ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 136, कुल 304 में से
संदर्भ में पढ़ेंअध्या०३ख०२(१४)] ऐतरेयारण्यकम् । १३१
विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनं वेद
लोकालोकौ मर्त्येनामृतमीप्सत्येवं संपन्नः, इति ।
मनुष्या गवाश्वादयश्च प्राणभृतस्तेषां मध्ये पुरुषे मनुष्य एवातिशयेनाऽऽत्मा-
विर्भावो न तु गवादिषु । यस्मात्स मनुष्योऽत्यन्तं प्रकृष्टज्ञानेन संपन्नः । तदेव
कथमिति चेत्तदुच्यते—पूर्वेद्युर्वस्तु विज्ञातं तत्सर्वमद्य स्मृत्वा ममेदं विदितमिति
जनानामग्रे वदितुं समर्थः । तथा पूर्वेद्युर्यद्वस्तु समीचीनं विज्ञातं तदद्य स्मृत्वा तस्मि-
न्देशे गत्वा द्रष्टुं समर्थः । यद्यपि गवादीनां दर्शने सामर्थ्यमस्ति तथाऽपि विवेकाभा-
वान्न साकल्येन दर्शनम् । किंच यथाऽतीतस्य कथनं तथा श्वस्तनं भविष्यत्कर्तव्य-
मपि जानाति । तथा लोकालोकावृत्तमं स्वर्गलोकमधमं नरलोकं च शास्त्रेण
विविच्य जानाति । तथा मर्त्येन विनश्वरेण ज्ञानकर्मरूपसाधनेनामृतमविनश्वरं मुक्ति-
पदमीप्सति प्राप्तुमिच्छति । एवमनेन प्रकारेण मनुष्योऽत्यन्तविवेकेन संपन्नः ।
गवादिपशूक्तवैपरीत्यं दर्शयति—
अथेतेरेषां पशूनामशनापिपासे एवाभिविज्ञानं न विज्ञातं
वदन्ति न विज्ञातं पश्यन्ति न विदुः श्वस्तनं न लोका-
लोकौ त एतावन्तो भवन्ति यथाप्रज्ञं हि संभवाः, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये
द्वितीयः खण्डः ॥ २ ॥ ( १४ )
मनुष्यवैलक्षण्यद्योतनार्थोऽथशब्दः । तदेव वैलक्षण्यं प्रपञ्च्यते—अशनाशब्देनाशि-
तुमिच्छोच्यते । अशनायेति पदे यैकारस्य लुप्तत्वात् । येयं बुभुक्षा या च पिपासा ते
एवोभे अभिलक्ष्य पशूनां विज्ञानमस्ति, न तु मनुष्यवत्पूर्वविज्ञातकथनादिकम् । ते
गवाश्वादिपशव एतावन्त एतावन्मात्रविज्ञानास्तात्कालिकक्षुधादिज्ञानमात्रोपेता
भवन्ति । तत्र हेतुरुच्यते—यथाप्रज्ञं पूर्वस्मिञ्ज्ञानकर्मानुष्ठानाधिकारयुक्ते जन्मनि
यादृशी प्रज्ञा शास्त्रीया लौकिकी वाऽभ्यस्ता । कर्मणोऽप्येतदुपलक्षणम् । कर्मापि
विहितं प्रतिषिद्धं वा यादशमनुष्ठितं तादृशीं प्रज्ञां तादृशं कर्म चानतिक्रम्य यस्मा-
त्संभवाः प्राणिनां जन्मानि भवन्ति । तस्माज्ज्ञानकर्मानुसारेण पशूनां बुद्धिमात्रं
युक्तम् । एतदेवाभिप्रेत्य परलोकगामिनं जीवं प्रति वाजसनेयिन आमनन्ति—“तं
विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च” [बृह० ४ । ४ । २] इति। “पुण्यो वै पुण्येन
कर्मणा भवति पापः पापेन” [बृह० ४ । ४ । ५] इति च। तदेवं मनुष्यदेहस्योत्तमोपाधि-
त्वात्तस्मिन्नेवाऽऽत्मन आविर्भावातिशयं ध्यायेत् । यद्यपि देवादिदेहा इतोऽप्युत्तमोपाध-
यस्तथाऽपि मनुष्यस्यैव प्रायेण शास्त्राधिकारित्वात् “पुरुष एवोक्थमयमेव महान्प्रजा-
१ ख. ग. °त्सर्वं स्मृत्वाऽयेमं ममे° । २ क. ग. घ. ङ. यकारस्य । ३ क. ख. ग. °ज्ञानेकं° ।