ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
तृतीयपादं व्याचष्टे—
५६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
वै द्यावापृथिवी तावानात्मा, इति ।
आत्मा देहविशिष्टो जीवात्मा । द्यावापृथिव्योर्लोकयोर्जीवदेहे पूर्णत्वादात्मनस्तत्समानपरिमाणत्वं द्रष्टव्यम् ।
तृतीयपादं व्याचष्टे—
सहस्रधा महिमानः सहस्रमित्युक्थान्येव तदनु मदति महयति, इति ।
यावन्त्युक्थान्युकृष्टानि चक्षुरादीनि सन्ति तान्येव तत्तेन महिमा(म)शब्देनानुवदनयंमृषिर्मन्त्रो मदति हर्षति । तथा महिमा(म)शब्दप्रयोगात्तान्यङ्गानि महयति ।
चतुर्थपादं व्याचष्टे—
यावद्ब्रह्म विष्ठितं तावती वागिति यत्र ह क्व च ब्रह्म तद्वाग्यत्र वा वाक्तद्वा ब्रह्मेत्येतत्तदुक्तं भवति, इति ।
ब्रह्मैवाभिधेयं जगत्पदार्थरूपेण [यत्र] यत्रास्ति तत्र तत्राभिधायकं नाम । तथा यत्र यत्र वाचकः शब्दस्तत्र तत्राभिधेयपदार्थ ब्रह्मेत्येवमन्योन्यव्याप्तिस्वरूपं भवति । तदेवमुदाहृतेन मन्त्रेण चक्षुरादिपञ्चकोपेतजगत्सृष्टिप्रशंसनाच्चक्षुरादिगतपञ्चसंख्याद्वारेण पञ्चविंशतिसंख्या "नदं वः" [ ऋ० सं० म० ८ सू० ६९ ऋ० २ ] इत्येतदङ्गावृत्तिरूपा प्रशस्ता भवतीति द्रष्टव्यम् ।
अथ तैत्तत्सूक्तगतामृक्संख्यां क्रमेण प्रशंसितुमाद्यसूक्तगतां संख्यां प्रशंसति—
एषां वा एषां सूक्तानां नवर्चं प्रथमं नव वै प्राणाः प्राणानां क्लृप्त्यै, इति ।
विविधानि सूक्तानि शस्त्रार्थं "नदं वः" [ ऋ० सं० म० ८ सू० ६९ ऋ० २ ] इत्यादिकया व्यतिषक्तानि केवलानि चेति । तत्राऽऽद्येनैषामित्यनेन पदेन व्यतिषक्तानि परामृश्यन्ते । "ता नदेन विहरति" इत्येवं व्यतिषक्तानामनन्तरमेव प्रकृतत्वात् । द्वितीयेनैषामित्यनेन व्यतिषक्तान्तर्भूतानि केवलानि परामृश्यन्ते । तानि च "तद्दिदास" ( ऋ० सं० म० १० सू० १२० ऋ० १ ) इत्यादिव्याख्यानप्रकृतानि । तत्र याऽ(चा)क्षरयोजना—एषां व्यतिषक्तानां मध्ये यानि केवलानि सन्ति, ये(ए)षां केवलानां मध्ये यत्प्रथमं तद्दिदासेति सूक्तं तन्नवर्चम् । प्राणाश्च देहगतच्छिद्रवर्तिनां(नो) नवसंख्याका अतः प्राणसंपादनार्थं तत्सूक्तं संपद्यते ।
सहस्रधा महिमानः सहस्रं०—ऋ० सं० म० १० सू० ११९ ऋ० ८ । यावद्ब्रह्म विष्ठितं तावती०—ऋ० सं० म० १० सू० ११९ ऋ० ८ ।
१ क. ग. घ. तत्सू ।
अध्या० ३ ख० ८ (१६)] ऐतरेयारण्यकम् । ५७
“तां सुते” [ऋ० सं० म० १० सू० ९४ ऋ० १] इत्यादिद्वितीयसूक्त-
गतामृक्संख्यां प्रशंसति—
षळृचं भवति षड्वा ऋतव ऋतूनामाप्त्यै, इति।
“भूयः” [ऋ० सं० म० ६ सू० ३१ ऋ० १] इत्यादितृतीयसूक्तगता-
मृक्संख्यां प्रशंसति—
पञ्चर्चं भवति पञ्चपदा पङ्क्तिः पाङ्क्तोऽन्नमन्नाद्यस्यावरुद्धयै, इत्यादि*।
पङ्क्तिश्छन्दः पञ्चभिश्छन्दःपादैरुपेतमन्नं$^+$ च पङ्क्तिच्छन्दःसाध्यत्वात्क्षेत्रेषु पङ्क्ति-
रूपेणोक्त(प्त)त्वाद्वा पङ्क्तिरूपम् । तस्मादियं पञ्चसंख्याऽन्नप्राप्त्यै भवति ।
“नृणामु त्वा” [ऋ० सं० म० ३ सू० ५१ ऋ० ४] इत्यादिको यस्तृच-
स्तद्गतामृक्संख्यां प्रशंसति—
तृचो भवति त्रयो वा इमे त्रिवृतो लोका
एषामेव लोकानामभिजित्यै, इति ।
“त्रयो वा” इत्यादि पूर्वमेव [ऐ० आ० १ अ० १ ख० २] व्याख्यातम् ।
केवलानि सूक्तान्युक्त्वा संख्याद्वारा प्रशस्यैतानि प्रकारान्तरेण प्रशंसति—
ता अभि संपद्यन्ते बृहतीं छन्दोऽमृतं देवलोकमेष आत्मैवमु हैवैवं-
विदेतयैव संपदाऽमृतमेवाऽऽत्मानमभिसंभवति संभवति, इति ॥
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्यायेऽ-
ष्टमः खण्डः ॥ ८ ॥ ( १६ )
इति बह्वृचब्राह्मणारण्यकाण्डे प्रथमारण्यके
तृतीयोऽध्यायः ॥ ३ ॥
ताः सूक्तगता ऋचोऽभि सर्वतो बृहतीं छन्दः संपद्यन्ते । तद्यथा—त्रिष्टुप्छन्द-
स्कास्तृचैकैकः पाद एकादशाक्षरोऽष्टाक्षरेण “नदं वः” (ऋ० सं० म० ८ सू०
६९ ऋ० २) इत्यादिमन्त्रगतेन पादेन संयुज्यते, तदेतदष्टादशाक्षरात्मकं पादद्वय-
मेकमर्धं भवति । तादृशे द्वे अर्धे षट्त्रिंशदक्षरां बृहतीं प्राप्नुतः । एवं त्रयोविंशति-
संख्या ऋचः सर्वा अपि “नदं वः” इत्यादिसहिताः षट्चत्वारिंशद्बृहत्यो भवन्ति ।
तदेवं बृहतीं छन्दो विनाशरहितं देवलोकं तत्प्राप्तिहेतुत्वात्तादृशं छन्दः संपद्यत इति
* अत्रेतिशब्द एव केवलोऽपेक्षितः, सर्वत्र तन्मात्रस्यैव ग्रहणात्, ग्रहीतुमुचितत्वाच्च । परं चैवमेव पाठः सकलादर्शपुस्तकेषु । $+$ व्रीहियवादिरूपम् ।
१ क. ख. पञ्चऋचं । २ ग. घ. ˚ष्टाक्ष˚ ।
५८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
पूर्वत्रान्वयः । एष ईदृशो बृहतीसंघ आत्मा पक्ष्याकारस्य शस्त्रस्य मध्यदेहः । पक्षपुच्छादिभागाश्चोपरिष्टादभिधास्यन्ते । एवमु हैवानेनैव प्रकारेण पक्ष्याकारस्य मध्यदेहः १ संपादित इति शेषः । यः पुमानेवं वेत्ति ध्यायति स पुमानेतयैव संपदा पक्षिदेहमध्यसंपादनेनामृतमेवाऽऽत्मानं विनाशरहितं स्वरूपमभिसंभवति, तद्ध्यानसहिते महाव्रते कर्मणा मनुष्यवच्छीघ्रं विनाशरहितं देवजन्म प्राप्नोतीत्यर्थः । अभ्यासोऽध्यायसमाप्त्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये प्रथमारण्यके तृतीयाध्यायेऽष्टमः खण्डः ॥ ८ ॥ ( १६ )
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये प्रथमारण्यके तृतीयोऽध्यायः ॥ ३ ॥
अथ प्रथमारण्यके चतुर्थोऽध्यायः ।
तत्र प्रथमः खण्डः । ( सप्तदशः )
तृतीयेऽध्याये निष्केवल्यशस्त्रस्य पक्ष्याकारस्य मध्यदेशभागस्तृचोत्तरसूक्तावयवनिष्पाद्योऽभिहितः । अथ चतुर्थे ग्रीवादिभागान्विधत्ते । तत्राऽऽदावात्मभागस्यावसाने पठनीयामृचं विधत्ते—
अथ सूददोहाः प्राणो वै सूददोहाः प्राणेन पर्वाणि संदधाति, [इति।]
अथ शस्त्रस्य मध्यभागकथनानन्तरं सूददोहाः पठनीया । सूदं स्वादुं सरसं दोग्धीति सूददोहाः कामधेनुरित्यर्थः । तद्वाचकोऽयं शब्दो यस्यामृचि “ ता अस्य सूददोहसः ” [ ऋ० सं० म० ८ सू० ६९ ऋ० ३ ] इत्येवंरूपा या वर्तते साऽप्यृक्सूददोहास्तां सूददोहमृचं पठेत् । सेयमृक्सूददोहःशब्देनाभिधीयते । सेयं प्राणस्वरूपेणै(विण्ये)त्र । यथा प्राणवायुः सूत्रात्मा सन्सर्वेषां शरीरावयवानां संधाता भवति, एवमियमृक्सर्वेषां शस्त्रभागानां( णां ) मध्ये देहग्रीवादीनां संयन्त्री( धात्री ) तस्मात्प्रत्यवयवं पठनीया स्यात् । अस्य मध्यभागस्यान्ते तत्पाठोऽभिहितः ।
मध्यदेहभागं समाप्य ग्रीवाभागं विधत्ते—
अथातो ग्रीवास्ता आचक्षते यथा छन्दसमुष्णिह इति, इति ।
अथ मध्यदेहकथनानन्तरं यस्मात्षड्वीराश्यभागः(?) पक्ष्याकारस्यापेक्षितोऽतः कारणाद्ग्रीवारूपा ऋचः शंसेत् । ता ऋचः शाखान्तराभिज्ञा आचक्षते । अत एव
१ क. ख. घ. ˚देशः सं˚ । २ क. ख. घ. ˚वः । पुमानेवं यः ।
अध्या० ४ ख ० १ (१७)] ऐतरेयारण्यकम् । ५९
पंचमे शौनकेनोदाहताः—“ग्रीवा यस्येद्मारजः” [ऐ० आ० १ अ० २ ख० १]
इत्यादिना । ताश्च तिस्र ऋचो यथाच्छन्दसमध्यापकप्रसिद्धवेदपाठमनतिक्रम्यर्गक्षरग-
णनया तिस्र उष्णहः संपद्यन्ते । तत्र च्छन्दःपूरणायाक्षरान्तरप्रक्षेपं पुरुष इत्या-
दिवदपेक्षन्ते ।
ग्रीवाभागानन्तरमपि पूर्ववत्सूददोहसं विधत्ते—
अथ सूददोहाः प्राणो वै सूददोहाः प्राणेन पर्वाणि संदधाति, इति ।
ग्रीवाभागं समाप्य शिरोभागं विधत्ते—
अथातः शिरस्तद्गायत्रीषु भवत्यग्रं वै छन्दसां
गायत्र्यग्रमङ्गानां शिरस्तदर्कवतीषु भवत्यग्निर्वै
अर्कस्ता नव भवन्ति नवकपालं वै शिरो दशमीं
शंसति त्वक्केशा इत्येव सा भवत्यथो स्तोमातिशं-
सनाया एव तौ त्रिवृच्च स्तोमौ भवतो गायत्रं च
च्छन्द एतयोर्वै स्तोमच्छन्दसोः प्रजातिमनु
सर्वमिदं प्रजायते यदिदं किंच प्रजायतै, इति ।
ग्रीवानन्तरं शिरसोऽपेक्ष(क्ष्य)त्वाच्छिरोभागं शंसेत् । स च शिरोभागो गायत्री-
छन्दस्कास्वृक्षु द्रष्टव्यः, शिरोगायत्र्योरग्रत्वसाम्यात् । सिसृक्षोः प्रजापतेः प्रथमं मुखतो
गायत्री समुत्पन्ना । [एतच्च] यजुर्ब्राह्मणे द्रष्टव्यम् । उत्पद्यमानस्य देहस्य शिरः प्रथमं
योनेर्निर्गच्छतीति शिरसोऽप्यग्रत्वम् । गायत्रीणां बहूनां विद्यमानत्वादर्कवतीष्विति
विशेष्यते । “इन्द्रमिद्गाथिनः” [ऋ० सं० म० १ सू० ७ ऋ० १] इत्यादिकं सूक्तं दशर्चं
तत्रत्या ऋचोऽर्कवत्यः । “इन्द्रमर्केभिरर्किणः” [ऋ० सं० म० १ सू० ७ ऋ० १]
इत्येवमर्कशब्दयुक्तत्वादर्कवत्य इत्युच्यन्ते । अतोऽग्नियुक्ते(क्तत्वे)न प्रशस्तत्वादर्कवतीः
शंसेत् । तास्विन्द्रमिद्गाथिन इत्यादिकानां य एकश्रुषणीनामित्यन्तानां संख्या प्रथता
नवेति वाक्येन प्रशस्यते । नवसंख्याकानि कपालान्येकधा संयोज्य प्रजापतिना मनुष्य-
शिरो निर्मितम् । एतच्च (अयं च(?)) मृतपुरुषस्य शिरसि^३ शोषेणे(पेण) त्वगादावपगते
सत्यस्थिगतो विभागो बुद्धिमद्भिरुद्धेतुं शक्यते । एतदेवाभिप्रेत्य तैत्तिरीयकाश्चाऽऽम-
नन्ति—“तस्मान्नवधा शिरो विष्यूतम्” [तै० सं० अ० ६ प्र० २ अ० १]
इति । या तु “इन्द्रं वो विश्वतस्परि” [ऋ० सं० म० १ सू० ७ ऋ० १०]
इति दशमी तच्छंसने शिरःकपालानामुपरि त्वक्संपादित भवति । तस्यां त्वच्यपि
केशाः संपादिता भवन्ति । अपि चेयं दशमी सा सामगांनां संबन्धिनास्त्रिवृ-
१ क. ‘ध्यायकं’। २ ख. ग. घ. ‘हस्य वि’ । ३ क. ‘सि रोमशौ’ । ४ क. ‘षणग तत्वं’ ।
ख. घ. ‘वृणत्व’ । ५ क. ख. ‘गांनी सं’ ।