सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 187, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 187

राज्ञोऽनुजीविवृत्तम् । १९१
जृम्भां निष्ठीवनं कासं कोपं पर्यस्तिकाश्रयम् ॥
भ्रुकुटिं वातमुद्गारं तत्समीपे विवर्जयेत् ।
स्वयं तत्र न कुर्वीत स्वगुणाख्यापनं बुधः ॥
स्वगुणाख्यापने युक्त्या परमेव प्रयोजयेत् ।
हृदयं निर्मलं कृत्वा परां भक्तिमुपाश्रितैः ।
अनुजीविगणैर्भाव्यं नित्यं राज्ञामतन्द्रितैः ॥
शाठ्यं लौल्यं च पैशुन्यं नास्तिक्यं क्षुद्रतां तथा ।
चापल्यं च परित्याज्यं नित्यं राजानुजीविभिः ॥
श्रुतेन विद्याशिल्पैश्च संयोज्यात्मानमात्मना ।
राजसेवां ततः कुर्याद्भूतये भूतिवर्द्धनीम् ॥
नमस्कार्याः सदा चास्य पुत्रवल्लभमन्त्रिणः ।
सचिवैश्चास्य विश्वासो न तु कार्यः कथञ्चन ॥
अपृष्टश्चास्य न ब्रूयात्कामं ब्रूयात्तथाऽऽपदि ।
हितं पथ्यं च वचनं हितैः सह सुनिश्चितम् ॥
चित्तं चैवास्य विज्ञेयं नित्यमेवानुजीविना ।
भर्तुराराधनं कुर्याच्चित्तज्ञो मानवः सुखम् ।
रागापरागौ चैवास्य विज्ञेयौ भूतिमिच्छता ।
त्यजेद्विरक्तं नृपतिं रक्ताद्वृत्तिं तु कारयेत् ॥
विरक्तः कारयेन्नाशं विपक्षाभ्युदयं तथा ।
आशावर्द्धनकं कृत्वा फलनाशं करोति च ॥
अकोपोऽपि सकोपाभः प्रसन्नोऽपि च निष्फलः ।
वाक्यं स मन्दं वदति वृत्तिच्छेदं करोति च ॥
प्रदेशवाक्यैर्मुदितो न सम्भावयतेऽन्यथा ।
आराधनासु सर्वासु सुप्रसन्नवच विचेष्टते ॥
कथासु दोषं क्षिपति वाक्यभङ्गं करोति च ।