वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 176, कुल 237 में से
संदर्भ में पढ़ेंHere is the line-by-line transcription of the Sanskrit text from both pages:
Left Page (Page 326)
३२६ वेदस्वरूप-विमर्श
न वाक्यत्वप्रयुक्तम् । वेदे तु संशयविपर्ययजनकत्वात् बोधकत्वात्
बाधकाभावाच्चानधिगतासंदिग्धाबाधितार्थविषयज्ञानजनकत्वदर्शनेन अप्रा-
माण्यकारणाभावात् स्वाभाविकं प्रामाण्यमेव ।
ननु 'वेदाः पौरुषेया वाक्यकदम्बरूपत्वात्, भारतादिवत्'
इत्याद्यनुमानैर्वेदानीं पौरुषेयत्वमेवेति चेन्न । स्मर्यमाणकर्तृकत्वस्यो-
पाधित्वात् । पौरुषेयमहाभारतादिवाक्यं स्मर्यमाणकर्तृकमेव । न च
तथा वेदे तत्साधयितुं शक्यते ।
नन्ववश्यं वाक्यानि केनचित्प्रणीतानि, तथैव शब्दानाभार्थैः
सम्बन्धोऽपि सकर्तृक एवाभ्युपेय इति चेन्न । कर्तुरनुपलम्भात् । यदि
स्यात् कर्ता, प्रत्यक्षादिप्रमाणैरुपलभ्येत । यद्दर्शनयोग्यमुपलब्भसामग्री-
सत्त्वेऽपि नोपलभ्यते, तन्नास्त्येवेति मन्तव्यम्; यथा-शशशृङ्गादिकम् ।
न च चिरवृत्तत्वात्कर्ता नोपलभ्यते, नासत्त्वादिति वाच्यम्; तथात्वेऽपि
तत्स्मरणस्यावश्यकत्वात् । न हि चिरवृत्तोऽपि न स्मर्यते । तथा च
वेदकर्तुः स्मरणाभावात् नास्त्येव कश्चिद्वेदकर्ताति प्रतीयते ।
ननु कचिदरण्यविप्रदेशेषु कूपारामादीनां मुक्तकश्लोकानाञ्च सन्तोऽपि
कतर्त्तारो न स्मर्यन्ते, तथेहापि समयव्यवहारयोः कर्तृस्मरणमुपपन्नमिति ।
तदसारम्; देशोत्साद-कुलोत्साद-सम्प्रदायविच्छेदादिभिः पूर्वोक्तकर्तृ-
णामस्मरणोपपत्तावप्यध्ययनाध्यापनतदर्थानुष्ठानशब्दार्थव्यवहारपारम्पर्य-
स्याविच्छेदेऽपि कर्तृविस्स्मरणानुपपत्तेः । अत एव प्रयोगः-"वेदाः
अपौरुषेयाः, सम्प्रदायाविच्छेदे सत्यस्मर्यमाणकर्तृकत्वादात्मवत्,
व्यतिरेके भारतवत् ।"
न च घटकर्तुकुलालस्मरणवत् वेदतत्पदार्थसम्बन्धकर्तृस्मरणे
व्यवहारिणां निष्प्रयोजनमिति कर्तृविस्मरणमुपपद्यत एवेति वाच्यम् ।
वैषम्यात् । तथाहि-निष्प्रयोजनत्वात् कुलालविस्मरणमुपपद्यते, न तु
तथा वेदकर्त्रादिस्मरणं निष्प्रयोजनं व्यवहाराणां तदधीनत्वात् । नहि
पाणिनेर्विस्मरणे आदैचां वृद्धिशब्देन व्यवहारः सम्भवति । तथा च यः
पदपदार्थसम्बन्धं करोति, यश्च वेदं निर्माय तदध्ययनाध्यापनतदर्थ-
यागोपासनाज्ञानादिव्यवहारं प्रवर्तयति, न तस्य विस्मरणे व्यवहारः
Right Page (Page 327)
वेदप्रामाण्य-विमर्शः ३२७
सम्भवति । वाक्यादर्थप्रतिपत्तिः तदर्थानुष्ठानञ्च वाक्यकर्तुः तदाप्त-
त्वस्य च स्मरणमन्तरा न सम्भवतः, अनाप्तवाक्यात्तददर्शनात् । यागादेः
स्वर्गादिसाधनतायाः प्रमाणान्तरानगोचरत्वात् । कर्तरि विश्श्रम्भादेव सर्वे
वेदार्थयागाद्यनुष्ठाने प्रवर्तेरन्निति कथं कर्ता विस्मर्येत ? तेनावश्यस्मर्त-
व्यत्वे सत्यस्मर्यमाणः स्वस्याभावमेवावगमयिष्यति । पाणिनिभिन्नस्य
पाणिनिमताननुसारिणो वा वृद्धिशब्दव्यवहारतो न केचिदादैचो
ऽवगच्छन्ति । यथा वाऽपिङ्गलस्य पिङ्गलाननुसारिणो वा मकारव्यवहारतो
न केचित् सर्वगुरुत्रिकं प्रतिपद्यन्ते । किन्तु वृद्धिरादैजिति वृद्धिसंज्ञाकर्तुः
पाणिनेः वृद्धिसंज्ञाचामादिरुत्तद्वृद्धमिति व्यवहारतो वृद्धिशब्देनादैचो
जानन्ति । एवमेव 'सर्वगुरुर्घर्मः' इति मगणसम्बन्धकर्तुः पिङ्गलाचार्यस्य
व्यवहारतः सर्वगुरुत्रिकं प्रतिपद्यन्ते । तथैव वेदवाक्यादर्थप्रतिपत्तिभि-
रक्षयं पदपदार्थसम्बन्धकर्ता तादृशपदकदम्बालकवेदवाक्यकर्ता चैक
एव, स चाप्त इति स्मर्तव्याः, न च स्मर्यन्ते ।
समयव्यवहारयोरेककर्तृकत्वविस्मरणे च नार्थनिश्चयः । प्रकृते
च विनापि कर्तुःस्मरणं, वेदवाक्यादर्थनिश्चयस्य प्रसिद्धत्वान्न कश्चिद्
वेदकर्ता सिध्यति । यदि कश्चिच्च विस्मरणमुपपद्येतापि, तथापि
प्रमाणमन्तरेण न कर्तुं निर्णयः कर्तुं शक्यः । केवलस्यानुपलम्भस्य
वस्त्वभावासाधकत्वेऽपि प्रमाणाभावसहकृतस्य शशविषाणादिवत् तथात्वे
बाधकाभावात् । ये पौरुषेयतां समर्थयन्ते, तेऽपि परम्परया कर्तृविशे-
षस्मरणं वक्तुं न शक्नुवन्ति । सामान्यतो दृष्टेन कर्तारमनुमाय स्वाभि-
मतं कञ्चन कर्तारं साधयन्ति । केचिदीश्वरम्, अन्ये हिरण्यगर्भम्,
केचिद् प्रजापतिं, अपरे अग्न्यादीन् देवान् । मन्वादिवत् स्मर्यमाणे
वेदकर्तरि नैतादृशी विप्रतिपत्तियुज्यते ।
स्मर्तव्यत्वे सति अस्मरणान् कर्तृभाव एवाध्यवसीयते । "ब्रह्म
स्वयम्भु", "वाचा विरूपनित्यया", "अनादिनिधना नित्या वागुत्सृष्टा
स्वयम्भुवा", "अत एव नित्यत्वम्" इत्यादिश्श्रुतिस्मृत्यनुसारेण वेदानां
नित्यत्वावगमाच्च कर्तृभावोऽध्यवसीयते । अत एव 'तस्माद् यज्ञात्सर्वहुत
ऋचः सामानि जज्ञिरे', 'अग्नेर्ऋग्वेद' इत्यादिबचनानां तु सम्प्रदाय-