ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
भारत में सार्वजनिक क्षेत्र (पब्लिक डोमेन) · कॉपीराइट समस्या बताएँ
इस ग्रन्थ के बारे में
ऐतरेय आरण्यक ऋग्वेद की ऐतरेय शाखा से जुड़ा आरण्यक-ग्रन्थ है, जो ऐतरेय ब्राह्मण के बाद आता है। परम्परा इसके पहले तीन आरण्यकों को महिदास ऐतरेय से जोड़ती है। इसमें महाव्रत नामक सोमयाग के अनुष्ठान, उससे जुड़े शस्त्रों (स्तुति-पाठों) और उनके आध्यात्मिक अर्थ की चर्चा है। द्वितीय आरण्यक के चौथे से छठे अध्याय ऐतरेय उपनिषद् कहलाते हैं, और तृतीय आरण्यक को संहितोपनिषद् कहा जाता है, जिसमें वैदिक पाठ के स्वरूपों का विचार है।
पूरा ग्रन्थ पाँच आरण्यकों में बँटा है, और प्रत्येक आरण्यक अध्यायों और खण्डों में। इस संस्करण में मूल पाठ के साथ आचार्य सायण का संस्कृत भाष्य दिया गया है, जो वैदिक शब्दों और अनुष्ठान के अर्थ को खोलकर समझाता है।
स्कैन किए गए पृष्ठों के अनुसार यह आनन्दाश्रम संस्कृत ग्रन्थावलि का ३८वाँ ग्रन्थ है, जिसे बाबाशास्त्री फडके ने संशोधित किया और हरि नारायण आपटे ने पुणे के आनन्दाश्रम मुद्रणालय से शक १८२० (सन् १८९८) में प्रकाशित किया। आरम्भ में उन हस्तलिखित प्रतियों की सूची है जिनके आधार पर पाठ तैयार हुआ। इस प्रति में ३०४ पृष्ठ हैं।
७८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
“ अनश्वः ” इत्यादिकं नवर्चमृभुदेवताकं सूक्तं द्यामृभवः पृथिवीं यच्च पुष्यथेति तत्र स्वयमाभीत्वा(स्वयमेवाऽऽर्भवत्वा)त् । तत्सूक्तं शंसेत् ।
तत्र प्रथमायामृचि द्वितीयपादे त्रिशब्दं प्रशंसति—
रथस्त्रिचक्र इति पदे तन्त्रिवत्तदन्तो वै
त्रिवदन्त एतदहरेतस्याह्नो रूपम्, इति ।
“रथस्त्रिचक्रः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंअध्या०५ख०३(१२)] ऐतरेयारण्यकम् । ७९
“ आ नः ” इत्यादिकं दशर्चं विश्वे(श्व)देवदेवताकं सूक्तं पठेत् । अस्मिन्सूक्ते नवर्चः शस्त्वा दशमीमवशेष्य तन्मध्ये विश्वे देवाः सोमस्य मत्सन्नित्यादीनि निवित्पदानि धीयन्ते प्रक्षिप्यन्ते तस्मादेतन्निविद्धानं तच्च मूलप्रकृतावग्निष्टोम एकाहे समुत्पन्नत्वादैकाहिकं सूक्तं पठेत् । अत एव रूपसमृद्धम् ।
अरिष्टशान्तिहेतुत्वेन सूक्तं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें८० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१प्रथमारण्यके-
सूक्तान्तरं विधत्ते—
इमं स्तोममर्हते जातवेदस इति जातवेदस्यं समानोदर्कं समानोदर्कं वा एतदहरेतस्याह्नो रूपमह्नो रूपम् , इति ॥
**इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके पञ्चमाध्याये तृतीयः खण्डः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंअथ द्वितीयारण्यकम्।
प्रथमोऽध्यायः।
तत्र प्रथमः खण्डः।
यस्यै निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥ १ ॥
प्रथमारण्यके कर्म महाव्रतमुदीरितम्।
संवत्सराख्यसत्रस्य शेषः पूर्णोऽत्र तावता॥ २ ॥
तदीया विकृतिः सर्वा प्रोक्तैवेति मनीपया।
कर्मकाण्डं समाप्यैव वेदो ज्ञानं विवक्षति॥ ३ ॥
आरण्यकं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें८२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२द्वितीयारण्यके-
[तै०ब्रा० ३।१२।९] इति। “तं त्वौपनिषदं पृच्छामि” [बृ० ३।९।२६] इति च। तथा
सत्यनान्यलभ्यमौषधादिकं यथा चिकित्सादिशास्त्रस्य विषयस्तथा तत्त्वमद्वैतमुपनिषदो
विषयः। प्रयोजनं चाऽऽत्मतत्त्वाविर्भावादिकम् । तत्र सर्वात्मकपरब्रह्मस्वरूपात्माविर्भावः
प्रथमं फलम्। “आत्मनैवाऽऽत्मानं पश्यति” इति श्रुतेः। तत ऊर्ध्वमविद्याग्रन्थिर्विकीर्यते।
“एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह नाम्यः” [मु० २।१।१०] इति
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंअध्या० १। ख० १] ऐतरेयारण्यकम् । ८३
मुक्तिरेव परिशिष्यत इति । तदयुक्तम् । अनन्तयोर्निषिद्धकाम्ययोः सर्वात्मना परि-
त्यागासंभवान्नित्यनैमित्तिकयोरपि फलसद्भावशङ्काज्जन्मान्तरकृतानां च बहुजन्महे-
तूनां संभवान्नास्ति ज्ञानमन्तरेण मुक्तिः । अन्ये तु ज्ञानप्राधान्येन वा कर्म-
प्राधान्येन वोभयप्राधान्येन वा ज्ञानकर्मणोः समुच्चयो मुक्तिहेतुरित्याहुः ।
तदयुक्तम् । परस्परविरुद्धयोः समुच्चयासंभवात् । निर्विकारात्मबुद्धिर्ज्ञानम्, अहं
कर्ता ममेदं कुलमिति भ्रान्त्या
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें८४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [२द्वितीयारण्यके-
वेदान्तानां कार्यपरत्वं नोपपद्यते । सत्यज्ञानादिवाक्येषु यथोक्तवासनानिरोधादिविधे-
रप्रतिभासात् । अनर्थनिवारकत्वेन सुषुप्त्यादौ दृष्टत्वाद्वासनामनोनिरोधावपेक्षिताविति
चेत् । एवं तर्हि सुषुप्त्यादिदृष्टान्तेनान्वयव्यतिरेकसिद्धत्वादेतौ शास्त्रेण न विधा-
तव्यौ । नापि तृतीयः पक्षः । कर्तुमकर्तुमन्यथा वा कर्तुमशक्यत्वेनापुरुषतन्त्रायाः
प्रमाणैकजन्यायाः प्रतिपत्तेर्विध्यसंभवात् । नापि चतुर्थः । शब्दयुक्त्यावृत्तिरूपस्य
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंअध्या० १ ख० १] ऐतरेयारण्यकम् । ८५
त्मनः स्वप्रकाशत्वेन घटादिवत्प्रमेयत्वं नास्तीति चेत् । मैवम् । घटादिग्राहकेष्वपि वास्तवेषु ज्ञानेषु न्यायतो विचार्यमाणेष्वात्मन एव प्रमेयत्वात् । तथा हि—यत्प्रमातुमर्हं तत्प्रमेयं तदर्हत्वं चाज्ञातत्वादात्मन एव युज्यते न तु घटादेः । अज्ञानेनाऽऽवृतत्वमज्ञातत्वम् ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें८६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
नन्वेवं सति विषयत्वनिरूपणाय पूर्वोक्तमनन्यलभ्यत्वं विपर्येतीति चेत् । न ।
मूढान्प्रत्यनन्यलभ्यत्वोपन्यासात् । ब्रह्मविद्दृष्ट्या तु सर्वैरपि प्रमाणैर्ब्रह्मैव प्रमीयते ।
अतः प्रमेयत्वं तस्य युक्तम् । किंचाऽऽनन्दस्वरूपत्वेन पुरुषार्थत्वादपि प्रमेयत्वं
युक्तम् । तदेवं विषयप्रयोजनसंबन्धाधिकारिप्रमाणप्रमेयाणां सद्भावाद्याख्यातं योग्ये-
त्युपनिषद्याख्या प्रारभ्यते । तत्राऽऽदौ परमपुरुषार्थकामिनां श्रोतॄणां तत्साधनरूपं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंअध्या० १ ख० १] ऐतरेयारण्यकम् । ८७
तमेवानतिक्रमं स्वपक्षसाधनपरपक्षदूषणाभ्यां द्रढयति—
न ह्यत्यायन्पूर्वे येऽत्यायंस्ते परा बभूवुः, इति ।
पूर्वे महर्षयो व्यासवसिष्ठादयस्तमुक्तं पन्थानं नैवात्यायन्नात्यक्रामन् । ये तु नास्तिका अत्यक्रामंस्ते पराबभूवुः पराभूताः पुरुषार्थाद्भूष्टाः ।
ब्राह्मणेनोक्तस्यार्थस्य दाढर्याय मन्त्रमुदाहरति—
तदुक्तमृषिणा प्रजा ह तिस्रो अत्यायमीयु-
र्न्य१न्या
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें८८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
प्रजानामेको भागः । वङ्गा वनगता वृक्षा अवगधा अवन्ति मनुष्यादीन्रक्षन्ति तैर्गृ-
ध्यन्तेऽभिकाङ्क्ष्यन्त इति व्रीहियवाद्या ओषधयोऽवगधाः । "गृधु अभिकाङ्क्षा-
याम्" इति धातोर्गधशब्दनिष्पत्तिः । सोऽयमोषधिवनस्पतिरूपः प्रजानां द्वितीयो
राशिर्भूमौ वर्तते । ईरपादा उर(रः)पादाः सर्पा भूबिलवासिनः सोऽयं तृतीयो राशिः ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंअध्या० १।ख० २] ऐतरेयारण्यकम् । ८९
अथ द्वितीयः खण्डः ।
पूर्वोत्तरकाण्डार्थरूपो द्विविधो मार्ग उपदिष्टः । तत्र “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन” [ बृ० उ० ६ । ४ । २२ ] इत्येवं विविदिषाहेतुत्वश्रवणात्प्रथममनुष्ठेयत्वेन पूर्वकाण्डे यज्ञादीनि कर्माण्युक्तानि । तैः कर्मभिरुत्पन्नायामपि विविदिषायाम् “दृश्यते त्वग्र्यया बुद्ध्या” [काठ० ३ । १२] इति श्रुतेरेकाग्रचित्तस्यैव ब्रह्मदर्शने
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंद्वितीयो विचारश्चतुर्थाध्यायस्य प्रथमपादे दर्शितः-
९० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२द्वितीयारण्यके-
द्वितीयो विचारश्चतुर्थाध्यायस्य प्रथमपादे दर्शितः-
“आदित्यादवाऽङ्गदृष्टिरङ्गे रव्यादिधीरूत ।
नोत्कर्षो ब्रह्मजत्वेन द्वयोस्तेनैष्ठि(च्छि)की मतिः ।
आदित्यादिधियाऽङ्गानां संस्कारे कर्मणः फले ।
युज्यतेऽतिशयस्तस्मादङ्गेष्वर्कादिदृष्टयः ॥
“ य एवासौ तपति तमुद्गीथमुपासीत ” इत्यादित्यदेवतां प्रतीकं कृत्वा कर्माङ्ग-
भूतोद्गीथदृष्टिः कर्तव्या ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंपञ्चमो विचारस्तत्रैव दर्शितः—
अध्या० १। ख० २] ऐतरेयारण्यकम् । [९१
निर्णयः पूर्वोक्तः । अत्र कर्माङ्गेषु समुच्चययथाकाम्ये विचार्येते । तत्र कर्माङ्गानि समुच्चित्यैवानुष्ठेयतया प्रयोगविधिप्रापितानि । तथा चाङ्गतन्त्रत्वादङ्गावबद्धोपासनानामपि समुच्चयनियम इति प्राप्ते ब्रूमः—"ग्रहं¹ वा गृहीत्वा चमसं² वोन्नीय स्तोत्रमुपाकुर्यात्” “स्तुतमनुशंसति” इत्यादौ यथा ग्रहस्तोत्रशंसनादीनां नियतपौर्वापर्येण सहभावः श्रुतो न तथोपासनेषु श्रूयते ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें९२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
पृथिवीतो हीदं सर्वमुत्तिष्ठति यदिदं किंच, इति ।
उक्थं शस्त्रम्, उत्तिष्ठत्यनेन देवताप्रसाद इति व्युत्पत्तेः । तत्र यज्ञं निष्पादयन्तो होतुर्यजमानादयः प्रजास्तत्तच्छस्त्रे ध्यातव्यं रहस्यं स्वरूपमज्ञात्वा केवलं नाममात्रेणोक्थमुक्थमित्येव व्यवहरन्ति । तद्रहस्यं त्वभिधीयते—तदुक्थस्वरूपमिदमेव वक्ष्यमाणं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंअध्या० १ ख० २] ऐतरेयारण्यकम् । ९३
व्यवस्थितम् । आत्मानं मनुष्यशरीरमधिकृत्य प्रवृत्तं ध्यानमध्यात्मम् । तत्त्वथानन्त-
रमभिधीयते ।
तत्राऽऽदौ शस्त्रे शरीरदृष्टिं विधत्ते—
पुरुष एवोक्थमयमेव महान्प्रजाप-
तिरहमुक्थमस्मीति विद्यात्, इति ।
शिरःपाण्यादिमान्देहः पुरुषस्तस्य महत्त्वं श्रेष्ठत्वम् “अयं पुरुषो ब्रह्मणो लोकः” [ ऐ० आ० २ अ० १ ख० ३ ] इत्यत्र वक्ष्यते ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें९४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
देवे प्राणदृष्टिमशीतिष्वन्नदृष्टिं च विधत्ते—
तस्य प्राणोऽर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते, इति।
भ्रुवोरधस्तान्नासिकाया मूलं निम्नदेशं प्रशंसति—
तदेतद्ब्रध्नस्य विष्टपं यदेतन्नासिकायै विनतमिव, इति।
नासिकायाः संबन्धि विशेषेण नतमत्यन्तनिम्नं यन्मूलमस्ति तदेतद्ब्रध्नस्याऽऽदित्यस्य विष्टपं स्थानम्। “असौ वा
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंअध्या०१ख०२] ऐतरेयारण्यकम् । ९५
सर्वमुत्तिष्ठति यदिदं किंच, इति ।
लोके यदन्नमस्ति यच्चान्नादं भोक्तृजातं तदिदं सर्वजगद्रूपमियमेव पृथिवी । पृथिव्यास्तदात्मकत्वं ध्येयमित्यर्थः । यत्किंचिदिदं भोक्तृभोग्यजातमस्ति तत्सर्वमितः पृथिव्याः सकाशादुत्पन्नं तस्मात्तदात्मकत्वं युक्तं पृथिव्याः ।
कृत्स्नभोक्तृभोग्यात्मकत्वमुपपादयति—
यद्ध किं चेदं प्रेता३इ तदसौ सर्वमत्ति यदु किं चातः
प्रैती ३ँ तदियं सर्वमत्ति सेयमित्याद्याऽत्री, इति ।
यत्किंचेदं प्राणिजातं पृथिव्यां वर्तमानं प्रेतं प्रे(प्रै)ति म्रियते । “ईर गतौ” [ अदा० ग० आ० ] इत्यस्य धातोः प्रपूर्वस्य मरणार्थकत्वं द्रष्टव्यम् । “इण् गतौ” [ अदा० ग० प० ] इति धातौ तद्दर्शनात् । भूमौ मृतं तत्सर्वं प्राणिजातं स्वानुष्ठित-पुण्यकर्मवशात्स्वर्गे गच्छति । तच्च स्वर्गस्थमसौ स्वर्गलोकोऽत्ति भक्षयति वशी करोति । यदु किंच यदपि किंचित्स्वर्गस्थं प्राणिजातं स्वकर्मफलभोगे समाप्ते सत्यतोऽस्मात्स्व-र्गात्प्रैति मृतो( त्वा ) भूमावागच्छति तत्समागतं सर्वं प्राणिजातमियं भूमिरत्ति भक्षयति वशी करोति । भूमौ यागं कुर्वन्तो यजमाना मरणादूर्ध्वं स्वर्गं भुक्त्वा पुनर्भूमा-वागच्छन्तीति वाक्यद्वयस्यार्थः । तत्प्रसिद्ध्यर्थं¹ श्रुतिद्वयं द्रष्टव्यम् । प्रेत इत्येकारस्या-कारश्रुतिरिकारसहिता व्याकरणे विहिता [ पा० सू० अ० ८ पा० २ सू० १०७ ] । एवं सति सेयं भूमिरित्युक्तेन प्रकारेणाऽऽद्याऽपि भवति । अत्री च भवति । भूमिष्ठानां यजमानानां स्वर्गे यद्देवतापारतन्त्र्यं तदेतद्भूमेराद्यत्वम् । स्वर्गस्थानां च पुनरागमने सति तेषां वशीकरणलक्षणं स्वातन्त्र्यं भूमेरत्तृत्वम् । अनेन प्रकारेण कृत्स्न-भोग्यभोक्तृरूपा पृथिवी ।
एतद्गुणध्यानस्य फलमाह—
अत्ता ह वा आद्यो भवति, इति ।
अत्ता योऽयं लोके भोक्ता यश्चाऽऽद्यो भोग्यः पदार्थस्तदुभयरूपेण सर्वात्मको भवतीत्यर्थः ।
ननु लोके कश्चित्स्वामी भृत्यैः सेव्यमानो भृत्यानां भोक्ता भवति तथा जीवितप्रदा-तृत्वेन भृत्यैर्भुज्यत इति भोग्योऽपि भवति । अनेन न्यायेन सर्वोऽप्यन्यैरुपकिय-
१ ख. ग. 'सिद्धार्थं ।
९६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [२द्वितीयारण्यके-
माणो भोक्ता स्वयमुपकुर्वन्भोग्यश्च भवति। तथा सत्युपासनफलरूपे भोक्तृभोग्यात्म-
कत्वे को नाम विशेष इत्याशङ्कयाऽऽह—
न तस्येशे यन्नाद्याद्यदैनं नाद्युः, इति।
इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये
द्वितीयः खण्डः ॥ २ ॥
अनुपासको लौकिकः पुरुषः स्वधर्मकर्मप्राप्तमशनादिकं कियदेवात्ति न तु सर्वं सर्वस्य स्वकर्मप्रापि[त]त्वाभावात्। तथा सति यद्वस्तु स्वयं नाद्यान्न भुञ्जीत तस्य वस्तुनो नेशे नेष्टे स्वामी न भवति। उपासकस्तु हिरण्यगर्भरूपः सन्सर्वमत्तीति सर्वस्य स्वामी। सोऽयमेको विशेषः। वाशब्दः समुच्चयवाची। यद्वा यस्माच्च कारणादेनमुपासकं नाद्युरन्ये पुरुषा न भुञ्जीरंस्तस्मात्पराधीन लक्षणं भोग्यत्वं नास्ति, अनुपासकस्य तु तदस्तीत्ययमपरो विशेषः। ननु भोग्यत्वाभावे सत्याद्यो भवतीति कथमुच्यते। नायं दोषः। पराधीनत्वलक्षणस्य भोग्यत्वस्यैव निषेधात्। आद्यो भवतीत्यनेन तु स्वात्मभूतसर्वभोग्यजातरूपत्वमभिधीयत इति न कोऽपि विरोधः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये द्वितीयारण्यके प्रथमाध्याये द्वितीयः खण्डः ॥ २ ॥
अथ तृतीयः खण्डः।
पूर्वोक्तेषूक्थेषु पुरुषत्वदृष्टिं विधातुं पुरुषस्य महत्त्वमयमेव महानित्यभिहितम्। तदेतन्महत्त्वमुपपादयति—
अथातो रेतसः सृष्टिः प्रजापते रेतो देवा देवानां
रेतो वर्षं वर्षस्य रेत ओषधय ओषधीनां रेतोऽ-
न्नमन्नस्य रेतो रेतो रेतसो रेतः प्रजाः प्रजानां रेतो
हृदयं हृदयस्य रेतो मनो मनसो रेतो वाग्वाचो रेतः
कर्म तदिदं कर्म कृतमयं पुरुषो ब्रह्मणो लोकः, इति।
अथ पुरुष एवोक्थमित्येवमुक्थे पुरुषदृष्टिकथनानन्तरम् । यतः कारणात्पुरुषस्योक्थत्वं संभावयितुमयमव महानित्युक्तं^१ वैशिष्ट्यं वक्तव्यमतः कारणाद्वैशिष्ट्यसिद्धये रेतसः सारभूतस्य सृष्टिरभिधीयत इति शेषः। आदौ प्रजापतेर्जगदीश्वरस्य रेतः सारभूतं कार्यं देवाः। सात्त्विकत्वाद्देवानां सारभूतत्वं युक्तम्। मनुष्याणां
^१ क. ख. 'त्युक्तवै' ।
अध्या० १ ख० ३] ऐतरेयारण्यकम् । ९७
राजसत्वादृक्षाश्वादीनां तामसत्वाच्च नास्ति सारकार्यत्वम् । तेषां च देवानां रेतः सारभूतं कार्यं वर्षम् । घर्मकाले संतप्ता भूमिवर्षेणाऽऽप्यायते ततोऽस्य सारत्वम् । तस्यापि वर्षस्य सारमोषधयः, प्राप्युपकारकत्वात् । न हि तद्वृष्टिकार्यमपि पङ्कादिकं प्राणिभिः सेव्यते । ओषधीनामप्यन्नं सारं न तु पलालतुषादिकम् । अन्नस्यापि रेतः सारं न तु पुरीषादिकम् । रेतसोऽपि सारं पुत्रादिरूपाः प्रजा नतु वन्ध्यायामृतुष्टष्टस्य सारत्वमस्ति । प्रजानामपि सारं हृद॑यपुण्डरीकं, जीवात्मनः स्थानत्वात् । "हृदि ह्येष आत्मा" इति श्रुतेः । हृदयस्य सारं मनः, ज्ञानशक्तियुक्तत्वात् । न तु मांसमयानामष्टदलानां तच्छक्तिरस्ति । मनसः सारं वेदरूपा वाक् । "यद्धि मनसा ध्यायति तद्वाचा वदति" इति श्रुतेर्वाचो मनःकार्यत्वम् । न तु मनस उत्पन्नानां रागद्वेषादीनां वेदवत्सारत्वमस्ति । वेदस्यापि सारमग्निहोत्रादिकं कर्म, वैदिकमन्त्राणां तदनुष्ठानार्थत्वात् । तदिदं कर्म पूर्वस्मिञ्जन्मनि कृतं सदिह जन्मनि वेदशास्त्रकर्मानुष्ठानब्रह्मोपासनब्रह्मज्ञानयोग्यः पुरुषो भवति, न हि निरतिशयितसुकृतमन्तरेणेदृशं जन्म संभवति । तस्मात्पुरुषो ब्रह्मण उपासनीयस्य वेदनीयस्य च लोकः स्थानमिति तस्य महत्त्वं सिद्धमित्यर्थः ।
तस्य पुरुषस्य हिरण्मयाख्यो गुणो ज्ञानाय विधीयते—
स इरामयो यद्धीरामयस्तस्माद्धिरण्मयः, इति ।
इराशब्दोऽन्नवाची । स पुरुषः शिरःपाण्यादियुक्तोऽन्नमयः । अत एव तैत्तिरीयका आमनन्ति—"स वा एष पुरुषोऽन्नरसमयः " [ तै० उ० २ । १ । १ ] इति । यद्धि यस्मादेव कारणादयमिरामयस्तस्मात्कारणाद्धिरण्मय इत्युपासकानां प्रसिद्धः । इराहिरण्मयशब्दयोरक्षरसाम्यात्तथोच्यते । यथाऽध्यात्ममन्नमय एवमधिदैवं ब्रह्माण्डरूपेण स्वर्णमयः ।
एतद्गुणध्यानस्य फलमाह—
हिरण्मयो ह वा अमुष्मिँल्लोके संभवति हिरण्मयः
सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद, इति ॥
इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये
तृतीय खण्डः ॥ ३ ॥
यः पुमानेवं हिरण्मयैत्वगुणमुपास्ते स पुमान्स्वर्गलोके ज्योतिर्मयो भवति । तथाविधो भूत्वा सर्वप्राण्युपकारार्थमादित्यमण्डलरूपेण सर्वदा दृश्यते ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयारण्यकभाष्ये द्वितीयारण्यके प्रथमाध्याये तृतीयः खण्डः ॥ ३ ॥
१ क. 'दयं पु' । २ क. 'यगु' । ३ क. ख. घ. ड. 'र्थं आदि' !