सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

१८६ वीरमित्रोदयस्य राजनीतिप्रकाशे
राज्ञो भवेदेकान्ततो हि दोषस्तस्माद्भृत्यपक्षाः क्रोधलोभमान-
भयदोषोपहताः संलपिता विमानिताभ्याख्याता दानमानस्था-
नव्यवरोपिता हृतसर्वस्वाः स्वदोषोपहतादयः सततं प्रत्यवेक्षि-
तव्या, धर्मार्थहितेष्वेतेषां यतेत स्वविषयाश्रावः परविषयभेदः
सामादिभिरुपायैर्मन्त्रज्ञेषु मन्त्रकर्म दण्डकर्म कर्मकरेषु वीरा मह-
त्स्वात्मनि च धर्मनित्याः सङ्ग्रहेष्वलुब्धाः प्रत्यन्तेषु मौलाः
शुचयोऽर्थकृत्येषु अन्येषु यथानुरूपं नियोज्याः । इति ।
अस्यार्थः । सर्वेषाम् अमात्यानाम् । सम्परायो, युद्धं त-
दुपयोगि साम्परायिकम् । क्रियासाधारणत्वात्, राज्यरक्षण-
रूपैकक्रियत्वात् । चारो, जनपदचरितज्ञानाय प्रच्छन्नचारी ।
तच्चरितज्ञः प्रच्छन्नः प्रतिचारः । मन्त्रप्रणिधयः, राज्ञो मन्त्रा-
न्वेष्टारः । एते परराजसम्बन्धिनः, सर्पाः शङ्कनीया इत्यर्थः ।
तत्प्रयोजनत्वात्, यतस्तदेव चरितज्ञानं चारादीनां प्रयोजनम् ।
प्रत्यक्षा वृत्तिः, स्वयं कार्यदर्शनम् परोक्षाचारैः परचरितज्ञानम् ।
एकान्ततः, अन्यतरवृत्तिमात्राश्रयेण । भृत्यपक्षाः, भृत्यैः
पूर्वं सम्मानिताः । अभ्याख्यातम्, आभिमुख्येन गुणा-
ख्यानम् । दानमानस्थानव्यवरोपिता, दानेन व्यवरोपिता,
मानेन व्यवरोपिताः, स्थानेन व्यवरोपिताः । स्वदोषो-
पहता आत्मदोषदूषिताः । एवमादयः सततं प्रत्यवेक्षित-
व्याः । तेन कारणेन एतेषां सम्बन्धिषु धर्मादिषु यतेत प्रयत्नं
कुर्यात् । स्वविषयाश्रावः, स्वविषयस्य मन्त्रस्याश्रावणं अप्र-
काशनं कार्यम् । परविषयभेदः, परविषयाणां शत्रुसम्बन्धिनाम-
मात्यादीनां भेदः। सामादिभिरुपायैः,कार्य इति शेषः। कर्मकरेषु
कर्मकरणाधिकृतेषु । दण्डकर्म, अपराधनिश्चये कार्यमिति शेषः ।
महत्सु कार्येषु स्वात्मनि च रक्षितव्याः । धर्मनित्या धर्मिकाः ।

राज्ञा आकरादिषु योग्याधिकारिकरणम् । १८७
सङ्ग्रहेषु, अर्थस्येति शेषः । प्रत्यन्तेषु स्वमण्डलप्रत्यन्तदेशेषु ।
मौलाः, तत्तद्देशजाताः ।
विष्णुः, आकरलवणशुल्कतरनागवरेष्वाप्तान्नियुञ्जीत ध-
र्मिष्ठान् धर्मकार्येषु निपुणानर्थकार्येषु शूरान् सङ्ग्रामकर्मसु उग्रा-
नुग्रेषु षण्ढांस्त्रीषु । इति ।
आकराः, सुवर्णरजताद्युत्पत्तिस्थानानि । लवणपदेनापि
तदाकरा ग्राह्याः । शुल्कं, पण्यविंशतिभागादिस्थलशुल्कम् ।
तरशब्देन तरशुल्कमुच्यते । तरः, नौकादिभिः सरित्तरणम् ।
नागवरेषु, अत्युत्कृष्टगजेषु । नागवनेष्विति पाठे गजबन्धनयो-
ग्येषु वनेषु इति व्याख्येयम् ।
मनुः,
तेषामर्थे नियुञ्जीत शूरान्दक्षान् कुलोद्गतान् ।
शुचीनाकरकर्मान्ते भीरूनन्तर्निवेशने ॥
समाहर्तॄन् प्रकुर्वीत धर्मशास्त्रार्थनिश्चितान् ।
कुलीनान् वित्तसम्पन्नान् समर्थान् कोशवृद्धये ॥
तथा,
सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेद्बलिम् ।
स्यादाश्रयपरो लोके वर्तेत पितृवन्नृषु ॥
अध्यक्षान् विविधान् कुर्यात्तत्र तत्र विपश्चितः ।
तेऽस्य सर्वाण्यवेक्षेरन् नॄणां कार्याणि कुर्वताम् ॥
तेषां, पूर्वोक्तानां सहायानां मध्ये। अर्थे, अर्थनिमित्तम्,अर्था-
र्जनोपायेष्वित्यर्थः । तस्यैव विवरणमाकरकर्मान्त इति । भीरून्,
इहलोकपरलोकभीतान् । सांवत्सरिकं बलिं, संवत्सरग्राह्यं क-
रम् । लोके लोकमध्ये । दीनानाथादीनाम् आश्रयपरो वृत्ति-
कर्ता स्यात् ।

१८८ वीरमित्रोदयस्य राजनीतिप्रकाशे
तथा.
दूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम् ।
इङ्गिताकारचेष्टाज्ञं शुचिं दक्षं कुलोद्गतम् ॥
अनुरक्तः शुचिर्दक्षः स्मृतिमान् देशकालवित् ।
वपुष्मान् वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते ॥
अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया ।
नृपतौ कोशराष्ट्रे तु दूते सन्धिविपर्ययौ ॥
दूत एव हि सन्धत्ते भिनत्त्येव च संहतान् ।
दूतस्तत्कुरुते कर्म येन भिद्येत बान्धवः ॥
स विद्यादस्य कृत्येषु निगूढेङ्गितचेष्टितैः ।
आकारमिङ्गितं चेष्टां भृत्येषु च चिकीर्षितम् ॥
बुद्ध्वा च सर्वं तत्त्वेन परराजाचिकीर्षितम् ।
तथा प्रयत्नमातिष्ठेद्यथात्मानं न पीडयेत् ॥ इति ।
सर्वशास्त्रविशारदं, दृष्टादृष्टार्थबहुशास्त्रार्थकुशलम् । इङ्गितम्,
अभिप्रायसूचकं वचनस्वरादि । आकारो, देहधर्मो मुखप्र-
सादवैवर्ण्यादिरूपः प्रीत्यप्रीतिसूचकः । चेष्टा, करास्फालनादि-
क्रिया कोपादिसूचिका तां जानाति तादृशम् । अनुरक्तः, ज-
नेष्वनुरागवान् । तेन प्रतिराजादेरप्यद्वेषविषयः । शुचिः, स्त्रीध-
नविषयकशौचयुक्तः । दक्षः, कार्यकालं यो नातिक्रामति । स्मृ-
तिमान्, राजाऽऽज्ञार्थपरसन्देशयोरविस्मरणशीलः । देश-
कालवित् , देशकालाद्यनुरोधेन राजाज्ञार्थं परसन्दिष्ट-
मर्थं च योऽन्यथा वदति करोति च तादृशः । वपुष्मान्,
प्रशस्तशरीरावयवरूपवान् । वीतभीः, राज्ञो हितार्थमप्रिय-
स्यापि सन्देशादेर्वक्ता । अयं च दूतः परराज्ये सन्धिविग्रहप्र-
सक्तौ तत्र प्रेषणाय । मत्स्यपुराणे पूर्वमुक्तस्तु राजनकट-

राज्ञोऽनुजीविवृत्तम् । १८९
स्थित एव सर्वेषां कार्यकारकः । अत एवैतद्विषये—
महाभारते,
न तु हन्यान्महीपालो दूतं कस्यां चिदापदि ।
दूतहन्ता तु नरकमाविशेत्ससचिवैः सह ॥
यथोक्तवादिनं दूतं क्षत्रधर्मरतो नृपः ।
यो हन्यात्पितरस्तस्य भ्रूणहत्यामवाप्नुयुः ॥ इति ।
श्रीरामायणेऽपि,
दूतानवध्यान् प्रवदन्ति सन्तो दूतस्य दण्डा बहवः प्रदिष्टाः ।
वैरूप्यमङ्गेषु कशाभिघातो मौण्ड्यं तथा लक्षणसन्निपातः ॥
एतान् हि दूते प्रवदन्ति दण्डान् दूतस्य दण्डो हि वधो न दृष्टः। इति।
इति परराष्ट्रदूतः ।
अथानुजीविवृत्तम् ।
मत्स्यपुराणे,
मत्स्य उवाच ।
यथानुवर्तितव्यं स्यान्मनो राज्ञोऽनुवर्तिभिः ।
तथा ते कथयिष्यामि निबोध गदतो मम ॥
ज्ञात्वा सर्वात्मना कार्यं स्वशक्त्या रविनन्दन ।
अक्षिप्य वचनं तस्य न वक्तव्यं कदाचन ॥
अनुकूलं प्रियं त्वस्य वक्तव्यं जनसंसदि ।
रहोगतस्य वक्तव्यमप्रियं तद्धितं भवेत् ॥
परार्थमस्य वक्तव्यं स्वस्थे चेतसि पार्थिव ।
स्वार्थः सुहृद्भिर्वक्तव्यो न स्वयं हि कदाचन ॥
कार्यातिपातः सर्वेषु रक्षितव्यः प्रयत्नतः ।
न च हिंस्याद्धनं किञ्चिन्नियुक्तेन च कर्मणि ॥
१ अत्र मुद्रितमात्स्ये 'राजा यत्तु वदेद्वाक्यं श्रोतव्यं तत्प्रयत्नतः'
इति पाठो लभ्यते ।

१९० वीरमित्रोदयस्य राजनीतिप्रकाशे
नोपेक्ष्यस्तस्य मानश्च तथा राज्ञः प्रियो भवेत् ।
राज्ञश्च न तथा कार्यं वेषभाषितचेष्टितम् ॥
राजलीला न कर्त्तव्या तद्विष्टं च विवर्जयेत् ।
अन्तःपुरधनाध्यक्षैर्वैरिदूतैर्निराकृतैः ॥
संसर्गं न व्रजेद्राजन् विना पार्थिवशासनम् ।
निःस्नेहतां चावमानं प्रयत्नेन तु गोपयेत् ॥
यच्च गुह्यं भवेद्राज्ञो न तल्लोके प्रकाशयेत् ।
नृपेण श्रावितं यत्स्याद्गुह्याद्गुह्यं नृपोत्तम ॥
न तत्संश्रावयेल्लोके तथा राज्ञः प्रियो भवेत् ।
आज्ञाप्यमाने चान्यस्मिन् समुत्थाय त्वरान्वितः ॥
अहं किं करवाणीति वाच्यो राजा विजानता ।
कार्यावस्थां च विज्ञाय कार्यमेतत्तथा भवेत् ॥
सततं क्रियमाणेऽस्मिँल्लाघवं तु व्रजेत् ध्रुवम् ।
राज्ञः प्रियाणि वाच्यानि न चात्यर्थं पुनः पुनः ॥
न हास्यशीलस्तु भवेन्न वापि भ्रुकुटीमुखः ।
नातिवक्ता न निर्वक्ता न च मत्सरिकस्तथा ॥
आत्मसम्भावितश्चैव न भवेत्तु कथञ्चन ।
दुष्कृतानि नरेन्द्रस्य न तु सङ्कीर्तयेत्क्वचित् ॥
वस्त्रमस्त्रमलङ्कारं राज्ञा दत्तं तु धारयेत् ।
औदार्येण न तद्देयमन्यस्मै भूतिमिच्छता ॥
न चैवात्यशनं कार्यं दिवास्वप्नं न कारयेत् ।
नानिर्दिष्टे तथा द्वारे प्रविशेत्तु कथञ्चन ॥
न च पश्येत्तु राजानमयोग्यासु च भूमिषु ।
राज्ञस्तु दक्षिणे पार्श्वे वामे वोपविशेत्सदा ॥
पुरस्ताच्च तथा पश्चादासनं तु विगर्हितम् ।

राज्ञोऽनुजीविवृत्तम् । १९१
जृम्भां निष्ठीवनं कासं कोपं पर्यस्तिकाश्रयम् ॥
भ्रुकुटिं वातमुद्गारं तत्समीपे विवर्जयेत् ।
स्वयं तत्र न कुर्वीत स्वगुणाख्यापनं बुधः ॥
स्वगुणाख्यापने युक्त्या परमेव प्रयोजयेत् ।
हृदयं निर्मलं कृत्वा परां भक्तिमुपाश्रितैः ।
अनुजीविगणैर्भाव्यं नित्यं राज्ञामतन्द्रितैः ॥
शाठ्यं लौल्यं च पैशुन्यं नास्तिक्यं क्षुद्रतां तथा ।
चापल्यं च परित्याज्यं नित्यं राजानुजीविभिः ॥
श्रुतेन विद्याशिल्पैश्च संयोज्यात्मानमात्मना ।
राजसेवां ततः कुर्याद्भूतये भूतिवर्द्धनीम् ॥
नमस्कार्याः सदा चास्य पुत्रवल्लभमन्त्रिणः ।
सचिवैश्चास्य विश्वासो न तु कार्यः कथञ्चन ॥
अपृष्टश्चास्य न ब्रूयात्कामं ब्रूयात्तथाऽऽपदि ।
हितं पथ्यं च वचनं हितैः सह सुनिश्चितम् ॥
चित्तं चैवास्य विज्ञेयं नित्यमेवानुजीविना ।
भर्तुराराधनं कुर्याच्चित्तज्ञो मानवः सुखम् ।
रागापरागौ चैवास्य विज्ञेयौ भूतिमिच्छता ।
त्यजेद्विरक्तं नृपतिं रक्ताद्वृत्तिं तु कारयेत् ॥
विरक्तः कारयेन्नाशं विपक्षाभ्युदयं तथा ।
आशावर्द्धनकं कृत्वा फलनाशं करोति च ॥
अकोपोऽपि सकोपाभः प्रसन्नोऽपि च निष्फलः ।
वाक्यं स मन्दं वदति वृत्तिच्छेदं करोति च ॥
प्रदेशवाक्यैर्मुदितो न सम्भावयतेऽन्यथा ।
आराधनासु सर्वासु सुप्रसन्नवच विचेष्टते ॥
कथासु दोषं क्षिपति वाक्यभङ्गं करोति च ।

१९२ वीरमित्रोदयस्य राजनीतिप्रकाशे
लक्ष्यते विमुखश्चैव गुणसङ्कीर्त्तनेऽपि च ॥
दृष्टिं क्षिपत्यथान्यत्र क्रियमाणे च कर्मणि ।
विरक्तलक्षणं ह्येतच्छृणु रक्तस्य लक्षणम् ॥
दृष्ट्वा प्रसन्नो भवति वाक्यं गृह्णाति चादरात् ।
कुशलादिपरिप्रेक्षी सम्प्रयच्छति चासनम् ॥
विविक्तदर्शने चास्य रहस्येन न शङ्कते ।
जायते हृष्टवदनः श्रुत्वा तस्य तु सङ्कथाम् ॥
अप्रियाण्यपि वाक्यानि तदुक्तान्यभिनन्दते ।
उपायनं च गृह्णाति स्तोकमप्यादरात्तथा ॥
कथान्तरेषु स्मरांतं प्रहृष्टवदनस्तथा ।
इति रक्तस्य कर्त्तव्या सेवा रविकुलोद्वह ॥
आपत्सु न त्यजेत्पूर्वं विरक्तमपि सेवितम् ।
मित्रं न चापत्सु तथा च भृत्यायजन्ति ये निर्गुणमप्रमेयम् ।
प्रभुं विशेषेण च ते व्रजन्ति सुरेन्द्रधामामरवृन्दजुष्टम् ॥ इति ।
महाभारते धौम्यवचनम्—
दिष्टद्वारो लभेद्व्रष्टुं राजस्वेषु न विश्वसेत् ।
तदेवासनमन्विच्छेद्यत्र नातिपतेत्परान् ॥
दिष्टद्वारः, निवेदनानन्तरमादिष्टप्रवेशः । सामान्यतो वा
निवारितद्वारप्रवेशः ।
यो न यानं न पर्यङ्कं न पीठं न गजं रथम् ।
अरोहेत्सम्मतोऽस्मीति स राजवसतिं वसेत् ॥
यत्र यत्रैनमासीनं शङ्केरन् दुष्टचारिणः ।
न तत्रोपविशेद्यो वै स राजवसतिं वसेत् ॥
न चानुशिष्याद्राजानमपृच्छन्तं कदाचन ।
तूष्णीं त्वेनमुपासीत काले समाभिपूजयन् ॥

राजोऽनुजीविवृत्तम् । १९३

असूयन्ति हि राजानो जनानानृतवादिनः ।
तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा ॥
नैषां दारेषु कुर्वीत मैत्रीं प्राज्ञः कदाचन ।
अन्तःपुरचरा ये च द्वेष्टि यानहिताश्च ये ॥
यान् राजा द्वेष्टि, ये च राज्ञोऽहिताः, तेषु मैत्रीं न कुर्वीते-
त्यनुषङ्गः ।
विदिते चास्य कुर्वीत कार्याणि सुबहून्यपि ।
एवं विचरतो राज्ञि न क्षतिर्जायते क्वचित् ॥
गच्छन्नपि परां भूमिमपृष्टो ह्यनियोजितः ।
जात्यन्ध इव मन्येत मर्यादामनुचिन्तयन् ॥
समातिक्रान्तमर्यादं पूजयन्ति नराधिपाः ।
यत्नाच्चोपचरेदेनमग्निवद्देववत्त्विह ॥
अनृतेनोपचीर्णो हि हन्यादेव न संशयः ।
यद्यद्भर्त्तानुयुञ्जीत तत्तदेवानुवर्त्तयेत् ॥
प्रमादमवलेपं च कोपं च परिवर्जयेत् ।
समर्थनासु सर्वासु हितं च प्रियमेव च ॥
संवर्णयेत्तदेवास्य प्रियादपि हितं भवेत् ।
अनुकूलो भवेच्चास्य सर्वार्थेषु कथासु च ॥
अप्रियं चाहितं यत्स्यात्तदस्मै नानुवर्णयेत् ।
नाहमस्य प्रियोऽस्मीति मत्वा सेवेत पण्डितः ॥
अप्रमत्तश्च सततं हितं कुर्यात्प्रियं च यत् ।
नास्यानिष्टानि सेवेत नाहितैः सह संवदेत् ॥
स्वस्थानान्न विकम्पेत स राजवसतिं वसेत् ।
दक्षिणं वाथ वामं वा पार्श्वमासीत पण्डितः ॥
रक्षिणां ह्यात्तशस्त्राणां स्थानं पश्चाद्विधीयते ।
२५

१९४ वीरमित्रोदयस्य राजनीतिप्रकाशे
नित्यं हि प्रतिषिद्धं तु पुरस्तादासनं महत् ॥
न च सन्दर्शने किञ्चिदबद्धमपि सञ्जपेत् ।
अपि ह्येतद्दरिद्राणां व्यलीकस्थानमुत्तमम् ॥
न मृषाभिहितं राज्ञा मनुष्येषु प्रकाशयेत् ।
असूयन्ति हि राजानो नराननृतवादिनः ॥
तथैव चावमन्यन्ते नरान् पण्डितमानिनः ।
शूरोऽस्मीति न दृप्तः स्याद्बुद्धिमानिति वा पुनः ॥
प्रियमेवाचरन् राज्ञः प्रियो भवति भोगवान् ।
ऐश्वर्यं प्राप्य दुष्प्रापं प्रियं प्राप्य च राजतः ॥
अप्रमत्तो भवेद्राज्ञः प्रियेषु च हितेषु च ।
यस्य कोपो महाबाधः प्रसादश्च महाफलः ॥
कस्तस्य मनसापीच्छेददनर्थं प्राज्ञसम्मतः ।
न चोष्ठौ न भुजौ जातु न च वाक्यं समाक्षिपेत् ॥
सदा वातं च वाचं च ष्ठीवनं वाऽऽचरेच्छनैः ।
हास्यवस्तुषु चान्येषु वर्त्तमानेषु केषु चित् ॥
नातिगाढं प्रहृष्येत न चाप्युन्मत्तवद्धसेत् ।
न चातिधैर्येण चरेद्गुरुतां हि व्रजेत्ततः ॥
स्मितं तु मृदुपूर्वेण दर्शयेत प्रसादजम् ।
लाभेन हर्षयेद्यस्तु न व्यथेद्योऽवमानितः ॥
असंमूढश्च यो नित्यं स राजवसतिं वसेत् ।
राजानं राजपुत्रं वा संवर्णयति यः सदा ॥
अमात्यः पण्डितो भूत्वा स चिरं तिष्ठते प्रियः ।
प्रगृहीतश्च योऽमात्यो निगृहीतस्त्वकारणैः ॥
न निर्वदति राजानं लभते सम्पदं पुनः ।
प्रत्यक्षं च परोक्षं च गुणवादी विचक्षणः ॥

राज्ञोऽनुजीविवृत्तम् । १९५
उपजीवी भवेद्राज्ञो विषये वापि यो वसेत् ।
अमात्यो हि बलाद्भोक्तुं राजानं प्रार्थयेत यः ॥
न स तिष्ठेच्चिरं स्थानं गच्छेच्च प्राणसंशयम् ।
श्रेयः सदात्मनो दृष्ट्वा परं राज्ञा न संवदेत् ॥
विशेषयेच्च राजानं योग्यभूमिषु सर्वदा ।
विशेषयेत्, राजानमधिकं स्वात्मानं च ततो न्यूनं कुर्यात् ।
अम्लानो बलवाञ्छूरश्छायेवानुगतः सदा ॥
सत्यवादी मृदुर्दान्तः स राजवसतिं वसेत् ।
अन्यस्मिन् प्रेष्यमाणे तु पुरस्ताद्यः समुत्पतेत् ॥
अहं किं करवाणीति स राजवसतिं वसेत् ।
आन्तरे चैव बाह्ये च राज्ञा यथाथ सर्वदा ॥
आदिष्टो नैव कम्पेत स राजवसतिं वसेत् ।
यो वै गृहेभ्यः प्रवसन् प्रियाणां नानुसंस्मरेत् ॥
दुःखेन सुखमन्विच्छेत्स राजवसतिं वसेत् ।
समवेष न कुर्वीत नोच्चैः सन्निहितो वसेत् ॥
न मन्त्रं बहुधा कुर्यादेवं राज्ञः प्रियो भवेत् ।
न कर्मणि नियुक्तः सन् धनं किञ्चिदपि स्पृशेत् ॥
प्राप्नोति हि हरन्द्रव्यं वेधनं यदि वा वधम् ।
पानं वस्त्रमलङ्कारं यच्चान्यत्सम्प्रयच्छति ॥
तदेव धारयेन्नित्यमेवं प्रियतरो भवेत् । इति ।
इत्यनुजीविवृत्तम् ।
इति श्रीमत्सकलसामन्तचक्रचूडामणिमरीचिमञ्जरीनीराजि-
तचरणकमल—
श्रीमन्महाराजाधिराजप्रतापरुद्रतनूज-

१९६ वीरमित्रोदयस्य राजनीतिप्रकाशे
श्रीमन्महाराजमधुकरसाहसूनु-
श्रीमन्महाराजाधिराजचतुरुदधिवलयवसुन्धराहृदयपुण्डरी-
कविकासदिनकर-
श्रीवीरसिंहदेवोद्योजित-
श्रीहंसपण्डितात्मजश्रीपरशुराममिश्रसूनु-
सकलविद्यापारावारपारीणधुरीण-
जगद्दारिद्यमहागजपारीन्द्रविद्वज्जनजीवातु-
श्रीमन्मित्रमिश्रकृते
श्रीवीरमित्रोदयाभिधाननिबन्धे राजनीतिप्रकाशे राजधर्माः ।

राज्ञो निवासयोग्यदेशः । १९७
अथ राज्ञो निवासयोग्यदेशविचारः ।
तत्र मनुः,
जाङ्गलं सस्यसम्पन्नमार्यप्रायमनाविलम् ।
रम्यमानतसामन्तं स्वाजीव्यं देशमावसेत् ॥ इति ।
जाङ्गलदेशलक्षणमन्यत्राभिहितम्—
अल्पोदकतृणो यस्तु प्रवातः प्रचुरातपः ।
स ज्ञेयो जाङ्गलो देश इति देशविदो विदुः ॥ इति ।
स्मृत्यन्तरेऽपि,
स्वल्पवृक्षोदकपर्वतो बहुपक्षिमृगः प्रचुरवर्षातपश्च जाङ्गलो-
देश इति ।
इदं च स्वल्पोदकादिविशेषणं देशस्य परैरनाक्रमणीयत्वा-
र्थम् । राजधान्यां तु बहुजलादिमत्त्वं तत्प्रकरणे वक्ष्यते ।
सस्यैः, वार्षिकशारदहैमन्तिकवासन्तिकैरव्यवहितोत्पत्तिकैर्धान्यैः
सम्पूर्णम् । आर्यप्रायं, प्रचुरधार्मिकजनम् । अनाविलं, सर्प-
व्याघ्रादिभिरनाकुलम् । रम्यं मनोरमम् । आनतसामन्तं,
दानमानादिना प्रणततत्तद्भूमिपालम् । स्वाजीव्यं, सुलभकृषि-
वाणिज्यादिलोकजीवनोपायम् । देशमावसेदित्यत्र "उपान्व-
ध्याङ्वस” इत्याधारे द्वितीया । तथा—
याज्ञवल्क्यः,
रम्यं पशव्यमाजीव्यं जाङ्गलं देशमावसेत् । इति ।
पशव्यं, पशुभ्यो हितम् । आजीव्यं, समन्तादुपजीव्यौषधि-
तृणकाष्ठादियुक्तम् ।
मत्स्यपुराणेऽपि,

१९८ वीरमित्रोदयस्य राजनीतिप्रकाशे
मत्स्य उवाच ।
राजा सहायसंयुक्तः प्रभूतयवसेन्धनम् ।
रम्यमानतसामन्तं मध्यमं देशमावसेत् ॥ इति ।
प्रभूतं प्रचुरं यवसं तृणम् इन्धनं च यस्मिंस्तादृशम् ।
मध्यमं स्वपालनीयदेशमध्यस्थम् ।
वैश्यशूद्रजनप्रायमनाहार्यं तथा परैः ।
किञ्चिद्ब्राह्मणसंयुक्तं बहुकर्मकरं तथा ॥
अनाहार्यं, परैर्ग्रहीतुमशक्यम् । ब्राह्मणबाहुल्ये सहवासा-
दिना राजकीयभ्यस्तेषां पीडा स्यादित्यतः किञ्चिद्ब्राह्मण-
संयुक्तमिति ।
अदेवमातृकं रम्यमनुरक्तजनावृतम् ।
करैरपीडितं चापि बहुपुष्पफलं तथा ॥
अदेवमातृकं, नदीमातृकम्।नद्यम्बुसम्पन्नव्रीहिपालितमित्यर्थः।
अगम्यं परचक्राणां तद्वासगृहमापदि ।
समदुःखसुखं राज्ञः सततं प्रियमास्थितम् ॥
सरीसृपविहीनं च व्यालतस्करवर्जितम् ।
एवंविधं यथालाभं राजा विषयमावसेत् ॥ इति ।
विषयो देशः । आपदि, शत्रोर्विपत्काले । तेषां परचक्राणां
वासगृहाणि यत्र तत्तथा । सरीसृपाः सर्पाः । व्याला व्याघ्राः ।
“यथालाभम्” “एवंविधम्” इत्यनेनैतत्प्रकरणोक्तकतिपयदेश-
विशेषणराहित्येऽपि न क्षतिरिति दर्शितम् ।
विष्णुधर्मोत्तरेऽपि,
राजा सहायसम्पन्नः पशव्यं जाङ्गलं शिवम् ।
वैश्यशूद्रजनप्रायमरोगं देशमावसेत् ॥ इति ।
इति राज्ञो निवासयोग्यदेशविचारः ।

दुर्गलक्षणम् । १९९
अथ दुर्गम् ।
तत्र याज्ञवल्क्यः,
तत्र दुर्गाणि कुर्वीत जनकोशात्मगुप्तये । इति ।
तत्र, पूर्वोक्तदेशे ।
मत्स्यपुराणे,
तत्र दुर्गं नृपः कुर्यात्षण्णामेकतमं बुधः ।
तानि च षड्विधानि—
स एवाह,
धन्वदुर्गं महीदुर्गं नरदुर्गं तथैव च ।
वार्क्षं चैवाम्बुदुर्गं च गिरिदुर्गं च पार्थिव ॥ इति ।
धन्वदुर्गं, निवासस्थानरूपाया राजधान्याः समन्तत एक-
द्विदिनसाध्ये मार्गे मरुभूमिरूपं दुर्गम् । तच्च द्विविधं, स्वतःसिद्ध-
मरुभूमिरूपं, समन्ततो वापीकूपतडागादिजलस्थानानां वृक्षाणां
च विनाशनेन निर्जलतां निर्वृक्षतां च सम्पाद्य कृत्रिममरुभूमिरूपं
च । तत्राद्यमुक्तम्—
औशनसे धनुर्वेदे,
सलिलवर्जितमतिशर्कराचितं रूक्षं निराश्रयं विषमैर्विषकी-
टैश्चितं विषमप्रदेशे दुःसञ्चरं बलवद्भिः पालकैरुपेतं रोगविनि-
र्मुक्तं धान्वनदुर्गं श्रेयसे भवेत् । इति ।
द्वितीयं तूक्तम्—
महाभारते,
यदा तु पीडितो राजा भवेद्राज्ञा बलीयसा ।
तदाभिसंश्रयेत् दुर्गं बुद्धिमान् पृथिवीपतिः ॥
इत्युपक्रम्य—
सस्याभिहारं कुर्याच्च स्वयमेव नराधिपः ।

' (ā-kāra) after it!
So it is "महामिष्टकापाषाणादि-"!

Let's check line 15:
निर्मितं दुर्गं महीदुर्गम् । तच्च द्विविधम् । अतिनिम्नोन्नतभू-

Line 16:
मिरूपमेकं, अपरं च पाषाणैरिष्टकाभिर्मृदा वा निर्मितेन युद्धार्थ-
Wait, is there a space after the comma: "मिरूपमेकं, अपरं च" or "मिरूपमेकं,अपरं च"?
In the image: "मिरूपमेकं, अपरं च" (or slight space).

Line 17:
मुपरियोधावस्थानयोग्येन प्राकारेणोपकल्पितम् । तत्राद्यमुक्तम्-
Wait, let's check:
"मुपरियोधावस्थानयोग्येन" ->
म + उपरि = मुपरि
योधावस्थानयोग्येन = योधा + अवस्थान + योग्येन
प्राकारेणोपकल्पितम् = प्राकारेण + उपकल्पितम्
तत्राद्यमुक्तम्-

Line 18:
औशनसे धनुर्वेदे,

Line 19:
सर्वोपकरणोपेतं गुप्तं चोपायसंयुतम् ।

Line 20:
अत्युत्सेधातिनिम्नं

दुर्गलक्षणम् । २०१
नराणामुपलक्षणत्वेन यथासम्भवं चतुरङ्गसेनासन्निवेशविशेषरूपं
दुर्गम् । इदमेव च बलदुर्गम् । तदुक्तम्-
औशनसे धनुर्वेदे,
मौलं वश्यसुसन्तुष्टं शिक्षायुक्तं सनायकम् ।
भीमं चैवाप्रमत्तं च बलदुर्गं प्रशस्यते ॥ इति ।
मौलं परम्परागतयोधरूपम् । प्रशंसितमेतत्-
महाभारते,
दुर्गेषु च महाराज षट्सु ये शास्त्रनिश्चिताः ।
सर्वे दुर्गेषु शस्यन्ते नरदुर्गं सुदुस्तरम् ॥ इति ।
वार्क्षं, समन्ततो घनतरवृक्षरूपं दुर्गम् । तदुक्तम्-
औशनसे धनुर्वेदे,
अज्ञातमार्गं गहनं वृक्षगुल्मलतादिभिः ।
सकण्टकैर्वनं दुर्गं भूतये स्यात्सुविस्तृतम् ॥ इति ।
अम्बुदुर्गम्, समन्ततोऽगाधजलनद्यादिरूपं दुर्गम् । इदम-
धिकृत्योक्तम्-
औशनसे धनुर्वेदे,
सङ्क्षिप्तेनैकमार्गेण सविषैस्तु जलेचरैः ।
सलिलैर्विषमं स्पर्शनखादनवधप्रियैः ॥ इति ।
स्पर्शनं खादनं वधश्च तत्प्रियैः । गिरिदुर्गं च द्विविधम् ।
समन्ततो दुर्गमपर्वतवेष्टितभूभागरूपं, दुर्गमसजलगिरिशिखर-
रूपं च । तदुक्तम्-
औशनसे धनुर्वेदे,
दुरारोहं परैर्दूरं शरपातस्य गोचरात् ।
सर्वसम्पत्समायुक्तं दुर्गं स्यात्पार्वतं श्रिये ॥ इति ।
२६

२०२ वीरमित्रोदयस्य राजनीतिप्रकाशे

सर्वेषां धान्यजलादीनां सम्पत् आधिक्यं तेन समायुक्तं
यत्तादृशम् । एतान्येव षड्विधानि दुर्गाण्याह-
मनुरपि,
धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव च ।
नृदुर्गं गिरिदुर्गं च समाश्रित्य वसेत्पुरम् ॥ इति ।
तिर्यक्प्रभृतयोऽपि दुर्गमाश्रिता इत्यतो राज्ञा तदवश्यमा-
श्रयणीयामित्यभिप्रेत्य-
स एवाह,
त्रीण्याद्यान्याश्रितास्तेषां मृगगर्ताश्रया झषाः ।
त्रीण्युत्तराणि क्रमशः प्लवङ्गमनरामराः ॥
त्रीण्याद्यानि, आद्यानि त्रीणि दुर्गाणि । तत्र मरुभूमिरूपं
मृगा आश्रिताः, गर्ताश्रया मूषकादयः दुर्गममहीरूपम्, झषा
मत्स्या अगाधजलरूपम्, प्लवङ्गमा वानरा वृक्षसमुदायरूपम्,
नरा मनुष्या नरसमुदायरूपम् । एकाकिनो हि परैरभिभाव्यत्वं
स्पष्टमेव । अमरा देवाः कैलासादिदुर्गमाश्रिता इत्यतो राज्ञाप्ये-
षामन्यतमदुर्गमाश्रयणीयमित्यर्थः ।
यथा दुर्गाश्रितानेतान्नोपहिंसन्ति शत्रवः ।
तथारयो न हिंसन्ति नृपं दुर्गसमाश्रितम् ॥ इति ।
दुर्गस्यावश्यविधेयत्वं तत्प्रकारविशेषं च-
बृहस्पतिराह,
आत्मदारार्थलोकानां सञ्चितानां तु गुप्तये ।
नृपतिः कारयेद्दुर्गं प्राकारद्वारसंयुतम् ॥ इति ।
मनुरपि,
एकः शतं योधयति प्राकारस्थो धनुर्द्धरः ।
शतं दशसहस्राणि तस्माद्दुर्गं विधीयते ॥ इति ।

दुर्गे पुरनिर्माणम् । २०३
तेषां षण्णामपि दुर्गाणां मध्ये गिरिदुर्गस्य प्राशस्त्यमुक्तम्-
मत्स्यपुराणे,
सर्वेषामेव दुर्गाणां गिरिदुर्गं प्रशस्यते । इति ।
मनावपि,
सर्वेषां तु प्रयत्नेन गिरिदुर्गं समाश्रयेत् ।
एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते ॥ इति ।
बाहुगुण्येन बहुतरगुणवत्त्वेन । ते च गुणा दुरारोहत्वादयः
प्रत्यक्षसिद्धा एव । तेषु च यथासम्भवं परिखादि कार्य-
मित्युकम्—
मत्स्यपुराणे,
दुर्गं च परिखोपेतं प्राकाराट्टाळसंयुतम् ।
शतघ्नीयन्त्रमुखैश्च शतशश्च समावृतम् ॥ इति ।
इति दुर्गम् ।
अथ पुरनिर्माणम् ।
तत्र मत्स्यपुराणे,
गोपुरं सकपाटं तु तत्र स्यात्सुमनोहरम् ।
तत्र, दुर्गे । गोपुरं, पुरद्वारम् । तत्प्रमाणं तु—
तत्रैव,
सपताकगजारूढो येन राजा विशेत्पुरम् । इति ।
विशेषान्तरमप्युक्तम्-
तत्रैव,
चतस्रश्च तथा तत्र कार्यास्त्वायतवीथयः ।
एकस्मिंस्तत्र वीथ्यग्रे देववेश्म भवेद्दृढम् ॥
वीथ्यग्रे च द्वितीये च राजवेश्म विधीयते ।

२०४ वीरमित्रोदयस्य राजनीतिप्रकाशे
धर्माधिकरणं कार्यं वीथ्यग्रे च तृतीयके ॥
चतुर्थे चैव वीथ्यग्रे गोपुरं तु विधीयते ।
आयतं चतुरस्रं वा वृत्तं वा कारयेत्पुरम् ॥
आयतं दीर्घचतुरस्रम् ।
स्रक्तिहीनं त्रिकोणं च यवमध्यं तथैव च ।
स्रक्तिहीनं कोणरहितम् ।
अर्द्धचन्द्रप्रकारं च वज्राकारं च कारयेत् ॥
अर्द्धचन्द्रं प्रशंसन्ति नदीतीरेषु तद्वशात् १ ।
अन्यत्र तन्न कर्तव्यं प्रयत्नेन विजानता ॥ इति ।
तत्र विशेषमाह—
मनुः,
तत्स्यादायुधसम्पन्नं धनधान्येन वाहनैः ।
ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन्धनैः ॥ इति ।
पुरमित्युपक्रमे—
बृहस्पतिरपि,
भूपानामिन्धनरसैर्वैत्रशष्पान्नवाहनैः ।
यन्त्रायुधैश्च विविध

दुर्गे पुरगृहादिनिर्माणम् । २०५
मुक्ताः, करादिनिर्मुक्ताः। नृपतिः, विभक्तिव्यत्ययेन नृप-
तिना । स्वशासने, स्वकरादानकरणे । लेखयित्वा, एवं दत्ता
गृहाः करनिर्मुक्ता इति लेखयित्वा । भाव्याः परिपालनीयाः ।
नित्यं नैमित्तिकं काम्यं शान्तिकं पौष्टिकं सदा ।
पौराणां कर्म कुर्युस्ते सन्दिग्धे विनयं तथा ॥ इति ।
सन्दिग्धे, कार्ये । विनयं, शिक्षाम् । पुरं कुर्यादित्युपक्रम्य-
विष्णुधर्मोत्तरे,
एषामन्यतमे दुर्गे धनधान्यसमायुते ।
हस्त्यश्वरथसम्पन्ने मणिभिरुपशोभिते ॥
यन्त्राढ्ये वेदबहुले युद्धोपकरणैर्युते ।
सुसञ्चिते धनाढ्ये च बहुपेये बहूदके ॥
हस्त्यश्वरथगोवैद्यसांवत्सरयुते शुभे ।
घृततैलौषधियुते सर्वोपकरणैस्तथा ॥
प्राकारपरिखावप्रगोपुराट्टालकैर्युते ।
चाटतस्करदुर्वृत्तक्रुद्धलुब्धादिवर्जिते ॥ इति ।
वेदबहुले, वैदिकब्राह्मणबहुले । सुसञ्चिते, वक्ष्यमाणस-
कलपदार्थसञ्चययुक्ते । चाटाः, बहुभाषिणः । परिखादिकरणे
विशेषमाह-
बृहस्पतिः,
समा निम्नोन्नता वापि यत्र भूमिर्यथाविधा ।
शालादृपरिखाद्याश्च कर्त्तव्याश्च तथाविधाः ॥
तथाविधाः, भूमेर्निम्नोन्नततानुसारेण निम्ना उन्नताश्च
कार्या इत्यर्थः ।
समन्तात्तत्र वेश्मानि कुर्युः प्रकृतयस्ततः ।
द्विजवैश्यवणिक्शिल्पिकारुका रक्षकास्तथा ॥