वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 188, कुल 237 में से
संदर्भ में पढ़ें३५० वेदस्वरूप-विमर्शः
अत्र वाचस्पतिमिश्राः-तापत्रयपरीतान् प्रेत्यभावमहार्णवाज्जन्तू-
नुद्धरिष्यामि ज्ञानधर्मोपदेशेन, न च ज्ञानक्रियाशक्त्यतिशयसम्प-
त्तिमन्तरेण तदुपदेशः । न चैवमपहतरजस्तमोमलविशुद्धसत्त्वोपादानं
विना इत्यालोच्य सत्त्वप्रकर्षमुपादत्ते । अविद्यादिभिरपरामृष्टोऽप्या-
त्मारूपेण शैलूष इव तत्तदभिमानोपि न भवति भ्रान्तः । नचैवमुद्दिधीर्षया
भगवता सत्त्वमुपादेयम् । तदुपादाने च तदुद्दिधीर्षा चेदन्योन्याश्रय
इति वाच्यम् । सृष्टिप्रलयप्रवाहस्यानादित्वेन तदनुपपत्तेः ।
नचेश्वरस्य सत्त्वप्रकर्षे न कस्यचित्प्रत्यक्षमनुमानं वास्ति, न चेश्वर-
प्रत्यक्षप्रभवं शास्त्रमिति युक्तम् । कल्पयित्वापि स्वात्मैश्वर्यप्रकाशनाय
तथोक्तिसंभवेनानाप्तवासंभवदिति वाच्यम्, मन्त्रायुर्वेदादिष्वीश्वर-
प्रणीतेषु प्रवृत्तिसामर्थ्याव्यभिचारनिश्चयात् प्रामाण्यस्य सिद्धत्वेन
तन्निर्मितस्य शास्त्रस्यानातिशङ्कनीयत्वात् । न चौषधिभेदानां तत्संयोग-
विशेषाणां च मन्त्राणां तत्तदङ्गावापोद्वापेण सहस्रेणापि पुरुषायुषैर्लौकि-
कैकमात्रव्यवहारी शक्तः कर्तुमन्वयव्यतिरेकौ । न चागमादन्वयव्यति-
रेकौ ताभ्यां चागमस्तयोरनादित्वादिति प्रतिपादयितुं युक्तम् । महाप्रलये
तत्सम्प्रदायविच्छेदात् । न च प्रलयसत्त्वे प्रमाणाभावः । महदहङ्कारा-
दिरूपपरिणामेन प्रधानेनापि कदाचित्सदृशपरिणामेनापि भाव्यम् ।
सदृशपरिणाम एव साम्यावस्था । स च महाप्रलयः । तस्मान्मन्त्रायुर्वेदव-
द्वेदराशिरपि परमेश्वरनिर्मितः प्रमाणभूत एव । सृष्टिप्रलयौ चागमानुमा-
नाभ्यां सिद्धयतः । सर्वज्ञपूर्वकत्वे सति सिद्धमाप्तोक्तत्वेन मन्त्रायुर्वेद-
प्रामाण्यवद्वेदप्रामाण्यम् ।
परमेश्वरीय नित्यज्ञानमूलत्वेन प्रवाहरूपेण नित्यान्येव वेदवाक्यानि ।
यदि न नित्यानि कथं प्रमाणानि ? पुरुषनिर्मितत्वे तु पुरुषाणां
चित्राभिसन्धित्वेन भ्रमशङ्का न शक्याऽपाकर्तुम् । तस्माद-
पौरुषेयत्वमेव पुरुषाश्रयान्दोषानपाकुर्वद्वेदे तत्प्रामाण्यव्यवस्थापकम् ।
तदेतत्पातञ्जलमतमपि मीमांसकैः प्रतिक्षिप्यते । परमेश्वरमूलकत्वेन
शास्त्रप्रामाण्यं शास्त्रप्रामाण्येन चेश्वरसिद्धिरित्यन्योन्याश्रयान्न तदुभय-
सिद्धिः । न चानादित्वेन तच्छक्यसमर्थनम् । बीजाङ्कुरादिवत्तस्य
वेदप्रामाण्य-विमर्शः ३५१
प्रमाणान्तरासिद्धत्वात् । न चानुमानेन तत्सिद्धिनैयायिकानुमाननिरा-
करणयुक्तिभिरेवान्यानुमानानामपि निराकृतत्वात् ।
यदुच्यते सातिशयानां काष्ठाप्राप्तिः परिमाणानामुपलब्धा । यथा
कुवलामलकबिल्वेषु महत्त्वस्य सातिशयस्याकाशे काष्ठाप्राप्तिः । साति-
शयञ्चेदं विज्ञानमुपलभ्यते तत्तदेकदिग्बहुविषयादित्थं व्याप्त्या । तदिदमपि
क्वचित्काष्ठाप्राप्तं युक्तं, सर्वज्ञतैव काष्ठाप्राप्तिः । तदपि न; विकल्पासह-
त्वात् । तथाहि—यदि यतः परं नास्ति सा काष्ठा भवतु तत्प्राप्तिर्न तावत्
सार्वज्ञ्यप्राप्तिः । भूयिष्ठविषयत्वेन तु न सार्वज्ञ्यम् । पार्थिवस्य गोलकस्य
पार्थिवान्तरापेक्षं बहुतराकाशावकाशाव्यापित्वेपि न सर्वव्यापिता । अथ
यतः परं न सम्भाव्यते सा काष्ठेति तन्न; कार्यद्रव्यैर्व्यभिचारात् । नहि
सातिशया अपि घटादयः परा संभावनीयातिशायिनः, अन्यानवकाश-
प्रसङ्गात् । एकेन सर्वव्याप्तेः । न च गुणत्वेनेति विशेषणान्न व्यभिचार
इति वाच्यम्, तद्गतानां गरिमादीनां तदवस्थाऽसम्भवात् सर्वगुरुत्व-
वद्भिरेककार्यारम्भाभावान् ।
ऐश्वर्यफलस्य धर्मस्य न सा काष्ठा तदपेक्षयैश्वर्यादिजननाद्धर्मस्यापि ।
ईश्वरैश्वर्यस्य धर्मफलत्वाभावात् । क्लेशकर्मविपाकाशयापरामर्शादने-
कैश्वर्यप्रसङ्गादैश्वर्यव्याघातात् ।
ननु चेश्वरं विना कर्मणां फलदातृत्वञ्जगत्कर्तृत्वं वा नोपपद्यत
इति तदर्थमीश्वरकल्पनमावश्यकमिति चेन्न, मीमांसकैः कर्मभिरेव
तत्साधितत्वात् ।
तथाहि-उपदेशो विधिः, नाज्ञादिः, उपदेशश्च नियोज्यप्रयोजने
कर्मणि लोकशास्त्रयोः प्रसिद्धः । यथाऽऽरोग्यकामो जीर्णे भुञ्जीत, एष
सुपन्था गच्छत्वनेन भवान्, आज्ञादिस्तु नियोक्तृप्रयोजनस्तत्राभिप्रायस्य
प्रवर्तकत्वात्, अपौरुषेये वेदे च तदसम्भवात् । तदेवमुपदेशस्य नियो-
ज्यानुष्ठात्रपेक्षितप्रयोजनानुकूलव्यापारगोचरत्वमेव । तथा च—“स्वर्ग-
कामो यजेत” इत्यादी यागादयो नियोज्यापेक्षितस्वर्गादिसाधनतया
गम्यन्ते ।
“स्वर्गकामो यजेत" इत्यादिश्रुतिभिः कर्मफलसम्बन्धः श्रूयते, न च