बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 699, कुल 728 में से
संदर्भ में पढ़ेंवस्तुनिष्ठप्रश्नाः ६५७
(अ) ज्येष्ठशुक्लाष्टमी (स) श्रावणशुक्लाष्टमी
(ब) आषाढशुक्लाष्टमी (द) भाद्रशुक्लाष्टमी
१४५. संसारस्य शुभाशुभं कथं ज्ञायते?
(अ) आषाढकृष्णपक्षे रोहिणी-चन्द्रयोर्योगं विलोक्य।
(ब) श्रावणकृष्णपक्षे रोहिणी-चन्द्रयोः योगं विलोक्य।
(स) भाद्रकृष्णपक्षे चन्द्र-रोहिण्योः समागमं विलोक्य।
(द) आश्विनकृष्णपक्षे चन्द्र-रोहिण्योः समागमं विलोक्य।
१४६. सुवृष्टिः कदा जायते?
(अ) मेघरहिते गगने सूर्यरश्मयः यदा तीक्ष्णाः भवेयुः।
(ब) रात्रौ निर्मलनक्षत्रयुतं गगनं यदा भवेत्।
(स) विकसिता कुमुदिनीव यदा भवेत्।
(द) शीतलसमीरः यदा प्रवहेत्।
१४७. धान्यस्योत्तमा निष्पत्तिः कदा भवति?
(अ) यदा पूर्वस्यां दिशि मेघाः समुत्पन्नाः स्युः।
(ब) यदा दक्षिणस्यां दिशि मेघाः समुत्पन्नाः स्युः।
(स) यदा नैर्ऋत्यां दिशि मेघाः समुत्पन्नाः स्युः।
(द) यदा उत्तरस्यां दिशि मेघाः समुत्पन्नाः स्युः।
१४८. जनानां शुभं कदा भविता?
(अ) यदा पूर्वमुदीयमानश्चन्द्रः स्यात् पश्चाद्रोहिणी भवेत्।
(ब) यदा पूर्वं रोहिणी स्यात् पश्चात् चन्द्रमा भवेत्।
(स) यदा रोहिणी चन्द्रमसोः सहैवोदयः लभेत्।
(द) यदा रोहिणीतः पूर्वं चन्द्रोदयः भवेत्।
१४९. कस्मिन् वर्षे मनुष्याः स्त्रीवशे भवन्ति?
(अ) यस्मिन् वर्षे रोहिण्याः पूर्वस्यां दिशि चन्द्रः सञ्चरति।
(ब) यदा रोहिण्याः आग्नेय्यां दिशि चन्द्रः भवति।
(स) यस्मिन् वर्षे रोहिण्याः नैर्ऋत्यां दिशि चन्द्रो भवति।
(द) यस्मिन् वर्षे रोहिण्याः प्रतीच्यां दिशि चन्द्रो भवति।
१५०. कदा सुवृष्टिर्जायते?
(अ) रोहिण्याः वायुकोणे चन्द्रसञ्चारे सति
(ब) रोहिण्या उत्तरे चन्द्रसञ्चारे सति
(स) रोहिण्याः पूर्वे चन्द्रसञ्चारे सति
(द) रोहिण्याः ईशानकोणे चन्द्रसञ्चारे सति
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA