सामग्री पर जाएँ
सर्वकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 133, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 133

१२८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२द्वितीयारण्यके-

दिदं सर्वमुत्तिष्ठति स संप्रतिवित्पृथिवी वायुरा-
काश आपो ज्योतींषीत्येष वा आत्मोक्थं
पञ्चविधमेतस्माद्धीदं सर्वमुत्तिष्ठत्येतमेवाप्येत्ययनं
ह वै समानानां भवति य एवं वेद, इति ।

यस्मात्प्राणदेवस्य प्रतीकभूतादुक्थादिदं सर्वमुत्तिष्ठति । उक्थानुष्ठानतदुपासन-
फलभूतत्वाज्जगदुत्पत्तेः । तादृशमुक्थं निष्केवल्‍याख्यं शस्त्रं पञ्चविधमात्मानं वक्ष्यमा-
णपृथिव्यादिपञ्चप्रकारेणोपासकस्य स्वरूपभूतं यः पुमानुपास्ते स पुमान्संप्रतिवित्स-
म्यगभिज्ञः । के ते पञ्च प्रकारा इति चेदुच्यते—पृथिव्यादीनि यानि पञ्च भूतानि
सन्ति तद्रूप उपासकस्याऽऽत्मा पञ्चविधमुक्थम् । एतस्मात्पञ्चभूतात्मकादुक्थादेव
सर्वमिदं शरीरजातमूत्पद्यते । पुनरप्येतमेवोक्थमप्येति संहारकाले प्रविशति । न
ह्युक्थस्वरूपत्वेन प्रतिपादितानि पञ्च भूतानि विहाय भौतिकस्य शरीरस्योत्पत्तिर्लयो
वा संभवति । यः पुमानेवमेतस्योक्थस्य पञ्चविधत्वमुपास्ते स पुमान्समानानां ज्ञाती-
नामयनमाश्रयो भवति ।

तेषामुक्थस्वरूपाणां पञ्चभूतानामन्नान्नादिरूपत्वध्यानं विधत्ते—

तस्मिन्योऽन्नं चान्नादं च वेदाहास्मिन्नन्नादो
जायते भवत्यस्यानमपाञ्च पृथिवी चान्नमेत-
न्मयानि ह्यन्नानि भवन्ति ज्योतिश्च वायुश्चा-
न्नादमेताभ्यां हीदं सर्वमन्नमत्त्यावपनमाकाश
आकाशे हीदं सर्वं समोप्यत आवपनं ह
वै समानानां भवति य एवं वेद, इति ।

तस्मिन्पञ्चभूतात्मक उक्थे यः पुमानिदमन्नं भोग्यमिदं चान्नादं भोक्तृरूपमिति
विभज्योपास्तेऽस्मिन्नुपासकेऽन्नादो भोक्तुं समर्थो रोगरहितः पुत्रो जायते । अस्य
चोत्पन्नस्यान्नमपेक्षितं सर्वं संपद्यत एव । किं तदन्नं किं वाऽन्नादमिति चेत्तदुच्यते—
पञ्चभूतेषु मध्य आपश्च पृथिवी चेत्युभयमन्नम् । यस्माद्व्रीहियवादीन्यन्नानि भूम्युदक-
विकाररूपाणि भवन्ति तस्माद्भूम्‍युदकयोरन्नत्वं युक्तम् । तेजश्च वायुश्चेति भूतद्वयं
भोक्तृरूपम् । प्राणवायुना जाठराग्नौ प्रदीपिते सत्येताभ्यामग्निवायुभ्यां सर्वमिदमन्न-
जातं जनो भक्षयति । तस्माज्ज्योतिर्वाय्वोरन्नादत्वं युक्तम् । न च भूतचतुष्टयस्यैवोपा-
योगो न त्वाकाशस्येति शङ्कनीयम् । आकाशस्याऽऽवपनरूपत्वात् । यस्मादाकाशे


१ ख. ग. सर्वं जगदुत्ति॑। २ घ. ङ. ॰च्यन्ते। पृ॑ । ३ क. ख. ग. पुत्र आजा॑। ४ घ. ॰मपि क्षिप्रं सं॑।