघानक्षत्रगताः
(ब) रोहिणीनक्षत्रगताः (द) भरणीनक्षत्रगताः
१२३. सूर्यः कियतां देशानां स्वामी?
(अ) पञ्चाशत् (स) त्रिपञ्चाशत्
(ब) पञ्चपञ्चाशत् (द) चतुःपञ्चाशत्
१२४. कृषक-याज्ञिक-ओषधीनां स्वामी कः?
(अ) सूर्यः (स) भौमः
(ब) शुक्रः (द) चन्द्रः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वस्तुनिष्ठप्रश्नाः ६५५
१२५. शोणस्य पश्चिमदेशीयानां स्वामी कः?
(अ) भौमः (स) बुधः
(ब) चन्द्रः (द) गुरुः
१२६. ऐन्द्रजालिकानां नर्तकानाञ्च स्वामी कः?
(अ) बुधः (स) शुक्रः
(ब) बृहस्पतिः (द) शनिः
१२७. औदिच्यस्थजनानां वस्तूनाञ्च स्वामी कः?
(अ) बुधः (स) भार्गवः
(ब) गुरुः (द) भौमः
१२८. तक्षशिलादिदेशानां चन्दनादिवनस्पतीनाञ्च स्वामी कः?
(अ) शुक्रः (स) बुधः
(ब) शनिः (द) राहुः
१२९. आनर्ताबुर्द-सौराष्ट्रादिदेशानां स्वामी कः?
(अ) शनैश्चरः (स) बुधः
(ब) शुक्रः (द) गुरुः
१३०. पर्वतशिखरवासिनां जनानां तिलमाषादिवनस्पतीनाञ्च स्वामी कः?
(अ) राहुः (स) शनिः
(ब) केतुः (द) भौमः
१३१. अधार्मिकाणां विजिगीषूणाञ्च स्वामी कः?
(अ) केतुः (स) बुधः
(ब) राहुः (द) सूर्यः
१३२. ग्रहाणां युद्धः कतिधा भवति?
(अ) एकधा (स) त्रिधा
(ब) द्विधा (द) चतुर्धा
१३३. ग्रहाणां कतिधा संज्ञा भवति?
(अ) एकधा (स) त्रिधा
(ब) द्विधा (द) चतुर्धा
१३४. दक्षिणदिक्स्थग्रहः किन्नामकः?
(अ) पराजितः (स) विवर्णः
(ब) वेपथुः (द) सूक्ष्मबिम्बकः
१३५. विपुलो द्युतिमान् ग्रहः किंसंज्ञको भवति?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
६५६ बृहत्संहिता
(अ) पराजितः (स) मन्दः
(ब) विजयी (द) उत्तरदिक्स्थः
१३६. ग्रहाणां कति योगाः भवन्ति?
(अ) चतुर्योगाः (स) त्रियोगाः
(ब) पञ्चयोगाः (द) षड्योगाः
१३७. क्षेत्राधिपतेः मरणं कदा भविष्यति?
(अ) वृक्षे यमलपुष्पोत्पतौ (द) वृक्षे अनेकफलोत्पत्तौ
(ब) वृक्षे यमलफलोत्पत्तौ (द) वृक्षे फलपुष्पानुत्पत्तौ
१३८. कदा उत्पातभयं जायते?
(अ) यस्यां दिशि मङ्गलबुधौ दृश्येते।
(ब) यस्यां दिशि बुधभौमशनयो दृश्यन्ते।
(स) यस्यां दिशि गुरुशुक्रशनयो दृश्यन्ते।
(द) यस्यां दिशि गुरुभौमशुक्रशनयो दृश्यन्ते।
१३९. अल्पशीतः कदा भवति?
(अ) मार्गशीर्षे (स) पौषे
(ब) कार्तिके (द) माघे
१४०. कदा वृद्धिङ्गतः गर्भः प्रसवकाले समधिका वृष्टिङ्करोति?
(अ) पञ्चसु नक्षत्रेषु वृद्धिङ्गतः (स) दशसु नक्षत्रेषु वृद्धिङ्गतः
(ब) सप्तसु नक्षत्रेषु वृद्धिङ्गतः (द) षट्सु नक्षत्रेषु वृद्धिङ्गतः
१४१. कदा समुत्पन्नः गर्भः बहूनि दिनानि वृष्टिङ्करोति?
(अ) शतभिषानक्षत्रे समुत्पन्नः गर्भः (स) आश्लेषानक्षत्रे समुत्पन्नः गर्भः
(ब) स्वातीनक्षत्रे समुत्पन्नः गर्भः (द) आर्द्रानक्षत्रे समुत्पन्नो गर्भः
१४२. कीदृशो गर्भः बहुवृष्टिप्रदो भवति?
(अ) वायोः शब्दश्चेत् (स) मेघस्य शब्दश्चेत्
(ब) विद्युच्छब्दश्चेत् (द) मेघयुतो गर्भः
१४३. गर्भधारणकालः कदा भवति?
(अ) ज्येष्ठकृष्णपक्षे अष्टम्याद्याः चत्वारि दिनानि।
(ब) ज्येष्ठकृष्णपक्षे अष्टम्याद्याः त्रीणि दिनानि।
(स) ज्येष्ठकृष्णपक्षे अष्टम्याद्याः सप्त दिनानि।
(द) ज्येष्ठकृष्णपक्षे अष्टम्याद्याः अष्टौ दिनानि।
१४४. कदा प्रभृति चत्वारि दिनानि?
CC-0. JK Sanskrit Academy, Jammmù. Digitized by S3 Foundation USA
वस्तुनिष्ठप्रश्नाः ६५७
(अ) ज्येष्ठशुक्लाष्टमी (स) श्रावणशुक्लाष्टमी
(ब) आषाढशुक्लाष्टमी (द) भाद्रशुक्लाष्टमी
१४५. संसारस्य शुभाशुभं कथं ज्ञायते?
(अ) आषाढकृष्णपक्षे रोहिणी-चन्द्रयोर्योगं विलोक्य।
(ब) श्रावणकृष्णपक्षे रोहिणी-चन्द्रयोः योगं विलोक्य।
(स) भाद्रकृष्णपक्षे चन्द्र-रोहिण्योः समागमं विलोक्य।
(द) आश्विनकृष्णपक्षे चन्द्र-रोहिण्योः समागमं विलोक्य।
१४६. सुवृष्टिः कदा जायते?
(अ) मेघरहिते गगने सूर्यरश्मयः यदा तीक्ष्णाः भवेयुः।
(ब) रात्रौ निर्मलनक्षत्रयुतं गगनं यदा भवेत्।
(स) विकसिता कुमुदिनीव यदा भवेत्।
(द) शीतलसमीरः यदा प्रवहेत्।
१४७. धान्यस्योत्तमा निष्पत्तिः कदा भवति?
(अ) यदा पूर्वस्यां दिशि मेघाः समुत्पन्नाः स्युः।
(ब) यदा दक्षिणस्यां दिशि मेघाः समुत्पन्नाः स्युः।
(स) यदा नैर्ऋत्यां दिशि मेघाः समुत्पन्नाः स्युः।
(द) यदा उत्तरस्यां दिशि मेघाः समुत्पन्नाः स्युः।
१४८. जनानां शुभं कदा भविता?
(अ) यदा पूर्वमुदीयमानश्चन्द्रः स्यात् पश्चाद्रोहिणी भवेत्।
(ब) यदा पूर्वं रोहिणी स्यात् पश्चात् चन्द्रमा भवेत्।
(स) यदा रोहिणी चन्द्रमसोः सहैवोदयः लभेत्।
(द) यदा रोहिणीतः पूर्वं चन्द्रोदयः भवेत्।
१४९. कस्मिन् वर्षे मनुष्याः स्त्रीवशे भवन्ति?
(अ) यस्मिन् वर्षे रोहिण्याः पूर्वस्यां दिशि चन्द्रः सञ्चरति।
(ब) यदा रोहिण्याः आग्नेय्यां दिशि चन्द्रः भवति।
(स) यस्मिन् वर्षे रोहिण्याः नैर्ऋत्यां दिशि चन्द्रो भवति।
(द) यस्मिन् वर्षे रोहिण्याः प्रतीच्यां दिशि चन्द्रो भवति।
१५०. कदा सुवृष्टिर्जायते?
(अ) रोहिण्याः वायुकोणे चन्द्रसञ्चारे सति
(ब) रोहिण्या उत्तरे चन्द्रसञ्चारे सति
(स) रोहिण्याः पूर्वे चन्द्रसञ्चारे सति
(द) रोहिण्याः ईशानकोणे चन्द्रसञ्चारे सति
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
६५८ बृहत्संहिता
१५१. अनावृष्टिः कदा भवति?
(अ) यदा वनात्प्रत्यावर्तनकाले रक्तवर्णः पशुरग्रे भवेत्।
(ब) यदा वनात्प्रत्यावर्तनकाले कर्बूरवर्णः वृषभोऽग्रे भवेत्।
(स) यदा वनात्प्रत्यावर्तनकाले ईषत् श्वेतः पशुरग्रे भवेत्।
(द) पशूनां वनाद्गोष्ठं प्रति प्रत्यावर्तनकाले यदि सर्वश्वेतः पशुरग्रे स्यात्।
१५२. कदा तुलया धान्यपरीक्षणम् ?
(अ) श्रावणपौर्णमास्याम् (स) भाद्रपौर्णमास्याम्
(ब) आषाढी पौर्णमास्याम् (द) ज्येष्ठपौर्णमास्याम्
१५३. तुलितानां धान्यानां किङ्कर्त्तव्यम् ?
(अ) अन्येद्युः तोलनम् (स) पुनस्तोलनम्
(ब) परेद्युः तोलनम् (द) द्वितीयदिने तोलनम्
१५४. तुलदण्डः प्रधाना कीदृशी?
(अ) हैमी (स) लौही
(ब) रजतनिर्मिता (द) खदिरनिर्मिता
१५५. उत्तमं धान्यं कदा जायते?
(अ) आषाढी पौर्णमास्यां सूर्यास्तकाले यदा ऐशानोऽनिलः स्यात्?
(ब) आषाढी पौर्णमास्यां सूर्यास्तकाले यदा उत्तरस्यानिलः स्यात्।
(स) आषाढी पौर्णमास्यां सूर्यास्तकाले यदा पश्चिमायाः अनिलः स्यात्।
(द) आषाढी पौर्णमास्यां सूर्यास्तकाले यदा पूर्वस्याः समीरः स्यात्।
१५६. पृथिवी कदा सुशोभिता भवति?
(अ) आषाढी पौर्णमास्यां यदा पूर्वीयसमुद्राद्वायुः प्रचलेत्।
(ब) आषाढी पौर्णमास्यां यदा दक्षिणसमुद्राद्वायुः प्रचलेत्।
(स) आषाढी पौर्णमास्यां यदा समुद्रस्य दक्षिणभागाद्वायुः प्रचलेत्।
(द) आषाढी पौर्णमास्यां यदा समुद्रस्योत्तरभागाद्वायुः प्रचलेत्।
१५७. पृथिवी कदा रक्तरञ्जिता जायते?
(अ) आषाढ्यां पौर्णमास्यां सूर्यास्तकाले यदा चक्रवातः प्रचलेत्।
(ब) आषाढ्यां पौर्णमास्यां सूर्यास्तकाले भयङ्करो वायुर्वातिश्वेत्।
(स) आषाढ्यां पौर्णमास्यां सूर्यास्तकाले वर्षा भवति चेत्।
(द) आषाढ्यां पौर्णमास्यां सूर्यास्तकाले विद्युत् विद्योतते चेत्।
१५८. कदा वर्षा भविता?
(अ) प्रश्नकाले यदा चन्द्रमा लग्ने जलचरराशौ भवेत्।
(ब) प्रश्नकाले यदा चन्द्रमा लग्ने स्थिरराशौ स्यात्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वस्तुनिष्ठप्रश्नाः ६५९
(स) प्रश्नकाले यदा चन्द्रमा चरराशिगतो भवेत्।
(द) चन्द्रमा प्रश्नकाले यदा द्विस्वभावराशौ स्यात्।
१५९. वर्षा कदा भविष्यति?
(अ) वर्षर्तौ उदयकालिकः सूर्यः यदा तीक्ष्णकिरणमयः स्यात्।
(ब) वर्षर्तौ उदयकालिकः सूर्यः यदा मणिकान्तिमयः भवेत्।
(स) वर्षर्तौ उदयकालिकः सूर्यः यदा गलितसुवर्णकान्तिमान् भवेत्।
(द) वर्षर्तौ उदयकालिकः सूर्यः यदा मध्याह्ने तीक्ष्णकिरणमयः स्यात्।
१६०. शीघ्रं वृष्टिः कदा ज्ञेया?
(अ) पिपीलिकानां अण्डोपसङ्क्रान्तिर्यदा भवति।
(ब) मार्गे बालकाः यदा सेतुबन्धं कुर्युः।
(स) वाष्पनिरुद्धकन्दराः यदा भवेयुः।
(द) लोहितचन्द्रकिरणाश्चेत्।
१६१. कृकलासवृक्षाग्रयोगे समारुह्य उपरि निरीक्षणं करोति चेत् किं भवति?
(अ) शीघ्रं वर्षा भवति (स) सप्ताहैर्भविता वृष्टिः
(ब) विलम्बेन वर्षा भवति (द) कदापि भविता वृष्टिः
१६२. कदाऽतिवृष्टिर्जायते?
(अ) यदा गृहपटलेषु स्थितः श्वा रुदति।
(ब) यदा गृहपटलेषु कपोताः कूजन्ति।
(स) यदा गृहपटलेषु स्थित्वा काकः शब्दायते।
(द) यदा गृहपटलेषु स्थित्वा मार्जारः शब्दायते।
१६३. कीदृशः दिग्दाहः क्षत्रियान् पीडयति?
(अ) कृष्णवर्णः (स) धूम्रवर्णः
(ब) हरितवर्णः (द) रक्तवर्णः
१६४. कस्यां दिशि स्थितः दिग्दाहः क्षत्रियान् पीडयति?
(अ) पूर्वस्यां दिशि (स) प्रतीच्यां दिशि
(ब) दक्षिणस्यां दिशि (द) उदीच्यां दिशि
१६५. कस्यां दिग्गतदिग्दाहः क्रूरान् पुनर्भ्वां च पीडयति?
(अ) पूर्वस्याम् (स) दक्षिणस्याम्
(ब) प्रतीच्याम् (द) उत्तरस्याम्
१६६. चौरान् पीडयति क्व गतः दिग्दाहः?
(अ) पूर्वस्यां दिशि (स) पश्चिमायां दिशि
(ब) उत्तरस्यां दिशि (द) वायव्यकोणगतः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
६६० बृहत्संहिता
१६७. कुत्रस्थः दिग्दाहः ब्राह्मणान् पीडयति?
(अ) ईशानस्थः (स) पूर्वस्थः
(ब) उत्तरस्थः (द) पश्चिमस्थः
१६८. वरुणस्योपरि पृथ्वी सशैलवनकानना।
स्थिता जलजसत्त्वाश्च सक्षोभा चालयन्ति गाम्॥
इति कस्य मतम् ?
(अ) गर्गस्य (स) वशिष्ठस्य
(ब) कश्यपस्य (द) पराशरस्य
१६९. 'चत्वारो दिङ्नागाः पृथिवीं धारयन्ती'ति कस्य मतम् ?
(अ) कश्यपस्य (स) गर्गस्य
(ब) वशिष्ठस्य (द) पराशरस्य
१७०. 'दिङ्नागानां श्वास-प्रश्वासकारणाद्भूकम्पो जायत' इति कस्य मतम्?
(अ) वशिष्ठस्य (स) गोभिलस्य
(ब) गर्गाचार्यस्य (द) पराशरस्य
१७१. 'अनिलसङ्घर्षकारणाद्भूकम्पो जायत' इति कस्य मतम् ?
(अ) वशिष्ठस्य (स) पराशरस्य
(ब) कश्यपस्य (द) गोभिलस्य
१७२. 'प्रजानामधर्मकारणात् पृथ्वी कम्पत' इति कस्य मतम्?
(अ) वशिष्ठस्य (स) कश्यपस्य
(ब) वृद्धगर्गस्य (द) भारद्वाजस्य
१७३. कस्मिन् मण्डले सम्भूतः भूकम्पः शतयोजनं प्रभावयति?
(अ) वरुणमण्डले (स) ऐन्द्रमण्डले
(ब) वायुमण्डले (द) अग्निमण्डले
१७४. दशयोजनपर्यन्तां पृथिवीं किम्मण्डलगतभूकम्पः कम्पयति?
(अ) ऐन्द्रमण्डलगतः (स) वारुणमण्डलगतः
(ब) वायुमण्डलगतः (द) अग्निमण्डलगतः
१७५. वायुमण्डलगतः भूकम्पः कियद्योजनपर्यन्तां पृथिवीं कम्पयति?
(अ) दशयोजनपर्यन्ताम् (स) शतयोजनपर्यन्ताम्
(ब) षष्टियोजनपर्यन्ताम् (द) शतद्वययोजनपर्यन्ताम्
१७६. वायव्ये मण्डले नित्यं योजनानां शतद्वयम्।
दशाधिकमथाग्नेय ऐन्द्रे षष्ठाधिकं शतम्।
शतं चाशीतिसंयुक्तं वारुणे मण्डले चलेत्॥
इति कस्य वचनम्?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वस्तुनिष्ठप्रश्नाः ६६१
(अ) वशिष्ठस्य (स) पराशरस्य
(ब) गर्गस्य (द) कश्यपस्य
१७७. दिवि भुक्तशुभफलानां पततां प्राणिनां किंस्वरूपम् ?
(अ) धिष्ण्या (स) उल्का
(ब) अशनि (द) विद्युत्
१७८. स्वास्त्राणि संसृज्यन्त्येते शुभाशुभनिवेदिनः ।
लोकपाला महात्मानो लोकानां ज्वलितानि तु ॥
इति कस्य वचनम्?
(अ) वशिष्ठस्य (स) पराशरस्य
(ब) गर्गस्य (द) वृद्धगर्गस्य
१७९. अस्त्राणि लोकपाला लोकाभावाय सन्त्यजन्त्युल्काः ।
केषाञ्चित्पुण्यकृतां तत्रोल्का विच्युतिः स्वर्गात् ॥
इति वाक्यं कुत्रत्यः?
(अ) स्वल्पसंहितातः (स) गर्गसंहितातः
(ब) सूतसंहितातः (द) बृहत्संहितातः
१८०. उल्कापातस्य फलं कियद्भिर्दिवसैः भवति?
(अ) दशभिर्दिवसैः (स) द्वादशभिर्दिवसैः
(ब) पञ्चदशदिवसैः (द) षोडशदिवसैः
१८१. का नाम उल्का?
(अ) क्षीणे पुण्ये स्वर्गात् समागताः जीवाः।
(ब) लोकपालानां परीक्षणाय प्रक्षिप्तान्यस्त्राणि।
(स) इन्द्रस्य वज्रम्।
(द) अशुभसूचकं नभोमण्डलम्।
१८२. उल्का कतिधा?
(अ) चतुर्धा (स) द्विधा
(ब) त्रिधा (द) पञ्चधा
१८३. धिष्ण्याफलं कतिभिः दिवसैः भवति?
(अ) दशदिवसैः (स) चतुर्दशदिवसैः
(ब) द्वादशदिवसैः (द) पञ्चदशदिवसैः
१८४. उल्काऽथ पञ्चरूपा धिष्ण्योल्का विद्युतोऽशनिस्तारा ।
धिष्ण्योल्के पक्षफले तत्रिगुणाश्वाशनिः षडधिकेऽन्ये ॥
इति पद्यं कुतः गृहीतमस्ति?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
६६२ बृहत्संहिता
(अ) भृगुसंहितातः (स) अगस्त्यसंहितातः
(ब) वशिष्ठसंहितातः (द) समाससंहितातः
१८५. कस्य फलमर्धं भवति?
(अ) धिष्ण्याफलम् (स) विद्युत्फलम्
(ब) ताराफलम् (द) अशनिफलम्
१८६. 'अशनिः प्राणिषु निपतति दारयति धरातलं बृहच्छब्दा' इति पद्यं कुत्रास्ति?
(अ) समाससंहितायाम् (स) वसिष्ठसंहितायाम्
(ब) गर्गसंहितायाम् (द) अगस्त्यसंहितायाम्
१८७. धिष्ण्या उल्का कियत्परिमाणा दीर्घा?
(अ) द्विहस्तपरिमिता (स) पञ्चहस्तपरिमिता
(ब) त्रिहस्तपरिमिता (द) चतुर्हस्तपरिमिता
१८८. विद्युत् कुत्र पतति?
(अ) प्राणिषु (स) गृहेषु
(ब) वृक्षेषु (द) क्षेत्रेषु
१८९. कया गत्या विद्युत्पतति?
(अ) सहसा पतति (स) त्वरितं वतति
(ब) शनैः पतति (द) द्रुतं पतति
१९०. 'धिष्ण्या सिता द्विहस्ता धनूंषि दश याति कृष्णदेहा' इति पद्यं कुत्राऽस्ति?
(अ) समाससंहितायाम् (स) गर्गमनोरमायाम्
(ब) अगस्त्यसंहितायाम् (द) बृहत्पाराशरहोराशास्त्रे
१९१. तारा कति हस्तपरिमिता दीर्घा भवति?
(अ) द्विहस्तपरिमिता दीर्घा (स) चतुर्हस्तपरिमिता दीर्घा
(ब) त्रिहस्तपरिमिता दीर्घा (द) एकहस्तपरिमिता दीर्घा
१९२. उल्का कान् विपत्तीं सूचयति?
(अ) राज्ञां विपत्तीं सूचयति (स) लोकान् विपत्तीं सूचयति
(ब) जनान् विपत्तीं सूचयति (द) सर्वान् विपत्तीं सूचयति
१९३. किंरूपा उल्का भवति?
(अ) प्रेतरूपा (स) कपिरूपा
(ब) गर्दभरूपा (द) मृगरूपा
१९४. कति शिरा उल्का भवति?
(अ) द्विशिरा (स) चतुःशिरा
(ब) त्रिशिरा (द) पञ्चशिरा
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वस्तुनिष्ठप्रश्नाः ६६३
१९५. किंरूपा उल्का कुशलं सुभिक्षञ्च करोति लोकान्?
(अ) स्वस्तिकरूपा (स) नारिकेलरूपा
(ब) शङ्खरूपा (द) राजभवनरूपा
१९६. किंरूपा उल्का द्विजात्राशयति?
(अ) शुक्लरूपा (स) रक्तरूपा
(ब) कृष्णरूपा (द) पीतरूपा
१९७. पुच्छस्था उल्का कात्राशयति?
(अ) द्विजान् (स) वैश्यान्
(ब) क्षत्रियान् (द) शूद्रान्
१९८. कुतः समुद्भूता उल्का शुभफलदा भवति?
(अ) सूर्यकिरणात्समुद्भूताः
(ब) चन्द्रप्रदक्षिणक्रमेण समागता
(स) सूर्यप्रदक्षिणक्रमेण समागता
(द) सूर्यचन्द्रमसोः प्रदक्षिणक्रमेण समागता
१९९. आकाशे भ्रममाणा उल्का किं करोति?
(अ) राज्ञः नाशयति (स) नागरिकान् नाशयति
(ब) लोकान् नाशयति (द) ग्रामीणान् नाशयति
२००. नक्षत्राणि ग्रहाश्चैव यद्युल्का ध्वस्तधूमिता।
तद्देशनाथनाशाय लोकानां सम्भ्रमाय च॥
इति वचनं कस्य?
(अ) कश्यपस्य (स) भारद्वाजस्य
(ब) वशिष्ठस्य (द) विश्वामित्रस्य
२०१. राजभीतिका उल्का कीदृशी भवति?
(अ) यस्यानुसङ्गः खे चिरं तिष्ठति (स) या गगने रज्जुबद्धेव विलोक्यते
(ब) या दण्डाकारा विलोक्यते (द) या महेन्द्रध्वजतुल्या दृश्यते
२०२. कीदृशी उल्का श्रेष्ठिनः विनाशयति?
(अ) प्रतीपगा (स) तिर्यगा
(ब) ऋजुगा (द) अधोगा
२०३. ऊर्ध्वगा उल्का कान् पीडयति?
(अ) ब्राह्मणान् (स) वैश्यान्
(ब) क्षत्रियान् (द) शूद्रान्
२०४. कोल्का राष्ट्रदोषकारिणी भवति?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
६६४ बृहत्संहिता
(अ) मण्डलाकृतिः (स) व्यालशूकरोपमा
(ब) वंशगुल्मवत् (द) विस्फुलिङ्गमालिनी
२०५. सुरपतिचापप्रतिमोल्का कन्नाशयति?
(अ) राज्यम् (स) जनपदम्
(ब) ग्रामम् (द) मण्डलम्
२०६. पार्थिवे प्रस्थिते दीप्ता पतत्युल्का महास्वनाः ।
तां दिशं सिद्ध्यते सिद्धिं विजयं लभतेऽचिरात् ॥
इति कस्य कथनम् ?
(अ) कश्यपस्य सत्र. अत्रे:
(ब) वशिष्ठस्य (द) विश्वामित्रस्य
२०७. इन्द्रकृतः परिवेषः किंवर्णकः?
(अ) रक्तवर्णकः (स) हरितवर्णकः
(ब) पीतवर्णकः (द) कृष्णवर्णकः
२०८. वरुणकृतः परिवेषः किंवर्णकः?
(अ) श्वेतवर्णकः (स) हरितवर्णकः
(ब) कपोतवर्णकः (द) श्यामवर्णकः
२०९. कुवेरकृतः परिवेषः किंवर्णकः?
(अ) मयूरकण्ठसदृशः नीलवर्णकः (स) रक्तवर्णकः
(ब) पीतवर्णकः (द) श्वेतवर्णकः
२१०. सितपीतेन्द्रनीलाभरक्तकापोतबभ्रवः ।
शबला बर्हिवर्णाश्च विज्ञेयास्ते शुभप्रदाः ॥
इति कस्योक्तिः?
(अ) वशिष्ठस्य (स) यमस्य
(ब) विश्वामित्रस्य (द) कश्यपस्य
२११. दिवा सूर्ये परिवेषो रात्रौ चन्द्रे यदा भवेत् ।
एकस्मिंश्चेदहोरात्रे तदा नश्यति पार्थिवः ॥
इति कस्य वचनम्?
(अ) गर्गस्य (स) वशिष्ठस्य
(ब) कश्यपस्य (द) विश्वामित्रस्य
२१२. मयूरकण्ठसदृशनीलवर्णपरिवेषः कः करोति?
(अ) कुवेरः (स) वायुः
(ब) वरुणः (द) यमः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वस्तुनिष्ठप्रश्नाः ६६५
२१३. प्रतिपदि दृष्टः परिवेषः कन्नाशयति?
(अ) ब्राह्मणान् (स) वैश्यान्
(ब) क्षत्रियान् (द) शूद्रान्
२१४. कस्यान्तिथौ दृष्टः परिवेषः नृपान्नाशयति?
(अ) दशम्याम् (स) नवम्याम्
(ब) एकादश्याम् (द) अष्टम्याम्
२१५. कस्यान्तिथौ समवलोकितः परिवेषः वैश्यान्नाशयति?
(अ) द्वितीयायाम् (स) पञ्चम्याम्
(ब) तृतीयायाम् (द) चतुर्थ्याम्
२१६. क्व गता रेखाः नगरवासिनः पीडयति?
(अ) परिवेषमध्यगताः (स) परिवेषोपरिगताः
(ब) परिवेषबहिर्गताः (द) परिवेषनीचैः गताः
२१७. अनन्तकुलजाता ये पन्नगाः कामरूपिणः।
तेषां विश्वाससम्भूतं इन्द्रचापं प्रचक्षते ॥
इति कस्य वचनम्?
(अ) कश्यपस्य (स) वशिष्ठस्य
(ब) गालवस्य (द) विश्वामित्रस्य
२१८. कुत्रत्य इन्द्रधनुः शुभफलदो भवति?
(अ) अवनिगतः (स) विविधवर्णः
(ब) द्युतिमत् (द) प्रतीचिस्थम्
२१९. किंवर्णमिन्द्रायुधं वृष्टिकरम्?
(अ) अविकलम् (स) द्विरुदितम्
(ब) विविधवर्णयुतम् (द) अनुलोमम्
२२०. द्विरुत्तरमविच्छिन्नं स्निग्धमिन्द्रायुधं महत्।
पृष्ठतो विजयाय स्याद्विच्छिन्नं परुषं न तु ॥
इति कस्य कथनम्?
(अ) ऋषिपुत्रस्य (स) वसिष्ठस्य
(ब) कश्यपस्य (द) नारदस्य
२२१. नीलताग्रमविच्छिन्नं द्विगुणं सिद्धमायतम्।
पृष्ठतः पार्श्वयोर्वापि जयायेन्द्रधनुर्भवेत् ॥
इति कस्योक्तिः?
(अ) कश्यपस्य (स) नारदस्य
(ब) बृहस्पतेः (द) गालवस्य
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
६६६ बृहत्संहिता
२२२. पीतवर्णमिन्द्रधनुः किं करोति?
(अ) शत्रुदोषं करोति (स) वायुदोषं जनयति
(ब) अग्निदोषं जनयति (द) जलदोषं जनयति
२२३. कस्यां दिशि गतमिन्द्रायुधं वृष्टिं करोति?
(अ) पूर्वस्याम् (स) दक्षिणगतम्
(ब) प्रतीच्याम् (द) अग्निकोणगतम्
२२४. 'बहूदकं सुभिक्षञ्च शिवं सस्यप्रदं भवेत्' इति कस्य वाक्यम्?
(अ) वसिष्ठस्य (स) गर्गस्य
(ब) कश्यपस्य (द) नारदस्य
२२५. कुत्र विलोकितं गन्धर्वनगरं पुरोहितं विनाशयति?
(अ) उदीच्याम् (स) प्राच्याम्
(ब) प्रतीच्याम् (द) दक्षिणस्याम्
२२६. कदा नृपं विनाशयति गन्धर्वनगरम्?
(अ) पूर्वस्याम् (स) दक्षिणस्याम्
(ब) उत्तरस्याम् (द) पश्चिमायाम्
२२७. बहुवर्णपताकाढ्यं गन्धर्वनगरं महत्।
दृष्टं प्रजाक्षयकरं संग्रामे लोमहर्षणम्॥
इति कस्य वचनम्?
(अ) वशिष्ठस्य (स) गर्गस्य
(ब) कश्यपस्य (द) बृहस्पतेः
२२८. कुत्रावलोकितः प्रतिसूर्यः वृष्टिं करोति?
(अ) पूर्वस्यां दिशि (स) प्रतीच्यां दिशि
(ब) दक्षिणस्यां दिशि (द) उदीच्यां दिशि
२२९. याम्ये वातप्रदो ज्ञेय उत्तरे वृद्धिदो रवेः।
उभयोः पार्श्वयोर्भाति सलिलं भूरि यच्छति॥
इति वाक्यं कस्य?
(अ) कश्यपस्य (स) पराशरस्य
(ब) वशिष्ठस्य (द) गर्गस्य
२३०. यदान्तरिक्षे बलवान् मरुतो मरुतावृतः।
पतत्यधः सनिर्घातो भवेदनिलसम्भवः॥
इति केनोक्तम्?
(अ) वसिष्ठेन (स) गर्गेण
(ब) अत्रिणा (द) पराशरेण
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA