ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
द्वितीयामृचमाह—
२६४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [५पञ्चमारण्यके-
द्वितीयामृचमाह—
नाधृष आदधर्षदाधृषाणं धृषितं शवः । पुरा
यदीमपिन्व्यथिरिन्द्रस्य धृषितं सहः, इति ।
[वैरि]णां [शवो ?] बलं धृषितं येनेन्द्रेण तिरस्कृतम् । दाधृषाणमतिश-
येन तिरस्कारं (रो)यमिन्द्रं नाधृषः । अन्येन केनापि तिरस्कर्तुमशक्यः । नैवारि-
रादधर्षन्नैव तिरस्कृतवान् । यद्यस्मात्कारणात्पुरा पूर्वस्मिन्काल ईमतिव्यथिरिमं
सेत्तु( ? )मतिशयेनेन्द्रश्चालितवान्, तस्मादिन्द्रस्य सहो बलं धृषितं वैरिधर्षणक्षमम् ।
तृतीयामृचमाह—
स नो ददातु तं रयिं रयिं पिशङ्गरसंदृशम् ।
इन्द्रः पतिस्तवस्तमो जनेष्वा , इति ।
जनेषु सर्वप्राणिषु मध्य आ समन्तात्तवस्तमोऽतिशयेन बलवान्पतिः पालक
इन्द्रः पिशङ्गरसंदृशं पिङ्गलवर्णत्वेन सम्यग्दृष्टिप्रियं रयिं हेमरूपं स्वयं लब्धवान् ।
तं रयिं स्वेन लब्धं तद्धनं स इन्द्रो नोऽस्मभ्यं ददातु ।
ग्रीवास्थानीयाः शाखान्तरगतास्तिस्र ऋचो दर्शयित्वा स्वशाखागतामेकामृचं
दर्शयति—
सूददोहाः, इति ।
“ता अस्य सूददोहसः” [ऋ० सं० म० ८ सू० ६९ ऋ० ३] इत्या-
दिकेत्यर्थः ।
तस्य मध्यशरीरभागं ग्रीवाभागं चोक्त्वा भागान्तरं दर्शयति—
शिरो गायत्रमिन्द्रमिद्गाथिनो बृहदिति, इति ।
गायत्रोछन्दस्कमिन्द्रमिदिति सूक्तं शस्त्रस्य शिरोभागस्तं भागं शंसेत् ।
तत्र कंचिद्विशेषं दर्शयति—
अन्यास चेत्समाम्नातासु स्तुवीरन्नुभयासंस्था न
विपर्ययोऽसमाम्नातासु चेत्स्तुवीरन्मिश्रासु च, इति ।
“इन्द्रमिद्गाथिनः” [ऋ० सं० म० १ सू० ७ ऋ० १] इत्येतस्मात्तृचा-
दन्यासूत्तरासु तिसृष्वृक्ष्वाम्नातासु यद्युद्गातारः स्तुवीरंस्तदानीं तास्तिस्र ऋच
इन्द्रमिद्गाथिन इत्येतस्य स्थाने पठनीयाः । तासां स्थाने त्विन्द्रामिदित्यादयस्तिस्र इति
विपर्ययः । एतस्मिन्सूक्ते या असमाम्नाता अन्यत्र समाम्नातास्तिस्र ऋचस्तासु यद्यु-
इन्द्रमिद्गाथिनः०—ऋ० सं० म० १ सू० ७ ऋ० १]
१ ग. सन्तुमं ।
अध्या० २ ख० १(७)] ऐतरेयारण्यकम् । २६५
द्धर्तारः स्तुवीरंस्तदानीं तासां मध्ये सूक्तगतास्तिस्र ऋच उद्धृत्य तस्मिन्स्थाने गाना-
धारभूतास्तिस्र ऋचः पठेत् । मिश्रासु गानेऽप्ययमेव न्यायः । गानाधारस्य तृचस्य
कियानपि भागोऽत्र समाम्नातः । अवशिष्टस्तु प्रदेशान्तरस्थो यदा भवति तदानीमेता-
स्तिस्रो मिश्रा भवन्ति ।
उद्धारस्थाने कंचिद्विशेषं दर्शयति—
सूक्तस्योत्तमं सूददोहाः, इति ।
पूर्वं सूददोहसः प्रागुद्धार उक्तः । अत्र तु सूददोहसः प्राचीना सूक्तस्योत्तमा
येयम् “इन्द्रं वो विश्वतस्परि” [ऋ० सं० म० १ सू ७ ऋ० १०] इत्यृ-
गस्ति तस्याः प्रागेवोद्धारस्तां तु पठेत् । ततः सूददोहाः पठनीया ।
पुनरपि शस्त्रस्यापरं भागं दर्शयति—
विजवः , इति ।
विशेषेण जवो वेगो यस्मिन्पक्षिशरीरभागे समुत्पद्यते सोऽयं भागो विजवः ।
तत्स्थानीयः शस्त्रभाग उच्यत इति शेषः ।
तस्मिन्भागे प्रथमामृचमाह—
सुतस्ते सोम उपयाहि यज्ञं मत्सवा मदं पुरुवारं
मघाय । मंहिष्ठ इन्द्र विजुरो गृणध्यै, इति ।
हे इन्द्र ते त्वदर्थं सोमो वल्याख्यः सुतोऽभिषुतोऽतो यज्ञमेतमुपयाहि त्वं प्राप्नुहि ।
मघायास्माकं धनाय पुरुवारं पुरुभिर्बहुभिर्वरणीयं मदं हर्षं यथाऽहं प्राप्नोमि तथा त्वं
मत्स्व मदमनुगृह्णन्हृष्टो भव । यथाऽस्मद्धनाय त्वं हृष्यसि तथा त्वं मंहिष्ठोऽतिशयेन
पूज्यश्च सन्विजुरो विशिष्टलोकद्वाराणि गृणध्यै अस्मदग्रे कथयितुमत्र हृष्टो भव ।
द्वितीयामृचमाह—
ससाहृतृत्रहत्येषु शत्रून्नृर्भुर्विगाह एषः ।
स नो नेतारं महयाम इन्द्रम्, इति ।
स इन्द्रो वृत्रहत्येषु वृत्रनामकस्यासुरस्य वधार्थेषु युद्धेषु शत्रून्स्ववैरिणो वृत्रसंब-
न्धिनः सर्वानसुरान्ससाहृतुः । अभिभूतवान् । स एष इन्द्र ऋभुर्देवतात्मा सन्वि-
गाहो विशेषेणास्माभिरवगाढुं सेवितुं शक्यः । नोऽस्माकं नेतारं स्वर्गे गमयितारमिन्द्रं
महयामो वयं पूजयामः ।
तृतीयामृचमाह—
इनो वसुः समजः पर्वतेष्ठाः प्रति वाम्-
१ ग. ०न्विजुरो ।
३४
२६६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [५पञ्चमारण्यके-
जीषी। इन्द्रः शश्वद्भिर्जोहूत्र एवैः, इति ।
इन्द्रो देवः शश्वद्भिर्निरन्तरवर्तिभिरेवैरस्मद्यज्ञं प्रत्यागमनैर्जोहूत्रोऽतिशयेन होमनिष्पादकः । कीदृश इन्द्रः । इनः सर्वेषामीश्वरो वसुर्धनवान्समजः समीचीनगतियुक्तः पर्वतेष्ठाः पर्वतसमान ऐरावते मेघे वाऽवस्थितः । वां प्रत्युजीषी । यज्ञकर्तारौ हे दंपती युवामुद्दिश्यर्जीषोपलक्षितसोमरसवान् । भवदीयं सोमं स्वी करोतीत्यर्थः ।
एतास्तिस्र ऋचः पठित्वाऽन्ते पठनीयामृचं दर्शयति—
सूददोहाः, इति ।
शंसनप्रकारे विशेषं दर्शयति—
इत्येतत्त्रयं ग्रीवाः शिरो विजवः सर्वमर्धर्चर्श्यम्, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके द्वितीयाध्याये
प्रथमः खण्डः ॥ १ ॥ (७)
यस्येदमित्यादिकः शस्त्रस्य यो ग्रीवाभाग इन्द्रमिद्गाथिन इत्यादिको यः शिरोभागः सुतस्ते सोम इत्यादिको [यो] विजवभाग इत्येतद्भागत्रयं सर्वमर्धर्चर्श्य(र्च)शंसनार्हम् । त्रिविधं हि शंसनम् । पादेऽवसायार्धर्चे प्रणव इत्येकम् । अर्धर्चेऽवसाय कृत्स्नायामृचि प्रणव इति द्वितीयम् । विनैवावसानमृगन्ते प्रणव इति तृतीयम् । एवं सत्युक्तेषु शस्त्रभागेष्वर्धर्चऽवसानमित्ययमेव पक्षोऽनुष्ठेयः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये पञ्चमारण्यके द्वितीयाध्याये प्रथमः खण्डः ॥ १ ॥ (७)
अथ द्वितीयः खण्डः । ( अष्टमः )
भागान्तरं दर्शयति—
राथंतरो दक्षिणः पक्षः, इति ।
योऽयं शस्त्रस्य दक्षिणपक्षभागः सोऽयं रथंतरसामसंबन्धी ।
तमेव रथंतरसंबन्धं विस्पष्टयति—
अभि त्वा शूर नोनुमोऽभि त्वा पूर्वपीतय इति रथंतरस्य स्तोत्रियानुरूपौ प्रगाथौ चतस्रः सतीः षड्बृहतीः करोति, इति ।
अभि त्वा शूर०—ऋ० सं० म० ७ सू० ३२ ऋ० २२ । अभित्वा पूर्व०—ऋ० सं० म० ८ सू० ३ ऋ० ७ ।
१ ख. घ. ङ. °धर्च्य शं° ।
अध्या०२ख०२(८)] ऐतरेयारण्यकम् । २६७
ऋग्द्वयात्मकः प्रगाथः, "द्व्यृचाः प्रगाथाः" इत्याश्वलायनेनोक्तत्वात् । "अभि त्वा शूर" [ऋ० सं० म० ७ सू० ३२ ऋ० २२] इत्ययं प्रगाथो रथंतर-साम्नः स्तोत्रियः स्तोत्रसंबन्धी । स्तोत्रादौ ह्येष गीयते । "अभि त्वा पूर्व" [ऋ० सं० म० ८ सू० ३ ऋ० ७] इत्ययं प्रगाथस्तस्य साम्नोऽनुरूपः स्तोत्रिय-स्थानन्तरमेव गीयमानत्वात् । तावुभौ प्रगाथौ मिलित्वा यद्यप्यध्ययनकाले चतस्र एवर्चस्तथाऽपि प्रयोगकाले षड्बृहत्यः कुर्यात् । कथं तत्करणमिति तदुच्यते । अभि त्वा शूरेत्यसावृकस्त्वत एव बृहती वेदे समाम्नाता । ततो द्वितीयबृहत्यर्थं तस्या ऋचश्चतुर्थपादमीशानमिन्द्रेत्यादिकं पुनर्द्विः पठित्वा "नत्वावान्" [ऋ० सं० म० ७ सू० ३२ ऋ० २३] इत्येतस्यां द्वितीयस्यामृचि पूर्वार्धं पठेत् । सेयं द्वितीया बृहती । ततस्तृतीयबृहत्यर्थं "न जातः" [ऋ० सं० म० ७ सू० ३२ ऋ० २४] इत्येतद्वितीयबृहतीगतं चतुर्थं पादं पुनर्द्विरभ्यस्य ततः समाम्नातायां द्वितीयस्यामृच्यु-त्तरार्धम् "अध्वायन्तः" [ऋ० सं० म० ७ सू० ३२ ऋ० २४] इत्यादिकं पठे-त्सेयं तृतीया बृहती । अनेनैव न्यायेन द्वितीयेऽपि प्रगाथे चतुर्थषष्ठौ पादौ पुनरपि द्विरावर्त्य बृहतीत्रयं संपादयेत् । अत्राध्वायन्त इति पादमुद्धृत्य तस्य स्थाने "स्वादोः स्वादीयः" [ऋ० सं० म० १० सू० १२० ऋ० ३] इति पादं प्रक्षिपेत् । एतच्च पूर्वाध्यायेऽभिहितम् ।
उक्तक्रमेण बृहतीः पठित्वा पश्चात्पठनीयानि सूक्तानि दर्शयति—
इन्द्रस्य नु वीर्याणि प्रवोचं त्वे ह यत्पितरंश्चिन्न इन्द्रेति
पञ्चदश यस्तिग्मशृङ्गो वृषभो न भीम उग्रो जज्ञे वीर्याय
स्वभावात्युदु ब्रह्माण्याैरत श्रवस्याऽऽते मह इन्द्रोऽत्युग्रेति
पञ्च सूक्तान्या न इन्द्रो दूरादा न आसादिति संपात
इत्था हि सोम इन्मद इति पङ्क्तिः सूद्दोहाः , इति ।
"इन्द्रस्य नु वीर्याणि" इति सूक्तं पञ्चदशर्चम् । "त्वे ह यत्पितरः" इत्य-स्मिन्प(स्य प)ञ्चविंशत्यूगात्मकस्य सूक्तस्याऽऽदौ पञ्चदशर्चः पठनीयाः । "यस्ति-ग्मशृङ्ग" इति सूक्तमेकादशर्चम् । "उग्रो जज्ञे" इति सूक्तं दशर्चम् । "उदु
इन्द्रस्य नु०—ऋ० सं० म० १ सू० ३२ ऋ० १ । त्वे ह यत्पितरः०—ऋ० सं० न० ७ सू० १८ ऋ० १ । यस्तिग्मशृङ्गो०—ऋ० सं० म० ७ सू० १९ ऋ० १ । उग्रो जज्ञे०—ऋ० सं० म० ७ सू० २० ऋ० १ । उदु ब्रह्माणि०—ऋ० सं० म० ७ सू० २४ ऋ० १ । आ ते महः०—ऋ० सं० म० ७ सू० २९ ऋ० १ । आ न इन्द्रो०—ऋ० सं० म० ४ सू० २० ऋ० १ । इत्था हि सोमः०—ऋ० सं० म० १ सू० ८० ऋ० १ ।
२६८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [५पञ्चमारण्यके-
ब्रह्माणि” इति सूक्तं षडृचम् । “आ ते महः” इत्यादीनि पञ्च सूक्तानि । तेषु प्रथमम् । “आ ते महः” इति सूक्तं षडृचम् । “न सोमः” [ ऋ० सं० म० ७ सू० २६ ऋ० १ ] इति द्वितीयं पञ्चर्चम् । “इन्द्रं नरो नेमधित” [ ऋ० सं० म० ७ सू० २७ ऋ० १ ] इति पञ्चर्चं तृतीयम् । “ब्रह्माण इन्द्र” [ ऋ० सं० म० ७ सू० २८ ऋ० १ ] इति पञ्चर्चं चतुर्थम् । “अयं सोमः” [ ऋ० सं० म० ७ सू० २९ ऋ० १ ] इति पञ्चर्चं पञ्चमम् । “आ न इन्द्रः” इत्येतत्सूक्तमेकादशर्चम् । तदेतत्संपातसूक्तमिति नाम्ना^३ व्यवह्रियते । “इत्था हि सोमः” इत्येषा पङ्क्तिच्छन्दस्केर्गैका । एतावत्पठित्वा सूददोहाः पठनीया ।
भागान्तरं दर्शयति—
बार्हत उत्तरः, इति ।
योऽयं शस्त्रस्योत्तरः(रः) पक्षः सोऽयं बृहत्सामसंबंधी ।
तमेव संबन्धं विस्पष्टयति—
त्वामिद्धि हवामहे त्वं ह्येहि चेरव इति बृहतः स्तोत्रियानुरूपौ प्रगाथौ चतस्रः सतीः षड्बृहत्यः करोति, इति ।
पूर्ववद्व्याख्येयम् ।
बृहतीपाठादूर्ध्वं पठनीयं मन्त्रजातं दर्शयति—
तमु ष्टुहि यो ऽअभिभूत्योजाः सुत इत्त्वं निमिश्र इन्द्र
सोम इति त्रीण्यभूरेको रयिपते रयीणामित्यष्टौ
सूक्तानि कथा महामवृधत्कस्य होतुरिति संपात इन्द्रो
मदाय वावृध इति पङ्क्तिः सूददोहाः, इति ।
“तमु ष्टुहि” इत्येतत्सूक्तं पञ्चर्चम् । “सुत इत्त्वम्” इत्यादीनि त्रीणि सूक्तानि । तेषु “सुतः” इत्येतत्प्रथमं दशर्चम् । “वृषामदः” [ ऋ० सं० म० ६ सू० २४ ऋ० १ ] इत्येतद्द्वितीयमपि सूक्तं दशर्चम् । “या त ऊतिः” [ ऋ० सं० म० ६ सू० २५ ऋ० १ ] इत्येतत्तृतीयं सूक्तं नवर्चम् । “अभूरेकः” इत्यादीन्यष्टौ
त्वामिद्धि हवामहे०—ऋ० सं० म० ६ सू० ४६ ऋ० १ । त्वं ह्येहि चेरवे०—ऋ० सं० म० ८ सू० ६१ ऋ० ७ । तमु ष्टुहि०—ऋ० सं० म० ६ सू० १८ ऋ० १ । सुत इत्त्वं०—ऋ० सं० म० ६ सू० २३ ऋ० १ । अभूरेको०—ऋ० सं० म० ६ सू० ३१ ऋ० १ । कथामहा०—ऋ० सं० म० ४ सू० २३ ऋ० १ । इन्द्रो मदाय०—ऋ० सं० म० १ सू० ८१ ऋ० १ ।
१ घ. ङ. ॰मृ । आन । २ ग. ॰मृ । आनं । ३ क. ख. ॰ति व्य० ।
अध्या०२ख०२(८)] ऐतरेयारण्यकम् । २६९
सूक्तानि । तेषु “अभूरेकः” इति प्रथमं पञ्चर्चं सूक्तम् । “अपूर्व्या पुरुतमानि” [ ऋ० सं० म० ६ सू० ३२ ऋ० १ ] इति द्वितीयम् । “ य ओजिष्ठः ” [ ऋ० सं० म० ६ सू० ३३ ऋ० १ ] इति तृतीयम् । “ सं च त्वे ” [ ऋ० सं० म० ६ सू० ३४ ऋ० १ ] इति चतुर्थम् । “ कदा भुवन् ” [ ऋ० सं० म० ६ सू० ३५ ऋ० १ ] इति पञ्चमम् । “ सत्रा मदासः ” [ ऋ० सं० म० ६ सू० ३६ ऋ० १ ] इति षष्ठम् । “ अर्वाग्रथम् ” [ ऋ० सं० म० ६ सू० ३७ ऋ० १ ] इति सप्तमम् । “अपादितः” [ ऋ० सं० म० ६ सू० ३८ ऋ० १] इत्यष्टमम् । तान्येतान्यष्टावपि प्रत्येकं पञ्चर्चानि । “कथा महाम् ” इत्येतत्सूक्तमेकादशर्चम् । तच्च संपातशब्देन व्यवह्रियते । “इन्द्रो मदाय” इत्येका पाङ्किच्छन्दस्का । तत्सर्वं पठित्वाऽन्ते सूददोहसं पठेत् ।
उक्तयोर्दक्षिणोत्तरपक्षयोरनुसंधेयं कंचिद्विशेषं दर्शयति—
राथंतरो दक्षिणः पक्षः पञ्चदशः स्तोम एकशतं वसिष्ठप्रासाहा
बार्हत उत्तरः सप्तदशः स्तोमो द्विशतं भरद्वाजप्रासाहः, इति ।
योऽयमत्र दक्षिणः पक्षः सोऽयं राथंतरो रथंतरसामसंबन्धी । तेन साम्ना स्तुतिकाले पञ्चदशः स्तोमः संपाद्यते । ऋक्त्वयस्य विष्टुतिब्राह्मणोक्तप्रकारेणाऽऽवृत्त्या पञ्चदशसंख्याका ऋचो यस्मिन्स्तोमे संपाद्यन्ते सोऽयं पञ्चदशः स्तोमः । तदात्मकोऽयं दक्षिणः पक्षः । “ अभि त्वा शूर ” [ ऋ० सं० म० ७ सू० ३२ ऋ० २२ ] इत्यारभ्य “इत्था हि सोमः” [ ऋ० सं० म० १ सू० ८० ऋ० १ ] इत्येतदन्तमृग्जातमेकाधिकं शतं संपद्यते, तदात्मकोऽयं दक्षिणः । तमिमं वसिष्ठो नाम मुनिः स्वसामर्थ्येन संपादितवान् । अतोऽयं वसिष्ठप्रासाहः । एवमुत्तरपक्षेऽपि योजनीयम् । पक्षयोर्ऋक्स्तोमात्मकत्वं तैत्तिरीया आमन्नन्ति—“ पञ्चदशोऽन्यः पक्षो भवति । सप्तदशोऽन्यः ” इति ।
भागान्तरं दर्शयति—
भद्रं पुच्छं द्विपदासु , इति ।
पादद्वयोपेतास्त्वृक्षु भद्रनामकं यत्साम तत्संबन्धी शस्त्रस्य पुच्छभागः ।
द्विपदा ऋचो दर्शयति—
इमा नु कं भुवना सीषधामाऽऽयाहि वनसा
इमा नु कं०—ऋ० सं० म० १० सू० १५७ ऋ० १ । आयाहि वनसा०—ऋ० सं० म० १ सू० १७२ ऋ० १ ।
१ ग. ॰मं सू॰ ।
२७० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [५पञ्चमारण्यके-
सहेति नव समाम्नाता अथासमाम्नाताः , इति ।
“इमा नु कं भुवना” इत्यादि सूक्तं पञ्चर्चम् । “आयाहि” इत्यादिकमृक्च-
तुष्टयोपेतम् । तदुभयमेलनादृचो नव संपद्यन्ते । ताश्चात्र संहिताग्रन्थे समाम्नाताः ।
अथान्याः काश्चिदसमाम्नाताः शाखान्तरगता विद्यन्ते ।
तासु प्रथमामाह—
प्र व इन्द्राय वृत्रहन्तमाय विप्रा गाथं गायत यज्जुजोषत्, इति ।
हे विप्रा ऋत्विजो वो युष्माकं वृत्रहन्तमायातिशयेन शत्रुघातिन इन्द्रायेन्द्र-
प्रीत्यर्थं गाथं गायत । गातव्यं यत्सामजातमस्ति तत्सर्वं प्रकर्षेण गायत । यत्साम
स इन्द्रो जुजोषत्प्रीत्या सेवते तद्गायत ।
द्वितीयामृचमाह—
अर्चन्त्यर्कं देवतावस्वर्का आस्तोभति श्रुतो युवा स इन्द्रः, इति ।
अर्का अर्चयितारो विप्रा देवतासु मध्येऽर्कमर्चनीयमिन्द्रमर्चन्ति पूजयन्ति ।
श्रुतो वेदेषु प्रख्यातो युवा यौवनसंपन्नः स इन्द्र आस्तोभति सर्वत उत्साहं करोति ।
तृतीयामृचमाह—
उपप्रक्षे मधुमति क्षियन्तः पुष्यन्तो रयिं धीमहे तमिन्द्र, इति ।
हे इन्द्र तं त्वां धीमहे वयं ध्यायामः । कीदृशा वयं मधुमत्युपप्रक्षे क्षियन्तः ।
प्लक्षवृक्षसंपादितानि पात्राण्यत्र प्लक्षशब्देन विवक्षितानि, तेषां समीपवर्ती यागप्रदेश
उपप्रक्षः । सरसो(चासौ) मध्वादिमाधुर्यरसोपेतत्वान्मधुमांस्तादृशे प्रदेशे क्षियन्तो
निवसन्तः । तथा रयिं पुष्यन्तो धनं वर्धयन्तः ।
चतुर्थीमृचमाह—
विश्वतो दावन्विश्वतो न आभर यं त्वा शविष्ठमीमहे, इति ।
हे इन्द्र शविष्ठमतिशयेन बलयुक्तं यं त्वामीमहे प्राप्नुमो याचामहे वा स त्वं
हे विश्वतो दावन्सर्वेषां प्राणिनां धनादि दत्तत्तादृशस्त्वं नोऽस्माकं विश्वतः सर्व-
स्माद्देशादाभर धनादिकमानय ।
पञ्चमीमृचमाह—
स सुप्रणीते नृतमः स्वराळसि मंहिष्ठो वाजसातये, इति ॥
हे इन्द्र सुप्रणीते सुष्ठु संपादितेऽस्मिन्कर्मणि वाजसातयेऽस्मभ्यमन्नदानाय मंहि-
ष्ठोऽतिशयेन पूजितः संस्त्वं नृतम उत्तमः पुरुषः स्वराट्स्वयमेव राजसि, न तु परतन्त्र
इत्यर्थः ।
१ घ. ङ. देवेषु ।