ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
तृतीयं पर्यायमाह—
अध्या० २ ख० ३ (११)] ऐतरेयारण्यकम् । १२३
द्वितीयं शंसेति स हान्नमित्येवाभिव्याहृत्य बृहती-
सहस्रं शशंस तेनेन्द्रस्य प्रियं धामोपेयाय, इति ।
विश्वामित्रं प्रतीन्द्र एवमुवाच, हे महर्षे त्वं मदीयान्नबुद्ध्या शंसित्वा मदीयं प्रियं स्थानं प्राप्तवानसि हे महर्षे स तादृशस्त्वं शस्त्रं पुनरपि द्वितीयं शंसेति । अन्यत्पूर्ववद्व्याख्येयम् । ननु कृत्स्नेऽपि निष्केवल्ये शस्त्रेऽक्षरगणनया बृहतीसहस्रमेकमेव संपद्यते न तु द्वितीयमस्ति तत्कथं द्वितीयं शंसेत्यभिधीयते, नायं दोषः । अत्र बृहतीसहस्रशब्देन तदवयवानां विवक्षितत्वात् । तृचाशीतयोऽन्नत्वेनाभिहिताः “अन्नमशीतयः” इत्युक्तत्वात् । अत्रापि त्रिवारमन्नत्वेनोपन्यस्यन्ते । अतो बृहतीसहस्रशब्देनात्र प्रथमपर्याये गायत्री तृचाशीतिर्विवक्षिता । द्वितीयपर्याये बार्हती तृचाशीतिः ।
तृतीयं पर्यायमाह—
तमिन्द्र उवाच ऋषे प्रियं वै मे धामोपागाः स वा
ऋषे तृतीयं शंसेति स हान्नमित्येवाभिव्याहृत्य बृहती-
सहस्रं शशंस तेनेन्द्रस्य प्रियं धामोपेयाय, इति ।
औष्णिही तृचाशीतिरत्र बृहतीशब्देन विवक्षिता । अन्यत्पूर्ववद्व्याख्येयम् ।
तृचाशीतिष्विन्द्रान्नत्वदृष्टिं विधाय प्राणस्य सर्वात्मत्वं दर्शयन्नाख्यायिकामुपसंहरति—
तमिन्द्र उवाच ऋषे प्रियं वै मे धामोपागा वरं ते
ददामीति स होवाच त्वामेव जानीयामिति तमिन्द्र
उवाच प्राणो वा अहमस्म्यृषे प्राणस्त्वं प्राणः
सर्वाणि भूतानि प्राणो ह्येष य एष तपति स एतेन
रूपेण सर्वा दिशो विष्टोऽस्मि तस्य मेऽन्नं मित्रं
दक्षिणं तद्वैश्वामित्रमेष तपन्नेवास्मीति होवाच, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके द्वितीयाध्याये
तृतीयः खण्डः ॥ ३ ॥ (११)
इन्द्रो हि यथोक्तप्राणात्मध्यानेन तत्साक्षात्कारं प्राप्य स्वानुभवसिद्धं सर्वात्मत्वमुपदिश्य सर्वात्मनः स्वस्य तृचाशीतिरूपं यदन्नं ध्यातव्यं तन्मित्रादिविशेषणैः प्रशशंस । लौकिकमित्रवत्प्रीतिजनकत्वादन्नस्य मित्रत्वम् । अभिवृद्धिहेतुत्वाद्वदक्षिणत्वम् । “दक्ष वृद्धौ” [ भ्वा० ग० प० ] इति धातुः । विश्वामित्रेण शंसनकाले संपादितत्वादिदं
१ ख. ग. स्वस्वत्ृ ।
२ ग. 'दिभिर्विशे' ।
१२४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
वैश्वामित्रम्। तादृगन्नं प्राप्याऽऽदित्यरूपेण सर्वदा लोके तपन्नेष एवास्मीत्येवं ध्यानदृष्टिसिद्धं स्वकीयं रूपमिन्द्रः प्रोवाच ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये द्वितीयारण्यके द्वितीयाध्याये तृतीयः खण्डः ॥ ३ ॥ ( ११ )
अथ चतुर्थः खण्डः । ( द्वादशः )
तिसृषु तृचाशीतिष्वन्नदृष्टिं विधाय वर्णविशेषेषु शरीरादिदृष्टिं विधत्ते—
तद्वा इदं बृहतीसहस्रं संपन्नं तस्य यानि व्यञ्जनानि तच्छ-
रीरं यो घोषः स आत्मा य ऊष्माणः स प्राणः, इति ।
"तदिदास भुवनेषु" [ ऋ० सं० म० १० सू० १२० ऋ० १ ] इत्यादिकं यन्मन्त्रजातं निष्केवल्यशस्त्रे विहितं तदेवेदमक्षरगणनारूपेण बुद्धिकौशलेन बृहतीसहस्रं संपाद्य ध्योतव्यम् । तस्य बृहतीसहस्रस्य मध्ये यानि ककारादीनि व्यञ्जनानि सन्ति तेषु शरीरदृष्टिं कुर्यात् । ककारादीनां हलिति पाणिनीयसंज्ञा । व्यञ्जनमिति श्रौतसंज्ञा । तामेवोपजीव्य कौमारव्याकरणे—“कादीनि व्यञ्जनानि” इति सूत्रितम् । यो घोषो घर्कारादिवर्णः स आत्मा मध्यशरीरम् । ये तूष्माणः शषसहास्ते प्राणवायुस्वरूपाः । घोषोष्मादिसंज्ञाऽपि कौमारे सूत्रिता—“वर्गप्रथमद्वितीयाः शर्षसाश्चाघोषा घोषवन्तोऽन्ये” “शषसहा ऊष्माणः” इति ।
तदेतच्छरीरादिध्यानं प्रशंसति—
एतद्ध स्म वै तद्विद्वान्वसिष्ठो वसिष्ठो
बभूव तत एतन्नामधेयं लेभे, इति ।
वसिष्ठनामको यो महर्षिरस्ति सोऽयं तदेतद्व्यञ्जनादीनां शरीरादिरूपत्वं विद्वान्वसिष्ठशब्दस्याभिधेयो बभूव । अतिशयेन निवासहेतुत्वमाच्छादयितृत्वं वा वसिष्ठत्वम् । प्राणो हि स्वप्रवेशेन निवासहेतुर्भवति । स्वव्याप्त्या सर्वमाच्छादयति । तादृशं प्राणात्मत्वं ध्यानेन प्राप्तवान्मुनिरप्यर्थद्वयवत्त्वेन वसिष्ठनामकत्वं लब्धवान् ।
पुनरपि प्रकारान्तरेण प्रशंसति—
एतदु हैवेंद्रो विश्वामित्राय प्रोवाचैतदु हैवेंद्रो भरद्वाजाय
प्रोवाच तस्मात्स तेन बन्धुना यज्ञेषु हूयते, इति ।
१ क. ॰शल्येन । २ ख. ग. ध्यातवान् । ३ ख. ग. सूत्रम् । ४ ख. ग. ॰कारभकारा॰ । ५ क. ॰षसहाश्चा॰ । ख. घ. ङ. ॰षसहाश्च घो॰ । ६ ख. ङ. ॰दिरूपं ध्या॰ । ७ क. ॰दकत्वं ।
अध्या० २ ख० ४ (१२)] ऐतरेयारण्यकम् । १२५
एतदेव व्यञ्जनादिषु शरीरत्वादिदर्शनमिन्द्रो विश्वामित्रभरद्वाजाभ्यामुपदिष्टवान् । तस्मात्स इन्द्रस्तेन शिष्यरूपेण बन्धुना सोमयागेषु सुब्रह्मण्यायामिन्द्राऽऽगच्छ हरिव आगच्छेत्येवं समाहूयते । महतेन्द्रेण महच्यामुपदिष्टत्वात्प्रशस्तमित्यर्थः ।
पुनरपि व्यञ्जनानि स्वरांश्र विभज्य तत्र रात्रिध्यानमहर्ध्यानं च विधत्ते—
तद्वा इदं बृहतीसहस्रं संपन्नं तस्य वा एतस्य बृहतीसहस्रस्य संपन्नस्य षट्त्रिंशतमक्षराणां सहस्राणि भवन्ति तावन्ति शतसंवत्सरस्याह्वां सहस्राणि भवन्ति व्यञ्जनैरेव रात्रीराप्नुवन्ति स्वरैरहानि , इति ।
विशेषविधिसंबन्धार्थं तद्वा इत्यादेः पुनः पुनरनुवादः । षट्त्रिंशदक्षरा बृहती । तस्यां च सहस्रगुणितायामक्षराण्युपि षट्त्रिंशत्संख्याकैः सहस्रैर्युक्तानि भवन्ति । संवत्सरश्च षष्ट्युत्तरशतत्रयदिनात्मकः । तस्मिन्संवत्सरे शतगुणितानि दिनान्यपि षट्त्रिंशत्सहस्रसंख्याकानि भवन्ति । ततः संख्यासाम्ये सत्यक्षरगतेषु तावत्संख्याकेषु व्यञ्जनेषु तावत्संख्याकारात्रिदृष्टिं कुर्यात् । तथा स्वरेष्वहर्दृष्टिं कुर्यात् । अकारमारभ्य मातृकायामौकारपर्यन्ता वर्णाः स्वराः । अत एव कुमारेणैवं सूत्रितम्—"सिद्धो वर्णसमाम्नायः" "तत्र चतुर्दशाऽऽदौ स्वराः" इति ।
यथोक्तसर्वविशेषणविशिष्टस्य प्राणदेवध्यानस्य प्रधानफलं दर्शयति—
तद्वा इदं बृहतीसहस्रं संपन्नं तस्य वा एतस्य बृहतीसहस्रस्य संपन्नस्य परस्तात्प्रज्ञामयो देवतामयो ब्रह्ममयोऽमृतमयः संभूय देवता अप्येति य एवं वेद, इति ।
प्रज्ञामयत्वादिगुणचतुष्टयेन फलेन च संबन्धार्थं तद्वा इदमित्याद्यनुवादः । बुद्धिविशेषसंपादितस्य बृहतीसहस्रस्य स्वरूपभूतः प्राणदेवः प्रज्ञामयश्चित्स्वरूपः सर्वज्ञ इत्यर्थः । देवतामयोऽग्निवाय्वादिसर्वदेवतासमष्ट्यात्मकः । ब्रह्ममयः सर्ववेदात्मकः । अमृतमयस्तत्त्वज्ञानोत्पादनेन मोक्षहेतुत्वान्मुक्तिरूपः । यः पुमानेवमुपास्ते स पुमानेव ता अग्निवाय्वादिकाः संभूय सर्वा अप्येकीकृत्याप्येति तद्देवतासमष्टिरूपं हिरण्यगर्भं प्राप्नोति ।
१ घ. ङ. °भजते । त° । २ क. ख. ग. °नि च भ° । ३ क. तस्मिंश्च सत्रे श° । ४ ख. ग. °स्मिन्सङ्ग्रहे श° । ५ क. ख. ग. °णिते सति दि° । ६ क. ख. °णैव सू° । ७ घ. ङ. °त्रिताः—"सिं° । ८ ग. °द्देश स्व° । ९ ख. ग. °दः । बुद्धि° । १० घ ङ. °शेषेकसं° । ११ क. °स्य संपन्नस्य स्व° ।
१२६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [२द्वितीयारण्यके-
तस्य चोपासकस्याध्यात्ममधिदैवं च व्यतिहारेण ध्यानं विधत्ते—
तद्योऽहं सोऽसौ योऽसौ सोऽहम्, इति ।
तत्तस्मिन्सर्वात्मके प्राणदेवतास्वरूपे योऽहमुपासकशरीरवर्ती सोऽसौ स एवाऽऽ-
दित्यमण्डलस्थः पुरुषः । तथा योऽसावधिदै(दै)वमादित्यमण्डलस्थो यैः पुरुषः सोऽहं
स एवोपासकशरीरस्थोऽहमस्मीत्येवमन्योन्यतादात्म्यं ध्यायेत् ।
अध्यात्ममधिदैवं च ध्येयवस्तुन एकत्वे संवादार्थं मन्त्रमुदाहरति—
तदुक्तमृषिणा—सूर्य आत्मा जगतस्तस्थुषश्चेति, इति ।
कृत्स्नमन्त्रस्य प्रतीकदर्शनाय चतुर्थपादः पठितः । स च मन्त्रः संहितायामेव-
माम्नातः—
“चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।
आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च” इति ।
[ऋ०सं०म०१सू०११९ऋ०१] अनीकशब्दो मुखवाची सैन्यवाची वा। यदेतदादि-
त्यमण्डलं तदेतद्देवानां मुखं सर्वव्यवहारहेतुत्वात् । देवानां मध्ये मुख्यमित्यर्थः । सैन्यपक्षे
बहुविधरश्मिसमूहरूपमिति व्याख्येयम् । तच्च मण्डलं चित्रं चायनीयं पूजनीयम् ।
यद्वा सर्वदिक्षु रश्मिप्रसारणेन विचित्रम् । देवानां मुखमित्येतदेव चक्षुरित्यादिना
प्रपञ्च्यते—मित्रवरुणादीनां चक्षुःस्थानीयमिदं मण्डलम् । एतदीयेन हि प्रकाशेन सर्वे
देवाः पश्यन्ति । तच्च मण्डलं लोकत्रयमाप्राः सर्वतः पूर्णं सद्दृर्तते । तन्मण्डलस्थः
सूर्यो जगतो जङ्गमस्य तस्थुषश्च स्थावरस्यापि प्राणिजातस्याऽऽत्मा प्रत्यक्स्वरूपमिति
मन्त्रस्यार्थः ।
एतद्विज्ञानमुपसंहरति—
एतदु हैवोपेक्षेतोपेक्षेत, इति ।
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके द्वितीयाध्याये
चतुर्थः खण्डः ॥ ४ ॥ ( १२ )
इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यके
द्वितीयोऽध्यायः ॥ २ ॥
एतदेव सर्वात्मकमादित्यस्वरूपं गुरुमुखादुपेक्षेत साक्षात्कुर्यात् । अभ्यासोऽध्या-
यसमाप्त्यर्थः ।
सूर्य आत्मा जगतः०—[ ऋ० सं० म० १ सू० ११९ ऋ० १ ]
१ घ. ङ. ॰देव आदि॰ । २ क. ॰लस्थोऽयं पु॰ । ३ ग. ध्येयः ।
अध्या० ३ ख० १ (१३) ऐतरेयारण्यकम् । १२७
तद्योऽहमित्यत्र यो व्यतिहार उक्तः सोऽयं तृतीयाध्यायस्य तृतीयपादे चिन्तितः—
“व्यतिहारे स्वात्मरन्योरेकधा धीरुत द्विधा ।
वस्त्वैक्यादेकधैव स्याद्दाढ्याय व्यतिहारधीः ॥
ऐक्येऽपि व्यतिहारोक्त्या धीर्द्वैधेशस्य जीवता ।
युक्तोपास्ये वाचनिकी मूर्तिर्वैद्यार्थ्यार्थिकम् ॥
ऐतरेयके पठ्यते—“तद्योऽहं सोऽसौ योऽसौ सोऽहम्” इति । तस्यायमर्थः—य एष देहेन्द्रियसाक्षी जीवात्मा स एवाऽऽदित्यमण्डलवर्ती परमात्मा, यो मण्डलवर्ती स एवास्मद्देहादिवर्तीति । तत्र स्वदेहरविमण्डलयोरन्योन्यव्यतिहारे श्रूयमाणेऽपि जीवब्रह्मैक्यलक्षणस्य वस्तुन एकत्वादेकधैव बुद्धिः कर्तव्या । न च व्यतिहारपाठवैय्यर्थ्यमेकस्यापि वस्तुनो दाढ्याय तदुपपत्तेः, इति प्राप्ते ब्रूमः—न खल्विदं तत्त्वावबोधप्रकरणं येनैकत्वप्रतिपत्तिर्दाढ्यमपेक्षते । किं तर्हि सगुणोपास्तिप्रकरणम् । उपास्तिश्च यथावचनमनुष्ठेया । तयोर्व्यतिहारेण द्वेधा बुद्धिः कर्तव्या । नन्वेवं सति जीवस्य ब्रह्मैक्यमुत्कर्षाय कल्पते । ब्रह्मणस्तु जीवैक्यमपकर्षाय स्यादिति चेन्नायं दोषः । यथा देहादिरहितस्याप्युपासकचित्तस्थैर्यार्थं चतुर्भुजाष्टभुजादिमूर्तिव्यपदेशेऽपि नापकर्षः, तथा वचनबलादीश्वरस्य जीवत्वोपासने का तव हानिः । यद्युपासनाय व्यतिहारेऽनुष्ठीयमानेऽर्थाज्जीवब्रह्मणोरेकत्वप्रतिपत्तिर्दृढा भवेत्तर्हि चरितार्थाः संपद्यामहे । तस्माद्व्यतिहारेण द्विधा बुद्धिः कर्तव्या ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये द्वितीयारण्यके द्वितीयाध्याये चतुर्थः खण्डः ॥ ४ ॥ (१२)
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे बह्वृचब्राह्मणारण्यकभाष्ये द्वितीयारण्यके द्वितीयोऽध्यायः ॥ २ ॥
अथ द्वितीयारण्यके तृतीयोऽध्यायः ।
तत्र प्रथमः खण्डः । (त्रयोदशः)
द्वितीये महर्षिमन्त्ररूपत्वादिगुणा उक्ताः । तृतीये पञ्चविधत्वादीनि गुणान्तराण्युच्यन्ते । तत्रोक्थस्य भूतपञ्चकरूपत्वं विधत्ते—
यो ह वा आत्मानं पञ्चविधमुक्थं वेद यस्मा-
१ क. ख. ग. 'धैकस्य दाढ्यर्यां' । २ क. ख. ग. 'पास्तौ वा' । ३ ख. ग. यद्यप्युपा' ।
१२८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२द्वितीयारण्यके-
दिदं सर्वमुत्तिष्ठति स संप्रतिवित्पृथिवी वायुरा-
काश आपो ज्योतींषीत्येष वा आत्मोक्थं
पञ्चविधमेतस्माद्धीदं सर्वमुत्तिष्ठत्येतमेवाप्येत्ययनं
ह वै समानानां भवति य एवं वेद, इति ।
यस्मात्प्राणदेवस्य प्रतीकभूतादुक्थादिदं सर्वमुत्तिष्ठति । उक्थानुष्ठानतदुपासन-
फलभूतत्वाज्जगदुत्पत्तेः । तादृशमुक्थं निष्केवल्याख्यं शस्त्रं पञ्चविधमात्मानं वक्ष्यमा-
णपृथिव्यादिपञ्चप्रकारेणोपासकस्य स्वरूपभूतं यः पुमानुपास्ते स पुमान्संप्रतिवित्स-
म्यगभिज्ञः । के ते पञ्च प्रकारा इति चेदुच्यते—पृथिव्यादीनि यानि पञ्च भूतानि
सन्ति तद्रूप उपासकस्याऽऽत्मा पञ्चविधमुक्थम् । एतस्मात्पञ्चभूतात्मकादुक्थादेव
सर्वमिदं शरीरजातमूत्पद्यते । पुनरप्येतमेवोक्थमप्येति संहारकाले प्रविशति । न
ह्युक्थस्वरूपत्वेन प्रतिपादितानि पञ्च भूतानि विहाय भौतिकस्य शरीरस्योत्पत्तिर्लयो
वा संभवति । यः पुमानेवमेतस्योक्थस्य पञ्चविधत्वमुपास्ते स पुमान्समानानां ज्ञाती-
नामयनमाश्रयो भवति ।
तेषामुक्थस्वरूपाणां पञ्चभूतानामन्नान्नादिरूपत्वध्यानं विधत्ते—
तस्मिन्योऽन्नं चान्नादं च वेदाहास्मिन्नन्नादो
जायते भवत्यस्यानमपाञ्च पृथिवी चान्नमेत-
न्मयानि ह्यन्नानि भवन्ति ज्योतिश्च वायुश्चा-
न्नादमेताभ्यां हीदं सर्वमन्नमत्त्यावपनमाकाश
आकाशे हीदं सर्वं समोप्यत आवपनं ह
वै समानानां भवति य एवं वेद, इति ।
तस्मिन्पञ्चभूतात्मक उक्थे यः पुमानिदमन्नं भोग्यमिदं चान्नादं भोक्तृरूपमिति
विभज्योपास्तेऽस्मिन्नुपासकेऽन्नादो भोक्तुं समर्थो रोगरहितः पुत्रो जायते । अस्य
चोत्पन्नस्यान्नमपेक्षितं सर्वं संपद्यत एव । किं तदन्नं किं वाऽन्नादमिति चेत्तदुच्यते—
पञ्चभूतेषु मध्य आपश्च पृथिवी चेत्युभयमन्नम् । यस्माद्व्रीहियवादीन्यन्नानि भूम्युदक-
विकाररूपाणि भवन्ति तस्माद्भूम्युदकयोरन्नत्वं युक्तम् । तेजश्च वायुश्चेति भूतद्वयं
भोक्तृरूपम् । प्राणवायुना जाठराग्नौ प्रदीपिते सत्येताभ्यामग्निवायुभ्यां सर्वमिदमन्न-
जातं जनो भक्षयति । तस्माज्ज्योतिर्वाय्वोरन्नादत्वं युक्तम् । न च भूतचतुष्टयस्यैवोपा-
योगो न त्वाकाशस्येति शङ्कनीयम् । आकाशस्याऽऽवपनरूपत्वात् । यस्मादाकाशे
१ ख. ग. सर्वं जगदुत्ति॑। २ घ. ङ. ॰च्यन्ते। पृ॑ । ३ क. ख. ग. पुत्र आजा॑। ४ घ. ॰मपि क्षिप्रं सं॑।
अध्या० ३ ख० १ (१३)] ऐतरेयारण्यकम् । १२९
सर्वमिदं भोक्तृभोग्यजातं समोप्यते सम्यगा समन्तात्प्रक्षिप्यते तस्मादाकाशस्याऽऽवप-
नत्वम्। यः पुमानेवमाकाशस्यावकाशप्रदानेन भोक्तृभोग्याधारत्वमुपास्ते स पुमान्स-
मानानां ज्ञातीनामावपनमाधारो भवत्येव ।
उक्थस्वरूपेषु भूतेषु भोक्तृभोग्यध्यानं विधाय भौतिकेषु तद्ध्यानं विधत्ते—
तस्मिन्योऽन्नं चान्नादं च वेदाहास्मिन्नन्नादो
जायते भवत्यस्यान्नमोषधिवनस्पतयोऽन्नं प्राणभृतोऽ-
न्नादमोषधिवनस्पतीन्हि प्राणभृतोऽदन्ति, इति ।
ओषधिवनस्पतीनामन्नत्वं प्राणभृतां मनुष्यगवाश्वादीनां भोक्तृत्वं च लोके प्रसिद्ध-
मिति द्योतयितुं हिशब्दः ।
अथ प्राणभृत्स्वेव भोक्तृभोग्यविभाग^३ध्यानं विधत्ते—
तेषां य उभयतोदन्ताः पुरुषस्यानुविधा विहि-
तास्तेऽन्नादा अन्नमितरे पशवस्तस्मात्त इतरान्पशू-
नधीव चरन्त्यधीव ह्यन्नेऽन्नादो भवति, इति ।
तेषां प्राणभृतां मध्ये ये केचिदश्वादय उभयतोदन्ता अधोभागे चोर्ध्वभागे च
दन्तपङ्क्तियुक्ताः पुरुषस्यानुविधा मनुष्यस्य प्रकारमनुसृत्य विहिता उत्पादिताः ।
यथा मनुष्यस्योभयतो दन्तपङ्क्ती विद्येते तद्वदश्वादीनामपि ते मनुष्याश्वादयो भोक्तृरू-
पेभ्य इतरेऽधोभाग एव दन्तपङ्क्तियुक्ता गोमहिषादयः पशवो ये सन्ति तेऽन्नरूपाः ।
यस्मादेवं तस्माल्लोके उभयतोदन्ता मनुष्याश्वादय इतरान्गोमहिषादीन्प्रत्यधीव
चरन्ति, अधिका इव वर्तन्ते । अश्वादीनां मूल्यबाहुल्याद्यत्नातिशयेन रक्ष्यमाणत्वौ-
घ्याऽऽधिक्यम् । यस्माल्लोकेऽपि व्रीहियवादिका येऽन्ने पात्रे प्रक्षिप्ते सत्यन्नादो भोक्ता
मनुष्योऽधिक इव भवति । तत्र मनुष्यस्य स्वातन्त्र्यादधिकत्वमन्नस्य पारतन्त्र्यान्न्यूनत्वम्।
भोक्तुराधिक्यध्यानस्य फलमाह—
अधीव ह समानानां जायते य एवं वेद, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये
प्रथमः खण्डः ॥ १ ॥ ( १३ )
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये द्वितीयारण्यके तृतीयाध्याये प्रथमः खण्डः ॥ १ ॥ ( १३ )
^१ ख. ग. ॰पेण भू॰ । ^२ ख. ग. अतः । ^३ ख. ग. ॰विधानं विधीयते । ते॰ । ^४ ख. ग. ॰त्वादाधि॰ ।
१३० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
अथ द्वितीयः खण्डः । ( चतुर्दशः )
अन्नादिध्यानमुक्त्वा पुरुषस्योक्थस्वरूपस्याऽऽत्मचैतन्याविर्भावातिशययुक्तत्वध्यानं विधत्ते—
तस्य य आत्मानमाविस्तरां वेदाश्नुते हाऽऽविर्भूयः, इति ।
तस्योक्थरूपस्य पुरुषस्य शरीरे वर्तमानं चिद्रूपमात्मानमाविस्तरामतिशयेन प्रकटं यः पुमानुपास्ते स पुमान्भूय आविरातिशयेन प्रकटत्वमश्नुते ह व्याप्नोत्येव । विद्यैश्वर्यादिकीर्तिं बहुलां प्राप्नोतीत्यर्थः ।
चैतन्यस्योपाधिविशेषेषु तारतम्येनाऽऽविर्भावं दर्शयितुमादावेकमुपाधिमुदाहरति—
ओषधिवनस्पतयो यच्च किंच प्राणभृत्स आत्मानमाविस्तरां
वेदौषधिवनस्पतिषु हि रसो दृश्यते चित्तं प्राणभृत्सु, इति ।
सच्चिदानन्दरूपस्य जगत्कारणस्य परमात्मनः कार्यभूताः सर्वेऽपि पदार्था आविर्भावोपाधयः । तत्राचेतनेषु मृत्पाषाणादिषु सत्तामात्रमाविर्भवति न चाऽऽत्मनो जीवरूपत्वम् । ये¹ त्वोषधिवनस्पतयो जीवरूपाः स्थावरा ये च श्वासरूपप्राणधारिणो जीवरूपा जङ्गमास्तदुभयमतिशयेनाऽऽविर्भावे स्थानमिति यो निश्चिनोतीत्यध्याहारः । स पुमानात्मानमतिशयेनाऽऽविर्भूतमुपास्ते । कथं स्थावरजङ्गमजीवयोराविर्भावातिशय इति चेदुच्यते । ओषधिवनस्पतिषु स्थावरजीवशरीरेषु रस आर्द्रत्वं तदेतज्जीवात्मनो लिङ्गम् । न हि काष्ठपाषाणादिषु रसोऽस्ति । यदपि प्राणभृत्सु जङ्गमजीवशरीरेषु चित्तमन्तःकरणं तदपि जीवात्मनो लिङ्गम् । तच्च मृत्पाषाणादिषु न दृश्यते । अतो रसचित्तयोर्जीवलिङ्गयोर्दर्शनादोषध्यादिष्वतिशयेनाऽऽविर्भावः सिद्धः ।
उदाहृतोपाधावपि स्थावरेभ्यो जङ्गमेष्वाविर्भावातिशयं दर्शयति—
प्राणभृत्सु त्वेवाऽऽविस्तरामात्मा तेषु हि
रसोऽपि दृश्यते न चित्तमितरेषु, इति ।
तुशब्द ओषधिवनस्पतिव्यावृत्त्यर्थः । प्राणभृत्सु मनुष्यगवादिष्वेव चिदात्मन आविर्भावातिशयो न त्वोषध्यादिषु । तत्र हेतुरुच्यते—तेषु प्राणभृच्छरीरेषु रक्तरूपो रसो दृश्यते । अपिशब्देन पूर्वोक्तं चित्तं समुच्चिनोति । अतो लिङ्गद्वयसद्भावादाविर्भावातिशयः । इतरेष्वोषधिवनस्पतिशरीरेषु चित्तं न दृश्यते किं तु रसरूपमेकमेव लिङ्गं तस्मान्नास्त्यतिशयः ।
प्राणभृदुपाधिष्वपि तारतम्यं दर्शयति—
पुरुषे त्वेवाऽऽविस्तरामात्मा स हि प्रज्ञानेन संपन्नतमो
¹ ख. ग. ये चौष° ।
अध्या०३ख०२(१४)] ऐतरेयारण्यकम् । १३१
विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनं वेद
लोकालोकौ मर्त्येनामृतमीप्सत्येवं संपन्नः, इति ।
मनुष्या गवाश्वादयश्च प्राणभृतस्तेषां मध्ये पुरुषे मनुष्य एवातिशयेनाऽऽत्मा-
विर्भावो न तु गवादिषु । यस्मात्स मनुष्योऽत्यन्तं प्रकृष्टज्ञानेन संपन्नः । तदेव
कथमिति चेत्तदुच्यते—पूर्वेद्युर्वस्तु विज्ञातं तत्सर्वमद्य स्मृत्वा ममेदं विदितमिति
जनानामग्रे वदितुं समर्थः । तथा पूर्वेद्युर्यद्वस्तु समीचीनं विज्ञातं तदद्य स्मृत्वा तस्मि-
न्देशे गत्वा द्रष्टुं समर्थः । यद्यपि गवादीनां दर्शने सामर्थ्यमस्ति तथाऽपि विवेकाभा-
वान्न साकल्येन दर्शनम् । किंच यथाऽतीतस्य कथनं तथा श्वस्तनं भविष्यत्कर्तव्य-
मपि जानाति । तथा लोकालोकावृत्तमं स्वर्गलोकमधमं नरलोकं च शास्त्रेण
विविच्य जानाति । तथा मर्त्येन विनश्वरेण ज्ञानकर्मरूपसाधनेनामृतमविनश्वरं मुक्ति-
पदमीप्सति प्राप्तुमिच्छति । एवमनेन प्रकारेण मनुष्योऽत्यन्तविवेकेन संपन्नः ।
गवादिपशूक्तवैपरीत्यं दर्शयति—
अथेतेरेषां पशूनामशनापिपासे एवाभिविज्ञानं न विज्ञातं
वदन्ति न विज्ञातं पश्यन्ति न विदुः श्वस्तनं न लोका-
लोकौ त एतावन्तो भवन्ति यथाप्रज्ञं हि संभवाः, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये
द्वितीयः खण्डः ॥ २ ॥ ( १४ )
मनुष्यवैलक्षण्यद्योतनार्थोऽथशब्दः । तदेव वैलक्षण्यं प्रपञ्च्यते—अशनाशब्देनाशि-
तुमिच्छोच्यते । अशनायेति पदे यैकारस्य लुप्तत्वात् । येयं बुभुक्षा या च पिपासा ते
एवोभे अभिलक्ष्य पशूनां विज्ञानमस्ति, न तु मनुष्यवत्पूर्वविज्ञातकथनादिकम् । ते
गवाश्वादिपशव एतावन्त एतावन्मात्रविज्ञानास्तात्कालिकक्षुधादिज्ञानमात्रोपेता
भवन्ति । तत्र हेतुरुच्यते—यथाप्रज्ञं पूर्वस्मिञ्ज्ञानकर्मानुष्ठानाधिकारयुक्ते जन्मनि
यादृशी प्रज्ञा शास्त्रीया लौकिकी वाऽभ्यस्ता । कर्मणोऽप्येतदुपलक्षणम् । कर्मापि
विहितं प्रतिषिद्धं वा यादशमनुष्ठितं तादृशीं प्रज्ञां तादृशं कर्म चानतिक्रम्य यस्मा-
त्संभवाः प्राणिनां जन्मानि भवन्ति । तस्माज्ज्ञानकर्मानुसारेण पशूनां बुद्धिमात्रं
युक्तम् । एतदेवाभिप्रेत्य परलोकगामिनं जीवं प्रति वाजसनेयिन आमनन्ति—“तं
विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च” [बृह० ४ । ४ । २] इति। “पुण्यो वै पुण्येन
कर्मणा भवति पापः पापेन” [बृह० ४ । ४ । ५] इति च। तदेवं मनुष्यदेहस्योत्तमोपाधि-
त्वात्तस्मिन्नेवाऽऽत्मन आविर्भावातिशयं ध्यायेत् । यद्यपि देवादिदेहा इतोऽप्युत्तमोपाध-
यस्तथाऽपि मनुष्यस्यैव प्रायेण शास्त्राधिकारित्वात् “पुरुष एवोक्थमयमेव महान्प्रजा-
१ ख. ग. °त्सर्वं स्मृत्वाऽयेमं ममे° । २ क. ग. घ. ङ. यकारस्य । ३ क. ख. ग. °ज्ञानेकं° ।
१३२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
पतिः” [ ऐ० आ० २ अ० १ ख० २ ] इति प्रस्तुतत्वादेतस्मिन्नेव ध्यानमुचितम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये द्वितीयारण्यके तृतीयाध्याये द्वितीयः खण्डः ॥ २ ॥ ( १४ )
अथ तृतीयः खण्डः । ( पञ्चदशः )
पूर्वत्राऽऽत्माविर्भावध्यानमुक्तमत्र समुद्ररूपत्वादिव्यानमुच्यते । तत्राऽऽदौ पुरुषस्य समुद्ररूपत्वध्यानं विधत्ते—
स एष पुरुषः समुद्रः सर्वं लोकमति यद्ध किंवा-
श्रुतेऽत्येनं मन्यते यद्यन्तरिक्षलोकमश्रुतेऽत्येनं
मन्यते यद्यमुं लोकमश्रुवीतात्येवैनं मन्येत, इति ।
“पुरुष एवोक्थम्” [ ऐ० आ० २ अ० १ ख० २ ] इति शस्त्रस्वरूपत्वेन यः पुरुषः प्रकृतः स एष पुरुषः समुद्ररूपः । यथा समुद्रस्तटाकनद्यादिकं सर्वमति- क्रम्य प्रौढो वर्तते तथाऽयं पुरुषोऽपि सर्वं लोकमतिक्रम्य वर्तते । स एवातिक्रमः कथमिति चेत्तदुच्यते—यद्ध किंच भूलोके यत्किंचिद्भोग्यजातमश्रुते व्याप्नोति तमेनं भोग्यपदार्थमतिक्रम्य मन्यतेऽन्तरिक्षलोकगतमपि भोग्यं मे भूयादिति कामयते । यदा त्वन्तरिक्षलोकगतं प्राप्नोति तदानीमेनपि भोग्यपदार्थमतिक्रम्ये मन्यते स्वर्गभोगोऽपि मे भूयादिति कामयते । तस्यापि प्राप्तौ तमतिक्रम्य सत्यलोकादिभोगोऽपि मे भूयादिति कामयेतैव । एतदेवाभिप्रेत्य शाखान्तरे मन्त्रब्राह्मण एवमाम्नायते—“काम५ समुद्रमा- विशेत्याह । समुद्र इव हि कामः । नैव हि कामस्यान्तोऽस्ति । न समुद्रस्य” [ तै० ब्रा० का० २ प्र० २ अनु० ९ ] इति । अतः समुद्रसमानत्वात्पुरुषे समुद्रध्यानं युक्तम् ।
पुरुषशरीरावयवेषु पञ्चभूतध्यानं विधत्ते—
स एष पुरुषः पञ्चविधस्तस्य यदुष्णं तज्ज्योतिर्यानि
खानि स आकाशोऽथ यल्लोहितं श्लेष्मा रेतस्ता आपो
यच्छरीरं सा पृथिवी यः प्राणः स वायुः, इति ।
उष्णं जाठराग्न्यादिरूपम् । खानि मुखनासिकादिच्छिद्राणि । शरीरशब्देन काठिन्यं विवक्षितम् “यत्कठिनं सा पृथिवी” [ गर्भोप० १ ] इति श्रुत्यन्तरात् ।
पुरुषशरीरगतस्य प्राणवायोः पञ्चवृत्तिभेदध्यानं विधत्ते—
स एष वायुः पञ्चविधः प्राणोऽपानो व्यान उदानः समा-
नस्ता एता देवताः प्राणापानयोरेव निविष्टाश्चक्षुः श्रोत्रं
१ ख. ग. 'मयेत् । य' । २ क. ख. ग. 'म्य स्वर्गलोके भो' । ३ क. ख. ग. 'श्रतद्ब्राह्म' ।
अध्या० ३ ख० ३ (१६)] ऐतरेयारण्यकम् । १३३
मनो वागिति प्राणस्य ह्यन्वपायेमेता अपियन्ति, इति ।
हृदयादूर्ध्वं मुखनासिकयोः संचरन्वायुः प्राणः । अधोद्वारे संचरन्नपानः । सर्वासु
नाडीषु व्याप्य वर्तमानो व्यानः । जीवोत्क्रान्त्यादिकं कर्तुमूर्ध्वभागे कण्ठेऽवस्थित
उदानः । अन्नपाने साम्येन कृत्स्नशरीरे नेतुं नाभिसमीपेऽवस्थितः समानः । तदे-
तद्वायोः पञ्चविधत्वं ध्यायेत् । चक्षुःश्रोत्रमनोवागादिदेवता अप्यत्र पृथग्ध्यातव्या इति
न शङ्कनीयम् । तासां देवतानामूर्ध्वाधोभागवर्तिनोः प्राणापानयोरेवान्तर्भावात् । तदेव
कथमिति चेत्तदुच्यते—यस्मात्प्राणस्यापायं देहादपगमनमनु सर्वा एताश्चक्षुरादिदे-
वता अपियन्ति लीयन्ते न देहे तिष्ठन्ति, तस्मादन्तर्भूतत्वान्न पृथग्ध्यानम् ।
यज्ञस्यावान्तरभेदरूपेण ध्यानं विधत्ते—
स एष वाचश्चित्तस्योत्तरोत्तरिक्रमो यद्यज्ञः स एष
यज्ञः पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि
पशुः सोमः स एष यज्ञानां संपन्नतमो यत्सोम एतस्मि-
न्ध्येताः पञ्च विधा अधिगभ्यन्ते यत्प्राक्सवनेभ्यः सैका
विधा त्रीणि सवनानि यदूर्ध्वं सा पञ्चमी, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये
तृतीयः खण्डः ॥ ३ ॥ ( १६ )
वाचो मन्त्रोच्चारणादिर्व्यापारस्तथाचित्तस्य शास्त्रविहितार्थपर्यालोचनव्यापारस्तस्यान्तः-
करणस्य चोत्तरोत्तरिक्रमः । एकस्मादितरस्योत्तरत्वं तस्मादप्यन्यस्योत्तरत्वमित्येव-
मुत्तरोत्तरभावो यस्य क्रमस्यास्ति सोऽयमुत्तरोत्तरिक्रमः । क्रमेण व्यापार इत्यर्थः ।
तूष्णीमवस्थानादुत्तरभावी मनसा शास्त्रार्थपर्यालोचनव्यापारस्ततोऽप्युत्तरभावी वाचा
मन्त्रोच्चारणव्यापारस्तदुभयव्यापाररूपो यज्ञ इति यदस्ति स एष उक्थात्मकपुरुषरूपः
प्राणदेवः । स च यज्ञात्मकः प्राणाग्निहोत्रादिभेदैः पञ्चविध इति ध्यायेत् । न च
सोमादप्यधिकं किंचित्कर्मान्तरं कुतो नोच्यत इति वाच्यम् । अधिकस्य कर्मान्तरस्या-
भावात् । सोमयाग इति यदस्ति स एष यज्ञानां मध्येऽतिशयेन संपन्नः । यस्मादेत-
स्मिन्सोमयागे पञ्चप्रकारमनुष्ठानं दृश्यते । सुत्यादिनेऽनुष्ठेयेभ्यः सवनेभ्यः प्राचीनं दीक्ष-
णीयादिकं यदस्ति सोऽयमेकः प्रकारः । प्रातःसवनं माध्यंदिनं सवनं तृतीयसवनं चेति
प्रकारत्रयम् । सवनेभ्य ऊर्ध्वमवभृथमारभ्योदैवसानीयान्तं यत्कर्मजातमस्ति सोऽयं पञ्चमः
१ ख. ग. 'ङ्गतदवा' । घ. ङ 'ङ्गस्य तदवा'। २ क. 'दिरूपादिब्या' । ३ घ. ङ. 'व्यावृता'। ४ ङ. 'व्यावृत' । ५ क. 'त्तरित्वं । ६ क. ख. ङ. क्रमणं । ७ ख. ग. शास्त्रीयपं । घ. शास्त्रविहितार्थं । ८ ख. ग. 'चनं व्या'। ९ क. 'त्मकः पु' । १० क. ख. ग. ध्यानम् । ११ ग. अत्यधिं । घ. ङ. अभ्यधिं । १२ क. ख. घ. ङ. 'वसानी' ।