भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
DevanagariHindipublished423 पृष्ठ
पृष्ठ 402, कुल 423 में से
संदर्भ में पढ़ेंपृष्ठ 402
- ३८९ -
वनेष्वन्यां पुरे चान्यां लीलां सम्भावयन् मुहुः ।
यया कया च रीत्या वै भक्तानानन्दयन् विभुः ॥ १९ ॥
लीलाधिष्ठानमितरं सर्वलोकविलक्षणम् ।
देशं कालं तथा द्रव्यं कृत्स्नं परिकरं तथा ॥ २० ॥
अन्तरङ्गदृशां लोके केषांचिद्विदितात्मनाम् ।
नित्यं संदर्शयन् मोहसमुच्छित्त्यै कृपावशात् ॥ २१ ॥
आसुराणां पुनर्न्नित्यमधोगतिनिनीषया ।
लोकानुगतमात्मानं दर्शयन् विश्वमोहनः ॥ २२ ॥
चिरं तस्थौ रघुपतिर्योगमायामुपाश्रितः ।
रञ्जयन् प्रकृतीः सर्वा नृत्यन् नट इवाद्भुतः ॥ २३ ॥
भुवो भारं हरन् कृत्स्नं धर्मं संस्थापयन् विभुः ।
भक्तिं प्रवर्त्तयंल्लोके द्विधाभावविभावनीम् ॥ २४ ॥
स्वरूपं च प्रकटयंश्चिदानन्दाद्वयात्मकम् ।
लीलां च तादृशीं कृत्स्नां लोके संदर्शयन् विभुः ॥ २५ ॥
रेमे चिराय भगवान् प्रवरो रघूणामक्लिष्टकर्मकरणैकपटुर्महात्मा ।
लोकेषु मौलिमुकुटाग्रमणीन्द्ररोचिर्नीराज्यमानचरणाम्बुजदिव्यपीठः ॥ २६ ॥
ऐश्वर्यमद्भुतमखण्डमजस्रमेव वीर्यंयशः श्रियमनन्तगुणप्रतिष्ठः ।
ज्ञानं विरक्तिमपि विश्वविलक्षणात्मा संदर्शयंश्चिरमरञ्जयदात्मभृत्यान् ॥ २७ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे
पञ्चाशत्तमोऽध्यायः ॥ ५० ॥
✤
एकपञ्चाशत्तमोऽध्यायः
ब्रह्मोवाच
अथ स्वशक्त्या रममाण एवं स्वांशैः स्वभक्तैरपि सेव्यमानः ।
प्राकट्यकार्यं निखिलं विधाय रामोऽखिलाव्यक्तपदं जगाम ॥ १ ॥
भुशुण्ड उवाच
कथमव्यक्ततां यातः प्रमोदवनचन्द्रमाः ।
एतन्मे ब्रूहि सर्वज्ञ तस्य लीलान्तरं महत् ॥ २ ॥