सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

प्रकाशे वस्तुसंग्रहः ॥३१८॥

२८६ श्रीतन्त्रालोकः ।
प्रयोजनं भोगमोक्ष-
दानेनात्र विधिः स्फुटः ।
पञ्चविंशाह्निके श्राद्ध-
प्रकाशे वस्तुसंग्रहः ॥३१८॥
प्रयोजनं शेषवृत्ते-
र्नित्यार्चा स्थण्डिले परा ।
लिङ्गस्वरूपं बहुधा
चाक्षसूत्रनिरूपणम् ॥३१९॥
पूजाभेद इति वाच्यं
लिङ्गार्चासंप्रकाशने ।
नैमित्तिकविभागस्त-
त्प्रयोजनविधिस्ततः ॥३२०॥
पर्वभेदास्तद्विशेष-
श्चक्रचर्चा तदर्चनम् ।
गुर्वाद्यन्तदिनाद्यर्चा-
प्रयोजननिरूपणम् ॥ ३२१ ॥
पं० ६ क० पु० इयद्वाच्यमिति पाठः ।

श्लोकः ३२५ ] प्रथमाह्निकम् । २६७
मृतेः परीक्षा योगीशी-
मेलकादिविधिस्तथा ।
व्याख्याविधिः श्रुतविधि-
र्गुरुपूजाविधिस्त्वियत् ॥३२२॥
नैमित्तिकप्रकाशाख्ये
ऽप्यष्टाविंशाह्निके स्थितम् ।
अधिकार्यात्मनो भेदः
सिद्धपत्नीकुलक्रमः ॥३२३॥
अर्चाविधिर्दौतविधी
रहस्योपनिषत्क्रमः ।
दीक्षाभिषेकौ बोधश्चे-
त्येकोनत्रिंश आह्निके ॥३२४॥
मन्त्रस्वरूपं तद्वीर्य-
मिति त्रिंशे निरूपितम् ।
शूलाब्जभेदो व्योमेश-
स्वस्तिकादिनिरूपणम् ॥३२५॥
पं० ६ ग० पु० विधिर्मौनिविधी रहस्येति पाठः ।
३८

२६८ श्रीतन्त्रालोकः ।
विस्तरेणाभिधातव्य-
मित्येकत्रिंश आह्निके ।
गुणप्रधानताभेदाः
स्वरूपं वीर्यचर्चनम् ॥ ३२६ ॥
कलाभेद इति प्रोक्तं
मुद्राणां संप्रकाशने ।
इत्यादि न केवलमेवं, यावत् अन्यदपि अस्य
माहात्म्यं स्यात् इत्याह 'इति सप्ताधिकां, संप्रका-
शने' इत्यन्तम् । इह ग्रन्थकृता तत्त्वतः समस्तव्य-
स्तत्वेन सप्तत्रिंशदाह्निकानि उपनिबद्धानि इति ।
यथा पृथ्वीतत्त्वे भेदस्य प्राधान्यात् स्थूलेन रूपेण
सर्वमस्ति, तथा इहापि वक्ष्यमाणम् इत्युक्तं 'सर्व-
स्योद्देशनं क्रमात्' इति। परोपाये इति - शाम्भवोपाये,
अस्य च अविकल्पकमेव रूपम् इत्युक्तप्रायं, तच्च
भेदाभावे सति भवेत्, स च वाच्यवाचकात्मनो
विश्वस्य संविदेकरूपत्वे सति स्यात्, तत्र वाच्यात्मनो
विश्वस्य चित्प्रतिबिम्बत्वेन सामान्यविशेषात्मतया
पं० १६ ख० पु० विश्वस्य विश्वचिदिति पाठः ।

श्लोकः ३२६ ] प्रथमाह्निकम् । २६६
द्विविधस्य, वाचकात्मनो विश्वस्य च परामर्शोदय-
क्रममन्त्रार्थभिन्नरूपत्वाभ्यां संविदनतिरेकात् तदेक-
रूपत्वमुच्यते इत्यत्र एतत्प्रमेयत्रयोपक्षेपः । शाक्तस्य
च विकल्पकमेव रूपम् इति प्रथमं विकल्पस्यैव
संस्कार उक्तः, स च हेयाद्यालोचनद्वारेण तर्केण
अभिधीयते इति तदनन्तरं तत्तत्त्वम् । अन्यच्च
शुद्धविद्यात्मनस्तर्कस्यैव विस्फूर्जितं यत् तद्वशादेव
सद्गुरुप्राप्तिर्भवेत् इति तत्सतत्त्वमुक्तम् । तर्क एव च
साक्षाद्योगस्याङ्गम् इति अन्येषां योगाङ्गानामनुप-
योगित्वम् — तर्कस्य च शुद्धविद्यात्मतया भेदभावक-
मायीयविकल्पप्रतिघातित्वात् कल्पितस्य अर्चादेर-
नादरः तत एवाविकल्पसंस्कारस्य दाढ्यात् संवि-
च्चक्रोदयः, तदुदय एव च मन्त्राणां परं वीर्यं,
तथामर्श एव च वास्तवं जप्य्यादि, अत एव च संविदि
भेदाभावात् निषेधविधितुल्यत्वम् इत्येतन्नवसंख्याकं
प्रमेयमुपक्षिप्तम् । एवमाणवादावपि बुद्धिध्यानादेः
साक्षात्तदौपायिकत्वम् इत्येतदस्माभिः — स्पष्टत्वात्
पं० ५ क० पु० स चाहन्ताद्यालोचनद्वारेणेति, ख० पु० स चोपायाद्यालो-
चनेति पाठः ।