सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

अभोज्यानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । ९५
यत्र शूद्र उपस्पृशेत् ॥ १ ॥
भोजनदशायां यदा शूद्र उपस्पृशेत् तदापि न भुञ्जीत । अत्र भुञ्जान-
ग्रहणादन्यदा शूद्रस्पर्शे नाऽप्रायत्यमिति केचित् । अन्ये तु—सदा भव-
त्येवाऽप्रायत्यम् , भोजनदशायां त्वाधिक्यप्रतिपादनाय निषेध इति॥१॥
अनर्हद्भिर्वा समानपङ्क्तौ ॥ २ ॥
सर्वत्र वाशब्दः समुच्चये । अभिजनविद्यावृत्तरहिता अनर्हन्तः ।
तैस्सह समानायां पङ्क्तौ न भुञ्जीत ॥ २ ॥
भुञ्जानेषु वा यत्राऽनूत्थायोच्छिष्टं प्रयच्छेदाचामेद्वा ॥ ३ ॥
समानपङ्क्ताविति वर्तते । समानपङ्क्तौ बहुषु भुञ्जानेषु यद्येको
ऽनूत्थाय भोजनाद्विरम्य उच्छिष्ट शिष्यादिभ्यः प्रयच्छेत् आचामेद्वा, तस्यां
पङ्क्तावितरेषां न भोक्तव्यम् । अतो बहुषु भुञ्जानेषु(१) एको मध्ये
न विरमेत् । भोजनकण्टक इति हि तमाचक्षते ॥ ३ ॥
कुत्सयित्वा वा यत्राऽन्नं दद्युः ॥४॥
मूर्ख, वैश्ववेय, विषं भुङ्क्ष्वेति, एवं कुत्सयित्वा यत्रान्नं दद्युस्तदप्य
भोज्यम् ॥ ४ ॥
मनुष्यैरवघ्रातमन्यैर्वाऽमेध्यैः ॥ ५ ॥
मनुष्यैरन्यैर्वा मार्जारादिभिरमेध्यैरवघ्रातमन्नमभोज्यम् । (२)अवेत्युपसर्ग-
योगात् दूरस्थैर्गन्धाघ्राणे न दोषः ॥ ५ ॥
न नावि भुञ्जीत ॥ ६ ॥
नाव्यासीनो न भुञ्जीत, शुद्धेऽपि पात्रे ॥ ६ ॥
तथा प्रासादे ॥ ७ ॥
प्रासादो दारुमयो मञ्चः । तत्रापि न भुञ्जीत ॥ ७ ॥
कृतभूमौ तु भुञ्जीत ॥ ८ ॥
भूमावपि भुञ्जानः कृतायां गोमयादिना संस्कृतायां भुञ्जीत । (३)अपर
आह—प्रासादोऽपि यदा मृदा कृतभूमिर्भवति, न केवलं दारुमयः, तदा
तत्र भुञ्जीतैवेति ॥ ८ ॥
१. कोऽपि. इति. ग. पु. २ अवोपसर्गयोगात् इति क. पु.
३. इदं व्याख्यान्तरं नास्ति. ग. पुस्तके ।

९६ आपस्तम्बधर्मसूत्रे [ (प.५) क. १७.
अनाप्रीते मृण्मये भोक्तव्यम् ॥ ९ ॥
यदि मृण्मये भुञ्जीत तदाऽनाप्रीते भोक्तव्यम् । आप्रीतं कचित्कार्ये पाका-
दावुपयुक्तम् ॥ ९ ।
आप्रीतं चेदभिदग्धे ॥ १० ॥
आप्रीतमेव चेल्लभ्यते, तदाऽग्निनाऽभितो दग्ध्वा तत्र भोक्तव्यम् ॥
परिमृष्टं लौहं प्रयतम् ॥ ११ ॥
लौहं लोहविकारभूतं कांस्यादि भोजनपात्रं भस्मादिभिः परिमृष्टं
सत् प्रयतं भवति । तत्र भस्मना कांस्यम् । आम्लेन ताम्रम् । राजतं
शकृता । सौवर्णमद्भिरेवेत्यादि स्मृत्यन्तरवशाद्रष्टव्यम् ॥ ११ ॥
निर्लिखितं दारुमयं ॥ १२ ॥
दारुमयं भाजनं निर्लिखितं तष्ट सत् प्रयतं भवति ॥ १२ ॥
यथागमं यज्ञे ॥ १३ ॥
यज्ञपात्रं तु यथागमं शोधितं प्रयतं भवति । तद्यथा अग्निहोत्र-
हवणी दर्भैरद्भिः प्रक्षालिता, सोमपात्राणि (१) मार्जालीये प्रक्षालितानि,
आज्यपात्राण्युष्णेन वारिणा ॥ १३ ॥
नाऽऽपणीयमन्नमश्नीयात् ॥ १४ ॥
आपणः पण्यवीथी । तत्र यत्क्रीतं लब्धं वा । तदापणीयम् । तच्च
कृतान्नं नाश्नीयात् । व्रीह्यादिषु न दोषः ॥ १४ ॥
तथा रसानामाममांसमधुलवणानीति परिहाप्य ॥१५॥
रसाः रसद्रव्याणि । तानप्यापणीयान्नाश्नीयात् । (२) आममांसादि
वर्जयित्वा ॥ १५ ॥
तैलसर्पिषी तूपयोजयेदुदकेऽवधाय ॥ १६ ॥
तैलसर्पिषी त्वापणीये अप्युपयोजयेत् । उदकेऽवधाय निषिच्य पाकेन तैल-
सर्पिषी(३)शांधयित्वा । कार्यविरोधो यथा न भवति तथा उदकेन सं-
सृज्येत्यन्ये(४) ॥ १६ ॥
१. मार्जालीयः सोमयागे सदोनामकमण्डपस्याग्नेयकोणे स्थितः स्थानविशेषः ।
२. आममांसादीनि परिहाप्य, इति ग पु. ३. शोषयित्वा इति ग. पु.
४ व्याचक्षते इत्यधिकं ख. ग. पु

अभोज्यान्नानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । ९७
कृतान्नं पर्युषितमखाद्यापेयानाद्यम् ॥ १७ ॥
कृतान्नं पक्वान्नं तत्पर्युषितं पूर्वेद्युः पक्वं सत् अखाद्यम् । अपेयमनाद्यं
च यथायोगं खरविशदं द्रवं मृदुविशदं सिद्धं च ॥ १७ ॥
शुक्तं च ॥ १८ ॥
शुक्तं यत्कालपाकानोऽम्लीभूतं तदपर्युषितमपि अखाद्यापेया-
नाद्यम् ॥ १८ ॥
फाणितपृथुकतण्डुलकरम्भ(१) भ्रूजसक्तुशाकमांसपि-
ष्टक्षीरविकारौषधिवनस्पतिमूलफलवर्जम् ॥ १९ ॥
अनन्तरोक्तं विधिद्वयं फाणितादीन् वर्जयित्वा द्रष्टव्यम् । फाणितं पा-
नविशेषः । इक्षुरस इति केचित् । (२) भ्रष्टानां व्रीहीणां तण्डुलाः पृथूकृताः
पृथुकाः । करम्बो दधिसक्तुसमाहारः यः करम्भ इति प्रसिद्धः । वे-
देऽप्युभयं भवति(३) 'यत्करम्बेर्जुहोति' । (४) "धानाः करम्भः परि-
वापः" इति । भ्रूजाः भ्रष्टा यवाः । क्षीरविकारो दध्यादि । प्रसिद्धमन्यत् ॥
अथ 'शुक्तं चे'त्यस्य विधेः शेषः—
शुक्तं चाऽपरयोगम् ॥ २० ॥
परेण द्रव्यान्तरेण योगो यस्य तत् परयोगं, ततोऽन्यदपरयोगम् ।
तदेव शुक्तं वर्ज्यम् । यत्तु दध्यादि द्रव्यान्तरसंसृष्टं शुक्तं तद्भोज्यमेव ।
एवं च पूर्वत्रैवाऽपरयोगमिति विशेषणं वक्तव्यम् । इदमेव वा सूत्रमस्तु ।
सूत्रद्वयकरणं त्वाचार्यप्रवृत्तिकृतम् । यथा 'सलाद्वृक्येकसृकोलूकशब्दा'
(पृ. ५८) इति पूर्वं सामान्येनाभिधाय 'सलाद्वृक्यामेकसृक इति स्वप्न-
पर्यान्त' (पृ. ६५) मिति पश्चाद्विशेष उक्तः ॥ २० ॥
सर्वं मद्यमपेयम् ॥ २१ ॥
मद्यं मदकरं तत्सर्वमपेयम् । अत्र स्मृत्यन्तरवशाद्व्यवस्था ।
तत्र मनुः—
(५) 'गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।
यथैवैका न पातव्या (६) तथा सर्वा द्विजोत्तमैः ॥' इति ।
सुराव्यतिरिक्तं तु मद्यं ब्राह्मणस्य नित्यमपेयम् ।
१. 'भ्रष्टे'ति ख. पु. भरिजेति क. पु. २ भर्जिताना इति. ख पु
३. तै. ब्रा ३ ८ १४. ४ तै. स. ६ ५ ११.
५. म. स्मृ. ११ ९४ ६ 'तथैवान्या' इति ग पु.
आप० ध० १३

तथा च गौतमः-
(१)'मद्यं नित्यं ब्राह्मणस्य क्षत्रियवैश्ययोस्तु ब्रह्मचारिणो'रिति ॥२१॥
तथैलकं पयः ॥ २२ ॥
अवि एलका । तस्याः पयः क्षीरमपेयम् ॥ २२ ॥
उष्ट्रीक्षीरमृगीक्षीरसन्धिनीक्षीरयमसूक्षीराणीति ॥२३॥
उष्ट्रीमृग्यौ प्रसिद्धे । या गर्भिणी दुग्धे सा सन्धिनीति शाखान्तरे प्रसि-
द्धा । एककालदोहेत्यन्ये । एकस्मिन् प्रसवे या अनेकं गर्भं सूते, सा
यमसूः । उष्ट्रादीनां क्षीराण्येपेयानि । इतिकरणमेवं प्रकाराणामन्येषामे-
कशफादीनां क्षीरमपेयमिति ।
तथा च मनुः-
(२)'आरण्यानां च सर्वेषां मृगाणां महिषीं विना ।
स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि ॥
अनिर्दशाया गोः क्षीरमौष्ट्रमैकशफं तथा ।
आविकं सन्धिनीक्षीरं विवत्सायाश्च गोः पयः ॥ इति ॥२३॥
धेनोश्चानिर्दशायाः ॥ २४ ॥
धेनुर्नवप्रसूता गौः । चकारादजामहिष्योश्च । (३)'अजा गावो महि-
ष्यश्चे'ति मानवे दर्शनात् ॥ २४ ॥
तथा कीलालोषधीनां च ॥ २५ ॥
कीलालोषधयः सुरार्था ओषधयः । तासां च विकारभूतमन्नमन्नाद्यम्॥२५॥
(४)करञ्जपलण्डुपरारीकाः ॥ २६ ॥
(५)करञ्जं रक्तलशुनम् । पलण्डु श्वेतम् । परारीका कृष्णम् । (६) मण्डु-
१ गौ. ध. २. २० मद्य नित्य ब्राह्मण', इत्येव सूत्रम् ॥ २ म. स्मृ. ५. ९, ८.
३ म. स्मृ. नाय श्लोको मानवे उपलभ्यते । प्रत्युत 'अनिर्दशाया गोः क्षीरं (५. ८)
इति श्लोकव्याख्यानावसरे कुल्लूकभट्टेन "गोरिति पेयक्षीरोपलक्षणार्थम् । तेनाजामहिष्यो-
रपि दशाहमध्ये प्रतिषेधः, इति लेखनात् 'अजा गावो महिष्यश्चे'त्यस्याऽमानवत्वमेवाऽनु-
मीयते । वस्तुतस्तु पाराशरीयं वचनामिदम् । ( परा. स्मृ. ३. ७.) तत्रैव दर्शनात् ॥
४. कलञ्जपलाण्डुपरारीकाः इति क पु. परारिका इति. घ पु.
५. अनेनैव प्रमाणेन 'न कलञ्ज भक्षयेत' इत्यादौ कलञ्जशब्दो रक्तलशुनपर इत्य-
स्माभिर्व्याख्यातं नञर्थनिरूपणावसरे मीमांसान्यायप्रकाशव्याख्यायां सारविवेचिन्याम् ।
तत्र प्रमाणान्तरमप्युपन्यस्त त त,त्रैव द्रष्टव्यम् ॥
६. डुण्डुभाष्यया इति ख. पु. सुहण्डुभाष्यया इति. क. पु.

अभक्ष्याणि ] उज्ज्वलोपेते प्रथमः प्रश्नः । ९९
भाख्यया म्लेच्छानां प्रसिद्धम् । एते चाऽभक्ष्याः ॥ २६ ॥
अभक्ष्याणां प्रतिपदपाठो न शक्यते इति समासेनाह—
यच्चाऽन्यत् परिचक्षते ॥ २७ ॥
यच्चान्यदेवंयुक्तं शिष्टाः परिचक्षते वर्जयन्ति तदप्यभक्ष्यम् ।
तत्राह मनुः—
(१)लशुनं गृञ्जनं चैव पलाण्डु कवकानि च ॥
अभक्ष्याणि द्विजातीनाममेध्यप्रभवानि च ॥' इति ॥ २७ ॥
क्याक्वभोज्यमिति हि ब्राह्मणम् ॥२८॥
क्याकु छत्राकं तदभोज्यमभक्ष्यम् । ब्राह्मणग्रहणमुक्तार्थम् ॥ २८ ॥
एकखुरोष्ट्रगवयग्रामसूकरशरभगवाम् ॥ २९ ॥
एकखुरा अश्वादयः । गवयो गोसदृशः पशुः । शरभोऽष्टपाद आरण्यो -
मृगः । अन्ये प्रसिद्धाः । एतेषां मांसमभक्ष्यम् ॥ २९ ॥
धेन्वनडुहोर्भक्ष्यम् ॥ ३० ॥
धेन्वनडुहोर्मांसं भक्ष्यम् । गोप्रतिषेधस्य प्रतिप्रसवः ॥ ३० ॥
मेध्यमानडुहमिति वाजसनेयकम् ॥ ३१ ॥
(२)अनडुहो मांसं न केवल भक्ष्यम्, किं तर्हि ? मेध्यमपीति वाजस-
नेयिनः समामनन्ति ॥ ३१ ॥
कुक्कुटो विकिराणाम् ॥ ३२ ॥
व्यवहितमप्यभोज्यमिति सम्बध्यते । पादाभ्यां विकीर्य कीटधा-
न्यादि ये भक्षयन्ति ते मयूरादयो विकिरास्तेषां मध्ये कुक्कुटो न भक्ष्यः ।
स्मृत्यन्तरवशात् ग्राम्यो, नाऽऽरण्यः ॥ ३२ ॥
प्लवः प्रतुदाम् ॥ ३३ ॥
तुण्डेन प्रतुद्य ये भक्षयन्ति ते दार्व्वाघाटादयः प्रतुदाः । तेषां मध्ये
प्लव एवाऽभक्ष्यः । प्लवः (३)शकटबलाख्यो बकविशेषः ॥ ३३ ॥
(४)क्रव्यादः ॥ ३४ ॥
१. म. स्मृ. ५ ५. २. आनडुहं मास० इति ख. ग. पु.
३ शकटविलाह्य इति ख पु. शकावलाख्यः इति. ग, पु शकबलाह्य इति.
घ, ङ. पुस्तकयो. । ४ एतदादि सूत्रत्रयमेकीकृतं क पु.

२. प्रथम प्रश्न (पटल ६-११): शुद्धि-अशुद्धि व प्रायश्चित्त

१०० आपस्तम्बधर्मसूत्रे [(प्र.५.)क.१७
क्रव्यं मांसं तदेव केवलं येऽदन्ति ते क्रव्यादः गृध्रादयः। ते ऽप्यभक्ष्याः
हंसभासचक्रवाकसुपर्णाश्च ॥ ३५ ॥
हंसः प्रसिद्धः । भासः श्येनाकृतिः पीनतुण्डः । चक्रवाकः मिथुनचरः ।
सुपर्णः श्येनः । एते चाऽभक्ष्याः ॥ ३५ ॥
क्रुञ्चक्रौञ्च वार्ध्रीणसलक्ष्मणवर्जम् ॥ ३६ ॥
क्रुञ्चा वृन्दचाराः । क्रौञ्चा मिथुनचराः । ते चाऽभक्ष्याः । सूत्रे क्रौ-
ञ्चेति विभक्तिलोपश्चान्दसः । किमविशेषेण क्रुञ्चक्रौञ्चा अभक्ष्याः । ने-
त्याह—वार्ध्रीणसलक्ष्मणवर्जम् । श्वेतो लोहितो वा मूर्धा येषां ते लक्ष्मणाः
त एव विशेष्यन्ते—वार्ध्रीणसा इति । वार्ध्री चर्म तदाकारा नासिका
येषां ते वार्ध्रीणसाः । एवंभूतान् लक्ष्मणाम् वर्जयित्वा क्रुञ्चक्रौञ्चा न
भक्ष्या इति ।
अन्ये त्वाहुः—'क्रव्याद्' इति प्राप्तस्य प्रतिषेधस्य क्रुञ्चादिषु चतुर्ष्व-
प्रतिषेध इति । तत्र लक्ष्मणा सारसी लक्ष्मणवर्जमिति(१) 'ङ्यापोस्सं-
ज्ञाच्छन्दसो'रिति ह्रस्वः। एवं क्रुञ्चादिशब्दस्याऽप्यजादित्वात्तन्तस्य ॥३६॥
पञ्चनखानां(२) गोधाकच्छपश्वाविच्छर्यकखङ्ग-
शशपूतिखषवर्जम् ॥ ३७ ॥
पञ्चनखानरवानरमार्जारादयः । तेषां मध्ये गोधादीन् सप्त वर्जयित्वा अ-
न्ये अभक्ष्याः । गोधा कृकलासाकृतिर्महाकाया । कच्छपः कूर्मः । श्वाविद् व
राहविशेषः, यस्य नाराचाकाराणि लोमानि। शर्यकः शल्यकः, यस्य च-
र्मणा तनुत्राणं क्रियते । श्वाविच्छर्यक इति युक्तः पाठः । एके तु छकारं
पठन्ति । छकारात्पूर्वमिकारम् । खङ्गो मृगविशेषः, यस्य शृङ्गं तैलभा-
जनम् । शशः प्रसिद्धः । पूतिखष । शशाकृतिः हिमवति प्रसिद्धः ॥३७॥
अभक्ष्यश्चेटो मत्स्यानाम् ॥ ३८ ॥
मत्स्यानां मध्ये चेटाख्यो मत्स्यो न भक्ष्यः ॥ ३८ ॥
सर्पशीर्षी मृदुरः क्रव्यादो ये चाऽन्ये विकृता यथा
मनुष्यशिरसः ॥३९॥
सर्पस्येव शिरो यस्य सोऽपि मत्स्यो न भक्ष्यः । मृदुरो मकरः ये
च क्रव्यमेवाऽदन्ति शिशुमारादयः तेऽप्यभक्ष्याः । ये च उक्तेभ्योऽन्ये
१. पा. सू. ६ ३.६३ २. पञ्चपञ्चनखा भक्ष्या., इत्यत्र द्वितीयसप्तमवर्जिताना ग्रहणम् ।

अभक्ष्याणि ] उज्ज्वलोपेते प्रथमः प्रश्नः । १०१
मत्स्या विकृताकाराः । तत्रोदाहरणम्-यथा मनुष्याशिरमः जलमनु
ष्याख्या जलहस्त्यादयश्च । तेऽपि सर्वे न भक्ष्याः । अत्र मनुः-
(१)'अनुमन्ता विशसिता निहन्ता क्रयविक्रयी ।
संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥
(२)मां स भक्षयिताऽमुत्र यस्य मांसमिहाद्म्यहम् ।
एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥
न मांसभक्षणे दोषो न मद्ये न च मैथुने ।
प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥' इति ।
(३)अप्रतिषिद्धेष्वपि भक्षणान्निवृत्तिरेव ज्यायसीत्यर्थः ॥ ३९ ॥
इत्यापस्तम्बधर्मसूत्रे सप्तदशी कण्डिका ॥
इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु-
ज्ज्वलायां प्रथमप्रश्ने पञ्चमः पटलः ॥ ५ ॥
१. म. स्मृ. ५.५१. । २. श्लोकोऽयं नास्ति क. पु.
३. "अत्राप्रतिषिद्धेष्वपि निवृत्तिरेव ज्यायसी भक्षणपानमैथुनादिभ्य इत्यर्थः" इति
ग पु. ।

अथ षष्ठः पटलः ॥
एवं तावन्निमित्तदुष्टं जातिदुष्टं कालदुष्टं चाऽभोज्यमुक्तम् । तत्र नि-
मित्तदुष्टं 'यस्य कुले म्रियेते(पृ. ९२.)'त्यादि । जातिदुष्टं कलञ्जादि ।
कालदुष्टं पर्युषितादि । इदानीं प्रतिग्रहाशुचीनि कानिचिदनुज्ञाय
कानिचित् प्रतिषेधति—
मध्वामं मार्गं मांसं भूमिर्मूलफलानि रक्षा गव्यू-
तिर्निवेशनं युग्यघासश्चोग्रतः प्रतिगृह्याणि ॥ १ ॥
मधु पक्कमपक्वं वा । आम तण्डुलादि । मृगस्य विकारो मार्गं मांसम् ।
भूमिः शालेयादिक्षेत्रम् । विश्रमस्थानमित्यन्ये । मूलफलानि(१) मूलकाम्रा-
दीनि । रक्षा अभयदानम् । गव्यूतिर्गोमार्गः । निवेशनं गृहम् । युगं वहती-
ति युग्यो बलीवर्दः । तस्य घासो भक्ष्यं पलालादि । एतान्युग्रतोऽपि प्रति-
गृह्याणि प्रतिग्राह्याणि अदुर्भीक्षेऽपि । उग्रः पापकर्मा द्विजातिः, वैश्याद्वा
शूद्रायां जातः । उग्रग्रहणं तादृशानामुपलक्षणम् ॥ १ ॥
एतान्यपि नाऽनन्तेवास्याहतानीति हारीतः ॥ २ ॥
एतानि मध्वादीन्यपि अन्तेवास्याहतान्येव प्रतिग्राह्याणि, न स्वयमुग्रत
इति हारीत आचार्यो मन्यते ॥ २ ॥
आमं वा गृह्णीरन् ॥ ३ ॥
पूर्वोक्तेष्वामं स्वयमेव वा गृह्णीरन् द्विजा इति(२) हारीतस्यैव पक्षः ॥ ३ ।
कृतान्नस्य वा विरसस्य ॥ ४ ॥
आमस्याऽलाभे कृतान्नस्याऽपि विरसस्य लवणादिरसासंयुक्तस्य । षष्ठी
निर्देशात् स्तोकम् । स्वयमन्तेवास्याहृतं वा गृह्णीरन् ॥ ४ ॥
न सुभिक्षाः स्युः ॥ ५ ॥
अनन्तरोक्तविधानद्वये यद्गृहीतमन्नं तेन सुभिक्षाः सुहिता न भवेयु-
रेव । यावता प्राणयात्रा भवति तावदेव गृह्णीरन् , न यावता सौहित्यं
तावदिति ॥ ५ ॥
स्वयमप्यवृत्तौ सुवर्णं दत्वा पशुं वा भुञ्जीत ॥ ६ ॥
यदि तु दुर्भिक्षतया आत्मनोऽपि वृत्तिर्न लभ्यते प्रागेव पोष्यवर्गस्य,
१. मूलकन्दादीनि इति क. पु. २ हारीताचार्यस्य, इति छ. पु.

अनापद्वृत्तिः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १०३
तदा स्वयमप्यवृत्तौ यत्रैव लभ्यते तत्रैव कृतान्नमपि भुञ्जीत । तत्र गुण-
विधिः— सुवर्णं दत्वा सकृदेवोपक्लृप्तमुपरिष्टात्सुवर्णेन स्पृष्ट्वा । एतेन
पशुं वा दत्वेत्यपि व्याख्यातम् । 'पशुराग्नेः, (१)अग्निः पशुरासी'दिति
मन्त्रलिङ्गात्(२) गोसूक्तेनाऽग्नेरुपस्थानदर्शनाच्च ॥ ६ ॥
नाऽत्यन्तमन्ववस्येत् ॥ ७ ॥
न पुनरत्यन्तमन्ववसीदेत् ॥ ७ ॥
वृत्तिं प्राप्य विरमेत् ॥ ८ ॥
यदा विहिता वृत्तिर्लभ्यते तदा निषिद्धाया विरमेत् । न पुन'स्स-
कृत्प्रवृत्तायाः किमवकुण्ठनेने”ति न्यायेन तत्रैव रमेत । अत्र छान्दोग्यो
पनिषत्—‘(३)मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्रा-
यण इभ्यग्रामे प्रद्राणक उवास । स हेभ्यं कुलमाषान् खादन्तं बिभिक्षे'
इत्यादि । मन्त्रवर्णश्च भवति(४) ‘अवर्त्या शुन अन्त्राणि पेचे' इति ।
अवर्त्या वृत्त्यभावेन । अपर आह-दुर्भिक्षे स्वयमप्यवृत्तौ आ तन्निवृ-
त्तेर्यत्र कुत्रचिन्म्लेच्छेऽपि दातरि भुञ्जानो वसेत् यां च यावतीं च स्वर्ण-
मात्रां य कश्चन पशु वा तस्मै दत्वा । न पुनरत्यन्तमन्ववस्येत् वृत्तिं
प्राप्य विरमेदिति ॥ ८ ॥
एवमापदि वृत्तिमुक्त्वा सुभिक्षेऽनापदि वृत्तिमाह—
त्रयाणां वर्णानां क्षत्रियप्रभृतीनां समा-
वृत्तेन न भोक्तव्यम् ॥ ९ ॥
समावृत्तो द्विजातिः क्षत्रियादीनां त्रयाणां वर्णाना गृहे न भुञ्जीत ॥ ९ ॥
प्रकृत्या ब्राह्मणस्य भोक्तव्यमकारणादभोज्यम् ॥ १० ॥
१ तै. स. ५. ७. २६. २. ऋ. स. ६. २८. १
३. छा. उ १. १०. “मटचीहतेषु मटच्यः अशनयः ताभिर्हतेषु नाशितेषु कुरुषु
सस्येष्वित्यर्थः । ततो दुर्भिक्षे जाते आटिक्या अनुपजातपयोधरादिस्त्रीव्यञ्जनया जायया
उषस्तिर्ह नामतः चक्रस्यापत्यं चाक्रायणः इभः हस्ती तमर्हतीतीभ्यः ईश्वरः हस्त्यारोहो
वा । तस्य ग्रामः इभ्यग्रामः तस्मिन् प्रद्राणकः अन्नालाभात् । द्रा कुत्सायां गतौ । कुत्सिता
गतिं गतः । अन्त्यावस्था प्राप्त इत्यर्थः । उवास उषितवान् कस्यचिद्गृहमाश्रित्य । सो-
ऽन्नार्थमटन्निभ्यं कुल्माषान् कुत्सितान्माषान् खादन्त भक्षयन्त यदृच्छयोपलभ्य बिभिक्षे”
इति शाङ्करभाष्यम्। ४. ऋ. सं ४. १८. १३.

१०४ आपस्तम्बधर्मसूत्रे [ (प.६)क. १८.
ब्राह्मणस्यान्न प्रकृत्या स्वभावैनैव भोक्तव्यम्। कारणादेव स्वभोज्यम्॥१०॥
कारणमाह-
यत्राऽप्रायश्चित्तं कर्माऽऽसेवते प्रायश्चित्तवति ॥ ११ ॥
(१) यत्र यदा वैश्वदेवाग्निहोत्रादीनि नित्यमाभ्युदयिक वाऽप्राय-
श्चित्तं कर्माऽऽसेवते तात्पर्येण करोति प्रायश्चित्तवत्यात्मनि चोदितं प्रा-
यश्चित्तं (२)प्राणायामोपवासविधिकृच्छ्रादि न करोति तदा पत-
स्मात् कारणात् ब्राह्मणस्याऽन्नमभोज्यमिति ॥ ११ ॥
चरितनिर्वेशस्य भोक्तव्यम् ॥ १२ ॥
चरितो निर्वेशः प्रायश्चित्तं येन तस्याऽन्नं भोक्तव्यम्। तद्भोजने न दोषः।
निष्ठया भूतकालस्याऽभिधानाच्चर्यमाणेऽपि निर्वेशे न भोक्तव्यम्। किं
तर्हि ? चरिते ॥ १२ ॥
सर्ववर्णानां स्वधर्मे वर्तमानानां भोक्तव्यं
शूद्रवर्जमित्येके ॥ १३ ॥
शूद्रवर्जितानां स्वधर्मे वर्तमानानां त्रयाणां वर्णानामन्नं भोज्यम्। न
ब्राह्मणस्यैवेत्येके मन्यन्ते ॥ १३ ॥
तस्याऽपि धर्मोपनतस्य ॥ १४ ॥
तस्याऽपि शूद्रस्याऽन्नं भोज्यम् , यद्यसौ धर्मार्थमुपनतः आश्रितो भ-
वति । धर्मग्रहणदर्थार्थमुपनतस्याऽभोज्यम् । आपत्कल्पश्चाऽयम् ॥१४॥
सुवर्णं दत्वा पशुं वा भुञ्जीत नाऽत्यन्तमन्वव-
स्येद्द्वृत्तिं प्राप्य विरमेत् ॥ १५ ॥
गतम् ॥ १५ ॥
सङ्घान्न मभोज्यम् ॥ १६ ॥
सङ्घो गणः तस्य यत् स्वमन्न न त्वेकस्य । तदभोज्यं यद्यपि ते
सर्वे दद्युः ॥ १६ ॥
१. यत्र यदा अग्निहोत्रवैश्वदेवाकरणे प्रायश्चित्तं मुक्त्वा तदनुरूप, नित्यमाभ्यु-
दयिक वा कर्मासेवते तात्पर्येण करोति न प्रायश्चित्तवत्यात्मनि चोदिते प्रायश्चित्तं, तदैत-
स्मात्कारणादभोज्यमिति इति - क पु. । २ प्राणायामपथिकृदादि इति. ख. पु

अभोज्यान्नाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १०५
परिकुष्टं च ॥ १७ ॥
'भोक्तुकामा आगच्छत' इत्येवं परिकुश्य सर्वत आहूय यद्दीयते
तत्परिकुष्टं तदभोज्यम् ॥ १७ ॥
सर्वेषां च शिल्पाजीवानाम् ॥ १८ ॥
चित्रनिर्माणादिकं शिल्प ये आजीवन्ति(१) तेषां सर्वेषामपि ब्राह्म-
णादीनामन्नमभोज्यम् ॥ १८ ॥
ये च शस्त्रमाजीवन्ति ॥ १९ ॥
ये च शस्त्रेण जीवन्ति तेषामप्यन्नमभोज्यम् । क्षत्रियवर्जम्,(२)त-
स्य विहितत्वात् ॥ १९ ॥
ये चाऽऽधिम् ॥ २० ॥
आजीवन्तीत्यपेक्षते । स्वगृहे परान् वासयित्वा तेभ्यो भृतिग्रहणमा-
धि, यः स्तोम इति प्रसिद्धः ।
परभूमौ कुटि कृत्वा स्तोमं दत्त्वा वसेन्नु यः '। इति ।
तं चाऽऽधिं ये आजीवन्ति तेषामप्यन्नमभोज्यम् । ये तु प्रसिद्धमा-
धिमाजीवन्ति तेषां वार्धुषिकत्वादेव(३) सिद्धो निषेधः ॥ २० ॥
भिषक् ॥ २१ ॥
अभोज्यान्न इति प्रकरणाल्लभ्यते । भिषक् भैषज्यवृत्तिः । धर्मार्थं तु
ये सर्पदष्टादींश्चिकित्सन्ति ते भोज्यान्ना एव ॥ २१ ॥
वार्धुषिकः ॥ २२ ॥
वृद्ध्याजीवी । सोऽप्यभोज्यान्नः ॥ २२ ॥
दीक्षितोऽक्रीतराजकः ॥ २३ ॥
दीक्षितो(४) दीक्षणीयेष्ट्या संस्कृतः सोऽपि यावत् क्रीतराजको न
१ आजीवन्ति इत्यनन्तरं 'आजीवन्ति तेन ये जीवन्ति' इत्यधिकं क. पु.
२. तस्य विहितत्वात्, इति नास्ति क. पु.
३. अभोज्यान्नत्वं सिद्धम्, इति ख ग. पु.
४. ज्योतिष्टोमे- 'आग्नावैष्णवमेकादशकपालं निर्वपेत् दीक्षिष्यमाण', इत्यनेन
दक्षिणीयेष्टिनम काचिदिष्टिर्विहिता । सा च यजमानसंस्कारार्था, इति निर्णीत पूर्वमीमा-
सायां पञ्चमाध्याये । तया संस्कृतो यजमानो यावत् यागार्थद्रव्य सोमलता न क्रीणाति
आप० ध० १४

१०६ आपस्तम्बधर्मसूत्रे [(प्र. ६.) क. १८.
भवति सोमक्रयं न करोति तावदभोज्यान्न. ॥ २३ ॥
अग्नीषोमीयसंस्थायामेव ॥ २४ ॥
भोक्तव्यमिति वक्ष्यमाणमपेक्षते । अग्नीषोमीये पशौ संस्थिते समाप्त
एव भोक्तव्यम् । न प्रागिति ॥ २४ ॥
पक्षान्तरमाह—
हुतायां वपायां दीक्षितस्य भोक्तव्यम् ॥ २५ ॥
अग्नीषोमीयस्य वपायां हुताया वा दीक्षितस्यान्नं भोक्तव्यम् । तथा च बह्वृ-
चब्राह्मणम्—'अशितव्यं वपायां हुतायाम्' इति ॥ २५ ॥
पक्षान्तरमाह—
(१)यज्ञार्थे वा निर्दिष्टे शेषाद्भुञ्जीरन्निति हि ब्राह्मणम् २६
इदं यज्ञार्थमिति व्यादेशे कृते शेषाद्भुञ्जीरन्निति ब्राह्मणं भवति ।
ब्राह्मणग्रहणं प्रीत्युपलब्धितः प्रवृत्तेरपस्मृतिता मा भूदिति प्रत्यक्षमेवाऽत्र
ब्राह्मणमिति ॥ २६ ॥
क्लीबः ॥ २७ ॥
षण्डकः । सोऽप्यभोज्यान्नः ॥ २७ ॥
राज्ञां प्रेषकरः ॥ २८ ॥
राज्ञामिति बहुवचनात् ग्रामादेर्यः प्रेषकरः तस्याऽपि प्रतिषेधः ॥२८॥
अहविर्याजी ॥ २९ ॥
यश्चाऽहविषा नररुधिरादिना यजतेऽभिचारादौ यथा 'यमभिचरे-
त्तस्य लोहितमवदानं कृत्वे' ति सोऽप्यभोज्यान्नः ॥ २९ ॥
चारी ॥ ३० ॥
चारो गूढचरः स्पशः । सोऽप्यभोज्यान्नः ॥ ३० ॥
तावत्पर्यन्तामित्यर्थ । प्रथमदिने 'अपराह्ने दीक्षयेत' इति अपराह्ने दीक्षा विहिता । ततः
पूर्वं दीक्षणीयेष्टि । तत्समनन्तरदिने सोमक्रयण विहितम् । ततश्च प्रथमदिनेऽपराह्ना-
दनन्तर द्वितीयदिनमध्याह्नात् पूर्वं दीक्षितान्नं न भोक्तव्यमिति फलितम् । इदं चैकदीक्षा-
पक्षे । अनेकदीक्षापक्षे तु तदनुरोधेन दिनसंख्यावृद्धिः प्रत्येतव्या ॥
१. Cf. आप श्रौ १० १५ १६.

भोज्यान्नाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १०७
अविधिना च प्रव्रजितः ॥ ३१ ॥
यश्चाऽविधिना प्रव्रजितः शाक्यादिस्सोऽप्यभोज्यान्नः ॥ ३१ ॥
यश्चाऽग्नीनपास्यति ॥ ३२ ॥
(१)(योऽनापद्यग्निं त्यक्त्वा प्रायश्चित्तं न करोति सोऽप्यभोज्यान्नः ।
अपि च) अविधिनेत्येव । यश्चाऽविधिना उत्सर्गेष्ट्या विनाऽग्नीनपास्यति
सोऽप्यभोज्यान्नः ॥ ३२ ॥
यश्च सर्वान् वर्जयते सर्वान्नी च श्रोत्रियो निराकृति-
र्वृषलीपतिः ॥ ३३ ॥
यश्च सर्वान् वर्जयते भोजने न कंचिद्भुङ्क्ते न कञ्चिद्भोजयति स
सर्ववर्गी । यश्च सर्वान्नी सर्वेषामन्नं भुङ्क्ते तावुभावप्यभोज्यान्नौ । श्रोत्रिय
इत्युभयोश्शेषः । श्रोत्रियोऽपि सन्नभोज्यान्न एवेति । निराकृतिः निःस्वा-
ध्यायः । निर्व्रत इत्यन्ये । सोऽप्यभोज्यान्न । वृषलीपतिः क्रमविवाहे यस्य
वृषली पत्नी जीवति इतरा मृताः स वृषलीपतिः । स श्रोत्रियोऽप्य-
भोज्यान्न इति ॥ ३३ ॥
इत्यापस्तम्बधर्मसूत्रवृत्तावष्टादशी कण्डिका ॥ १८ ॥

मत्त उन्मत्तो बद्धोऽणिकः प्रत्युपविष्टो यश्च प्रत्युप-
वेशयते तावन्तं कालम् ॥ १ ॥
मदकरद्रव्यसेवया (२) विकृतिं गतो मत्तः । उन्मत्तो भ्रान्तः । बद्धो
निगलितः । अणिकः पुत्रात् श्रुतग्राही, पुत्राचार्य इति शास्त्रेषु निन्दितः।
प्रत्युपविष्टः ऋणादिना कारणेनाऽधमर्णादिकं निरुध्य तत्पार्श्व उपविष्टः ।
प्रत्युपवेशयिता त्वितरः, तस्य परिहारमकुर्वंस्तेन सह कामं
सुचिरमास्यतामित्यासीनः । ता एते मत्तादयस्तावन्तं कालमभो
ज्यान्नाः, यावन्मदाद्यनुवृत्तिः । अपर आह—अणिकः ऋणस्य दाता
प्रत्युपवेष्टुरिदं विशेषणमिति ॥ १ ॥
क आद्यान्नः ॥ २ ॥
यद्येते अभोज्यान्नाः कस्तर्हि आद्यान्नः ? कस्य तर्ह्यन्नमशनीियमिति ।
१. कुण्डलान्तर्गतोऽधिकः क पु २. अप्रकृतिं इति. ख. पु.

१०८ आपस्तम्बधर्मसूत्रे [(प.६.)क.१९
यद्यप्येते अभोज्यान्ना इत्युक्ते परिशिष्टा भोज्यान्ना इति गम्यते । तथा-
प्यनेकमतोपन्यासार्थं प्रश्नपूर्वक आरम्भः ॥ २ ॥
य ईप्सेदिति कण्वः ॥ ३ ॥
य एव प्रार्थयते स एवाऽऽश्यान्न इति कण्व ऋषिर्मन्यते (१)प्रति-
षिद्धवर्जम् ॥ ३ ॥
पुण्य इति कौत्सः ॥ ४२ ॥
सर्ववर्णानां स्वधर्मे वर्तमानाना' (१८.१३.) मित्युकत्वात् भोज्यान्ना-
स्सर्वे पुण्या एव । इह पुनः पुण्यग्रहणमतिशयार्थम् । तपोहोमजप्यैः
स्वधर्मेण च युक्त पुण्य । स स्वयमप्रार्थ्यमानोऽपि भोज्यान्न इति कौ-
त्सस्य पक्षः ॥ ४ ॥
यः कश्चिद्दद्यादिति वार्ष्यायणिः ॥ ५ ॥
यः कश्चित्पुण्योऽपुण्यो वा सततं दानशील. । स भोज्यान्न इति वार्ष्या-
यणिराह ।
तथा च मनुः—
(२)श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत् ।' इति ॥ ५ ॥
अत्रोपपत्तिः—
यदि हि रजः स्थावरं पुरुषे भोक्तव्यमथ चेच्चलं दानेन
निर्दोषो भवति ॥ ६ ॥
रजः पापम् । तद्यदि पुरुषे कर्तरि स्थावरं स्थिरं नोपभोगमन्तरेण
क्षीयते तदा ततः प्रतिग्रहेऽपि भोक्तरि संक्रमाभावात् भोक्तव्यम् ।
अथ चेच्चलमुपभोगमन्तरेणाऽपि क्षीयते तदा सततदानशीले न मुहूर्त-
मपि पापमवतिष्ठत इति कुतो भोक्तुर्दोष इति ॥ ६ ॥
शुद्धा भिक्षा भोक्तव्यैककुणिकौ काण्वकुत्सौ तथा
पुष्करसादिः ॥ ७ ॥
धार्मिकेणोद्यता आहृता भिक्षा शुद्धा । सा भोज्येत्येकादीनां पञ्चानां
पक्षः । पुष्करसादिः(३) पौष्करसादिः । आदिवृद्ध्यभावश्छान्दसः ॥ ७ ॥
१. प्रतिषिद्धवर्जम् , इति नास्ति क. पुस्तके ।
२. म. स्मृ ४ २२८ ३. 'आचार्यः' इत्यधिक क. पुस्तके,

भोज्यान्नाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १०९
सर्वतोपेतं वार्ष्यायणीयम् ॥ ८ ॥
सर्वत उपेतं सर्वतोपेतम् । छान्दसो गुणः । उपेतमयाचितोपप-
न्नम् । तत्सर्ववर्णेष्वपि भोज्यमिति वार्ष्यायणीय मतम् ॥ ८ ॥
इदानीं स्वमतमाह—
पुण्यस्येप्सतो भोक्तव्यम् ॥ ९ ॥
कण्वकुत्सयोः पक्षौ समुच्चितावाचार्यस्य पक्षः(१) ॥ ९ ॥
पुण्यस्याऽप्यनीप्सतो न भोक्तव्यम् ॥ १० ॥
यः प्रार्थितोऽपि नेत्यसकृदुक्त्वा कथंचिदापादितेप्सः(२) सोऽनी-
प्सन्नित्युच्यते, तस्य पुण्यस्याप्यभोज्यमिति । अपर आह—अनीप्सत
इति कर्तरि षष्ठी । पुण्यस्याप्यन्नं न भोज्यं, यदि भिक्षमाणः पूर्ववैरा-
दिना स्वयमनीप्सन् भवतीति ॥ १० ॥
यतः कुतश्चाऽभ्युद्यतं भोक्तव्यम् ॥ ११ ॥
‘सर्वतोपेत’ (१९८.) मित्युक्तमेव पुनरुच्यते विशेषविवक्षया ॥११॥
तमाह—
नाऽननियोगपूर्वमिति हारीतः ॥ १२ ॥
‘अद्य तुभ्यमिदमाहरिष्यामि तद्भवता ग्राह्य’मिति निवेदनं नियो
गः। तदभावः अनियोगः । पुनर्नञ्समासः । द्वौ नञौ प्रकृतमर्थं गम-
यत । अननियोगो नियोगः तत्पूर्व चेदभ्युद्यतं न भोज्यमिति ॥ १२ ॥
अथ पुराणे श्लोकावुदाहरन्ति—
(३)उद्यतामाहृतां भिक्षां पुरस्तादप्रवेदिताम् ।
भोज्यां मेने प्रजापतिरपि दुष्कृतकारिणः ॥
न तस्य पितरोऽश्नन्ति दश वर्षाणि पञ्च च ।
न च हव्यं वहत्यग्निर्यस्तामभ्यधिमन्यते ॥ इति॥१३॥
१. 'आचार्यस्य पक्षेण' इति क, पु. २. सोऽल्पेप्सुस्सन्ननीप्सन्नित्युच्यते' इति क पु.
३. नाद्यतनभविष्यत्पुराणीयमिदं वचनम् । Cf मनु ४. २५१ २५२.

११० आपस्तम्बधर्मसूत्रे [ (प्र.६.)क. १९.
अथ अपि च पुराणे-
(१)सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च ।
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥'
इत्येवलक्षणे भविष्यदादौ । उद्यता हस्ताभ्यामुद्यम्य धारिताम् । आहृतां
स्वयमानीताम् । पूर्वमनिवेदितां भिक्षाम् । दुष्कृतकारिणोऽपि सकाशात्
भोज्या मेने प्रजापतिर्मनुः, मनुः प्रजापतिरस्मीति(२)दर्शनात् । यस्तु तामभ्य-
धिमन्यते प्रत्याचष्टे तस्य पितरः कव्य नाश्नन्ति । कियन्तं कालम् ? दश वर्षाणि
पञ्च च । अग्निश्च हव्यं न वहति । तावन्तमेव कालमिति प्रत्याख्यातुर्निन्दा-
र्थवादः ॥ १३ ॥
(३)चिकित्सकस्य मृगयोश्शल्यकृन्तस्य पाशिनः ।
कुलटायाष्षण्डकस्य च तेषामन्नमनाद्यम् ॥१४॥
चिकित्सको भिषक् । मृगयुर्मृगघाती लुब्धकः । शल्यकृन्तः शस्त्रेण ग्र-
न्थ्यादीनां छेत्ता अम्बष्ठः । पाशी पाशवान् पाशजालेन मृगादीनां ग्राह-
कः । कुलात्कुलमटतीति कुलटा व्यभिचारिणी । षण्डकः तृतीयाप्रकृतिः ।
एतेषां चिकित्सकादीनामन्नमनाद्यम् । चिकित्सकषण्डकयोः पुनर्वच-
नमुद्यतस्याऽपि प्रतिषेधार्थम् । (४) पूर्वत्र तर्हि ग्रहणं शक्यमकर्तुम् । एवं
तर्हि सूत्रकारस्य स प्रतिषेधः । अयं तु पुराणश्लोके प्रतिषेध इत्यपौन-
रुक्त्यम् ॥ १४ ॥
अथाऽप्युदाहरन्ति --
अन्नादे भ्रूणहा मार्ष्टि अनेना अभिशंसति ।
स्तेनः प्रमुक्तो राजनि याचन्ननृतसङ्करे ॥ इति ॥१५॥
षडङ्गस्य वेदस्याऽध्येता भ्रूण । तं यो हतवान् स भ्रूणहा । सोऽन्नादे
मार्ष्टि लिम्पति । किम् ? प्रकरणादेन इति गम्यते । भ्रूणघ्नो योऽन्नमत्ति
तस्मिंस्तदेनः संक्रामति । तस्मात्तस्योद्यतमप्यभोज्यामिति प्रकरणस-
ङ्गतः पादः । इतरत् पुराणश्लोके पठ्यमाने पठितम् । अनेनसं योऽभि-
शंसति मिथ्यैव ब्रूते-इदं त्वया कृतमिति । स तस्मिन्नभिशंसति तदेनो
१. अमरको. १. वा ५.
२. मनु प्रजापतिर्यस्मिन्निति दक्षे दर्शनात् , इति क. पु. प्रजापतिर्यस्मिन्निति मानवे
दर्शनात्' इति ख. पु.
३. Cf मनु. ४. २११. २१२ ४ पूर्वत्र तर्हि ग्रहणस्य वैयर्थ्यम् ।

उज्ज्वलोपेते प्रथमः प्रश्नः । १११
मार्ष्टि । मनुस्तु—
(१)पतितं पतितेत्युक्त्वा चोरं चोरेति वा पुनः ।
वचनात्तुल्यदोषस्स्यान्मिथ्या द्विर्दोषभाग्भवेत् ॥
इति द्वैगुण्यमाह । तदभ्यासे द्रष्टव्यम् । स्तेनः प्रकीर्णकेश’ (२५ ४.)
इति वक्ष्यति । स एव तृतीयस्य पादस्याऽर्थः । कर्तृभेदादपौनरुक्त्यम् ।
सङ्गरः प्रतिज्ञा प्रतिश्रवः । सत्यसङ्गर इति यथा । यः प्रतिश्रुत्य न ददाति
सोऽनृतसङ्गर इति । ककारस्तु छान्दसः । तस्मिन् याचकः स्वयमेनो
मार्ष्टि । तस्मात्प्रतिश्रुतं देयमिति ॥ १५ ॥
॥ इत्यापस्तम्बसूत्रवृत्तावेकोनविंशी कण्डिका ॥ १९ ॥
इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु-
ज्ज्वलायां प्रथमप्रश्ने षष्ठः पटलः ॥ ६ ॥
१ म. स्मृ. श्लोकोऽयमिदानीं मुद्रितकोशेषु नोपल+यते ।

अथ सप्तमः पटलः ॥
नेमं लौकिकमर्थं पुरस्कृत्य धर्मान्श्चरेत् ॥ १ ॥
इमं लौकिकं लोके विदितं ख्यातिलाभपूजात्मकम्, अर्थं प्रयोज-
नम् । पुरस्कृत्य अभिसन्धाय । धर्मान् चरेत् ॥ १ ॥
किं कारणम् ?
निष्फला ह्यभ्युदये भवन्ति ॥ २ ॥
हि यस्मादेवं क्रियमाणा धर्मा अभ्युदये फलकाले निष्फला भव-
न्ति । (१)लोकार्थं ह्यसौ धर्मं चरति, न कर्तव्यमिति श्रद्धया । न च
श्रद्धया विना धर्मः फलं साधयति । (२) 'यो वै श्रद्धामनारभ्ये'ति श्रुतेः॥
किमेवेदानीं दृष्ट फलं त्याज्यमेव ? नेत्याह-
तद्यथाऽऽम्रे फलार्थे(३)निमित्ते छाया गन्ध इत्यनूत्पद्येते,
एवं धर्मं चर्यमाणमर्था अनूत्पद्यन्ते ॥ ३ ॥
तदिति वाक्योपन्यासे । फलार्थे ह्याम्रवृक्षो निर्मीयते आरोप्यते ।
तस्मिन् फलार्थे(४)निमित्ते छाया गन्धश्चाऽनूत्पद्येते। एवं धर्मे चर्यमाणमर्थाः ख्या-
त्यादयोऽनूत्पद्यन्ते अनुनिष्पद्यन्ते । तथैव स्वी कार्या.(५) । न चोद्देश्यतया ।
तथा चाह-
'यथेश्चुहेतोः सलिलं प्रसेचयंस्तृणानि वल्लीरपि च प्रसिञ्चति ।
तथा नरो धर्मपथेन वर्तयन् यशश्च कामांश्च वसूनि चाऽश्नुते ॥'इति॥३॥
नो चेदनूत्पद्यन्ते न धर्महानिर्भवति ॥ ४ ॥
यद्यपि दैवादर्था नाऽनूत्पद्यन्ते तथापि धर्मस्तावद्भवति । स च स्व-
तन्त्रः पुरुषार्थः । किमन्यैरर्थैरिति ॥ ४ ॥
अनसूयुर्दुष्प्रलम्भः स्यात्कुहकशठनास्तिकबालवादेषु॥५॥
कुहक प्रकाशे शुचिरेकान्ते यथेष्टचारी । शठः वक्रचित्तः । नास्तिक.
१ लोकभक्त्या इति क. पु
२. तै. स १. ६ ८. यो वै श्रद्धामनारभ्य यज्ञेन यजते नास्येष्टाय श्रद्दधते, इति
श्रुतिः । अस्या अयमर्थः-
३. ४. निमिते इति क पु. ५. नचोद्देश्यतया इति नास्ति क.

धर्मलक्षणम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । ११३
(१)प्रेत्यभावापवादी । बालः श्रुतरहितः । एतेषां वादेषु अनसूयुः स्यात् ।
असूयया द्वेषो लक्ष्यते । द्वेष्टा न स्यात् । तान् विषयीकृत्य द्वेषमपि न
कुर्यात् । तथा दुष्प्रलम्भश्च स्यात् । प्रलम्भनं विसंवादनं मिथ्याफलाख्यानम् ।
(२)गृधिवञ्च्योः प्रलम्भन' इति दर्शनात् । दुष्प्रलम्भो विसंवादयितुं
मिथ्याफलाख्यानेन प्रवर्तयितुमशक्यः । कुहकादिवादेषु वञ्चितो न
स्यात् । तद्वशो न स्यादित्यर्थः ॥ ५ ॥
वञ्चनस्य सम्भवमाह—
न धर्माधर्मौ चरत 'आवां स्व' इति, न देवगन्धर्वा न
पितर इत्याचक्षतेऽयं धर्मोऽयमधर्म, इति ॥ ६ ॥
आवामिति छान्दस रूपम् । भाषायां तु(३)'प्रथमायाश्च द्विवचने
भाषाया'मित्यात्व प्राप्नोति । यदि हि धर्माधर्मौ विग्रहवन्तौ गोष्याग्रव-
च्चरेतामावा स्व इति ब्रुवाणौ, यदि वा देवादयः प्रकृष्टज्ञाना ब्रूयुरिमौ
धर्माधर्माविति ततः कुहकादिवादेषु न स्याद्वञ्चना । तदभावात्तु वञ्च-
नासम्भव इति । इदं चात्र द्रष्टव्यम्—प्रत्यक्षादेर्न गोचरौ धर्माधर्मौ ।
किंतु नित्यनिर्दोषवेदगम्यौ । तदभावे तन्मूलधर्मशास्त्रगम्याविति ॥ ६ ॥
यत्र तु प्रायश्चित्त्तादौ विषयव्यवस्था दुष्करा तत्र निर्णयमाह—
यं त्वार्याः क्रियमाणं प्रशंसन्ति स धर्मो, यं
गर्हन्ते सोऽधर्मः ॥ ७ ॥
आर्याः शिष्टास्त्रैवर्णिकाः । बहुवचनाच्चत्वारस्त्रयो वा । यथाऽऽह या-
ज्ञवल्क्यः—
(४)‘चत्वारो वेदधर्मज्ञाः पर्षत्त्रैविद्यमेव वा ।
सा ब्रूते यं स धर्मस्स्यादेको वाऽध्यात्मवित्तमः ॥’ इति ॥७॥
इदानीं श्रुतिस्मृत्योः प्रत्यक्षयोरदर्शने शिष्टाचारादप्यवगम्य धर्मः
कार्य इत्याह—
सर्वजनपदेष्वेकान्तसमाहितमार्याणां वृत्तं सम्य-
ग्विनीतानां वृद्धानामात्मवतामलोलुपाना-
मदाम्भिकानां वृत्तसादृश्यं भजेत ॥८॥
सम्यग्विनीताः । आचार्याधीनः स्या'(२.१९)दित्यादिना विनयनसम्प
१. प्रेत्याभाववादी इति. क पु. २. पा. सू. १. ३ ६९.
३. पा. सू. ७. २. ८८ ४ या. स्मृ. १ ९.
आप० ध० १५

११४ आपस्तम्बधर्मसूत्रे [ (प. ७.) क. २०.
ज्ञाः । वृद्धाः परिणतवयसः। यौवने विषयवश्यताऽपि स्यादितीदमुक्तम् ।
आत्मवन्तो जितेन्द्रियाः। अलोलुपा अकृपणाः । अदाम्भिका अधर्मध्वजा,
एकान्तप्रकाशयोरेकवृत्ताः । एवंभूतानामार्याणां सर्वजनपदेषु यदेकान्तेनाऽव्य-
भिचारेण समाहितमनुमतं वृत्तमनुष्ठानम् , न मातुलसुतापरिणयनवत्क-
तिपयविषयम्, तद्वृत्तसादृश्यं भजेत । तदनुरूपं चेष्टेत । न तेषामनुष्ठानं
निर्मूलम्। सम्भवति च वेदिकानामुत्सन्नपाठब्राह्मणानुभव इति ॥ ८ ॥
एवमुभौ लोकावभिजयति ॥ ९ ॥
एव श्रुतिस्मृतिसदाचारमूलमनुष्ठानं कुर्वन् उभौ लोकावभिजयति
इमं चाऽमुं च ॥ ९ ॥
अविहिता ब्राह्मणस्य वणिज्या ॥ १० ॥
क्रयविक्रयव्यवहारो वणिज्या । सा स्वयं कृता ब्राह्मणस्य वृत्तिर्न विहिता
प्राप्तानुवादोऽ(१)यमपवादविधानार्थ ॥ १० ॥
आपदि व्यवहरेत पण्यानामपण्यानि व्युदस्यन् ॥ ११ ॥
ब्राह्मणवृत्तेरभाव आपत् । तस्यां सत्याम् । पण्यानाम् । (२)व्यवहृ-
पणोः समर्थयो'रिति कर्मणि षष्ठी । व्यवहरेत । क्रयश्च विक्रयश्च व्य-
वहारः, पण्यानि क्रीणीयात् विक्रीणीत चेत्यर्थः । अपण्यानि वक्ष्यमाणानि
व्युदस्यन् वर्जयन् । कृत्स्नाया वैश्यवृत्तेरुपलक्षणमिदम् । क्षत्रियवृत्तिश्च
(३)दण्डापूपिकया सिद्धा । तथा च गौतमः—(४)'तदलाभे क्षत्रिय-
वृत्तिः । स्तदलाभे वैश्यवृत्ति'रिति ॥ ११ ॥
अपण्यान्याह—
मनुष्यान् रसान् रागान् गन्धानन्नं चर्म गवां वशां श्ले-
ष्मोदके तोक्मकिण्वे पिप्पलीमरीचे धान्यं
मांसमायुधं सुकृताशां च ॥१२॥
मनुष्या दारदासादयः । रसा गुडलवणादयः, क्षीरादयो वा । रागाः
कुसुम्भादयः रज्यन्तेऽनेनेति । रज्यन्त इति वा रागा वस्त्रादयः ।
१. नापदि विधानार्थं इति क पु २. पा सू २. ३. ५७.
३. कश्चित् दण्डे प्रोतान् अपूपान् कस्यचित् निकटे निक्षिप्य बहिर्गत्वा पुनः प्रति-
निवृत्य तं पृष्टवान्-क्व मे दण्ड इति । तेनोक्तम्-मूषिकैर्भक्षित इति । तदा तेनाऽर्थापत्त्या
कल्पित यदा दण्डोऽपि मूषिकैर्भक्षितः तदा किमु वक्तव्यमपूपास्तैर्भक्षिता इति । अय दण्डा-
पूपिकान्यायः ॥ ४. गौ. ध. ७ ६, ७