भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
- ३८४ -
निविडाम्बुधरं श्यामं श्रीमद्राजीवलोचनम् ।
आकाशनीलवपुषं तुङ्कनासाविराजितम् ॥ २ ॥
केयूरिणं प्रविलसत्कटकं मणिमालिनम् ।
माणिक्यरत्नमुकुटं स्फुरन्मकरकुण्डलम् ॥ ३ ॥
करुणाचपलापाङ्गं पीताम्बरविराजितम् ।
श्रीवत्सवक्षसं भूरिगम्भीरावर्तनाभिकम् ॥ ४ ॥
सुन्दरं . सिंह विक्रान्तं मृगराजोदरद्युतिम् ।
रत्नकाञ्चीसमाबद्धपीताम्बरसुवासिनम् ॥ ५ ॥
श्रीरत्नपादुकांन्यस्तचरणाम्बुरुहद्वयम् ।
चरणाब्जनखद्योतिविजितादित्यवर्चसम् ॥ ६ ॥
मन्दस्मितामितरुचिरञ्जिताधरबिम्बकम् ।
चन्द्राननं चमत्कारिमाधुर्यरसवारिधिम् ॥ ७ ॥
खिंगो नामान्त्यजो दृष्ट्वा मुहुरुचे कृताञ्जलिः ॥ ८ ॥
खिँग उवाच
अहो अत्यद्भुतं रूपं रामस्य करुणानिधेः ।
विषयासक्तचित्तेन मया नीताश्च वासराः ॥ ९ ॥
नैतावद्यातमतुलं रूपमेतन्मनोहरम् ।
प्रायो लक्ष्मीरिदं दृष्ट्वा रूपमत्यद्भुतं प्रभोः ॥
अभूच्चरणदासीति वयं समनुशुश्रुम ॥ १० ॥
व्रजाङ्गनाश्च प्रमुदाटवीस्था माधुर्यमत्यद्भुतमेतदेव ।
दृष्ट्वा वशीभूतहृदो निपेतुः पदाब्जयोरस्य सुपूरुषस्य ॥ ११ ॥
विहायलोकं त्रपितं गुरूणां कुटुम्बभीतिं प्रणयावकृष्टाः ।
भेजुर्भवन्तं भगवन्त मद्धा प्रत्यर्प्यचित्तं विषयांस्तनूश्च ॥ १२ ॥
एतावदासीन्मम भाग्यमेव स्फुटं यदन्तर्विषयावसन्तम् ।
सम्मूढधीः को विषमत्ति जानन् विहाय पीयूषनदीमनर्घ्याम् ॥ १३ ॥
इत्युक्त्वा प्रसभं खिंगः पपात पदयोः प्रभोः ।
स्रवल्लोचनधाराभिः सेचयानो मुहुर्मुहुः ॥ १४ ॥
श्रीराम उवाच
उत्तिष्ठ खिंग जातोऽसि मम सेवकसत्तमः ।
निर्भयः कालमायादेर्विमुक्तोस्त्यधुना भवान् ॥ १५ ॥
ये मामुपगता दीना जना निष्किचना अपि ।
तेषामहमभीत्यर्थं भवामि प्रकटः स्वयम् ॥ १६ ॥
- ३८५ -
लिंग उवाच
जन्मान्तरे परं पुण्यं जनैर्यैर्वा सुसत्कृतम् ।
तेषां त्वं गोचरो भूत्वा हरसे भवसंततिम् ॥ १७ ॥
अहं तु जनुरारभ्य पापाचारः सुनिन्दितः ।
विषयाकृष्टहृदयो भ्रष्टो ज्ञानविवर्जितः ॥ १८ ॥
न कर्म कृतवान् किंचिन्न ज्ञानेन च निर्मलः ।
नोपासनापरः शश्वच्चरणाब्जबहिर्मुखः ॥ १९ ॥
तत्केन सुकृतेनाह लब्धवाञ्शुभमीदृशम् ।
साक्षात्तव रमेशस्य यदेतत् खलु दर्शनम् ॥ २० ॥
अवितर्क्याथ वा राम करुणेव तव प्रभो ।
मुनीनां योगनिष्ठाना नित्यं निर्मलचेतसाम् ॥ २१ ॥
ज्ञानिनां तत्त्वनिष्ठानां सततोपासनावताम् ।
जन्मान्तरसहस्रेष्व निभृतं साधितात्मनाम् ॥ २२ ॥
अलभ्यं मङ्गलमिदं यत्स्वरूपप्रकाशनम् ।
[L
- ३८६ -
ततस्त्वं शूकरो जातः प्रमोदवनसन्निधौ ।
क्रूरो विपिनसंचारी तामसीं योनिमागतः ॥ ३१ ॥
प्रमोदवनमध्ये तु कासारः कोऽपि निर्मलः ।
तत्र दैववशादेत्य मज्जनं कृतवांस्तुवै ॥ ३२ ॥
तत्र व्रजजना केचित्स्नाताः पूर्वं मम प्रियाः ।
तेषां पादरजो लग्नं तवाङ्गे मज्जतो मुहुः ॥ ३३ ॥
अङ्गसंगि च तत्तोयं लग्नं तेषां तवाङ्गके ।
मुक्तस्तेन प्रभावेण महाशूकरयोनितः ॥ ३४ ॥
तत्क्षणं स्मृतिमापन्नः स्मृतवान् पूर्वजन्म च ।
अहो अहं तपस्वी स ऋजीषो नाम वै मुनिः ॥ ३५ ॥
केन दुष्कृतयोगेन प्राप्तवाञ्छौकरीं गतिम् ।
अनर्हं ईदृशी योनिं तपस्विकुलजो मुनिः ॥ ३६ ॥
इति चिन्तयतस्तस्य नारदो मुनिरागतः ॥ ३७ ॥
नारद उवाच
अये मुनिकुलोत्पन्न मुने तापससत्तम ।
दिष्ट्या निर्मुक्तवानद्य भवाञ्छूकरयोनितः ।
महतां खलु पापानामिदं फलमभूत्तव ॥ ३८ ॥
ऋजीष उवाच
किं मया दुष्कृतं पूर्वं कृतं देवर्षिसत्तम ।
तपस्यता योगनिष्ठमानसेन सुचेतसा ॥ ३९ ॥
नारद उवाच
भवान् निन्दितवान् पूर्वं गोपीः श्रीरामवल्लभाः ।
कृतोऽसह्यापराधोऽयं रामस्य त्रिजगत्पतेः ॥ ४० ॥
स्वस्यापराधं भगवान् कदाचित्क्षमते प्रभुः ।
न तु स्वीयापराधस्य क्षान्तिर्भगवतः क्वचित् ॥ ४१ ॥
तेन दोषेण हि भवाञ्छौंकरीं योनिमागतः ।
तासां चरणपद्मोत्थधूलिधोरणिसंगमात् ॥ ४२ ॥
व्रजकासारसंस्नानान्मुक्तवान् योनिमेतकाम् ।
अतः परं पुनरपि नैव कर्तव्यमीदृशम् ॥ ४३ ॥
असह्यं रामदेवस्य नितरामपराधनम् ।
एता हि भगवद्रूपा भगवत्प्रियकारिकाः ॥ ४४ ॥
- ३८७ -
न ह्यासां सदृशो ब्रह्मा न शेषो नापि चेन्दिरा ।
अतः परं भजस्व त्वं ता गोपारेव भक्तितः ॥ ४५ ॥
तासां चरणपद्मोत्थधूलिधूसरविग्रहः ।
प्राप्स्यसे त्वं पुनरपि रामसायुज्यमद्भुतम् ॥ ४६ ॥
एकं तु जन्म भविता तदसह्यापराधतः ।
अन्त्यजेषु जनुः प्राप्य पुनर्मुक्को भविष्यसि ॥ ४७ ॥
इत्युक्त्वा नारदो नाम देवर्षिरगमद्दिवि ।
भवांश्चैव पुनर्जातः साकेतनगरेऽत्र च ॥ ४८ ॥
विषयानन्दसम्मग्नः पूर्वजन्मापराधतः ।
नारदस्य मुनेः संगात्कासारस्नानतोऽपि च ॥ ४९ ॥
रामाङ्गनापदाम्भोजरजोमाहात्म्यतोऽपि च।
पुनर्मद्भक्तियोगेन स्तुत्वा मां भक्तवत्सलम् ॥ ५० ॥
अन्धत्वं समतिक्रम्य प्राप्तवान् मम दर्शनम् ।
अतः परं पुनर्जन्म न भविष्यति संसृतौ ॥ ५१ ॥
सम्प्राप्तो मत्पदाम्भोजे निर्भयोऽद्य निराकुलः ।
तपसां कर्मणां चैव ज्ञानानां चापि सर्वशः ।
फलं प्राप्तोऽस्येकदैव कृतार्थोऽसि विशेषतः ॥ ५२ ॥
मन्नामसंस्मरणकृन्मम भक्तियुक्तो मल्लोकसंगतिपरो मदुपासनस्थः ।
मत्स्थानमेष्यसि विमुक्तसमस्तमोहो भूयोऽप्युजीषमुनिरेव भविष्यसि त्वम् ॥५३॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे
एकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥
पञ्चाशत्तमोऽध्यायः
ब्रह्मोवाच
पुत्रौ कुशलवौ नाम रामो रघुकुलेश्वरः ।
कुशावत्यामवन्त्यां च स्थापयामास पार्थिवौ ॥ १ ॥
उर्मिलाकुक्षिसम्भूतो तनयौ शुभलक्षणौ ।
कारापथनृपौ चक्रे लक्ष्मणो रामशासनात् ॥ २ ॥
- ३८८ -
तथा पुष्करनामानौ माण्डवीकुक्षिसम्भवौ ।
तनयौ भरतश्चक्रे तदाख्यविषयेश्वरौ ॥ ३ ॥
श्रुतकीर्तेः समुद्भूतः सुबाहुश्चबहुश्रुतः ।
उभो चकार शत्रुघ्नो मथुराविदिशेश्वरौ ॥ ४ ॥
रामलक्ष्मणशत्रुघ्नभरतैः सह वासिभिः ।
चिरं सम्प्रीणिताः कृत्स्नाः साकेतनगरीप्रजाः ॥ ५ ॥
दिने दिने गवां पूजा ब्राह्मणानां विशेषतः ।
दानानि यज्ञाः स्वाध्याया व्रतानि विविधानि च ॥ ६ ॥
सम्बभूवुरयोध्यायां रामे शासति मेदिनीम् ।
श्रुतिगोद्विजधर्माणां स्वयं संरक्षके प्रभौ ॥ ७ ॥
अतिथीन् पूजयानस्य रामस्य करपङ्कजात् ।
पाद्यार्घजलवाहिन्यः सरय्वा सह संगताः ॥ ८ ॥
यज्ञहोमभवो धूमः श्रीरामस्य निकेतनात् ।
उद्भूव विमानस्थानन्धीकुर्वन् सुपर्वणः ॥ ९ ॥
शुभाशिषः प्रयुञ्जानाद्विजन्मानो मुदान्विताः ।
पूजिता रघुनाथेन स्वानि स्वानि गृहाण्यगुः ॥ १० ॥
प्रावर्त्तततरां धर्मश्चतुष्पादिव मूर्त्तिमान् ।
चतुर्भ्यस्तत्र भ्रातृभ्यो लब्धसम्पद्दिवानिशम् ॥ ११ ॥
अश्वमेधाः कृतास्तेन महाधार्मिकमौलिना ।
प्राग्वंशवर्त्तिना हैम्या जनकाङ्गजया समम् ॥ १२ ॥
अजस्रं वासितः शक्रस्त्याजयित्वा सुरालयम् ।
इन्द्राणीविरहोत्तापान्तन्नन्दनभूरुहम् ॥ १३ ॥
अर्चिते प्रतिभूपालमौलिरत्नमरीचिभिः ।
रामस्य चरणाम्भोजे वाञ्छाधिकफलप्रदे ॥ १४ ॥
केषांचिद्दर्शयन् स्वस्य मैथिल्या सह संततम् ।
संयोगं सर्वकालीनं सुखभोगसमन्वितम् ॥ १५ ॥
केषांचिद्दर्शयन् दृष्ट्या बहिरङ्गदृशां पुनः ।
वियोगं सर्वकालीनयोगसेवनतत्परः ॥ १६ ॥
केषांचिद्दर्शयन् देव एकपत्नीमहाव्रतम् ।
आनुकूल्यं दृढं नाम यत्रनान्यवधूरतिः ॥ १७ ॥
केषांचिद्दर्शयन् पद्मां विशालाक्षीं रतिं पराम् ।
सहजानन्दिनीं रामां निर्भरंसक्तिमेव च ॥ १८ ॥
- ३८९ -
वनेष्वन्यां पुरे चान्यां लीलां सम्भावयन् मुहुः ।
यया कया च रीत्या वै भक्तानानन्दयन् विभुः ॥ १९ ॥
लीलाधिष्ठानमितरं सर्वलोकविलक्षणम् ।
देशं कालं तथा द्रव्यं कृत्स्नं परिकरं तथा ॥ २० ॥
अन्तरङ्गदृशां लोके केषांचिद्विदितात्मनाम् ।
नित्यं संदर्शयन् मोहसमुच्छित्त्यै कृपावशात् ॥ २१ ॥
आसुराणां पुनर्न्नित्यमधोगतिनिनीषया ।
लोकानुगतमात्मानं दर्शयन् विश्वमोहनः ॥ २२ ॥
चिरं तस्थौ रघुपतिर्योगमायामुपाश्रितः ।
रञ्जयन् प्रकृतीः सर्वा नृत्यन् नट इवाद्भुतः ॥ २३ ॥
भुवो भारं हरन् कृत्स्नं धर्मं संस्थापयन् विभुः ।
भक्तिं प्रवर्त्तयंल्लोके द्विधाभावविभावनीम् ॥ २४ ॥
स्वरूपं च प्रकटयंश्चिदानन्दाद्वयात्मकम् ।
लीलां च तादृशीं कृत्स्नां लोके संदर्शयन् विभुः ॥ २५ ॥
रेमे चिराय भगवान् प्रवरो रघूणामक्लिष्टकर्मकरणैकपटुर्महात्मा ।
लोकेषु मौलिमुकुटाग्रमणीन्द्ररोचिर्नीराज्यमानचरणाम्बुजदिव्यपीठः ॥ २६ ॥
ऐश्वर्यमद्भुतमखण्डमजस्रमेव वीर्यंयशः श्रियमनन्तगुणप्रतिष्ठः ।
ज्ञानं विरक्तिमपि विश्वविलक्षणात्मा संदर्शयंश्चिरमरञ्जयदात्मभृत्यान् ॥ २७ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे
पञ्चाशत्तमोऽध्यायः ॥ ५० ॥
✤
एकपञ्चाशत्तमोऽध्यायः
ब्रह्मोवाच
अथ स्वशक्त्या रममाण एवं स्वांशैः स्वभक्तैरपि सेव्यमानः ।
प्राकट्यकार्यं निखिलं विधाय रामोऽखिलाव्यक्तपदं जगाम ॥ १ ॥
भुशुण्ड उवाच
कथमव्यक्ततां यातः प्रमोदवनचन्द्रमाः ।
एतन्मे ब्रूहि सर्वज्ञ तस्य लीलान्तरं महत् ॥ २ ॥
- ३९० -
विधिना प्रेषितः कालः प्रार्थयामास यत्प्रभोः ।
तद्विधित्सुः स्वयं रामो लक्ष्मणं प्रत्युवाच ह ॥ ३ ॥
मयाऽऽज्ञप्तोऽसि सौमित्रे गच्छ त्वं सरयूवनम् ।
अनन्तरमहं चापि गन्तास्मि स्वपदं महत् ॥ ४ ॥
लक्ष्मण उवाच
कीदृशं ते पदं दिव्यं यत्र त्वं नित्यविग्रहः ।
नित्यलीलाविनोदेन क्रीडस्यनिशमीश्वर ॥ ५ ॥
श्रीराम उवाच
एतदेव मम स्थानं यत्राहं नित्यविग्रहः ।
प्रमोदविपिनं नाम क्रीडास्थानमनुत्तमम् ॥ ६ ॥
अष्टचत्वारिंशदेव योजनान्यष्टकोणवत् ।
मध्येप्रमुद्वनं यत्र सहजाया निकेतनम् ॥ ७ ॥
अशोककलिकावेश्मगुञ्जद्भ्रमरमण्डितैः ।
भूरुहैर्विविधैर्भाति सौरभ्यकुसुमाकरम् ॥ ८ ॥
सदा मञ्जरितैरग्रैरश
- ३९१ -
जगाम सरयूतीरं वहत्त्रिविधमारुतम् ।
आरामकुञ्जशोभाढ्यं हेमरत्नमयावनिम् ॥ १७ ॥
तत्र गत्वा चिरं दध्यौ मायातीतं परं महः ।
स तन्महसि चाद्राक्षीदयोध्यां भुवनोत्तराम् ॥ १८ ॥
वनोपवनशोभाढ्यां सरयूतीरभूमिगाम् ।
गोपलीलीराजलीलालीलाद्वयमनोरमाम् ॥ १९ ॥
अपश्यदुभयत्रापि राममानन्दविग्रहम् ।
सहजानन्दिनीसीताशक्तिद्वयविराजितम् ॥ २० ॥
सेवितं प्रेममर्यादाभक्तिभ्यां च निरन्तरम् ।
सर्वलीलारसोपेतं सर्वैः परिकरैर्युतम् ॥ २१ ॥
स्वात्मादीन् पार्षदांश्चापि तत्रापश्यद्यथास्थितान् ।
तद्ध्यानपरमानन्दलहरीमग्नमानसः ॥ २२ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे लक्ष्मणपरोभावो
नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥
✤
द्विपञ्चाशत्तमोऽध्यायः
ब्रह्मोवाच
अथ लोकजनैः सार्द्धं यातुकामः प्रमुद्वनम् ।
भगवान् घोषयामास दुन्दुभिं कोसलापुरे ॥ १ ॥
अद्य गन्तास्म्यहं स्वीयं प्रमोदविपिनं परम् ।
आयान्तु ये जनास्तत्र यातुकामा मया सह ॥ २ ॥
स्नात्वा सरय्वाः सलिले दत्त्वा दानानि भूरिशः ।
प्रविशन्तु परं रन्ध्रं सरयूतीरभूमिगम् ॥ ३ ॥
गच्छन्तु सर्वे प्रमोदविपिनं धाम मामकम् ।
न यत्र कालमायाद्याः कुतोऽन्यद्वस्तु तद्वशम् ॥ ४ ॥
तत्र नित्यं मया सार्द्धं मोदन्तां नित्यलीलया ।
अमन्दानन्दसंदोहभूजो भूरिसुमङ्गलाः ॥ ५ ॥
- ३९२ -
इति दुन्दुभिनिर्घोषमाकर्ण्य पुरवास्तवाः ।
दारापत्यसुहृद्बन्धुमित्रभृत्यादिभिः सह ॥ ६ ॥
आगोपमा च श्वपचमापण्डितवरद्विजम् ।
आकीटपशुपक्ष्यादि गृहीतधिषणा जनाः ॥ ७ ॥
सद्यः समुद्भूतबोधाः स्वरूपबलतो हरेः ।
संजातात्मप्रकाशाश्च स्वाराज्यपदगन्तुकाः ॥ ८ ॥
आययुः सरयूं नाम नदीं विश्वविमोक्षिणीम् ।
हंससारसचक्राङ्गकादम्बकुलकेलिनीम् ॥ ९ ॥
हेमरत्नसमाबद्धकान्तोभयतटान्विताम् ।
मन्दारपारिजातादितरुमालोपवीतिनीम् ॥ १० ॥
मन्दानिलसमुत्क्षिप्ततरङ्गशतसंकुलाम् ।
पूजितां सुरगन्धर्वयक्षराक्षसकिन्नरैः ॥ ११ ॥
पीयूषोज्ज्वलपानीयां राजहंसनिषेविताम् ।
तत्रैत्य ददृशुः सर्वे रामंरघुकुलो
- ३९३ -
अथ प्रविविशुः शुद्धा रामकुञ्जमनुत्तमम् ।
सदारापत्यसुहृदः सभृत्यसखिबान्धवाः ॥ २२ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा अवरयोनिजाः ।
वर्णसंकरजाश्चापि चाण्डालाः श्वपचादयः ॥ २३ ॥
भिल्लाः खसाः पुलिन्दाश्च हूणाश्चान्ध्राः सहस्रशः ।
वधिका यवनाश्चापि नानाजात्याधमा अपि ॥ २४ ॥
पशवः पक्षिणः कीटा यूकादंशघुणादयः ।
जन्तवोऽनेकजातीया एकद्वित्रीन्द्रिया अपि ॥ २५ ॥
ते सर्वे दिव्यवपुषो भूत्वा सपदि तत्क्षणात् ।
पश्यतामेव देवानां भासयन्तो दिशोऽखिलाः ॥ २६ ॥
आरुह्य देवयानानि गीयमानाश्च किन्नरैः ।
प्रययुः प्रमोदवनं दिव्य तत्तमसः परम् ॥ २७ ॥
न यत्र मायाखिललोकमोहिनी न कालशक्तिः कलनात्मिका तथा ।
न कर्मजन्यैश्च फलैः प्रसंजन यदेकरूपं सदसत्परं जगु ॥ २८ ॥
यत्सच्चिदानन्दमशेषमद्भुतं विशेषहीनं तमसः परं पदम् ।
प्रभावतः श्रीरघुवल्लभस्य तद्गता अनर्हा अपि साधनेर्विना ॥ २९ ॥
एवं विधाय सकलानपि तान् पुरस्ताज्जीवान् पुरीपरिसरेऽपि वसन्ति येऽन्ये ।
पश्चात्स्वयं स भगवानखिलात्मभूतः सीतापतिः परिकरैः सहितो जगाम ॥ ३०॥
आसीद्यावद्दिनं तत्सकलमपि रवः काहलः श्रीसरय्वा-
स्तोयेसम्मज्जतां श्रीरघुपतिमयतां गच्छतां रामकुञ्जम् ।
शश्वत्तेषां जनानामपि सकलदिशो भासितास्तद्विमानै-
र्नक्षत्रैर्व्याप्यमाना इव किमपि बभुर्विश्वतो ध्वान्तवर्जः ॥ ३१ ॥
रामस्तेषां वास्तवे दिव्यरूपं विश्वस्योच्चैर्निर्ममौ स्वां पुरीं ताम् ।
या वै साक्षादियमेवास्त्ययोध्या सुप्राकारा परिखाश्रेणियुक्ता ॥ ३२ ॥
तस्या ईशः स्वयमानन्दमूर्तिर्नित्यं लीलारससंदोहमग्नः ।
नीत्वा तस्यामखिलान् जीवसंघान् दत्त्वाऽऽनन्दं वासयामास नित्यम् ॥ ३३ ॥
अन्तर्हिते कोसलायां चराचरपतौ तदा ।
तेनैवपरमाज्ञप्ता ज्ञाततत्त्वाः स्वरूपतः ॥ ३४ ॥
व्रजमाजमुरुदारचित्ताः सुन्दरनन्दननीलललामाः ।
राजकुमारवराः सुकुमारा ददृशुर्गोपीगोपसमूहम् ॥ ३५ ॥
तत्र गोपीजनगिरा सद्यः संत्यक्तसंशयाः ।
विचेरुर्धरणीं कृत्स्ना कृतकृत्यात्मयोगिनः ॥ ३६ ॥
५०
– ३९४ –
जनानुपदिशन्तस्ते रामभक्तिं रसोत्तमाम् ।
जगत्कृतार्थयामासुर्लीलारसविशारदाः ॥ ३७ ॥
भुशुण्ड उवाच
अन्तर्हिते कोसलायां रामे रमणशालिनि ।
गोपिकाः किं विधा आसन् गोपाश्च गुणवत्तमाः ॥ ३८ ॥
ब्रह्मोवाच
यर्हि वावं तेजोमयान् विशिखान् धनुषि संधाय तत्र च स्वात्मज्योतिरारोप्य
भगवानपीच्यतमश्रीविग्रहः सानुजः सभार्यो दक्षिणां दिशमगात्ततश्च विराधादि वधं
कृत्वा पुनः साकेतोपगमराज्यशासनान्तां राजलीला तेनैव श्रीविग्रहेणावतारप्रयोजन
मूलभूतेनाकार्षीत् ॥ ३९ ॥
तर्ह्येव दिवसमारभ्य रमणीय कलाकलापपेशलो मधुरस्मितमंजिममण्डित-
मुखचन्द्रचन्द्रिका प्रकाशधोरणीवशिताखिलस्वीयजनमानसोऽनुदिनवर्द्धमानलीलारसम-
जुषद्व्रजवासिजननितम्बिनीषु ॥
- ३९५ -
त्रिपञ्चाशत्तमोऽध्यायः
ब्रह्मोवाच
इति ते सर्वमाख्यातं भुशुण्ड क्रमतो मया ।
आदिरामायणं नाम श्रीरामचरितं शुभम् ॥ १ ॥
एतत्कल्पभवं चापि कल्पान्तरभवं तथा।
समाधावुपलब्धं यत्सारं सारं विमृश्य च ॥ २ ॥
इदं ते गुह्यवद्धार्यं न प्रकाश्यं कथंचन।
प्रभोरेवाज्ञया प्रोक्तं रामस्य करुणाम्बुधे ॥ ३ ॥
रामेण कथितं पूर्वं स्वप्रियायै प्रमुद्धने ।
तया सौमित्रये प्रोक्तं तेन प्रोक्तं निजानुजे ॥ ४ ॥
कचिद्धनूमता लब्धं श्रीरामस्य मुखाम्बुजात् ।
तत एव मया लब्धं हयग्रीवाच्च योगिना ॥ ५ ॥
लब्धं कुम्भोद्भवेनापि मुनिभ्यस्तेन कीर्तितम् ।
तदेव ते मयाऽऽख्यातं रहस्यं चरितं प्रभोः ॥ ६ ॥
पठनीयं सदैवैतत् पवित्रं चित्तशोधनम् ।
मङ्गल विघ्नकोटिघ्नं सुखदं भक्तिवर्द्धनम् ॥ ७ ॥
आयुष्यमारोग्यकरं धनसम्पद्विवर्द्धनम् ।
संकटेषु च कृच्छ्रेषु सर्वापद्विनिवारणम् ॥ ८ ॥
श्रावणीयं च भक्तेभ्य एकान्तिभ्यो विशेषतः ।
रसज्ञेभ्यः प्रेमवद्भ्यो रासलीलाविशेषितम् ॥ ९ ॥
यानि यानि चरित्राणि पवित्राणि सीतापतेः ।
रासलीलागोपलीलाभेदवित्तानि भूरिशः ॥ १० ॥
तेषां श्रवणमात्रेण दृढाभक्तिः प्रजायते ।
यावन्न विश्वामित्रेण नीतौ स्वाध्वरगुप्तये ॥ ११ ॥
सुखितस्य गृहे तावदूषतू रामलक्ष्मणौ ।
चक्राते कुतुकोपेतौ गोपलीलां रसोत्तराम् ॥ १२ ॥
चक्रे रासविलासाद्याः सर्वालीलाः शुभान्विताः ।
धात्रीपतिरपि प्रायः पुत्रवच्चान्ववर्त्तत ॥ १३ ॥
तौ चापि लीलारसिकौ भ्रातरौ रामलक्ष्मणौ ।
माङ्गल्यां सुखितं चैव मेनाते जनकौ निजौ ॥ १४ ॥
तयोश्चरितमत्रैव गोपलीलानुकारिणोः ।
प्रतिश्लोकं चोपबद्धं श्रोतव्यं भक्तिभावतः ॥ १५ ॥
- ३९६ -
मोचनं भवबन्धेभ्यो रोचनं मनसः परम् ।
गोचरं सद्विशेषाणा सामान्यानामगोचरम् ॥ १६ ॥
चैत्रस्य शुक्लपक्षे तु प्रतिपद्दिवसादितः ।
यावज्जन्मदिनं श्राव्यं रामस्य रसिकेशितुः ॥ १७ ॥
दिने दिने महत्पुण्यमश्वमेधशतोद्भवम् ।
तुष्यत्याशु रमाकान्तो रामो राजीवलोचनः ॥ १८ ॥
भूमौ स्वस्तिकमालिख्य सर्वतोभद्रमेव वा ।
मण्डलं विपुलं तत्र स्थापयेज्जानकीपतिम् ॥ १९ ॥
दीपराजं च संस्थाप्य विधिवत्तस्य संनिधौ ।
मण्डपं कारयेत्तत्र चतुर्द्वारं मनोहरम् ॥ २० ॥
वाचयेत्तत्र विधिवद्ग्रन्थमेनं समाहितः ।
अनन्यभक्त्या श्रोतव्यं सर्वदा रामसेवकैः ॥ २१ ॥
गोभूहिरण्यवस्त्राद्यैस्तथाश्वरथकुञ्जरैः ।
यथाशक्त्या च वसुभिस्तोषयेद्वाचकं द्विजम् ॥ २२ ॥
लिखित्वा पुस्तकं चेतद्दक्षिणाहेमसंयुक्तम् ।
रामभक्ताय योदद्याद् ब्राह्मणाय सुयज्वने ॥ २३ ॥
तस्य पुण्यफलं चापि वक्तुं नो शक्यते मया ।
अश्वमेधसहस्राणि राजसूयशतानि च ॥ २४ ॥
लभते भक्तिमान् मर्त्यः कथाश्रवणमात्रतः ।
असंख्य लभते पुण्यं कीर्तनाच्च दिने दिने ॥ २५ ॥
ब्रह्मोवाच
इति मत्तः समाश्रुत्य भुशुण्डो रामसेवकः ।
प्रोद्भूतपूर्वसंस्कार इदमूचे स मां सुराः ॥ २६ ॥
भुशुण्ड उवाच
धन्योऽहं कृतकृत्यश्च त्वत्प्रसादाद् विधो मम ।
सद्यो विगलितो मोहः सजाता पूर्वजन्मधीः ॥ २७ ॥
अहं हि रामभक्तोऽस्मि धातर्जन्मनि जन्मनि ।
इदानीं ते प्रसादेन भक्तिर्मेऽभूद्द्ढीयसी ॥ २८ ॥
द्वीपेऽस्मिन् पर्वते चात्र निवत्स्यामि शुभान्वितः ।
रामभक्तिसुधां पीत्वा सदा मत्तः प्रसन्नधीः ॥ २९ ॥
इदं श्रुतं ते वदनारविन्दाद्यशोऽमलं श्रीरघुपूङ्गवस्य ।
सदैव पद्योद्भव कीर्त्तनीयं मया पुरो भक्तिमतां सुराणाम् ॥ ३० ॥
- ३९७ -
रहः स्मरिष्यामि च सद्रहस्यं निधेयमन्तर्निधिसारभूतम् ।
स्वस्त्यस्तु ते गच्छ विधे स्वलोकं लोकेश लोकाधिकृतिं प्रशाधि ॥ ३१ ॥
इत्युक्त्वा मां स वै देवाः पूजयित्वा यथाविधि ।
विससर्ज स्वलोकाय भक्तिनम्रः कृताञ्जलिः ॥ ३२ ॥
एतत्सुरगणाः कृत्स्नं गुणग्रथनमीशितुः ।
आकर्ण्य कृतकृत्याः स्थ न श्रोतव्यान्तरं च वः ॥ ३३ ॥
श्रुतं यशश्चेद्रघुपूङ्गवस्य किमन्यकीर्त्या श्रुतया जनस्य ।
गीता गुणाश्चेद्रघुनन्दनस्य पीतापि सा नहि सुधा मुधा स्यात् ॥ ३४ ॥
स जयति राजवेशरमणीय उदारगुणः
प्रमुदवनावनीन्दुरखिलप्रमुद्रासहितः ।
स्मितसहजेश्वरीवदन चन्द्रचकोरयुगं नयन-
युगं निजेषु निदधद् राघवेन्द्रसूनुः ॥ ३५ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे ग्रन्थमाहात्म्यादि-
निरूपणं नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥
समाप्तमिदमादिरामायणम् ॥
१ संवत् १८९९ के श्रावण सुदि १४ मङ्गलेक लिखा सारदादीन मिश्र
मुकाम पुरवामध्ये विश्वनाथसिंह राज्ये ।
संवत् १७१९ वर्षे आश्विनशुक्ल त्रयोदश्या लिखापितमिदं रामर्षिणा
श्रीस्वामि बालकृष्णानुजीविना विदुषा ।
(श्रीरामगोपालो जयति)
परिशिष्ट
नामानुक्रमणी
भुशुण्डि रामायण का प्रकाशन तीन भागो मे हुआ है। प्रथम भाग मे पूर्वखंड द्वितीय
भाग मे दक्षिण खंड और तृतीय भाग मे पश्चिम तथा उत्तर खंड समाहित है। पाठकों की
सुविधा के लिए ग्रंथ के उपर्युक्त चारों खण्डो मे आये हुए व्यक्ति तथा स्थानवाचक शब्दों की
अनुक्रमणिका इस तृतीय तथा . अंतिम भाग के परिशिष्ट मे दी जा रही है। राम, सीता तथा
भाइयो के बहुउद्धृत नाम कलेवर वृद्धि के भय से छोड़ दिये गये हैं, प्रत्येक शब्द के सामने
संदर्भित भाग को सख्यानिर्देश के साथ ही उसकी स्थिति का पृष्ठांक दे दिया गया है।
अ अयोध्या I १५, ६०, १७९, ८६१, ३४०,
अग II ३६८ ४०७, ४५०, ४९४, ६१०, ८११,
अंगद II ५३९, ६१७, ६२०, ६४०, ६४८, ८६६, ९०४, ९४२, ९६६, ९७२, II
६६४, ७०७, ७२० १, १४, ५९, ८०, ९६, ११९, १८१,
अंगिरा I ४४, ४०९, १८३, ४८५, ६७६, १९७, २०७, ४१७, ७२०, ७२६ III
९६६ II ४०५ ४४, ७३, ९१, ११२, १३७, १४०,
अंबरीष I ५८१, ५८८ १४१, १५३, १६४, १६९, २३७,
अक्षयवट I ४९७ २७८, ३३३, ३६६, ३६८, ३७२,
अक्रूर I ५३८ ३७४, ३८०, ३९१
अक्रूरतीर्थ I ५३८ अरिसूदन III २११, २८२
अगस्त्य I ३८१, ४०९, ६१८, ६ ६ II अरिष्टनेमि II ३२६, ३२७
४०५, ६०५, III २३८, २४६ अरुंधती I ५२२, ७५१, III १८, ९०,
अग्नितीर्थ I ५१७ १०५, १४९, १५५
अजमीढ I ९६६ अर्जुन II ३७०, ३७३, ३७६
अदिति III १५६ अलका (पुरी) II ३६३, ३६४
अत्रि I ४०९, ४८३, ६१८, ६३३, ६७६, अवन्ती III ३८७
II ४०५. ४०८, ४११, ४२१, ४५५ अष्टावक्र III २५
अनसूया I ७५१ II ४००, ४११, ४१४ अशोककुज I ३२
III ९४ अशोकवन II ४३६ III १७०, १९८, २३९
अन्नकूट I ५४० अशोकवाटिका II ९२, ६०७, ७१९
अनिरुद्ध I ६१६ II १७८ III ४४, ३४६ अश्मवाह I ९६८
अत्रि I ४०९, ४८३, ६१८, ६३३, ६७६ आङ्गिरस I ५०४, ५२४, ९६६
अमरावती II ३९३ आत्रेय २९४, ९७, ९९, ३००, १, २, ३,
अम्बरीष II ५१२ III २१९ ४, ७, १०, १२, १४, १६, २५, २७,
३२, ३५
- ४०० -
इ
इक्ष्वाकु III १३७
इन्दिरा II २०१
इन्दिरापति II ३२९
इन्दिरावती I ८२९
इन्दीवरवन I ७१३
इन्द्र II ३३०, ३८०, ३९०, ३९५, ४००,
४०७, ५६८, III २२, ६८, ३४८
इन्द्रतीर्थ I ५४०, ९४९
इन्द्रजित् II ७०२, ७०५
इन्द्रपुर II ४०७
इन्द्रप्रस्थ I ५८२
इन्द्राणी II ३४० III ३८८
इरावती I ६६८
इला II ४०५
इलापति II १४७
इलास्पद I ५१५
उ
उच्चैः श्रवा II ४०५
उज्जयिनी III ९१, २४६
उतथ्य I ९६५, ९६६
उद्दालक I ९६८ II ४०५
उद्दालक तीर्थ I ५०२
उपमन्यु I ९६७
उपशक्रपुरी II ३९१
उमा (पार्वती) II ३६३ III ७१, २४७,
३०४
ऊर्मिला I ३२४, ३२९ II ४८, ५०, ५१
III १८, ५२, ६७, २०७ ३५६, ३५७
उर्वशी II १६५ III ४६ १९९
उर्वशीतीर्थ I ५०२
उषीरबीज I ५२३
ऋ
ऋजीष ३८६
ऋषभद्वीप ५०२
ऋषितीर्थ I ५३३
ऋष्यमूक II ५३९, ५४१, ५४८, ५४२, ५६९
ऋष्यशृंग ३२२, ३२८, ४०९, ४८५
ए
ऐरावत ३०५, ३३१ III ६२, ६३
औ
औदल ९६७
औशिज ९६६
औशीनर ५८२
क
कंदलवन I ४९०
कंस I ५३४, ५३६
कणाद I ४०९
कण्व I ४०९, ९६६ III २५
कदंबवन I ११२
कदलीवन II ५८३
कनखल I ५३३
कन्यातीर्थ I ५१७
कपिल I ४०९, ५१४ II ३२६, ४०५, III
२५, १०८
कपिलतीर्थ I ५१३
कबंध II ३२०, २२, ३२७, ४६४, ५१३,
III २२१
कमला I ८६९ III २९, ४१
कमलेशी I ४३६, II २५९-६०, २६४,
२८०, २८४, ४५७. III २३९, २७०
कमलेश्वरी I ९३३ II ४५२ III १९
कर्दम III १०८, १६६
कलहंसी I ६९९
कला I १३०
कलावती I ६९७, ६९९
कलिंग II ३६८
कलिंद ५७०, ५७९, ५८७
कल्पित केदार I ५१४
कश्यप I ३३०, ४०९, ६४३, ८४१, ९६६,
II १२२, १९४, ३१३, ३१८ III ३७,
१४१, १५६
- ४०१ -
काञ्ची I ८५७ कुबेर I ३७२, ३७३, ५१०, ५२३, ६१८,
कात्यायन I २५० ८३१, ८४७, III २३, ४०, २३८,
कात्यायनी II ३१०, ३२६ २९६, ३०४
कामदेव I ६१८ कुमुदा ६९८
कामधेनु II १६९ कुरुक्षेत्र I ४८४, ५०५, ५१७, ५१९, ५२०,
कामवन I ५३० ५३८, ५३२, ८६४, ९३४, ९५८
कामशोधनतीर्थ I ५१३ कुलाचल II ३०४
कामिकावन I ४८९ कुश III ३८७
कार्त्तवीर्य I ३८२, ५११ II ३७०, ७३, कुशावती III ३८७
३७५, ३७६ कुशिक III ४६, ४७, ४८
कार्तिकेय III ४८ कूर्म II ६२०
काल I ६ III २७६, ७७, ७८, ७९, ८०, कृष्ण I ११, १५, १८, १०२, १२७, १३०,
८२, ८३, ८४, ८५, ८६, ९०, ९१, १६८, १९०, २५०, २५१, ३३७, ३६४,
९२, ३३९ ३८३, ४५१, ५११, ५२७, ५२९,
कालकण्टका I ६ ५३०, ५३१, ५३७, ५२९, ५४१,
कालनाभ II ३२६ ५४२, ५४३, ५४५, ५४६, ५५३,
कालिका II ६३७ ५५६, ५६०, ५६२, ५६४, ५७७,
कालिदी I ५२६, ५३२, ५५९, ५६०, ५७२, ५७८, ५९०, ५९१, -५९२, ६१८,
II ८१ ६४६, ७८८, ९३५, ९४४, ९४५,
कालिया I ४४, ५३९, ९५२ ९४६, २४८, ९५०, ९५१, ९५२,
कालीकुज I ४९१ ९५३, ९५४, ९७३, II ४०४, ४५६,
कावेरी I ५७, ५०३, ५५३, ५५४, ८५७, III ६२, १८३, ३०९
II १४५ III १२, १०४, २७३ कृष्णकुण्ड I ५४२, ९४९
काशी ४६९, ५०७, ५३८, ५३९ II ३६, कृष्णा I ९५०, ९७३, II २८०, III १२,
III २४५ १०४, १८३, १८४, १८५, १९१,
[L27
- ४०२ -
कैलाश I २००, ५२३, ५७३, II ३०५,
३६३, ३६८, ३७९, III २३, ३३,
११६, २५१, २६०
कोशल II २३, १२७, १५७, २७१, ३६९,
६३३, III २३३, ३४६, ३६६, ३९३
कोशला I ५, १०, ११, २६८
कौण्डिण्य I ४०५, III ३३५
कौत्स I ६७६, ९६६, ९६८
कौपीनस I २४८
कौशल्या II ४५, ५३, ७८, १००, १०८,
१३५, १५३, १६४, १७१, १८७,
७२३, III ५८, ७६, १५६, १५८,
१६५, १६६, २१३, ३१२, ३५९
कौशिक I ३०८, ३१०, ३११, १५, २२,
३६, ४०९, ८२, ८३, ८७, ५०१, १०,
- ४०३ -
स्तम्भ १
घ
घृताची II १६५
घोषवती I ३२०, ६९८, III २०, २७०
च
चक्रतीर्थ I ५४२, ९४९
चक्रहरि I ४८०
चण्ड ६६९
चन्द्रहरि I ४८०
चण्डिका I ३६४
चन्द्रतीर्थ I ५८०
चन्द्रभानु I ९४१
चन्द्रावली I ९४१ III ५३
चर्मण्वती I ५०७, ५८४
चित्रकूट I ४०, ४६, ५७, ५०५, ८५२, ९४२
II ८२, ९७, १६४, १८६, २४०,
२७२, २८१, ३४६, ३५४, ४०१,
४२०, २६, ४४६, ४५३ III ५३, ६६
७२, ९१, १०८, २१७, २४५, २७६,
३३३, ३४२, ३४६,
- ४०४ -
त्वष्टासुर II ३२६
द
दंतवक्र I ४२
दक्ष III ४४
दण्डकबन I ४३, ९९, १०३, १६५, १६८,
२२५, ५०४, ७७४, ८५३, ९३५,
९३७, ९४१ II २४, १५३, ४१७,
४१९, ४४२, ४३१, ४४२, ४४३
७२१, III ९१, २१७, २२०, २७६
दधीच I ५१८
दिलीप I ३८५, ५८८ II २१०, ५१२
दीर्घतपा I ९६५
दुकुक्षि III ३२
दु दुभासुर II ५६२
दुर्गांगिरि I ५७३
दुर्द्धर्षासुर II ४६८
दुर्योधन I ४३
दुर्वासा I ४३, ४०९, ४८३, ६११, ६३३,
८६१, ९१२ II ४०५ III २९०, २९२,
३३२, ३३९
द्रुमभंग तीर्थ I ६२९
द्विविद I ६४३
दूषण I ३९ II ३६६, ३६८, ३७४, ३९६,
४५७, ४६५, ४६६, ४६८, ४७१,
४९०, ५४०
देवकी I ४५२, ५३६, ९३५ III ३०९
देवगिरि I ९४९
देवदत्त II ९३
देवरस I ९६७
देवरात I ९६७
देवल I १०९, ४०९, ९६६
देवश्रवा I ९६७
देवहृद् I ५१६
द्रोणाचार्य I ४४, ५७३
द्रोणपर्वत II ७१४, ७१५
द्रोपदी I ४३
द्वारका I ४२, १७९, १८९, १९६, ८६०,
८६४ III ७५, १९७
द्वैपायन (व्यास) I ६१८
ध
धनजय I ९६६ II ३८४
धन्वंतरि II ३१३
घृताची III ४७
धूर्तिनी I ७८२
धेनुक I ४९८
ध्रुवतीर्थ I ५३३
ध्रुवक्षेत्र I ९३४
धौम्य I १०९, ४०९, ९५६
न
नन्द I ३६४, ४५१, ५४०, ९५३
नन्दन घोष II २५७, २७२, २७३, २७८
III १६, ३१, ५३, ५८, ६४, ६७, ७२,
८२, ८४, २५०, २५२, ३१३, ३२४,
३९०, ३९४
नन्दग्राम I ५४५
नन्दशर्मा III १५९
नन्दिग्राम I ४२, ४९२, ६३४, ६७४, ७१२,
७६२, II २०६, २०७, २१४, २२७,
२५५, २६८, २७५, २७८, २८१,
७२२
नन्दिनी II २७८, २८१ III १८७, १९६,
१९७, २३७, २५०
नन्दीश्वर I ५४५, ९५१
नमूचि II ३००, ३२६, ३३२
नरान्तक II ६९६
नारायणगिरि I ५५२
नर्मदा II १४५, ३७०, ३७१ III ३७३
नल II ५३९, ६१७, ६१९, ६२०, ६२६,
६३०, ६३५, ६३७, ६४०, ६५६,
६६४, ६६८, ७०७, ७२० III २२४
नलवधू I ७५१