वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 174, कुल 237 में से
संदर्भ में पढ़ेंप्रामाण्यम् ? यदि तादृक् कश्चन मुक्तः सर्वज्ञोऽद्यत्वे दृश्येत, ततो-
ऽन्योऽपि सम्भाव्येत । एवमेव प्रजापतेः प्रथममार्षज्ञानेनैव वेदो-
ऽवबुद्धो भवतीत्यपि न विचारसहम्; अनुच्चरितशब्दज्ञानमपि
सर्वज्ञज्ञानवत् धर्माधर्मादिज्ञानवच्च कारणमेव; तत्रापि तेन कृतो
वा नित्यसिद्ध एव प्राप्तो वेत्यनाश्वासस्यैवाप्रामाण्यकारणत्वसम्भ-
वात् । न च तद्वचनात् विश्रम्भसम्भवः; अद्यत्ववत् तदानीमपि
पुरुषाणामनृतवादित्वसम्भवात् ।
अयमागमप्रतिभासः स्वप्नादिवत् आकस्मिको निर्निमित्त-
श्चाप्रमाणञ्च भवतीत्यविश्रम्भ एव । अस्मिन् पक्षे बहून्यदृष्टानि
कल्पनीयानि । अनुच्चरितशब्दग्रहणसामर्थ्यवतोऽसाधारणपुरुषस्य
कल्पनम् । तथैवागमन्नित्यतां कल्पयित्वा जन्मान्तरानुभवनिबन्धनं तत्स्म-
रणकल्पनं गौरवा