ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पञ्चमः खण्डः ॥ ५ ॥ ( १३ )
५० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
वा एतदहः पञ्चविंश एतस्याहः स्तोमस्तत्समेन समं
प्रतिपद्यते तस्माद्वे एव पञ्चविंशतिर्भवन्ति, इति ॥
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्याये
पञ्चमः खण्डः ॥ ५ ॥ ( १३ )
“तदिदास” [ ऋ० सं० म० १० सू० १२० ऋ० १ ] इत्यादिकं सूक्तं नवर्चं
“तां सुते” [ ऋ० सं० म० १० सू० ९४ ऋ० १ ] इति सूक्तं षडृर्चं “भूय
इद्धावृधे” [ ऋ० सं० म० ६ सू० ३१ ऋ० १ ] इति पञ्चर्चं “नृणामु त्वा”
[ ऋ० सं० म० ३ सू० ९१ ऋ० ४ ] इत्यमेकस्तृच इत्येताः सर्वास्त्रयोविंशति-
र्भवन्ति । तत्र प्रथमायास्त्रिरावृत्तौ सत्यां पञ्चविंशतिः संपद्यते । आत्मा यजमानः ।
अथाधिदैवं प्रजापतिश्चतुर्मुखोऽपि पञ्चविंशावयवोपेतः । दश हस्त्या इत्यादि पूर्वव-
द्व्याख्येयम् [ ऐ० आ० १–१–२ ] ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये प्रथमारण्यके तृतीयाध्याये पञ्चमः खण्डः ॥ ५ ॥ ( १३ )
अथ षष्ठः खण्डः । ( चतुर्दशः )
“तदिति प्रतिपद्यते ” [ऐ० आ० १ अ० ३ ख० ३] इत्ययं खण्डः पूर्वं तच्छ-
ब्दस्य व्याख्यानार्थं पठितोऽपि पुनः कृत्स्नशस्त्रप्रशंसार्थं पठ्यते—
तदिति प्रतिपद्यते तत्तदिति वा अन्नमन्नमेव तदभिम्र-
तिपद्यत एतां वाव प्रजापतिः प्रथमां वाचं व्याहरदे-
काक्षरद्व्यक्षरां ततेति तातेति तथैवैतत्कुमारः प्रथमवादी
वाचं व्याहरत्येकाक्षरद्व्यक्षरां ततेति तातेति तयैवै तत्तत-
वत्या वाचा प्रतिपद्यते तदुक्तमृषिणा बृहस्पते प्रथमं
वाचो अग्रमित्येतद्धयेव प्रथमं वाचो अग्रं यत्प्रैरत नामधेयं
दधाना इति वाचा हि नामधेयानि धीयन्ते यदेषां श्रेष्ठं
यदद्रिपमासीदित्येतद्ध्येव श्रेष्ठमेतदरिप्रं प्रेणा तदेषां
निहितं गुहाऽऽविरितीदमु ह गुहाऽध्यात्ममिमा देवता अद
बृहस्पते प्रथमं वाचो अग्र०—ऋ० सं० म० १० सू० ७१ ऋ० १ । यत्प्रैरत
नाम०—ऋ० सं० म० १० सू० ७१ ऋ० १ । यदेषां श्रेष्ठं०—ऋ० सं० म०
१० सू० ७१ ऋ० १ । प्रेणा तदेषां०—ऋ० सं० म० १० सू० ७१ ऋ० १ ।
अध्या० ३ ख० ७ (१६)] ऐतरेयारण्यकम् । ५१
उ आविर्धिदैवतमित्येतत्तदुक्तं भवति, इति ॥
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्याये
षष्ठः खण्डः ॥ ६ ॥ ( १४ )
अक्षरार्थः पूर्वमेव [ ऐ० आ० १ अ० ३ ख० ३ ] व्याख्यातः ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये प्रथमारण्यके तृतीयाध्याये षष्ठः खण्डः ॥ ६ ॥ ( १४ )
अथ सप्तमः खण्डः । ( पञ्चदशः )
सूक्तमपि प्रशस्य सामान्येन प्रशंसामभिधाय पुनर्विशेषाकारेण प्रशंसाऽभिधीयते । तत्र प्रथमं सूक्तं प्रशंसति—
तदिदास भुवनेषु ज्येष्ठमिति प्रतिपद्यते यद्वै ज्येष्ठं तन्महन्महद्रूपसमृद्धमेतस्याह्नो रूपम्, इति ।
प्रथमे शस्त्रं प्रारभते । अतिशयेन बहुवृद्धं ज्येष्ठं तादृशम् ।
[*तां सु त इत्यादि प्रशंसति—
तां सु ते कीर्ति मघवन्महित्वेति महद्रूपसमृद्धमेतस्याह्नो रूपम्, इति ।
भूय इत्यादि प्रशंसति—]
भूय इद्धावृधे वीर्यायेति वीर्यवद्रूपसमृद्धमेतस्याह्नो रूपम्, इति ।
भूय इदित्थमिन्द्रो वीर्याय शौर्यार्थं वावृधे वृद्धिं प्राप्तवान् । वीर्यशब्दस्य श्रुतत्वादह्नो रूपस्य वीर्यवत्त्वम् ।
अथ तृचं प्रशंसति—
नृणामु त्वा नृतमं गीर्भिरुक्थैरित्युक्थं वा एतदहरुक्थवद्रूपसमृद्धमेतस्याह्नो रूपम्, इति ।
उत्तिष्ठत्युत्कर्षं प्राप्नोत्येभिरित्युक्थानि शस्त्राणि तद्रूपाभिर्गीर्भिर्हे इन्द्र नृणामु
तदिदास भुवनेषु०—ऋ० सं० म० १० सू० १२० ऋ० १ । तां सु ते की०—ऋ० सं० म० १० सू० ९४ ऋ० १ । भूय इद्धावृ०—ऋ० सं० म० ६ सू० ३१ ऋ० १ । नृणामु त्वा०—ऋ० सं० म० ३ सू० ५१ ऋ० ४ ।
* एतच्चिह्नान्तर्गतो मूलग्रन्थो मूलपुस्तकेभ्य उद्धृत्यान्यश्च प्रकल्प्यात्र निवेशितः ।
५२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
सर्वेषामपि पुरुषाणां मध्ये नृतममुत्तमं पुरुषं त्वामृत्विजोऽर्चन्तीति *प्रष्टव्यम् । तदेतन्महाव्रताख्यमहहरुक्थमुत्कर्षहेतुत्वात् । उक्थवदित्यादि पूर्ववत् [ ऐ० आ० १ अ० २ ख० २ ] ।
सूक्तं प्रशस्य व्यतिषक्तपादयोरक्षरन्यूनतां प्रशंसति—
न्यूनाक्षरे प्रथमे पदे विहरति न्यूने वै रेतः सिच्यते
न्यूने प्राणा न्यूनेऽन्नाद्यं प्रतिष्ठितमेतेषां कामानामक-
रुद्ध्या एतान्कामानवरुन्धे य एवं वेद, इति ।
“तद्दिदास” [ऋ० सं० म० १० सू० १२० ऋ० १] इत्ययं प्रथमपादो दशाक्षरत्वादेकेनाक्षरेण त्रिष्टुभो न्यूनो “नदं वः” [ ऋ० सं म० ८ सू० ६९ ऋ० २ ] इत्ययं पादः सप्ताक्षरत्वादेकेनाक्षरेण न्यूनाऽनुष्टुप्पादद्वयं व्यतिषक्तं भवति । न्यूने वा इत्यादिकं पूर्वमेव [ ऐ० आ० १ अ० १ ख० २ ] व्याख्यातम् ।
“तद्दिदास” [ ऋ० सं० म० १० सू० १२० ऋ० १ ] इत्यस्यामृचि द्वितीयपादाक्षरसंख्यां प्रशंसति—
[+द्वे दशाक्षरे भवत उभयोरन्नाद्ययोरुपाप्त्यै यच्च
पदद्यच्चापादकमित्यष्टादशाष्टादशाक्षराणि भवन्ति यानि
दश नव प्राणा आत्मैव दशमः साऽऽत्मनः संस्कृति-
रष्टावष्टा उद्यन्तेऽश्नुते यद्यत्कामयते य एवं वेद, इति ।]
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्याये
सप्तमः खण्डः ॥ ७ ॥ ( १५ )
*शिरसि सप्तच्छिद्राणि, अधोभागे द्वे, तन्निष्ठत्वेन प्राणानां नवत्वम् । अनेनैवाभिप्रायेण श्रुत्यन्तरे पठ्यते—“सप्त वै शीर्षण्याः प्राणा द्वाववाञ्चाविति नव” [इति] । दशमाक्षरं तज्जीवात्मस्वरूपम् । यथोक्तनवप्राणापेक्षया दशमत्वात् । अतो या दशाक्षरोक्तिः सेयमात्मनः संस्कृतिः, अतिशयहेतुः । चतुर्विधेषु व्यतिषिक्तार्थेषु प्रत्यक्षरोपचये सत्याष्टावष्टावक्षराण्युद्यन्ते, अवशिष्टानि शिष्यन्ते । तान्येवमुक्तप्रकारेण यो वेद स पुमान्यद्यत्कामयते तत्तत्प्राप्नोति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये प्रथमारण्यके तृतीयाध्याये सप्तमः खण्डः ॥ ७ ॥ ( १९ )
* द्रष्टव्यमिति ग. पुस्तके शोधितः पाठः । + एतच्चिह्नान्तर्गतं मूलं मूलपुस्तकेभ्य उद्धृत्यात्र निवेशितम् । * एतस्मात्प्राक् किंचित्त्रुटितम् ।
१ ख. ग. घ. ‘रुक्थं चेदुक्तं’ । २ घ. ‘त्वादुक्तस्वरूपमेव । उ° ।
अध्या० १ ख० ८(१६)] ऐतरेयारण्यकम् । ५३
अथाष्टमः खण्डः । ( षोडशः )
"तदिदास" [ ऋ० सं० म० १० सू० १२० ऋ० १ ] इत्यादिसूक्तगताना-
मृचां "नदं वः" [ ऋ० सं० म० ८ सू० ६९ ऋ० २ ] इत्यादिकया सह यो
व्यतिषङ्गः पूर्वं [ ऐ० आ० १ अ० ३ ख० ९ ] विहितस्तमेतं विधिमनूद्य नद-
शब्दं व्याचष्टे—
ता नदेन विहरति प्राणो वै नदस्त-
स्मात्प्राणो नदन्सर्वः संनदतीव, इति ।
नदशब्दवान्मन्त्रो नद् इत्युच्यते । ताः सूक्तगता ऋचो नदशब्दोपेतमन्त्रेण सह
विहरति व्यतिषजति । तस्मिन्मन्त्रे यो नदशब्दः स प्राणमाचष्टे । प्राणस्य कायो-
पेतत्वात् । यस्मादेवं तस्मादखिलेषु देहेष्ववस्थितः सर्वः प्राणो नदञ्शब्दं कुर्वन्स-
नदतीव, सुषुप्त्यादौ समाश्वासरूपेण सम्यग्ध्वनिं करोत्येव ।
नदशब्दोपेतस्य मन्त्रस्याक्षराणि पादांश्च प्रशंसति—
नदं व ओदतीनामिती१ँ उष्णिगक्षरै-
र्भवत्यनुष्टुप्पादैरायुर्वा उष्णिक्व्वागनुष्टु-
ब्ददस्मिन्नायुश्च वाचं च दधाति , इति ।
नदं व इत्यस्या ऋचश्चत्वारोऽपि पादाः प्रत्येकं सप्ताक्षराः । तृतीये पादेऽघ्रिया
इत्यत्र पकारादिः पृथगक्षरत्वेन गणनीयः । तथा सत्यष्टाविंशत्यक्षरोष्णिक्संपद्यते ।
पादसंख्यया त्वियमनुष्टुप् । चत्वारो ह्यत्र पादाः पठ्यन्ते । उष्णिहस्तु त्रय एव
पादाः । एवमक्षरैः पादैश्च छन्दोद्वयसंपत्तिः । अत्रोष्णिह आयुर्हेतुत्वादनुष्टुभो
वाग्विषयत्वाच्च द्यात्मकस्य तस्य पाठेनास्मिन्यजमान आयुर्वाचं च संपादयति ।
अस्या नद्वत्या ऋचोऽहःसूक्तत्रये तृचे च प्रत्यृचं व्यतिषङ्गे सति वा प्रथमाऽऽवृत्तिः
संपद्यते । " तदिदास " [ ऋ० सं० म० १० सू० १२० ऋ० १ ] इत्यनयो
प्रथमया सह व्यतिषिक्ताया नद्वत्यास्त्रिरावृत्तौ सत्यां मिलित्वा पञ्चविंशतिसंख्या
संपद्यते । तामेतां नद्वत्याः संख्यामृगक्षरसंख्यावत्प्रशंसति—
तास्त्रिः प्रथमया पञ्चविंशतिर्भवन्ति पञ्चविंश
आत्मा पञ्चविंशः प्रजापतिर्दश हस्त्या अङ्गुलयो
दश पाद्या द्वा ऊरू द्वौ बाहू आत्मैव पञ्चविंश-
नदं व ओदतीनां०—ऋ० सं० म० ८ सू० ६९ ऋ० २ ।
१ क. ॰संख्यायास्त्रित्वय॰ । २ क. ॰या पाठेन प्र॰ ।
५४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१प्रथमारण्यके-
स्तमिममात्मानं पञ्चविंशं संस्करुतेऽथो पञ्चविंशं वा एत-
दहः पञ्चविंश एतस्याह्नः स्तोमस्तत्समेन समं प्रतिपद्यते
तस्माद्ध्ये एव पञ्चविंशतिर्भवन्तीत्यध्यात्मं पञ्चविंशः, इति।
पञ्चविंशतिर्भवन्तीत्यन्तं पूर्ववत्—[ ऐ० आ० १ अ० ३ ख० ९ ]व्याख्येयम्। अत्राध्यात्ममधिदैवतं चेत्युभयथा संख्या प्रशस्यते । तत्र हस्तपादादिगणनया योऽयं पञ्चविंशत्यवयवसमूहोऽभिहितः सोऽयमध्यात्मं द्रष्टव्यः । आत्मानं यजमानस्य देहे- न्द्रियादिसंघातमधिकृत्य वर्तत इत्यध्यात्मम् ।
यद्यपि पञ्चविंशः प्रजापतिरित्युक्तत्वादधिदैवतप्रशंसाऽपि कृतैव तथाऽपि प्रका- रान्तरेण पुनः प्रशंसति—
अथाधिदैवतं चक्षुः श्रोत्रं मनो वाक्प्राणस्ता एताः
पञ्च देवता इमं विष्टाः पुरुषं पञ्चो हैवैता देवता
अयं विष्टः पुरुषः सोऽत्राऽऽ लोमभ्य आ
नखेभ्यः सर्वः साङ्ग आप्यते तस्मात्सर्वाणि
भूतान्या पिपीलिकाभ्य आप्तान्येव जायन्ते, इति।
अथ मनुष्यशरीरगतपञ्चविंशतिसंख्याप्रशंसानन्तरम् । अधिदैवतं देवताशरीर- गता पञ्चविंशत्यन्तर्भूता पञ्चसंख्या प्रशस्यते । तद्यथा—चक्षुरादयः प्राणान्ता एत- च्छब्दाभिधेया या देवताः सन्ति ता एता देवताः पञ्चसंख्याका इमं पुरुषं मनु- ष्यदेहं प्रविष्टाः । तथा चोपरिष्टादाम्नास्यते—“आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्, दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन्” [ ऐ० आ० २ अ० ४ ख० २ ] इत्यादिना । यथा देवताः पुरुषशरीरं प्रविष्टास्तथाऽयं पुरुषः पश्चाप्येता देवताः प्राविशत् । एव- मत्रान्योन्यप्रवेशो नाम तादात्म्यापत्तिः । सैव विस्पष्टी क्रियते—स पुरुषो देवताभिः प्रविष्टः स्वयं च देवताः प्रविश्यात्रास्मिञ्शरीरे लोमवर्मनखाग्रपर्यन्तं च सर्वोऽपि साङ्गः संपूर्णावयव आप्यते प्राप्तो दृश्यते । यस्मादेवं चक्षुराद्यभिमानिदेवतानामादि- त्यादीनां देहस्य च परस्परतादात्म्यं तस्मात्पिपीलिकापर्यन्तं सर्वे प्राणाश्चक्षुरादी- न्द्रियैस्तत्तद्लोमकैश्च संपूर्णा एव जायन्ते । अनया देवतागतपञ्चसंख्यारूपावयवप्रशं- सयास्त(सया त)द्वयविरूपा पञ्चविंशतिसंख्या प्रशस्ता वेदितव्या ।
ब्राह्मणोक्तेऽर्थे संपा(वा)दकमन्त्रमुदाहरति—
तदुक्तमृषिणा, इति ।
१ ग. घ. ˚दैवं चे˚ । २ ग. घ. ˚स्पष्टा क्रि˚ । ३ ग. घ. ˚तानामादित्यादिभिः । ४ ख. ग. ˚संख्यया रू˚ । घ. संख्ययाऽव˚ । ५ ख. ग. घ. ˚सा तद्˚ ।
अध्या० ३ ख० ८ (१६)] ऐतरेयारण्यकम् । ५५
चक्षुराद्यभिमानिदेवतानां तत्तदिन्द्रियद्वारा देहप्रवेशाद्देहस्य च ताभिस्तैरिन्द्रियै-
स्तादात्म्यापत्तेश्च पिपीलिकान्ताः सर्वे प्राणिनः संपूर्णा उत्पद्यन्त इति यद्ब्राह्मणेनोक्तं
तदेवर्षिणा सहस्रथेत्यादिना मन्त्रेणाप्युक्तम् ।
सोऽयं मन्त्रः संहितायामेवं समाम्नायते—
“सहस्रधा पञ्चदशान्युक्या यावद्द्यावापृथिवी तावदित्तत् ।
सहस्रधा महिमानः सहस्रं यावद्ब्रह्म विष्ठितं तावती वाक्” इति ।
[ ऋ० सं० म० १० सू० ११४ ऋ० ८ ]
अस्यायमर्थः—सहस्रधा सहस्रसंख्याकेषु ब्रह्मादिपिपीलिकान्तेषु देहेषु पञ्चदश-
संख्याकान्युक्थोत्कृष्टानि विद्यन्त इति शेषः । चक्षुः श्रोत्रं मनो वाक्प्राण इत्येतत्प-
ञ्चकं तदाधारत्वेन मातापित्रोः सकाशादुद्गतानि पृथिव्यप्तेजोवाय्वाकाशरूपाणि
भूतानि तानि मातृसंबन्धीनि पितृसंबन्धीनि मिलित्वा दश संपद्यन्ते, चक्षुरादिपञ्चकं
चेत्येवं पञ्चदशाङ्गान्युक्योत्कृष्टानि । इत्थं प्राणिदेहेषूपपन्नेषु देहेषु (※द्यावापृथिव्योर्यत्प-
रिमाणकमेव(णं विद्यते) तत्प्रमाणे(णं) देहजाते(तं) संपन्नम् ।) सहस्रधा सहस्रसंख्या-
केषु देहेषु सहस्रं महिमानः सहस्रसंख्याका महान्तो व्यवहारविशेषा दृश्यन्ते । प्रति-
विषयं प्रतिक्षणं दर्शनश्रवणादिव्यवहाराणां निष्पत्तेः । ब्रह्म जगत्कारणं सत्यज्ञाना-
दिरूपं वस्तु तस्तु(त्तु) नानाविधप्राणिदेहरूपेण यावदभिधेयं भूत्वा विशेषेण स्थितं
तावत्ती तत्परिमाणा वाग्भवति । एकैकस्याभिधेयार्थस्यैकैकनामापेक्षणात् । अत एवा-
[न्य]त्र श्रूयते—“सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन्यदास्ते”
[ तै० आ० प्र० ३ अ० १२ ] इति ।
तस्यैतस्य व्याख्यातस्य मन्त्रस्य प्रथमपादं व्याचष्टे—
सहस्रधा पञ्चदशान्युक्येति पञ्च हि दशतो भवन्ति, इति ।
चक्षुरादीनि पञ्चाऽऽकाशादीनि मातृपितृसंबन्धीनि भूत्वा दशैकात्संपूर्णादेहरूपेण
निष्पाद्यन्ते ।
द्वितीयपादं व्याचष्टे—
यावद्द्यावापृथिवी तावदित्तदिति यावती
सहस्रधा पञ्चदशान्युक्या०—ऋ० सं० म० १० सू० ११४ ऋ० ८ । याव-
द्द्यावापृथि०—ऋ० सं० म० १० सू० ११४ ऋ० ८ ।
* एतच्चिह्नान्तर्गतो ग्रन्थः किंचिदसंबद्ध इति तत्स्थाने संहिताभाष्ये विद्यमानो ग्रन्थोऽत्र लिख्यतेऽर्थबोधस्य सौलभ्याय । स यथा—“द्यावापृथिव्योर्यावद्यत्परिमाणमस्ति तावदित्तत्परिमाणमेवाऽऽत्माधिष्ठितं प्राणिदेहजातं भवति । किंच” इति ।
१ क. ख. घ. ॰मेव सं॰ । २ क. ग. घ. ॰न्युक्तं॰ । ३ ख. ग. घ. ॰शदशका॰ ।