सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished237 पृष्ठ

इस ग्रन्थ के बारे में

'वेदस्वरूप-विमर्श' स्वामी हरिहरानन्द सरस्वती, जिन्हें स्वामी करपात्री जी महाराज के नाम से जाना जाता है, की रचना है। करपात्री जी (१९०७-१९८२) बीसवीं शताब्दी के प्रमुख सनातनी संन्यासी और शास्त्रार्थी थे, जिन्होंने वेद-प्रामाण्य और परम्परागत धर्म के पक्ष में विपुल साहित्य लिखा। यह ग्रन्थ वेद के वास्तविक स्वरूप पर उनका विचार प्रस्तुत करता है।

ग्रन्थ के सम्पादक न्याय-व्याकरण-साहित्याचार्य पं० रामगोविन्द शुक्ल हैं, और इसे भक्ति-सुधा साहित्य परिषद, कलकत्ता ने प्रकाशित किया। संस्कृत में लिखे गए सम्पादकीय निवेदन के अनुसार यह ग्रन्थ उन मतों का युक्ति और प्रमाण से खण्डन करता है जो वेद को आंशिक रूप से ईश्वर-रचित या ऋषि-रचित मानते हैं, जो ब्राह्मण-ग्रन्थों को वेद नहीं मानते, या जो वेद की आधुनिक 'विज्ञानवादी' व्याख्या करते हैं।

ग्रन्थ के मुख्य विषय हैं: वेद की अपौरुषेयता और शब्द की नित्यता, मन्त्र और ब्राह्मण दोनों का वेदत्व, आर्ष व्याख्या-पद्धति, और वेद पर आधुनिक आक्षेपों का उत्तर। मीमांसा-दृष्टि से वेद-प्रामाण्य पर हुई बीसवीं शताब्दी की बहस को समझने के लिए यह एक महत्त्वपूर्ण स्रोत है।

प्रामाण्यम् ? यदि तादृक् कश्चन मुक्तः सर्वज्ञोऽद्यत्वे दृश्येत, ततो-
ऽन्योऽपि सम्भाव्येत । एवमेव प्रजापतेः प्रथममार्षज्ञानेनैव वेदो-
ऽवबुद्धो भवतीत्यपि न विचारसहम्; अनुच्चरितशब्दज्ञानमपि
सर्वज्ञज्ञानवत् धर्माधर्मादिज्ञानवच्च कारणमेव; तत्रापि तेन कृतो
वा नित्यसिद्ध एव प्राप्तो वेत्यनाश्वासस्यैवाप्रामाण्यकारणत्वसम्भ-
वात् । न च तद्वचनात् विश्रम्भसम्भवः; अद्यत्ववत् तदानीमपि
पुरुषाणामनृतवादित्वसम्भवात् ।
अयमागमप्रतिभासः स्वप्नादिवत् आकस्मिको निर्निमित्त-
श्चाप्रमाणञ्च भवतीत्यविश्रम्भ एव । अस्मिन् पक्षे बहून्यदृष्टानि
कल्पनीयानि । अनुच्चरितशब्दग्रहणसामर्थ्यवतोऽसाधारणपुरुषस्य
कल्पनम् । तथैवागमन्नित्यतां कल्पयित्वा जन्मान्तरानुभवनिबन्धनं तत्स्म-
रणकल्पनं गौरवा

३२४ वेदस्वरूप-विमर्शः
पौरुषेयवाक्यानां सामान्येन मूलज्ञानावधारणशक्तिर्भवति, अनाप्त-
वाक्यानां तदशक्तिश्च । तत एव केषाञ्चित्प्रामाण्यमप्रामाण्य-
ञ्चान्येषाम् ।
ननु तर्हि कथं वाचकत्वविरहिताद् वाक्यात् तज्ज्ञानमवगम्यत
इति चेन्न । ज्ञानाबधारणस्यानुमानिकत्वेन बाधाभावात् । पदपदार्थ-
रचनादीनाहि वाक्यार्थप्रत्ययाः। उक्त रचना च विवक्षाधीना । सा च
ज्ञानाधीनाऽन्वयव्यतिरेकाभ्यामेतदवगम्येत ।
यद्यपि पौरुषेयवाक्यादर्थनिश्चयो भवति, तथापि तत्प्रामाण्यं
वक्तृज्ञानमुखेनैव भवति । तत एवाप्रोक्तकारी पर्य्यनुयुक्तः सन्
आप्तमेव निर्दिशति । न चैवमर्थमनवबोधयतः शब्दस्य वाचकत्व-
मेव न स्यात् । न चानवगतबोधकत्वानां लोके वेदे वा बोधकत्वं
सम्भवति, ततो

Left Page (Page 326)

३२६ वेदस्वरूप-विमर्श
न वाक्यत्वप्रयुक्तम् । वेदे तु संशयविपर्ययजनकत्वात् बोधकत्वात्
बाधकाभावाच्चानधिगतासंदिग्धाबाधितार्थविषयज्ञानजनकत्वदर्शनेन अप्रा-
माण्यकारणाभावात् स्वाभाविकं प्रामाण्यमेव ।
ननु 'वेदाः पौरुषेया वाक्यकदम्बरूपत्वात्, भारतादिवत्'
इत्याद्यनुमानैर्वेदानीं पौरुषेयत्वमेवेति चेन्न । स्मर्यमाणकर्तृकत्वस्यो-
पाधित्वात् । पौरुषेयमहाभारतादिवाक्यं स्मर्यमाणकर्तृकमेव । न च
तथा वेदे तत्साधयितुं शक्यते ।
नन्ववश्यं वाक्यानि केनचित्प्रणीतानि, तथैव शब्दानाभार्थैः
सम्बन्धोऽपि सकर्तृक एवाभ्युपेय इति चेन्न । कर्तुरनुपलम्भात् । यदि
स्यात् कर्ता, प्रत्यक्षादिप्रमाणैरुपलभ्येत । यद्दर्शनयोग्यमुपलब्भसामग्री-
सत्त्वेऽपि नोपलभ्यते, तन्नास्त्येवेति मन्तव्यम्; यथा-शशशृङ्गादिकम् ।
न च चिरवृत्तत्वात्कर्ता नोपलभ्यते, नासत्त्वादिति वाच्यम्; तथात्वेऽपि
तत्स्मरणस्यावश्यकत्वात् । न हि चिरवृत्तोऽपि न स्मर्यते । तथा च
वेदकर्तुः स्मरणाभावात् नास्त्येव कश्चिद्वेदकर्ताति प्रतीयते ।
ननु कचिदरण्यविप्रदेशेषु कूपारामादीनां मुक्तकश्लोकानाञ्च सन्तोऽपि
कतर्त्तारो न स्मर्यन्ते, तथेहापि समयव्यवहारयोः कर्तृस्मरणमुपपन्नमिति ।
तदसारम्; देशोत्साद-कुलोत्साद-सम्प्रदायविच्छेदादिभिः पूर्वोक्तकर्तृ-
णामस्मरणोपपत्तावप्यध्ययनाध्यापनतदर्थानुष्ठानशब्दार्थव्यवहारपारम्पर्य-
स्याविच्छेदेऽपि कर्तृविस्स्मरणानुपपत्तेः । अत एव प्रयोगः-"वेदाः
अपौरुषेयाः, सम्प्रदायाविच्छेदे सत्यस्मर्यमाणकर्तृकत्वादात्मवत्,
व्यतिरेके भारतवत् ।"
न च घटकर्तुकुलालस्मरणवत् वेदतत्पदार्थसम्बन्धकर्तृस्मरणे
व्यवहारिणां निष्प्रयोजनमिति कर्तृविस्मरणमुपपद्यत एवेति वाच्यम् ।
वैषम्यात् । तथाहि-निष्प्रयोजनत्वात् कुलालविस्मरणमुपपद्यते, न तु
तथा वेदकर्त्रादिस्मरणं निष्प्रयोजनं व्यवहाराणां तदधीनत्वात् । नहि
पाणिनेर्विस्मरणे आदैचां वृद्धिशब्देन व्यवहारः सम्भवति । तथा च यः
पदपदार्थसम्बन्धं करोति, यश्च वेदं निर्माय तदध्ययनाध्यापनतदर्थ-
यागोपासनाज्ञानादिव्यवहारं प्रवर्तयति, न तस्य विस्मरणे व्यवहारः


Right Page (Page 327)

वेदप्रामाण्य-विमर्शः ३२७
सम्भवति । वाक्यादर्थप्रतिपत्तिः तदर्थानुष्ठानञ्च वाक्यकर्तुः तदाप्त-
त्वस्य च स्मरणमन्तरा न सम्भवतः, अनाप्तवाक्यात्तददर्शनात् । यागादेः
स्वर्गादिसाधनतायाः प्रमाणान्तरानगोचरत्वात् । कर्तरि विश्श्रम्भादेव सर्वे
वेदार्थयागाद्यनुष्ठाने प्रवर्तेरन्निति कथं कर्ता विस्मर्येत ? तेनावश्यस्मर्त-
व्यत्वे सत्यस्मर्यमाणः स्वस्याभावमेवावगमयिष्यति । पाणिनिभिन्नस्य
पाणिनिमताननुसारिणो वा वृद्धिशब्दव्यवहारतो न केचिदादैचो
ऽवगच्छन्ति । यथा वाऽपिङ्गलस्य पिङ्गलाननुसारिणो वा मकारव्यवहारतो
न केचित् सर्वगुरुत्रिकं प्रतिपद्यन्ते । किन्तु वृद्धिरादैजिति वृद्धिसंज्ञाकर्तुः
पाणिनेः वृद्धिसंज्ञाचामादिरुत्तद्वृद्धमिति व्यवहारतो वृद्धिशब्देनादैचो
जानन्ति । एवमेव 'सर्वगुरुर्घर्मः' इति मगणसम्बन्धकर्तुः पिङ्गलाचार्यस्य
व्यवहारतः सर्वगुरुत्रिकं प्रतिपद्यन्ते । तथैव वेदवाक्यादर्थप्रतिपत्तिभि-
रक्षयं पदपदार्थसम्बन्धकर्ता तादृशपदकदम्बालकवेदवाक्यकर्ता चैक
एव, स चाप्त इति स्मर्तव्याः, न च स्मर्यन्ते ।
समयव्यवहारयोरेककर्तृकत्वविस्मरणे च नार्थनिश्चयः । प्रकृते
च विनापि कर्तुःस्मरणं, वेदवाक्यादर्थनिश्चयस्य प्रसिद्धत्वान्न कश्चिद्
वेदकर्ता सिध्यति । यदि कश्चिच्च विस्मरणमुपपद्येतापि, तथापि
प्रमाणमन्तरेण न कर्तुं निर्णयः कर्तुं शक्यः । केवलस्यानुपलम्भस्य
वस्त्वभावासाधकत्वेऽपि प्रमाणाभावसहकृतस्य शशविषाणादिवत् तथात्वे
बाधकाभावात् । ये पौरुषेयतां समर्थयन्ते, तेऽपि परम्परया कर्तृविशे-
षस्मरणं वक्तुं न शक्नुवन्ति । सामान्यतो दृष्टेन कर्तारमनुमाय स्वाभि-
मतं कञ्चन कर्तारं साधयन्ति । केचिदीश्वरम्, अन्ये हिरण्यगर्भम्,
केचिद् प्रजापतिं, अपरे अग्न्यादीन् देवान् । मन्वादिवत् स्मर्यमाणे
वेदकर्तरि नैतादृशी विप्रतिपत्तियुज्यते ।
स्मर्तव्यत्वे सति अस्मरणान् कर्तृभाव एवाध्यवसीयते । "ब्रह्म
स्वयम्भु", "वाचा विरूपनित्यया", "अनादिनिधना नित्या वागुत्सृष्टा
स्वयम्भुवा", "अत एव नित्यत्वम्" इत्यादिश्श्रुतिस्मृत्यनुसारेण वेदानां
नित्यत्वावगमाच्च कर्तृभावोऽध्यवसीयते । अत एव 'तस्माद् यज्ञात्सर्वहुत
ऋचः सामानि जज्ञिरे', 'अग्नेर्ऋग्वेद' इत्यादिबचनानां तु सम्प्रदाय-

३२८ वेदस्वरूप-विमर्शे

प्रवर्तकबोधपरत्वमेव, नतु कर्तृबोधकत्वम् । 'यो वै ब्रह्माणं विदधाति पूर्वं
यो वै वेदांश्च प्रहिणोति तस्मै' इति श्रुत्यनुरोधात् चतुर्मुखस्य विधाता-
पीश्वरो न वेदान् विदधाति, किन्तु विद्यमानानेव ब्रह्मणो हृदि प्रहिणोति ।
अपि च—को वेदकर्ता भवेत् ? कश्चिन्मनुष्यो वा, योगी वा, ईश्वरो
वा ? नाद्यः; मनुष्येषु धर्मादिज्ञानस्य वेदजन्यत्वादेव तत्कर्तृत्वासम्भ-
वात् । न द्वितीयः; धर्माधर्मादिज्ञानं योगिनो बाह्येन्द्रियजन्यं, मनोजन्यं
वा ? नाद्यः; धर्माधर्मादेर्बाह्येन्द्रियायोग्यत्वात् । न द्वितीयोऽपि, आत्मन-
स्तद्योग्यगुणातिरिक्तज्ञानजनने मनसोऽसामर्थ्यात् । धर्माधर्मयोरात्म-
गुणत्वेऽपि अयोग्यत्वान्न मनोविषयत्वं सम्भवति । अपि च योगिनो योगज
सामर्थ्यमपि निर्हेतुकं, सहेतुकं वा ? तत्र

३३० | वेदस्वरूप-विमर्श
निःसृतत्वाभ्युपगमेऽनाश्वास इति, तन्न; विकल्पस्य सर्व-
विज्ञानत्वाविरोधात् । द्विविधो हि विकल्पः, विपर्यासपूर्वकः
अतत्पूर्वकश्च । विपर्यासपूर्वकः सर्वसाधारणश्च अतत्पूर्वकस्तत्रभवतः
सर्ववेदिनः । न खल्वसौ भ्रान्तो विकल्पयानपि, किन्तु विदित-
समस्तवस्तुतत्त्वविस्तारः, करुणापराधीनमानसो दुःखिन उपदेष्टु-
कामः । न च वचनमन्तरेण तत्सम्भवः विकल्पं विना वचन-
मप्यसम्भवीति, तस्यास्तारिकत्वं विद्वानपि तमाद्रियते । यथा
नैरात्म्यतत्त्वं विद्वानपि विकल्पसमारोपितमात्मानं निषेधति
नास्त्यात्मेति, यथा वा वैयाकरणो गाथादिशब्दानसाधून जानन्नो-
ऽपि पृथग्जनप्रतिपिपादयिषया प्रयुञ्जानोऽपि नापशब्दकारी ।
तद्विद्माहार्यमस्य रूपं न तात्त्विकमिति तत्त्वविदो नोपदेश-
विरोधः । न चैषां

यहाँ दोनों पृष्ठों का पंक्ति-दर-पंक्ति देवनागरी लिप्यन्तरण प्रस्तुत है:

[पृष्ठ १३२]

ध्यमानमर्थमात्रम्। अचिन्त्यो हीन्द्रियाणां सामर्थ्यातिशयः प्रभावातिशयश्च
योगस्य, तदप्यकिञ्चित्करम्; यतो यथैव कार्यमहेतुकं न भवति कादा-
चित्कत्वव्याघातात्तथाऽनियतहेतुकत्वमपि नाहेतुकत्वाद् विशिष्यते,
कारणस्य कार्यप्राग्भावनियमः कारणत्वं, तच्चानियतनिमित्तत्वेऽनुपपन्नम् ।
नहि जातु यवबीजमत्यन्तरपरिकर्मितमपि कल्माङ्कुराय परिकल्पते ।
नानाकारणमेकं वृश्चिकादि जनयतीति तु स्थूलदृशः । कुशाग्रधियस्तु
तत्रापि कमपि जातिभेदं पश्यन्ति। तस्माद्यथैव कारणान्तराणि स्वकार्य-
नियतसामर्थ्यानि स्वकार्याण्येव जनयन्ति स्वकार्यं पवातिशयमनुभवन्ति
नाकार्ये नाप्यन्यकार्ये तथेन्द्रियाण्यपि न स्वविषये, नाप्यन्यविषये ।
तदुक्तं जैमिनिमहर्षिणा- "विद्यमानोपलम्भनत्वात्।"
मानसम्प्रपि प्रत्यक्षं न सर्वं बोधयति, मनसो बहिरस्वतन्त्रत्वात् ।
रूपादी मनसः स्वातन्त्र्येऽन्धबधिराद्यभावप्रसङ्गात् । न खल्वन्यादृशो
निमन्तस्कास्तेषां स्मृत्याद्यभावप्रसङ्गात् । यदप्युक्तमादरनैरन्तर्यदीर्घकाला-
सेविता भावना करतलामलकवन्निर्मासविज्ञ।नफला
भवति, यथा कामानुरथ कामिनी भावनोत्कविशेषणत्रयवती कामिनो-
विषयविज्ञानविशदाभताहेतुस्तथैव सकलानेव दुःखिन आत्ममयाभ्युपग-
च्छतां दानादिपारमिताभ्यासतनूकृतवान्तर्मलानां विशेषणत्रयोपेतया
भावनया सर्वतत्त्वज्ञानं नासम्भवम् ।
न च भावनाप्रकर्षजं ज्ञानं भ्रान्तं प्रमाणसिद्धविषयत्वात् । समस्त-
वस्तुविषयं च तन्नैरात्म्यसाक्षात्काररूपत्वाद्विश्वनैरात्म्यवैशद्यं विश्व-
वैशद्यमेव । तदप्यसङ्गतम्; यतो भावनामयमपि विज्ञानं श्रुतानुमान-
विषयमकस्माद् भावनाऽयोगादागमानुमानपरतन्त्रमेव पूर्वज्ञानभूतार्थ-
विषयानुविधानात्सापेक्षत्वादप्रमाणमेव । न ह्यनुमानेन वह्निं
व्यवस्थाप्य भावयतो वह्निविषयं विशदं विज्ञानं तत्प्रमाणमिन्द्रिय-
सन्निकर्षजन्यस्य वह्निविज्ञानस्य भावनाधेयविशदाभविज्ञानेन सह
सम्भवादनियमप्रसङ्गात् , बाहुल्येन विसंवादोपलम्भात् ।
ननु भगवतो बुद्धस्य निर्मूङ्कनिखिलक्लेशोपकलेशमलं विज्ञान-
मनावरणं परितः प्रद्योतमानं स्वावलम्बनं प्रत्ययं सर्वाकारं गोचरयत्तस्य


[पृष्ठ १३३]

साक्षात्परम्परया वा सर्वेण सम्बन्धाद् देशकालविप्रकीर्णवस्तुविशिष्टस्व-
भावतया तथैव गोचरयेत् । न च सर्वग्रहणमन्तरेणेति सर्वविषयमस्य
विज्ञानमनावरणं सिद्धम् । तदेतदप्यनुपपन्नम्; रागादिमलानां तत्त्वावर-
कता तदपगमे तत्त्वप्रतिभानसम्भवेऽपि न सर्वप्रतिभानं सम्भवति,
भावनाप्रकर्षजमपि विशदाभमपि प्रत्यक्षभमर्थाव्यभिचारनियमाभावात्
संशयाक्रान्तत्वादप्रमाणमेव तत् ।
सदर्थप्रकाशनं बुद्धेः स्वभावोऽसदर्थत्वं त्वागन्तुकमित्यसति बाधके
सद्विषयकत्वमेवेति चेन्न । अनुमितभावितवह्निविषयविशदाभविज्ञाना-
दिग्रामाण्यप्रसङ्गात् । तद्विषयस्य क्वचिद्वाधदर्शनादप्रामाण्यमिहापि
समानम्। तदिह विशेषणत्रयवत्या भावनया विशदाभविज्ञानहेतुत्व-
साधने सिद्धसाधनम् । भवतु तथागतस्तथाभूतविज्ञानवान् न तत्त्वे
तद्विज्ञानमस्य प्रत्यक्षम्प्रमाणत्वात् ।
यदुच्यते—
“निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः ।
न बाधो यत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः ॥”–इति ।
तदप्यकिञ्चित्करम्; भूतार्थत्वे हि बुद्धेस्तत्पक्षपातिता, भूतार्थैः
प्रतिपक्षैर्बाधो न भवेत् । अभूतार्थात्वियं स्वात्माभावमापन्नाऽप्या-
त्मीयदृष्टिरिव सम्भवद्बाधा । तस्माद्यथा कामातुरस्य कामिनी-
विज्ञानमप्रमाणं तथैव भावनाप्रकर्षपर्यन्तजं ज्ञानमप्यप्रमाणमेव; अत
एवाप्रत्यक्षमपि तत् । न च रागाद्यावरणविरहो विशेषः, न खल्वेते
रागादयः कम्बलादिवदावरका विज्ञानस्य, किन्तु तदाक्षिप्तमना विवि-
धविषयभेदतुष्गादिपरिल्लुतो न शक्नोति भावयितुमिति भावनादर-
मात्र एव रागादिविरहोपयोगः । अस्ति चेहापि शिशिरतरसम्भूतजडिमप्र-
न्यस्तरकायकाण्डस्यानुमितवह्निभावनामियोग इति न हेतुभेदः ।
यदुक्तम्- "न कालतो नियमश्चक्षुरादीनामवर्तमानरजताद्युपलब्धेः।
न हि सा शुक्तिकाद्युपलब्धिरन्याकारसंविदोऽन्यविषयत्वायोगादनाश्वा-
साच्च। अधिगतस्वान्त्यञ्च मनः स्वप्ने । न च स्वप्नज्ञानं स्मृतिरत्नद्रूपत्वात् ।
तदप्यकिञ्चित्करम्; वर्तमानशक्तिकशक्लादेरविषयत्वे तदसन्निधावपि

):
"ननु विरुद्धार्थाभिनिवेशापस्मारलक्षणाया अविद्याया माहात्म्यात्सम्भव इति चेत्; स्वस्ति सर्वज्ञत्वाय भूयिष्ठाऽविद्यापस्माराय। वरं कनीयोऽविद्यमेकदेशदर्शित्वमेव।"
YES! "विरुद्धार्थाभिनिवेशापस्मारलक्षणाया"!
Wait, look at the letters in L53:
"ननु विरु"
Wait, does it say "विरुद्धार्थावभावेऽर्थग्रहाभिनिवेश..."?
Wait, look at the characters:
वि-रु-द्ध-त्वा-भा-वे-ऽर्थ-ग्र-हा-भि-नि-वे-शा-प-स्मा-र
Wait! Is it "विरुद्धत्वाभावेऽर्थग्रहाभिनिवेशापस्मारलक्षणाया"?
Yes! The letters are literally:
वि (vi) रु (ru) द्ध (ddha) त्वा (tvā) भा (bhā) वे (ve) ऽ (avagraha) र्थ (rtha) ग्र (gra) हा (hā) भि (bhi) नि (ni) वे (ve) शा (śā) प (pa) स्मा (smā) र (ra) ल (la) क्ष (kṣa) णा (ṇā) या (yā)
The typesetter printed: "ननु विरुद्धत्वाभावेऽर्थग्रहाभिनिव

३३६ वेदस्वरूप-विमर्शो
न पुनः सर्वं तस्याहेतुत्वाद् देशतः कालतो वाऽसन्निधानात् ।
अन्यथा सर्वस्य सर्वदर्शित्वप्रसङ्गात् ।
अपि च सर्वं न क्रमेण शक्यावगममानन्त्यादेव न वा यौगपद्ये-
नानन्त्यादेव ।
नैयायिकादयस्तु सर्वज्ञं जगत्कर्त्तारं परमेश्वरं प्रसाध्य तत्कर्तृकत्वेन
वेदस्यैव धर्माधर्मार्थों प्रामाण्यं साधयन्ति । तथा वार्तिकतात्पर्य्ये
वाचस्पतिमिश्रा वेदप्रामाण्यं सम्भावयन्ति । सम्भावनायास्तद्धेतुत्वात् ।
तदुक्तम्—
सम्भावितप्रतिज्ञायां पक्षः साध्येत हेतुना ।
न तस्य हेतुभिक्षाणुमुत्पतन्नेव यो हतः ॥”—इति ।
परमेश्वरस्य परमदयालोः प्रत्यक्षीकृतहेयोपादेयस्य अतएवापास्त
भ्रमप्रमादकरणापाटवादिसमस्तपुँदोषसामान्यस्य भूतोद्दिधीर्षया यथार्थ-
चिख्यापयिषया वेदनिर्मातृत्वम् । प्राणिसुखदुःखादिवैचित्र्यान्यथानुपपत्त्या
कारणवैचित्र्यं कल्प्यते । तच्च दृष्टभिन्नमदृष्टापूर्वधर्माधर्मादिशब्दितम् ।
तच्च न कस्यचिज्जीवस्य प्रत्यक्षमतीन्द्रियत्वात् । परमेश्वरश्च
तनुभुवनादिलक्षणकार्यस्य कर्त्तृत्वात्तन्निर्माणानुकूलतत्त्वज्ञानचिकीर्षाकृति-
मत्त्वेन क्लेशकर्माविपाकाशयैरपरामृष्टत्वेन सर्वज्ञः सर्वसमर्थः परमकारु-
णिकश्चेति ।
ननु भुवनादिकार्यविद्वानुमीयते । सोऽयमात्मीयहिताहितप्राप्तिपरिहा-
रोपायानविदुषोऽनेकविधदुःखदहनदह्यमानानवलोकयन् कथं न तप्येत,
तप्यमानश्च हिताहितप्राप्तिपरिहारोपायन्तत्त्वं विद्वान् कथं नोपदिशेत्; कथं
वान्यथोपदेिशेत् ? तस्मादनेन प्रजाः सृष्ट्वा ताभ्यो हिताहितप्राप्तिपरिहारो-
पायोऽवश्यमुपदेष्टव्यः । न ह्ययमनुपदिश्य स्थातुमर्हति, प्रजानां पितृ-
कल्पत्वास्योपदेशादेवर्षिपितृमनुष्यगोचरश्चातुर्वर्ण्येन चातुराश्रम्येणादराद्
ग्राह्यो धार्यश्च धर्मः। तस्माद् वर्णाश्रमाचारव्यवस्थापको महाजनपरिगृहीतो
वेदस्तत्प्रणीतः आप्तोक्तत्वान्मन्त्रायुर्वेदवन् प्रमाणमेव । न तथा शाक्यादिग-
म्बरसंसारमोचकादीनामागमाः ईश्वरप्रणीता बुद्धर्षभादीनां तत्प्रणेतृत्वस्य


वेदप्रामाण्य-विमर्शः ३३७
स्फुटतरत्वात् । न च शौद्धोदनप्रभृतयो विश्वकर्त्तारो येन सर्वज्ञा
भवेयुः । न च सम्भावनामात्रेण तत्प्रणीतेष्वागमेषु प्रेक्षावतामाश्वासो
युक्तः । न चैतेपामागमा वर्णाश्रमाचारव्यवस्थाहेतवः । नो खलु निषेकाद्याः
श्मशानान्ताः क्रियाः प्रजानामेते विदधति । बौद्धाद्यागमानुसारिणोऽपि
श्रुतिस्मृतिपुराणादीनुपजीव्यैव व्यवहरन्ति । सांवृतमिति प्रलपन्तोऽपि
अश्वघोषादयो बुद्धचरिते पुराणेतिहासाद्याश्रया एव कथा विपर्य्यस्त-
रूपेणोद्भूतवन्तः । तस्माद्वेदेषु जगन्निर्मातृकर्तृकत्वस्मृतिर्भवेद्वा मा वा
त एव त्वीश्वरप्रणीता इति पश्यामः ।
न चैतं चैत्यवन्दनादिवाक्यवदन्यकर्तृकाः स्मर्यन्ते । नान्य आगमो
लोकयात्रामुद्धहन् महाजनपरिगृहीत ईश्वरप्रणीततया स्मर्यमाणो दृश्यते ।
तस्माद्वेदा एवेश्वरप्रणीताः, त एव त्रैवर्णिकैरद्य यावत्प्रयत्नेन गृह्यन्ते
धार्यन्ते च । तदर्थपालनायाञ्च महर्षिपरम्पराभिरङ्गोपाङ्गेतिहासपुराणधर्म-
शास्त्राणि प्रणीतानि । बुद्धादिवाक्यानि न तथाभूतानि । न चैतेषां मन्वा-
दिवाक्यवद् वेदमूलकत्वेन प्रामाण्यम् । वेदनिन्दकबुद्धवाक्येषु वेदमूल-
कत्वेन प्रामाण्यम् । वेदनिन्दकबुद्धवाक्येषु वेदमूलकत्वानुमापकलिङ्गा-
भावात् । तत्सर्वज्ञत्वसंशयेन चानुभवमूलकत्वस्य च वक्तुम शक्य-
त्वात् । प्रवृत्तिसामर्थ्यानुमितप्रामाण्येषु मन्त्रायुर्वेदेषु वैदिकशान्तिक-
पौष्टिकादिकर्माभ्यनुज्ञानात् , रसायनादिकृत्यारम्भे च वेदविहितचान्द्रा-
यणादिप्रायश्चित्तोपदेशादाप्तप्रणीतेनायुर्वेदेन वेदानां प्रामाण्याभ्युपगमाद्
वेदानां प्रामाण्यमेव ।
अत्रानुमानमपि—“मन्त्रायुर्वेदवाक्यानि सर्वज्ञकर्तृकानि, महाजन-
परिगृहीतत्वे सत्यलौकिकार्थप्रतिपादकत्वात् ।” यानि तु न सर्वज्ञकर्तृ-
कानि तानि नैवंरूपाणि, यथा बुद्धादिवाक्यानि । तान्यलौकिकार्थान्यपि
न महाजनपरिगृहीतानि ।
मन्त्रायुर्वेदानां सत्यपि प्रवृत्तिसामर्थ्ये तासां तासामोषधीनां-
तत्संयोगभेदानाञ्च तत्तत्क्षारावापोद्धारभेदस्य च नासर्वज्ञः सहस्त्रेणापि
पुरुषायुषैः शक्तः कर्तुम् ।
वे० वि०-२२

त्वमात्रव्याप्तत्वे"
Let's compare the word in line 19 with line 20:
Line 20 clearly has "व्याप्तत्वे" (व्य + ा + प्त + त् + वे).
Wait, in line 19, look at: "करणमात्राधीनत्वव्याप्तत्वे":
व + ्य + ा + प्त + ल् + वे? Wait, look at the letters after प्त:
It looks like 'व्याप्तौ' or 'व्याप्तत्वे'?
Wait, look at the top: no double matra for 'ौ'. There is a single e-matra 'े'!
And the consonant under it: 'त्वे' or 'ल्वे'? 'त्वे'! Wait, is there a 'त्व'?
Yes, "व्याप्तत्वे" or "व्याप्तौ"? Actually, wait, look at line 19:
करणमात्राधीनत्वव्याप्तत्वे.

Line 20:
सिद्धिर्भवति तथैवोत्पत्तिमत्त्वस्याचेतनोपादानत्वस्य चौपादानोपकरण-
Wait, "चौपादानोपकरण-" -> च + औपादानोपकरण-.

Line 21:
सम्प्रदानप्रयोजनज्ञकर्तृ त्वमात्रव्याप्तत्वे विवादाध्यासितेषु तनुभुवनादिषु
Wait, "ज्ञकर्तृ त्वमात्रव्याप्तत्वे" - notice the small space or joined: "

in the middle or space? "उपलब्धिर्मत्कर्तृका" - there is a small mark/comma/correction above?
Wait, there is a small 'र्' or sign: look at 'तृ' and 'का', above is a small mark, like a caret or mark.
It is "उपलब्धिर्मत्कर्तृका इति ।"

Line 7:
"रूपादीनां कार्याणामुपलब्धेस्तोयादिवरमाणोरपि" -> Wait!
Is it "स्तोयादिपरमाणोरपि"?
Let's look at the letter: 'प' or 'व'?
"स्तोयादिपरमाणोरपि" - yes, 'परमाणोरपि', the 'प' has a slight loop, but it's clearly 'परमाणोरपि'!
Wait, is it 'परमाणोरपि' or 'परमाणवोऽपि'?
Look at the end: 'परमाणो र पि' ->
प-र-मा-णो-र-पि!
Wait, then why does it say: "न रूपादिमन्तो भवेयुः"?
If it were "परमाणोरपि", the subject would be singular, but "भवेयुः" is plural!
Wait, look at that word:
"स्तोयादिपरमाणवोऽपि"?
Let's zoom in very closely to line 7:
स्तो - या - दि - प - र - मा - णो - र - पि ?
Wait, look

An exact, line-by-line transcription of the text from both pages:


[Page 342]

श्वरप्रत्यक्षे सत्त्वात् । “अत्रैवैतस्य वाऽक्षरस्य प्रशासने गार्गि द्यावा-
पृथिव्यौ विधृते तिष्ठत' इत्याद्याम्नायवचनान्यपि मानम् । ईश्वरज्ञानं
शरीरैन्द्रियाद्यनपेक्षमेवेत्यत्रापि 'अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः
स शृणोत्यकर्ण' इत्यादि श्रुतिवचनानि च प्रमाणानि ।
तदेतदपि मीमांसका दूषयन्ति । तथा च तेषामिदमाकूतम्—'न
पक्षधर्मतावशात्क्षित्यङ्कुरादिकार्यदर्शनेन सर्वज्ञः कर्तृविशेषः सिद्ध्यति ।
नहि कस्यचित्सर्वज्ञत्वमात्रेण विश्वं कार्यमुत्पत्तुमर्हति । ज्ञानचिकीर्षा-
प्रयत्नसमुदायमन्तरा तदसिद्धेः । न ह्यपादानाद्यभिज्ञोऽप्यलसः कुलालो
ज्ञानादिसमुदायमन्तरा कुम्भोत्पादने समर्थः । यथा केवलाद्वह्नेः
केवलाद्वा

or र्ध्ना?
In L9, we have: शकृन्मूर्ध्नोऽपि.
In L11, we have: शकृन्मूर्ध्नो.
In L18, we have: शकृन्मूर्ध्नोपि.
In L19: ablative of शकृन्मूर्द्धन् or शकृन्मूर्ध:
शकृन्मूर्द्धात् -> with sandhi before वैशेष्यं: शकृन्मूर्द्धाद्वैशेष्यं!
Wait, look at the letter between न्मू and द्वै:
It is र्द्धा!
Wait, let me look at र्द्धा: is there an ना? No, it's र्द्धा.
Wait, let me look really closely at L19:
शकृन्मूर्द्धाद्वैशेष्यं!
Ah, wait, does it say द्वै then another वै?
Look: र्द्धा (with a repha and a-matra), then द् with वै subscript/attached -> द्वै, then शे, ष्यं.
Yes! द्वैशेष्यं! द् + वै + शे + ष्यं. It is just शकृन्मूर्द्धाद्वैशेष्यं!
Wait

[बायाँ पृष्ठ]

३४६ वेदस्वरूप-विमर्श
सम्भवति, कादाचित्कादृष्टपरिपाकादेव देशकालादिप्रतिनियतकार्यो-
त्यादोपपत्त्या तद्व्यतिरेकाव्यभिचारस्यानिश्चितत्वात् ।
यदि च घटादेद्विकर्तृ कत्वं ततः क्षित्यङ्कुरादीनामपि द्विकर्तृ कत्वा-
पत्त्येश्वेरश्वरप्रसङ्गादनवस्था । यथा प्रत्यक्षसिद्धकुलालादिकर्तृ केऽपि
घटादौ तावत्तद्बोधोपपद्यमानोत्पादे चेतमान्तरमीश्वरस्तत्कर्त्तारं कुलामधिष्ठातुं
कल्प्यते, तथैवेश्वमधिष्ठातुमीश्वरान्तरमित्यनवस्था । न चानवस्था-
प्रसङ्गादेव न द्वितीयस्येश्वरस्यानुमानमिति वाच्यम्; एकानुमानेऽप्यन-
वस्थायास्तुल्यत्वात् लब्धपरिपाकादृष्टवत् । क्षेत्रज्ञसंयोगादेव क्षित्यादि-
कार्योत्पत्तावीश्वरकल्पनाया अनवकाशात् । अथ न द्व्यधिष्ठातृका
घटादयः सर्वमेकाधिष्ठातृकमिति नेश्वरान्तरानुमानञ्च न चानवस्थेति चेत्,
सर्वज्ञत्वासिद्धेः ।
यदपि च यत्परस्परोपकार्योपकारकभावेन व्यवस्थितं तदेककर्तृकं
दृष्टम्, यथा रथावयवा एकतक्षककृतिपूर्वका दृष्टास्तथा क्षित्यङ्कुरादिकमपि
परस्परोपकार्योपकार्योपकारकभावेन व्यवस्थितमिति तेनाप्येककर्तृकेन
भाव्यमिति जगतकर्तु : सार्वज्ञ्यसिद्धिरिति । तदप्यकिञ्चित्करम्,
रथादीनां नानातक्षककृतिपूर्वकत्वस्यापि दर्शनात् । अपि चेश्वरस्य क्लेशकम-
विपाकाशयापरामर्शाभ्युपगमात् कर्माभावे देहाद्यनुपपत्तिस्तदभावे
बुद्धिरीश्वर्यं वा नोपपद्यते । कुतः सावश्यम् ? वह्न्यभावे धूमस्येव
कर्माशयाभावे शरीरादीनामनुपपत्तेः । यस्य मते सर्वज्ञेऽपि कर्माशयसत्वं
तन्मते सर्वज्ञत्वस्य कर्माशयपूर्वकत्वेन कर्मज्ञानमन्यतोऽभ्युपेतव्यं येन
कर्माशयेनास्य शरीरादयो जनयितव्यस्तेनापि ज्ञातेनाधिष्ठितेन च
भाव्यम्, तथाचानवस्था । तत्रापि चैष एव प्रसङ्गः ।
ननु हेतुभावे कार्य्याभाव इति नियमेन यदि तनुभुवनादीनां हेतु-
पूर्वकत्वं सिद्धयति तथा सर्वज्ञत्वसिद्धिस्तदसिद्धौ दूषणमपि न
सिद्धयति । तथा च ।
“यत्रोभयोः समो दोषः परिहारश्च तादृशः ।
नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारणे ॥”
इति रीत्या नैकोऽनुयोगमर्हतीति चेन्न, वैलक्षण्यात् ।


[दायाँ पृष्ठ]

वेदप्रमण्य-विमर्शः ३४७
अयमभिप्रायः-प्रत्यक्षं दर्शननिरपेक्षमुपजायमानमदृष्टचरमपि, त्रैलोक्य-
विलक्षणमपि, स्वलक्षणमर्थं गोचरयितुं शक्नोत्येव अनुमानं तु व्याप्त्य-
पेक्षितया व्याप्तेश्च पूर्वदर्शनाधीनतया दृष्टसद्रक्षणमेव गोचरयति न
विलक्षणमदृष्टलिङ्गसम्बन्धात् । तथा च तनुभुवनादिहेतुत्वेनानुमोयमाना
बुद्धिर्यथादर्शनमेवानुमीयेत । सा चानित्या शरीरात्ममनःसंयोगहेतुरसर्व-
विषयास्मदाद्युपलब्ध्वेति तद्विधैवानुमातव्या । एवञ्च नित्यत्वसर्वविषय-
त्वादि व्याहन्येत । नच वह्न्यनुमानस्यास्येव प्रसङ्गः पर्वतेऽनुमीयमा-
नस्य बह्नेर्महानसादिष्टप्रवहिविलक्षणाभावात् । न च देशभेदस्तद्वैल-
क्षण्याय पर्याप्तोऽन्यत्वात् । न च तर्हि कथं रूपाद्युपलब्धेरिन्द्रियानुमानं तत्र
दण्डादिकरणसालक्षण्याभावादिति वाच्यम्, रूपादिपरिच्छित्तिकरणा-
नामिन्द्रियाणामनुमानागोचरत्वात् । न च तर्हि कथमिन्र्दियसिद्धिः,
रूपादिपरिच्छित्यन्यथानुपपत्त्यार्थापत्त्या तत्सिद्धेः । साच सम्बन्धदर्श-
नानपेक्षतया न दृष्टसालक्ष्ण्यमपेक्षते । न चैवं बुद्धिमत्यूर्वकत्वेऽपि अर्था-
पत्तिरन्यथानुपपद्यमानस्य कस्यचिदप्यदर्शनात् । अदृष्टवत्क्षेत्रज्ञपरमाणु-
संयोगात् तनुभुवनादेरुत्पत्तेरुपपत्तेरप्यस्ति साधकापेक्षया साधनदूषणस्य
वैलक्षण्यम् । अपि च साम्येपि वैतण्डिको यः स्वपक्षस्थापनाहीनः
परपक्षं खण्डयति, स न निराकर्तुं शक्यते । अपि च तुल्यत्वे प्रतिबन्ध-
मात्राद् दूषणम्, साधनन्तु निरस्तप्रतिपक्षं साध्यसिद्धम् उपयुज्यते, न तु
सत्प्रतिपक्षं प्रतिबन्धमात्रात् न च बुद्धिमात्रं सन्निवेशविशेषहेतुः, अपि
तु प्रेक्षावुपबुद्धिविशेष एव तद्धेतुः । प्रेक्षा च विन्यासप्रयोजनविचार-
निर्णयरूपा । न च सा तत्र सम्भवति, स्वार्थपरार्थाभावात् । ननु
माभूत्सर्वज्ञो नियोक्ता धर्मज्ञस्त्विवष्यताम् । तदुक्तम्-
'हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः ।
यः प्रमाणमसविज्ञो न तु सर्वस्य वेदकः ॥
कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ।
दूरं पश्यतु वा मा वा तत्त्वमिष्टन्तु पश्यति ॥
प्रमाणं दूरदर्शी चेद्वयं गृध्रानुपास्महे ॥”
ननु धर्मो रूपविशेषाभावात् कथं प्रत्ययपूर्व इति चेन्न । रूपवत

३४८ वेदस्वरूप-विमर्श
एव चक्षुरादीनां विषयत्वनियमे प्रमाणाभावात् । न च प्रत्यक्षस्य
वर्तमानकालमात्रविषयत्वेन कथं प्रत्यक्षविषयत्वमिति वाच्यम्; धर्मस्य
कदाचिद्वर्तमानत्वेऽतिशयवच्चक्षुरादिविषयत्वे बाधाभावात् । आत्यन्तिके
चावर्तमानत्वे खपुष्पवदसत्त्वापत्तेः ।
यत्तु कुर्विति नियोगो धर्मः स च न वर्त्तमानः करोषीति प्रसङ्गात्,
नियोगविषयस्य यागादेरेव धर्मत्वोपगमात्, तत्रैव धर्मत्वप्रसिद्धेस्तस्य
चोत्पाद्यत्वेनाप्रत्यक्षत्वादिति तन्न; तदानीमप्रत्यक्षत्वेऽप्युत्पन्नस्य प्रत्यक्षत्व-
संभवात् । न चोत्पन्नमपि यागादिर्न स्वरूपेण धर्मः, श्रेयःसाधनरूपेणैव
तत्त्वात्, तच्चातीन्द्रियमिति वाच्यम्; विकल्पासहत्वात् ।
तथा हि-यदि श्रेयःसाधनता शक्तिः । पूर्वोक्तयुक्त्येन्द्रियाणां
परिमाणतो विषयनियमस्तु न निरूप्यते

३५० वेदस्वरूप-विमर्शः
अत्र वाचस्पतिमिश्राः-तापत्रयपरीतान् प्रेत्यभावमहार्णवाज्जन्तू-
नुद्धरिष्यामि ज्ञानधर्मोपदेशेन, न च ज्ञानक्रियाशक्त्यतिशयसम्प-
त्तिमन्तरेण तदुपदेशः । न चैवमपहतरजस्तमोमलविशुद्धसत्त्वोपादानं
विना इत्यालोच्य सत्त्वप्रकर्षमुपादत्ते । अविद्यादिभिरपरामृष्टोऽप्या-
त्मारूपेण शैलूष इव तत्तदभिमानोपि न भवति भ्रान्तः । नचैवमुद्दिधीर्षया
भगवता सत्त्वमुपादेयम् । तदुपादाने च तदुद्दिधीर्षा चेदन्योन्याश्रय
इति वाच्यम् । सृष्टिप्रलयप्रवाहस्यानादित्वेन तदनुपपत्तेः ।
नचेश्वरस्य सत्त्वप्रकर्षे न कस्यचित्प्रत्यक्षमनुमानं वास्ति, न चेश्वर-
प्रत्यक्षप्रभवं शास्त्रमिति युक्तम् । कल्पयित्वापि स्वात्मैश्वर्यप्रकाशनाय
तथोक्तिसंभवेनानाप्तवासंभवदिति वाच्यम्, मन्त्रायुर्वेदादिष्वीश्वर-
प्रणीतेषु प्रवृत्तिसामर्थ्याव्यभिचारनिश्चयात् प्रामाण्यस्य सिद्धत्वेन
तन्निर्मितस्य शास्त्रस्यानातिशङ्कनीयत्वात् । न चौषधिभेदानां तत्संयोग-
विशेषाणां च मन्त्राणां तत्तदङ्गावापोद्वापेण सहस्रेणापि पुरुषायुषैर्लौकि-
कैकमात्रव्यवहारी शक्तः कर्तुमन्वयव्यतिरेकौ । न चागमादन्वयव्यति-
रेकौ ताभ्यां चागमस्तयोरनादित्वादिति प्रतिपादयितुं युक्तम् । महाप्रलये
तत्सम्प्रदायविच्छेदात् । न च प्रलयसत्त्वे प्रमाणाभावः । महदहङ्कारा-
दिरूपपरिणामेन प्रधानेनापि कदाचित्सदृशपरिणामेनापि भाव्यम् ।
सदृशपरिणाम एव साम्यावस्था । स च महाप्रलयः । तस्मान्मन्त्रायुर्वेदव-
द्वेदराशिरपि परमेश्वरनिर्मितः प्रमाणभूत एव । सृष्टिप्रलयौ चागमानुमा-
नाभ्यां सिद्धयतः । सर्वज्ञपूर्वकत्वे सति सिद्धमाप्तोक्तत्वेन मन्त्रायुर्वेद-
प्रामाण्यवद्वेदप्रामाण्यम् ।
परमेश्वरीय नित्यज्ञानमूलत्वेन प्रवाहरूपेण नित्यान्येव वेदवाक्यानि ।
यदि न नित्यानि कथं प्रमाणानि ? पुरुषनिर्मितत्वे तु पुरुषाणां
चित्राभिसन्धित्वेन भ्रमशङ्का न शक्याऽपाकर्तुम् । तस्माद-
पौरुषेयत्वमेव पुरुषाश्रयान्दोषानपाकुर्वद्वेदे तत्प्रामाण्यव्यवस्थापकम् ।
तदेतत्पातञ्जलमतमपि मीमांसकैः प्रतिक्षिप्यते । परमेश्वरमूलकत्वेन
शास्त्रप्रामाण्यं शास्त्रप्रामाण्येन चेश्वरसिद्धिरित्यन्योन्याश्रयान्न तदुभय-
सिद्धिः । न चानादित्वेन तच्छक्यसमर्थनम् । बीजाङ्कुरादिवत्तस्य


वेदप्रामाण्य-विमर्शः ३५१
प्रमाणान्तरासिद्धत्वात् । न चानुमानेन तत्सिद्धिनैयायिकानुमाननिरा-
करणयुक्तिभिरेवान्यानुमानानामपि निराकृतत्वात् ।
यदुच्यते सातिशयानां काष्ठाप्राप्तिः परिमाणानामुपलब्धा । यथा
कुवलामलकबिल्वेषु महत्त्वस्य सातिशयस्याकाशे काष्ठाप्राप्तिः । साति-
शयञ्चेदं विज्ञानमुपलभ्यते तत्तदेकदिग्बहुविषयादित्थं व्याप्त्या । तदिदमपि
क्वचित्काष्ठाप्राप्तं युक्तं, सर्वज्ञतैव काष्ठाप्राप्तिः । तदपि न; विकल्पासह-
त्वात् । तथाहि—यदि यतः परं नास्ति सा काष्ठा भवतु तत्प्राप्तिर्न तावत्
सार्वज्ञ्यप्राप्तिः । भूयिष्ठविषयत्वेन तु न सार्वज्ञ्यम् । पार्थिवस्य गोलकस्य
पार्थिवान्तरापेक्षं बहुतराकाशावकाशाव्यापित्वेपि न सर्वव्यापिता । अथ
यतः परं न सम्भाव्यते सा काष्ठेति तन्न; कार्यद्रव्यैर्व्यभिचारात् । नहि
सातिशया अपि घटादयः परा संभावनीयातिशायिनः, अन्यानवकाश-
प्रसङ्गात् । एकेन सर्वव्याप्तेः । न च गुणत्वेनेति विशेषणान्न व्यभिचार
इति वाच्यम्, तद्गतानां गरिमादीनां तदवस्थाऽसम्भवात् सर्वगुरुत्व-
वद्भिरेककार्यारम्भाभावान् ।
ऐश्वर्यफलस्य धर्मस्य न सा काष्ठा तदपेक्षयैश्वर्यादिजननाद्धर्मस्यापि ।
ईश्वरैश्वर्यस्य धर्मफलत्वाभावात् । क्लेशकर्मविपाकाशयापरामर्शादने-
कैश्वर्यप्रसङ्गादैश्वर्यव्याघातात् ।
ननु चेश्वरं विना कर्मणां फलदातृत्वञ्जगत्कर्तृत्वं वा नोपपद्यत
इति तदर्थमीश्वरकल्पनमावश्यकमिति चेन्न, मीमांसकैः कर्मभिरेव
तत्साधितत्वात् ।
तथाहि-उपदेशो विधिः, नाज्ञादिः, उपदेशश्च नियोज्यप्रयोजने
कर्मणि लोकशास्त्रयोः प्रसिद्धः । यथाऽऽरोग्यकामो जीर्णे भुञ्जीत, एष
सुपन्था गच्छत्वनेन भवान्, आज्ञादिस्तु नियोक्तृप्रयोजनस्तत्राभिप्रायस्य
प्रवर्तकत्वात्, अपौरुषेये वेदे च तदसम्भवात् । तदेवमुपदेशस्य नियो-
ज्यानुष्ठात्रपेक्षितप्रयोजनानुकूलव्यापारगोचरत्वमेव । तथा च—“स्वर्ग-
कामो यजेत” इत्यादी यागादयो नियोज्यापेक्षितस्वर्गादिसाधनतया
गम्यन्ते ।
“स्वर्गकामो यजेत" इत्यादिश्रुतिभिः कर्मफलसम्बन्धः श्रूयते, न च

३५२ वेदस्वरूप-विमर्शः
किमप्यपूर्वमनुत्पाद्य कर्म विनश्यत् कालान्तरितं फलं दातुं शक्नोतीति
तदन्यथानुपपत्त्या कर्मणः काचिदुत्तरावस्था फलस्य पूर्वावस्था वा
कल्पनीया । तथा च कर्मणो यत्फलं प्रति साधनत्वं श्रुतिषु श्रुतं
तदुपपादनाय कर्मणोऽवान्तरव्यापाररूपमपूर्वमभ्युपेयते । न च व्यापार-
वतः कर्मणोऽनुक्षणविनाशिनोऽसत्त्वे कुतो व्यापारावस्थितिरिति वाच्यम्,
व्यापारवति सत्येव व्यापारो । नास्तीति नियमाभावात् ।
अतएवाग्नेयादिषु प्रध्वंसिष्वसत्स्वपि तदुत्पन्नपूर्वाणां परमापूर्वे
जनयितव्ये तदवान्तरव्यापारत्वाभ्युपगमः । असत्यपि धृतपानादिकर्मणि
तेन पुष्टौ कर्तव्यायां तत्परिणामभेदानां तदवान्तरव्यापारत्वाभ्युपगमश्च ।
तदेतज्जैमिनिमतं “धर्मं जैमिनिरत एव” इति सूत्रेगोत्तरमीमांसा-
[

:
क्रियात्वसामान्यस्य (word ends)
क
र
ण
मा
त्रा
धी
न
व्या
प्त
त्वे
ऽ
पि
Let's check letter 3 and 4 again:
Wait, letter 3: ण.
Letter 4: wait, is that a 'म' or 'भा'?
Wait, let's compare letter 4 with 'म' in 'सामान्यस्य' right before it!
In 'सामान्यस्य':
स - ा - म - ा - न - य - स - य
The 'म' in 'सामान्यस्य' has a flat top, left vertical down, loop, horizontal to the right vertical stem, and an aa-matra after it!
Now look at letter 4 in this word:
It has:
a left vertical with a loop, horizontal to the right vertical stem, and an aa-matra!
Wait, BUT DOES IT HAVE a 'ण' before it, or 'ण' with something?
Wait, look at letter 3:
Is it 'ण'?
Look at 'ण' in 'पक्षधर्मताबशेन' (line 27):
'शेन' - no, 'पक्षधर्मताबशेन' has no ण.
Look at 'ण' in 'कारण' (line 5):
क - ा - र - ण. The ण has a U-shaped loop and a vertical bar.
In line 28, letter 3 has a U-shaped loop and a vertical

३५६ वेदस्वरूप-विमर्श
पक्षधर्मतावशाच्चेन्द्रियकरणविशेषसिद्धिर्भवति' अत एव न दृष्टसलक्षण-
स्यैव साध्यस्य सिद्धिरुक्तेन्द्रियानुमाने दृष्टविलक्षणसाध्यसिद्धेरिष्टत्वात् ।
यत्तु रूपादिपरिच्छित्यन्यथानुपपत्त्यातत्सिद्धिरिति तदप्य-
किञ्चित्करम् । सर्वज्ञत्वसिद्धावपि तथैव वक्तुं शक्यत्वात् ।
यदप्युक्तमहद्वत्क्षेत्रज्ञपरमाणुसंयोगाद्भूतभौतिकायुत्पत्त्युपपत्त्या न
तदनुपपत्त्या सर्वज्ञसिद्धिरिति तदतोव मन्दम्, चेतनानाधिष्ठितस्यापूर्वस्य
तदुपपादकत्वासम्भवात् । न च क्षेत्रज्ञाधिष्ठानेन तदुपपत्तिस्तस्याल्पज्ञ-
स्याधिष्ठातृत्वानुपपत्तेः ।
यच्चोक्तं परमेश्वरस्य प्राप्तखिलप्रापणीयस्य प्राप्तव्याभावादत
एव क्रीडासाध्यस्यापि सुखस्याप्राप्तत्वान्न क्रीडार्थमपि तत्प्रवृत्तिर्नापि
कारुण्येन परार्थं प्रवृत्तिः सुखमयस्यैव लोकस्य सृष्टिप्रसङ्गादित्यादि,
तदप्यसङ्गतम् । धर्माधर्मसापेक्षस्य परमेश्वरस्य विचित्रप्रपञ्चनिर्माणे
बाधानुपपत्तेः। न च दुःखहेतोरधर्मस्य कारुण्येनाधिष्ठानं नोपपद्यत
इति वाच्यम्, तस्यापि पापक्षयवैराग्यादिजननाद्युपायतया कारुण्येन
तदधिष्ठानोपपत्तेः । न च दुःखोत्पादस्येश्वराधीनत्वेन तस्य तत्र
वैमुख्येन तदनुत्पादे तदत्यन्तविमोक्षरूपस्यापवर्गस्यानायासेन सिद्धत्वा-
त्कृतं कारुण्येन परार्थप्रवृत्त्येति वाच्यम्; सृष्टिमन्तरा तदनुपपत्तेः ।
तथाहि— "ऋते ज्ञानान्न मुक्तिः” 'तमेव विदित्वातिमृत्युमेति नान्यः
पन्था विद्यतेऽयनाय" इत्यादिश्रुतिप्रामाण्यात् तत्त्वसाक्षात्कार-
मन्तराऽनाद्यविद्याकामकर्मलक्षणबन्धनिवृत्तिपूर्वकरमानन्दावाप्तिलक्षणो
मोक्षो न सिद्धयेव । तत्त्वसाक्षात्कारश्च वेदान्तश्रवणादिसाधनमन्तरा
नोपपद्यते, श्रवणादिकञ्च देहेन्द्रियादिसृष्टिमन्तरा नोपपद्यत इति—कुतः
सृष्टिमन्तरा तद्वैमुख्यमात्रेण मोक्षसिद्धिः ?
यच्चोक्तं नासर्वज्ञः सर्वज्ञं ज्ञातुं शक्नोति, तज्ज्ञानाय सर्वज्ञान्तराभ्युप-
गमेऽनवस्थाप्रसङ्ग इति; तदपि धूलिप्रक्षेपमात्रम्, पूर्वोक्तैरनुमानैः श्रुति-
स्मृतीतिहास-पुराणादिभिः परमेश्वरस्य सार्वज्ञ्यमस्मदादिभिरपि ज्ञातुं
शक्यत्वात् । अपि चैवमेव शास्त्रज्ञज्ञानेऽपि विकल्पः सम्भवति ।


वेदप्रामाण्य-विमर्शः ३५७
शास्त्रज्ञं ज्ञात्वा शास्त्राध्ययनाय छात्राः प्रवर्तन्ते । यत्रापि नाशास्त्रज्ञः
शास्त्रज्ञं ज्ञातुं शक्नोति, तज्ज्ञानमन्तरा कथमध्ययनाय प्रवर्त्येत ?
शास्त्रज्ञक्षेत्रांतरौ प्रवर्तिष्येते ?
वस्तुतस्तु पूर्वमीमांसकानामपि नेश्वरस्य तत्सर्वज्ञतायाश्च खण्डने
तात्पर्यम् । किन्तु तत्रानुमानस्वातन्त्र्यखण्डन एव । उत्तरमीमांसकंस्तु
“तन्त्वौपनिषदं पुरुषं पृच्छामि” "नावेदविन्मनुते तं बृहन्तम्" "शास्त्रयो-
नित्वात्” इत्यादिश्रुतिसूत्रादिभिर्धर्मस्येव ब्रह्मणोऽपि वेदैकसमधि-
गम्यत्वमुपेयते । वेदार्थस्योपपत्तये बुद्ध्यारोहाय च "मन्तव्य” इति
श्रुत्यनुरोधेनैव श्रुत्यविरुद्धानुमानानि युक्तिरूपेणोपादीयन्ते “मन्तव्यश्चो-
पपत्तिभिरे'त्याद्योक्तेः ।
नैयायिकादिभिस्त्वीश्वरोक्तत्वेन वेदस्य प्रामाण्यमुपेयते, तस्य च
वेदोक्तत्वेन सिद्धावन्योन्याश्रयापत्त्या तत्र स्वातन्त्र्येणानुमानप्रामाण्य-
मुच्यते । तत्रानुमानेनेश्वरसामान्यसिद्धावपि न तस्य वेदकारत्वं साधयितुं
शक्यते । तथाह्येज्यैरपि वेदविरोधिभिर्बौद्धजैनख्रिष्टीयमौहम्मदमतानु-
यायिभिः स्वस्वसम्प्रदायानुकूलग्रन्थकारस्यापि परमेश्वरत्वसर्वज्ञत्वादिकञ्च
साधयितुं शक्यत एवेति तैरविशेषोपत्तिरेव वेदस्य भविष्यति । तथात्वे
सापेक्षत्वेनैव वेदस्य प्रामाण्यस्वतस्त्वं भज्येत ।
वैदिकैस्तु चतुर्मुखस्य ब्रह्मणो निर्मात्रापीश्वरेण वेदा न निर्मीयन्ते
किन्तु प्रवाहरूपेण नित्यसिद्धा एव वेदा ब्रह्मणो हृदि प्रकाश्यन्ते । “यो
वै ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै" इत्यादिश्रुतेः ।
वेदान्तमतरीत्या वेदानां ब्रह्मोपादानकत्वे तत्र ब्रह्मणः स्वातन्त्र्या-
भावेनापौरुषेयत्वमेव । तावतैवापास्तसमस्तपुंदोषशङ्काकलङ्कत्वेन धर्म
इव ब्रह्मण्यपि स्वत एव प्रामाण्यम् । नैवात्र मीमांसकानां विरोधाले-
शोऽपि । न च सृष्टिप्रलयाऽङ्गीकारेण सम्प्रदायविच्छेद इति वाच्यम् ,
परमेश्वरे सम्प्रदायाविच्छेदस्य वर्तमानत्वात् । न च बहुषु सम्प्रदाया-
विच्छेदे यथाश्वासो न तथैकस्मिन्नीश्वरेऽपीति वाच्यम्, बहूनामप्यपेक्ष-
याऽऽप्ततम एकस्मिन्नपि तत् सम्भवात् । बहुष्वनाप्तेषु तदसम्भवाच्च ।
अपि च सुप्तप्रतिबुद्धन्यायेन हिरण्यगर्भादिषु बहुषु प्रजापत्यादिषु

सर्वस्वरूप-विमर्श तथा वेदप्रामाण्य-विमर्शः से संबंधित प्रस्तुत पृष्ठों का पंक्ति-दर-पंक्ति लिप्यन्तरण नीचे दिया गया है:


[पृष्ठ ३५८]

३५८ वेदस्वरूप-विमर्श
विशिष्टतपःसमासादितसिद्धिषु सम्प्रदायपारम्पर्याविच्छेदः सृष्टिप्रलया-
ङ्गीकारेऽपि शक्यसमर्थन एवेति न काचिदनुपपत्तिः । ननु वेदस्य
ब्रह्मोपादानकत्वे कथमपौरुषेयत्वमिति चेन्न; प्रामाणान्तरेणार्थमुपलभ्य
विरचितत्वस्यैव पौरुषेयत्वेन वेदे तदभावेनापौरुषेयत्वस्यानपायात् ।
नहि पुरुषोच्चरितत्वं पौरुषेयत्वं तथात्वे मीमांसकम्मन्यस्यापि मते पौरुषे-
यत्वापातात् । वर्णानित्यत्ववादिनोऽपि विभूनां नित्यानां वर्णानां देशतः
कालतश्च पौर्वापर्य रूपमानुपूर्व्यं नोपपद्यते । न चानुपूर्व्यमन्तरा वर्णानां
पदत्वं पदानां च वाक्यत्वं वा सम्भवति । तस्मात्क

३६० वेदस्वरूप विमर्श
वाचस्पतिमिश्रास्तु—यद्यपि ब्रह्मणः स्वरूपचैतन्येनैव स्वसंसृष्टसर्वाव-
भासकत्वं तस्य च स्वरूपेणाकार्यत्वेऽपि दृश्यावच्छिन्नरूपेण ब्रह्मकार्यत्वेन
ज्ञानकर्तृ त्वश्रुतेरपि न विरोध इत्याहुः ।
“जीवाश्रया ब्रह्मपदा अविद्या तत्त्वविन्मता” इति हि प्रसिद्धम् ।
वाचस्पतिमते जीवाश्रयाया ब्रह्मविषयाया अविद्याया विषयीकृतं ब्रह्म
स्वत एव जाड्याश्रयप्रपञ्चाकारेण विवर्तमानतयोपादानम्, माया तु
सहकारिमात्त्रम्, ब्रह्मणोऽविद्याविषयत्वे सर्वज्ञेऽपि सर्वज्ञस्य तस्याविद्या-
श्रयत्वायोगात् । “मूढोऽहं त्वां कथं जाने मोहितस्तव मायये” त्यादौ
मोहविषयत्वे न दुर्ज्ञेयमाहात्म्यातिशयत्वं भगवत उच्यते । मोहाश्रयत्वेन
मूढत्वापत्तिर्भगवति प्रसज्येतेति वाचस्पतिमत्तमेव भक्तिश्रद्धानुकूलम् ।
यद्यपि संक्षेप