सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 121, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 121

११० आपस्तम्बधर्मसूत्रे [ (प्र.६.)क. १९.
अथ अपि च पुराणे-
(१)सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च ।
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥'
इत्येवलक्षणे भविष्यदादौ । उद्यता हस्ताभ्यामुद्यम्य धारिताम् । आहृतां
स्वयमानीताम् । पूर्वमनिवेदितां भिक्षाम् । दुष्कृतकारिणोऽपि सकाशात्
भोज्या मेने प्रजापतिर्मनुः, मनुः प्रजापतिरस्मीति(२)दर्शनात् । यस्तु तामभ्य-
धिमन्यते प्रत्याचष्टे तस्य पितरः कव्य नाश्नन्ति । कियन्तं कालम् ? दश वर्षाणि
पञ्च च । अग्निश्च हव्यं न वहति । तावन्तमेव कालमिति प्रत्याख्यातुर्निन्दा-
र्थवादः ॥ १३ ॥
(३)चिकित्सकस्य मृगयोश्शल्यकृन्तस्य पाशिनः ।
कुलटायाष्षण्डकस्य च तेषामन्नमनाद्यम् ॥१४॥
चिकित्सको भिषक् । मृगयुर्मृगघाती लुब्धकः । शल्यकृन्तः शस्त्रेण ग्र-
न्थ्यादीनां छेत्ता अम्बष्ठः । पाशी पाशवान् पाशजालेन मृगादीनां ग्राह-
कः । कुलात्कुलमटतीति कुलटा व्यभिचारिणी । षण्डकः तृतीयाप्रकृतिः ।
एतेषां चिकित्सकादीनामन्नमनाद्यम् । चिकित्सकषण्डकयोः पुनर्वच-
नमुद्यतस्याऽपि प्रतिषेधार्थम् । (४) पूर्वत्र तर्हि ग्रहणं शक्यमकर्तुम् । एवं
तर्हि सूत्रकारस्य स प्रतिषेधः । अयं तु पुराणश्लोके प्रतिषेध इत्यपौन-
रुक्त्यम् ॥ १४ ॥
अथाऽप्युदाहरन्ति --
अन्नादे भ्रूणहा मार्ष्टि अनेना अभिशंसति ।
स्तेनः प्रमुक्तो राजनि याचन्ननृतसङ्करे ॥ इति ॥१५॥
षडङ्गस्य वेदस्याऽध्येता भ्रूण । तं यो हतवान् स भ्रूणहा । सोऽन्नादे
मार्ष्टि लिम्पति । किम् ? प्रकरणादेन इति गम्यते । भ्रूणघ्नो योऽन्नमत्ति
तस्मिंस्तदेनः संक्रामति । तस्मात्तस्योद्यतमप्यभोज्यामिति प्रकरणस-
ङ्गतः पादः । इतरत् पुराणश्लोके पठ्यमाने पठितम् । अनेनसं योऽभि-
शंसति मिथ्यैव ब्रूते-इदं त्वया कृतमिति । स तस्मिन्नभिशंसति तदेनो
१. अमरको. १. वा ५.
२. मनु प्रजापतिर्यस्मिन्निति दक्षे दर्शनात् , इति क. पु. प्रजापतिर्यस्मिन्निति मानवे
दर्शनात्' इति ख. पु.
३. Cf मनु. ४. २११. २१२ ४ पूर्वत्र तर्हि ग्रहणस्य वैयर्थ्यम् ।