वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 186, कुल 490 में से
संदर्भ में पढ़ें१९० वीरमित्रोदयस्य राजनीतिप्रकाशे
नोपेक्ष्यस्तस्य मानश्च तथा राज्ञः प्रियो भवेत् ।
राज्ञश्च न तथा कार्यं वेषभाषितचेष्टितम् ॥
राजलीला न कर्त्तव्या तद्विष्टं च विवर्जयेत् ।
अन्तःपुरधनाध्यक्षैर्वैरिदूतैर्निराकृतैः ॥
संसर्गं न व्रजेद्राजन् विना पार्थिवशासनम् ।
निःस्नेहतां चावमानं प्रयत्नेन तु गोपयेत् ॥
यच्च गुह्यं भवेद्राज्ञो न तल्लोके प्रकाशयेत् ।
नृपेण श्रावितं यत्स्याद्गुह्याद्गुह्यं नृपोत्तम ॥
न तत्संश्रावयेल्लोके तथा राज्ञः प्रियो भवेत् ।
आज्ञाप्यमाने चान्यस्मिन् समुत्थाय त्वरान्वितः ॥
अहं किं करवाणीति वाच्यो राजा विजानता ।
कार्यावस्थां च विज्ञाय कार्यमेतत्तथा भवेत् ॥
सततं क्रियमाणेऽस्मिँल्लाघवं तु व्रजेत् ध्रुवम् ।
राज्ञः प्रियाणि वाच्यानि न चात्यर्थं पुनः पुनः ॥
न हास्यशीलस्तु भवेन्न वापि भ्रुकुटीमुखः ।
नातिवक्ता न निर्वक्ता न च मत्सरिकस्तथा ॥
आत्मसम्भावितश्चैव न भवेत्तु कथञ्चन ।
दुष्कृतानि नरेन्द्रस्य न तु सङ्कीर्तयेत्क्वचित् ॥
वस्त्रमस्त्रमलङ्कारं राज्ञा दत्तं तु धारयेत् ।
औदार्येण न तद्देयमन्यस्मै भूतिमिच्छता ॥
न चैवात्यशनं कार्यं दिवास्वप्नं न कारयेत् ।
नानिर्दिष्टे तथा द्वारे प्रविशेत्तु कथञ्चन ॥
न च पश्येत्तु राजानमयोग्यासु च भूमिषु ।
राज्ञस्तु दक्षिणे पार्श्वे वामे वोपविशेत्सदा ॥
पुरस्ताच्च तथा पश्चादासनं तु विगर्हितम् ।