वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 186, कुल 237 में से
संदर्भ में पढ़ेंHere is the line-by-line transcription of the provided image into pure Devanagari Markdown:
[बायाँ पृष्ठ]
३४६ वेदस्वरूप-विमर्श
सम्भवति, कादाचित्कादृष्टपरिपाकादेव देशकालादिप्रतिनियतकार्यो-
त्यादोपपत्त्या तद्व्यतिरेकाव्यभिचारस्यानिश्चितत्वात् ।
यदि च घटादेद्विकर्तृ कत्वं ततः क्षित्यङ्कुरादीनामपि द्विकर्तृ कत्वा-
पत्त्येश्वेरश्वरप्रसङ्गादनवस्था । यथा प्रत्यक्षसिद्धकुलालादिकर्तृ केऽपि
घटादौ तावत्तद्बोधोपपद्यमानोत्पादे चेतमान्तरमीश्वरस्तत्कर्त्तारं कुलामधिष्ठातुं
कल्प्यते, तथैवेश्वमधिष्ठातुमीश्वरान्तरमित्यनवस्था । न चानवस्था-
प्रसङ्गादेव न द्वितीयस्येश्वरस्यानुमानमिति वाच्यम्; एकानुमानेऽप्यन-
वस्थायास्तुल्यत्वात् लब्धपरिपाकादृष्टवत् । क्षेत्रज्ञसंयोगादेव क्षित्यादि-
कार्योत्पत्तावीश्वरकल्पनाया अनवकाशात् । अथ न द्व्यधिष्ठातृका
घटादयः सर्वमेकाधिष्ठातृकमिति नेश्वरान्तरानुमानञ्च न चानवस्थेति चेत्,
सर्वज्ञत्वासिद्धेः ।
यदपि च यत्परस्परोपकार्योपकारकभावेन व्यवस्थितं तदेककर्तृकं
दृष्टम्, यथा रथावयवा एकतक्षककृतिपूर्वका दृष्टास्तथा क्षित्यङ्कुरादिकमपि
परस्परोपकार्योपकार्योपकारकभावेन व्यवस्थितमिति तेनाप्येककर्तृकेन
भाव्यमिति जगतकर्तु : सार्वज्ञ्यसिद्धिरिति । तदप्यकिञ्चित्करम्,
रथादीनां नानातक्षककृतिपूर्वकत्वस्यापि दर्शनात् । अपि चेश्वरस्य क्लेशकम-
विपाकाशयापरामर्शाभ्युपगमात् कर्माभावे देहाद्यनुपपत्तिस्तदभावे
बुद्धिरीश्वर्यं वा नोपपद्यते । कुतः सावश्यम् ? वह्न्यभावे धूमस्येव
कर्माशयाभावे शरीरादीनामनुपपत्तेः । यस्य मते सर्वज्ञेऽपि कर्माशयसत्वं
तन्मते सर्वज्ञत्वस्य कर्माशयपूर्वकत्वेन कर्मज्ञानमन्यतोऽभ्युपेतव्यं येन
कर्माशयेनास्य शरीरादयो जनयितव्यस्तेनापि ज्ञातेनाधिष्ठितेन च
भाव्यम्, तथाचानवस्था । तत्रापि चैष एव प्रसङ्गः ।
ननु हेतुभावे कार्य्याभाव इति नियमेन यदि तनुभुवनादीनां हेतु-
पूर्वकत्वं सिद्धयति तथा सर्वज्ञत्वसिद्धिस्तदसिद्धौ दूषणमपि न
सिद्धयति । तथा च ।
“यत्रोभयोः समो दोषः परिहारश्च तादृशः ।
नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारणे ॥”
इति रीत्या नैकोऽनुयोगमर्हतीति चेन्न, वैलक्षण्यात् ।
[दायाँ पृष्ठ]
वेदप्रमण्य-विमर्शः ३४७
अयमभिप्रायः-प्रत्यक्षं दर्शननिरपेक्षमुपजायमानमदृष्टचरमपि, त्रैलोक्य-
विलक्षणमपि, स्वलक्षणमर्थं गोचरयितुं शक्नोत्येव अनुमानं तु व्याप्त्य-
पेक्षितया व्याप्तेश्च पूर्वदर्शनाधीनतया दृष्टसद्रक्षणमेव गोचरयति न
विलक्षणमदृष्टलिङ्गसम्बन्धात् । तथा च तनुभुवनादिहेतुत्वेनानुमोयमाना
बुद्धिर्यथादर्शनमेवानुमीयेत । सा चानित्या शरीरात्ममनःसंयोगहेतुरसर्व-
विषयास्मदाद्युपलब्ध्वेति तद्विधैवानुमातव्या । एवञ्च नित्यत्वसर्वविषय-
त्वादि व्याहन्येत । नच वह्न्यनुमानस्यास्येव प्रसङ्गः पर्वतेऽनुमीयमा-
नस्य बह्नेर्महानसादिष्टप्रवहिविलक्षणाभावात् । न च देशभेदस्तद्वैल-
क्षण्याय पर्याप्तोऽन्यत्वात् । न च तर्हि कथं रूपाद्युपलब्धेरिन्द्रियानुमानं तत्र
दण्डादिकरणसालक्षण्याभावादिति वाच्यम्, रूपादिपरिच्छित्तिकरणा-
नामिन्द्रियाणामनुमानागोचरत्वात् । न च तर्हि कथमिन्र्दियसिद्धिः,
रूपादिपरिच्छित्यन्यथानुपपत्त्यार्थापत्त्या तत्सिद्धेः । साच सम्बन्धदर्श-
नानपेक्षतया न दृष्टसालक्ष्ण्यमपेक्षते । न चैवं बुद्धिमत्यूर्वकत्वेऽपि अर्था-
पत्तिरन्यथानुपपद्यमानस्य कस्यचिदप्यदर्शनात् । अदृष्टवत्क्षेत्रज्ञपरमाणु-
संयोगात् तनुभुवनादेरुत्पत्तेरुपपत्तेरप्यस्ति साधकापेक्षया साधनदूषणस्य
वैलक्षण्यम् । अपि च साम्येपि वैतण्डिको यः स्वपक्षस्थापनाहीनः
परपक्षं खण्डयति, स न निराकर्तुं शक्यते । अपि च तुल्यत्वे प्रतिबन्ध-
मात्राद् दूषणम्, साधनन्तु निरस्तप्रतिपक्षं साध्यसिद्धम् उपयुज्यते, न तु
सत्प्रतिपक्षं प्रतिबन्धमात्रात् न च बुद्धिमात्रं सन्निवेशविशेषहेतुः, अपि
तु प्रेक्षावुपबुद्धिविशेष एव तद्धेतुः । प्रेक्षा च विन्यासप्रयोजनविचार-
निर्णयरूपा । न च सा तत्र सम्भवति, स्वार्थपरार्थाभावात् । ननु
माभूत्सर्वज्ञो नियोक्ता धर्मज्ञस्त्विवष्यताम् । तदुक्तम्-
'हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः ।
यः प्रमाणमसविज्ञो न तु सर्वस्य वेदकः ॥
कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ।
दूरं पश्यतु वा मा वा तत्त्वमिष्टन्तु पश्यति ॥
प्रमाणं दूरदर्शी चेद्वयं गृध्रानुपास्महे ॥”
ननु धर्मो रूपविशेषाभावात् कथं प्रत्ययपूर्व इति चेन्न । रूपवत