वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 181, कुल 237 में से
संदर्भ में पढ़ें३३६ वेदस्वरूप-विमर्शो
न पुनः सर्वं तस्याहेतुत्वाद् देशतः कालतो वाऽसन्निधानात् ।
अन्यथा सर्वस्य सर्वदर्शित्वप्रसङ्गात् ।
अपि च सर्वं न क्रमेण शक्यावगममानन्त्यादेव न वा यौगपद्ये-
नानन्त्यादेव ।
नैयायिकादयस्तु सर्वज्ञं जगत्कर्त्तारं परमेश्वरं प्रसाध्य तत्कर्तृकत्वेन
वेदस्यैव धर्माधर्मार्थों प्रामाण्यं साधयन्ति । तथा वार्तिकतात्पर्य्ये
वाचस्पतिमिश्रा वेदप्रामाण्यं सम्भावयन्ति । सम्भावनायास्तद्धेतुत्वात् ।
तदुक्तम्—
सम्भावितप्रतिज्ञायां पक्षः साध्येत हेतुना ।
न तस्य हेतुभिक्षाणुमुत्पतन्नेव यो हतः ॥”—इति ।
परमेश्वरस्य परमदयालोः प्रत्यक्षीकृतहेयोपादेयस्य अतएवापास्त
भ्रमप्रमादकरणापाटवादिसमस्तपुँदोषसामान्यस्य भूतोद्दिधीर्षया यथार्थ-
चिख्यापयिषया वेदनिर्मातृत्वम् । प्राणिसुखदुःखादिवैचित्र्यान्यथानुपपत्त्या
कारणवैचित्र्यं कल्प्यते । तच्च दृष्टभिन्नमदृष्टापूर्वधर्माधर्मादिशब्दितम् ।
तच्च न कस्यचिज्जीवस्य प्रत्यक्षमतीन्द्रियत्वात् । परमेश्वरश्च
तनुभुवनादिलक्षणकार्यस्य कर्त्तृत्वात्तन्निर्माणानुकूलतत्त्वज्ञानचिकीर्षाकृति-
मत्त्वेन क्लेशकर्माविपाकाशयैरपरामृष्टत्वेन सर्वज्ञः सर्वसमर्थः परमकारु-
णिकश्चेति ।
ननु भुवनादिकार्यविद्वानुमीयते । सोऽयमात्मीयहिताहितप्राप्तिपरिहा-
रोपायानविदुषोऽनेकविधदुःखदहनदह्यमानानवलोकयन् कथं न तप्येत,
तप्यमानश्च हिताहितप्राप्तिपरिहारोपायन्तत्त्वं विद्वान् कथं नोपदिशेत्; कथं
वान्यथोपदेिशेत् ? तस्मादनेन प्रजाः सृष्ट्वा ताभ्यो हिताहितप्राप्तिपरिहारो-
पायोऽवश्यमुपदेष्टव्यः । न ह्ययमनुपदिश्य स्थातुमर्हति, प्रजानां पितृ-
कल्पत्वास्योपदेशादेवर्षिपितृमनुष्यगोचरश्चातुर्वर्ण्येन चातुराश्रम्येणादराद्
ग्राह्यो धार्यश्च धर्मः। तस्माद् वर्णाश्रमाचारव्यवस्थापको महाजनपरिगृहीतो
वेदस्तत्प्रणीतः आप्तोक्तत्वान्मन्त्रायुर्वेदवन् प्रमाणमेव । न तथा शाक्यादिग-
म्बरसंसारमोचकादीनामागमाः ईश्वरप्रणीता बुद्धर्षभादीनां तत्प्रणेतृत्वस्य
वेदप्रामाण्य-विमर्शः ३३७
स्फुटतरत्वात् । न च शौद्धोदनप्रभृतयो विश्वकर्त्तारो येन सर्वज्ञा
भवेयुः । न च सम्भावनामात्रेण तत्प्रणीतेष्वागमेषु प्रेक्षावतामाश्वासो
युक्तः । न चैतेपामागमा वर्णाश्रमाचारव्यवस्थाहेतवः । नो खलु निषेकाद्याः
श्मशानान्ताः क्रियाः प्रजानामेते विदधति । बौद्धाद्यागमानुसारिणोऽपि
श्रुतिस्मृतिपुराणादीनुपजीव्यैव व्यवहरन्ति । सांवृतमिति प्रलपन्तोऽपि
अश्वघोषादयो बुद्धचरिते पुराणेतिहासाद्याश्रया एव कथा विपर्य्यस्त-
रूपेणोद्भूतवन्तः । तस्माद्वेदेषु जगन्निर्मातृकर्तृकत्वस्मृतिर्भवेद्वा मा वा
त एव त्वीश्वरप्रणीता इति पश्यामः ।
न चैतं चैत्यवन्दनादिवाक्यवदन्यकर्तृकाः स्मर्यन्ते । नान्य आगमो
लोकयात्रामुद्धहन् महाजनपरिगृहीत ईश्वरप्रणीततया स्मर्यमाणो दृश्यते ।
तस्माद्वेदा एवेश्वरप्रणीताः, त एव त्रैवर्णिकैरद्य यावत्प्रयत्नेन गृह्यन्ते
धार्यन्ते च । तदर्थपालनायाञ्च महर्षिपरम्पराभिरङ्गोपाङ्गेतिहासपुराणधर्म-
शास्त्राणि प्रणीतानि । बुद्धादिवाक्यानि न तथाभूतानि । न चैतेषां मन्वा-
दिवाक्यवद् वेदमूलकत्वेन प्रामाण्यम् । वेदनिन्दकबुद्धवाक्येषु वेदमूल-
कत्वेन प्रामाण्यम् । वेदनिन्दकबुद्धवाक्येषु वेदमूलकत्वानुमापकलिङ्गा-
भावात् । तत्सर्वज्ञत्वसंशयेन चानुभवमूलकत्वस्य च वक्तुम शक्य-
त्वात् । प्रवृत्तिसामर्थ्यानुमितप्रामाण्येषु मन्त्रायुर्वेदेषु वैदिकशान्तिक-
पौष्टिकादिकर्माभ्यनुज्ञानात् , रसायनादिकृत्यारम्भे च वेदविहितचान्द्रा-
यणादिप्रायश्चित्तोपदेशादाप्तप्रणीतेनायुर्वेदेन वेदानां प्रामाण्याभ्युपगमाद्
वेदानां प्रामाण्यमेव ।
अत्रानुमानमपि—“मन्त्रायुर्वेदवाक्यानि सर्वज्ञकर्तृकानि, महाजन-
परिगृहीतत्वे सत्यलौकिकार्थप्रतिपादकत्वात् ।” यानि तु न सर्वज्ञकर्तृ-
कानि तानि नैवंरूपाणि, यथा बुद्धादिवाक्यानि । तान्यलौकिकार्थान्यपि
न महाजनपरिगृहीतानि ।
मन्त्रायुर्वेदानां सत्यपि प्रवृत्तिसामर्थ्ये तासां तासामोषधीनां-
तत्संयोगभेदानाञ्च तत्तत्क्षारावापोद्धारभेदस्य च नासर्वज्ञः सहस्त्रेणापि
पुरुषायुषैः शक्तः कर्तुम् ।
वे० वि०-२२