वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
११४ वीरमित्रोदयस्य राजनीतिप्रकाशे
एतान् पञ्च गणान् हुत्वा वाचयेत्तु द्विजोत्तमान् ।
हिरण्यैनाक्षताढ्येन फलैश्च मधुसर्पिषा ॥
पुण्याहं वाचयित्वास्य प्रारम्भं कारयेद्बुधः ।
तिथिनक्षत्रसंयुक्ते मुहूर्त्ते करणे शुभे ॥
उच्चैर्घोषयते तूर्याण्यभिमन्त्र्य पुरोहितः ।
सर्वतूर्यनिनादेन अभिषिक्तो ह्यलङ्कृतः ॥
सिंहासनं समारुह्य पीठकं वा क्रमागतम् ।
चामरच्छत्रसंयुक्तं प्रतीहारविभूषितम् ॥
मत्तद्विपचतुष्कं च चतुर्दिक्षु प्रकल्पयेत् ।
उपविष्टस्ततो राजा प्रजानां कारयेद्धितम् ॥
अकरा ब्राह्मणा गावः स्त्रीबालजडरोगिणः ।
ततस्तु दर्शनं देयं ब्राह्मणानां नृपेण तु ॥
श्रेणीप्रकृतिमुख्यानां स्त्रीजनं च नमस्करोत् ।
आशिपस्ते हि दास्यन्ति तुष्टा जनपदा भुवि ॥
एवं प्रजाऽनुरज्येत पृथिवी च वशा भवेत् ।
पुरोहितं मन्त्रिणं च सेनाध्यक्षं तथैव च ॥
अश्वाध्यक्षं गजाध्यक्षं कोष्ठागारपतिं तथा ।
भाण्डागारपतिं वैद्यं दैवज्ञं च यथाक्रमम् ॥
यथार्हेण च योगेन सर्वान् सम्पूजयेन्नृपः ।
राज्यं पुरोहिते न्यस्य शेषाणां च यथाक्रमम् ॥
स्थानान्तराणि चान्यानि दत्त्वा सुखमवाप्नुयात् ।
दूर्वासिद्धार्थकान् सर्पिः शमी व्रीहियवाँ तथा ॥
शुक्लानि चैव पुष्पाणि मूर्ध्नि दद्यात्पुरोहितः ।
अथर्वविहितो ह्येष विधिः पुष्याभिषेचने ॥
राजा स्नातो महीं भुङ्क्ते शक्रलोकं स गच्छति ।
इति पुष्याभिषेकः ।
प्रतिमासप्रतिसंवत्सराभिषेकौ । ११५
अथ राज्ञो जन्मनक्षत्रे प्रतिमासमभिषेक उक्तो—
विष्णुधर्मोत्तरे,
पुष्कर उवाच ।
राजा तु जन्मनक्षत्रे प्रतिमासं समाचरेत् ।
जन्मनः क्षालकं कर्म यत्तत्पूर्वं मयेरितम् ॥
पुष्यस्नानं तथा कुर्यात्प्रतिमासं नराधिप ।
सङ्क्रान्तं पूजयेत्सूर्यं बालमिन्दुं तथैव च ॥
ग्रहं सम्पूजयेद्राजा निर्गतं रविमण्डलात् ।
निर्गतम् उदितम् ।
अगस्त्यस्योदये कार्या तथा पूजा नराधिपैः ॥
इति प्रतिमासं जन्मनक्षत्रे अभिषेकः ।
अथ संवत्सराभिषेकः ।
विष्णुधर्मोत्तरे,
राम उवाच ।
सम्वत्सराभिषेकं च कथयस्व महीक्षितः ।
तत्र मे संशयो देव त्वं हि सर्वविदुच्यसे ॥
पुष्कर उवाच ।
राजाभिषेकनक्षत्रे प्रतिसंवत्सरं द्विजैः ।
पूर्वाभिषेकविधिना कर्त्तव्यमभिषेचनम् ॥
धन्यं यशस्यं रिपुनाशनं च सौभाग्यदं पुष्टिविवर्द्धनं च ।
वर्षाभिषेकं नृपतेः प्रदिष्टं सौख्यावहं राज्यविवृद्धिदं च ॥ इति।
ब्रह्मपुराणेऽपि—
राजाभिषेकमुक्त्वा,
अनेन विधिना यस्तु कुर्याद्वर्द्धापनं सदा ।
११६ वीरमित्रोदयस्य राजनीतिप्रकाशे
अभिषेकाह्नि यत्नेन प्रतिसंवत्सरं नृपः ॥ इति ।
इति संवत्सराभिषेकः ।
अथाभिषिक्तस्य राज्ञो गुणवतो जनपदपरिपालनादीन्
धर्मान् वक्तुं यैर्गुणैः प्रजापालनयोग्यो भवति ते गुणा
उच्यन्ते । तत्र—
शङ्खलिखितौ, राजा दीर्घदर्शी महोत्साहः शक्तिमाननस्र्-
युर्भक्तबलस्त्यागी शरण्यः सर्वभूतानां संविभक्तः सत्यवा-
ग्मत्सरी गम्भीरो ऽमर्षणो बुधस्तेजस्वी प्रतिविधानकुशलो-
ऽदीर्घसूत्रो दक्षः क्षमावान् लक्ष्यज्ञो देशकालद्रव्यप्रयोगस-
ङ्ग्रहनिमित्तज्ञानकुशलो गूढमन्त्रप्रचारसंवृतरन्ध्रः पररन्ध्रज्ञो दृढ-
प्रहारी लघुहस्तो जितस्थानासनहिमानपो जितकामरागद्वेषलो-
भमत्सरः प्रजाभिरामो दीनानुग्रहकर्त्ता ब्राह्मणेष्वन्नप्रदाता
श्रीयशोऽर्थी ।
अस्यार्थः। दीर्घदर्शी अनागतकार्यतत्त्वज्ञः। महोत्साहः, पु-
रुषार्थसाधनकर्माध्यवसाय उत्साहः स महान् यस्य सः। बहुवि-
षयत्वमविहन्यमानत्वं चोत्साहस्य महत्त्वम् । शक्तिमान् प्रभावो-
त्साइमन्त्रशक्तित्रययुक्तः। अनसूयुः, असूया परगुणेषु दोषारो-
पस्तद्रहितः । गम्भीरः अनुपलेखितक्रोधहर्षाद्याकारः । अमर्षणः
परसमृद्धेरसोढा । प्रतिविधानम्, उपस्थितानिष्टप्रतीकारः, तत्र
कुशलः । अदीर्घसूत्रः, अचिराक्रियः, अवश्यकार्याणां कर्मणां
प्रारम्भे प्रारब्धानां च परिसमाप्तौ यो न विलम्बते । दीर्घसू-
त्रस्य कर्महानिरुक्ता-
मत्स्यपुराणे,
अदीर्घसूत्रश्च भवेत्सर्वकर्मसु पार्थिवः ।
दीर्घसूत्रस्य नृपतेः कर्महानिर्ध्रुवं भवेत् ॥ इति
राजगुणाः । ११७
कार्यविशेषे दीर्घसूत्रतापि कर्त्तव्येत्युक्तम्-
तत्रैव,
दोषे दर्पे च माने च द्रोहे पापे च कर्मणि ।
अप्रिये चैव कर्त्तव्ये दीर्घसूत्रः प्रशस्यते ॥ इति ।
लक्ष्यज्ञः तत्कालकर्त्तव्यज्ञः। गूढमन्त्रप्रचारः फलानुमितम-
न्त्रतत्त्वः । संवृतरन्ध्रः, रन्ध्रं यत्र परे प्रभवन्ति, तत्संवृतं यस्य।
तथा च मनुः,
नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु ।
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥ इति ।
तथा यत्नातिशयं कुर्याद्यथाऽस्य छिद्रं शत्रुर्न जानाति,
शत्रोस्तु छिद्रं प्रकृतिभेदादिकं चारैर्जानीयात् । यथा कूर्मो
मुखचरणादीन्यङ्गानि आत्मदेहे गोपायति, एवममात्यादीनि
राज्याङ्गानि दानमानसत्कारैरात्मसात्कुर्यात् । दैवात्प्रकृतिभेदे
जाते यत्नतः प्रतीकारं कुर्यात् । जितमत्सर इति पुनर्ग्रहणम्
उत्पन्नस्यापि मत्सरस्याप्रकाशनार्थम् । प्रजाभिरामः प्रजानाम-
भिरमयिता ।
गौतमः, राजा सर्वस्येष्टे ब्राह्मणवर्जं साधुकारी साधुवा-
दी त्रय्यामान्वीक्षिक्यां चाभिविनीतः शुचिर्जितेन्द्रियो गुणव-
त्सहायोपायसम्पन्नः समः प्रजासु स्यात् हितं चासां कुर्वीत ।
सर्वस्य जनपदस्य, इष्टे, अधिपतिर्भवति निग्रहानुग्रहादिषु,
ब्राह्मणवर्जम्, ततस्ते स्वधर्मात् च्यवन्तोऽपि सान्त्वेन धर्मेऽव-
स्थाप्याः । सर्वक्रियासु स्वतन्त्रताख्यापनार्थं वचनम् । तथाह-
नारदः,
अस्वतन्त्राः प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः । इति ।
११८ वीरमित्रोदयस्य राजनीतिप्रकाशे
साधुकारी शास्त्राविरुद्धचरणशीलः। साधुवादी, व्यवहा-
रकाले सत्यवादी । त्रयी ऋग्यजुःसामवेदाः । अथर्वणस्तु
वेद एतेष्वेवान्तर्भवति । ऋग्यजुरात्मकत्वात्तस्य । भेदव्यवहा-
रस्तु प्रवचननिमित्तः शान्तिकपौष्टिकप्रमेयभेदनिबन्धनेा वा। आ-
न्वीक्षिकी, वेदाद्यविरुद्धा आत्मज्ञानोपयोगिनी न्यायविद्या।
तयोरभिविनीतो गुरुभिः सम्यक् शिक्षितः ।
मनुस्तु,
त्रैविद्येभ्यस्त्रयीं विद्याद्दण्डनीतिं च तद्विदः ।
आन्वीक्षिकीं चात्मविद्भ्यो वार्त्तारम्भांश्च लोकतः ॥ इति।
विद्यामिति द्वितीयान्तपाठे पूर्वोक्तमनुश्लोकादधिगच्छेदि-
त्यनुषञ्जनीयम् । शुचिः, अन्तः परद्रव्यादिष्वस्पृहः, बहिः
स्नानादिपरः । जितेन्द्रियः इन्द्रियजयवान् । अस्य फलमाह-
मनुः,
इन्द्रियाणां जये योगं समातिष्ठेदिवानिशम् ।
जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥ इति ।
गुणवत्सहायः, चारित्रादिमन्तोऽमात्याः, उपायाः, सा-
मादयः सप्त वक्ष्यन्ते, तैरुपसम्पन्नो युक्तः । समः प्रजासु, प्रिये
द्वेष्ये च । हितं, तडागखननादिना । आसां प्रजानाम् ।
याज्ञवल्क्यः,
महोत्साहः स्थूललक्ष्यः कृतज्ञो वृद्धसेवकः ।
विनीतः सत्त्वसम्पन्नः कुलीनः सत्यवाक् शुचिः ॥
अदीर्घसूत्रः स्मृतिमानक्षुद्रोऽपरुषस्तथा ।
धार्मिकोऽव्यसनश्चैव प्राज्ञः शूरो रहस्यवित् ॥
स्वरन्ध्रगोप्ताऽऽन्वीक्षिक्यां दण्डनीत्यां तथैव च ।
विनीतस्त्वथ वार्तायां त्रय्यां चैव नराधिपः ॥
राजगुणाः ११९
स्थूललक्ष्यः बहुदेयार्थदर्शी । तस्य च सर्वा पृथिवी वश्या
भवतीत्युक्तम्—
मत्स्यपुराणे,
भाव्यं धर्मभृतां श्रेष्ठ स्थूललक्ष्येण भूभृता ।
स्थूललक्ष्यस्य वशगा सर्वा भवति मेदिनी ॥ इति ।
परकृतोपकारापकारौ न विस्मरतीति कृतज्ञः । वृद्धसेवकः,
विनयशिक्षार्थं तपोज्ञानादिवृद्धानां सेवकः । तदुक्तम् —
मनुना,
वृद्धांश्च नित्यं सेवेत विप्रान् वेदविदः शुचीन् ।
वृद्धान्, वयस्तः, ब्राह्मणानब्राह्मणान् वा । विप्रानित्यादि
व्याख्यातप्रायम्। शुचीन् निरुपधीन् । एतदप्यपूर्वमिति मेधाति-
थिः । कुल्लूकभट्टस्तु विप्रानित्यस्य सर्वाणि विशेkey: विशेkey? -> विशेkey? No: विशे-
षाणा- (विशेषणा-)
Wait, let me transcribe exactly as in the print:
थिः । कुल्लूकभट्टस्तु विप्रानित्यस्य सर्वाणि विशेषणा-
नीत्याह ।
वृद्धसेवी च सततं रक्षोभिरपि पूज्यते ।
रक्षांसि, निर्दयानि महाबलानि सर्वधर्मशून्यानि, तैरपि
पूज्यते किमुत मनुष्यैरिति कैमुतिकन्यायद्योतनार्थमिदम् ।
वृद्धसेवायाः फलमाह—
तेभ्योऽधिगच्छेद्विनयं विनीतात्मापि नित्यशः ।
विनीतात्मापि पाटवातिशयजननार्थं विनयमधिगच्छेत् ।
विनीतात्मा हि नृपतिर्न विनश्यति कर्हिचित् ।
बहवोऽविनयाद्भ्रष्टा राजानः सपरिच्छदाः ॥
वनस्थाश्चैव राज्यानि विनयात्प्रतिपेदिरे ।
वेनो विनष्टोऽविनयान्नहुषश्चैव पार्थिवः ॥
सुदासः पैजवनश्च सुमुखो निमिरेवच ।
सुदासनामा पैजवनस्य पुत्रः । तथा च-
१२० वीरमित्रोदयस्य राजनीतिप्रकाशे
ब्राह्मणम्, तस्मादु सुदासः पैजवन इति ।
पृथुश्च विनयाद्राज्यं प्राप्तवान्मनुरेव च ।
कुबेरश्च धनैश्वर्यं ब्राह्मण्यं चैव गाधिजः ॥ इति ।
महाभारते,
न राज्यं प्राप्तमित्येव वर्तितव्यमसाम्प्रतम् ।
श्रियं ह्यविनयो हन्ति जरारूपमिवोत्तमम् ॥
विनीतो विनययुक्तः । विनयशब्देनाविरुद्धः पूर्वो-
क्तः स्नातकधर्मकलाप उच्यते । " न संशयं प्रपद्येत
नाकस्मादप्रियं वदेत् " इत्यादिनोक्तः । सत्त्वसम्प-
न्नः सम्पदापदोर्हर्षविषादरहितः । दुर्दशामापन्नोऽपि न
न्यायादपैति स सत्त्वसम्पन्न इत्यपरार्कः । मातृतः पितृ-
तश्चाभिजनवान् कुलीनः । अवगताविस्मरणशीलः स्मृतिमान्।
अनल्पहृदयः, योऽल्पापकारोपकाराभ्यां कोपप्रसादवान् सो-
ऽल्पहृदयः, तथा न भवतीत्यर्थः । अपरुषः अकठोरवाक् । धा-
र्मिकः प्रसिद्धवर्णाश्रमधर्मान्वितः । पुरुषार्थविक्षेपकं द्यूतादि व्य-
सनं तद्रहितोऽव्यसनः । व्यसनानि वक्ष्यन्ते । प्राज्ञो गम्भी-
रार्थावधारणक्षमः । शूरो निर्भयः । रहस्यवित् गोपनीयगोपन-
चतुरः । स्वरन्ध्रगोप्ता, स्वस्य सप्तसु राज्याङ्गेषु यस्य वैकल्ये
परप्रवेशस्तस्य गोप्ता रक्षकः ।
कात्यायनः,
विनीतः शास्त्रसम्पन्नः कोशशौर्यसमन्वितः ।
ब्रह्मण्यो दानशीलः स्याद्धर्मसत्यपरो नृपः ॥
स्तम्भोपतापपैशुन्यचापलक्रोधवर्जितः ।
प्रगल्भः सन्नतोदग्रः सम्भाषी प्रियदर्शनः ॥
वश्येन्द्रियं जितात्मानं धृतदण्डं विकारिषु ।
विहिता राजधर्माः । १२१
परीक्ष्य कारिणं धीरमत्यन्तं श्रीर्निषेवते ॥
स्तम्भः पराप्रणतिः । उपतापोऽत्र प्रजापीडनम् । पैशुन्यं
परदोषाविष्करणम् । प्रगल्भः अपरिषद्भीरुः । सन्नतोदग्रः, सत्सु
नतोऽसत्सु अधृष्यः । सम्भाषी स्मितपूर्वाभिभाषी । तदुक्तम्-
मत्स्यपुराणे,
स्मितपूर्वाभिभाषी स्यात्सर्वस्यैव महीपतिः ।
वध्येष्वपि महाभाग भ्रुकुटिं न समाचरेत् ॥ इति ।
विष्णुरपि राजेत्यनुवृत्तौ,
स्मितपूर्वाभिभाषी स्याद्वध्येष्वपि न भ्रुकुटिमाचरेदिति ।
एतेषु गुणेषु केषां चिद्व्यवस्थामप्याह-
मनुः,
स्वराष्ट्रे न्यायवृत्तः स्याद्भृशं चण्डश्च शत्रुषु ।
सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥
[L15
१२२ वीरमित्रोदयस्य राजनीतिप्रकाशे
वर्णाश्रमपदे सङ्करपाखण्डादीनामप्युपलक्षके । सङ्कराणां
वर्णमूलत्वात्, पाखण्डानामाश्रममूलत्वात् । तथा च-
विष्णुपुराणे,
यस्तु सन्त्यज्य गार्हस्थ्यं वानप्रस्थो न जायते ।
परिव्राडपि मैत्रेय स नग्नः पापकृन्नरः ॥ इति ।
स्वे स्वे धर्म इति वीप्सया सामयिकधर्माणामपि सङ्ग्रहः ।
देवब्राह्मणगोसाध्वीसाधूनामपि पूजनम् ।
समता व्यवहारेषु स्वयं चैवान्ववेक्षणम् ॥
व्यवहाराणामिति शेषः । तदुक्तम्-
याज्ञवल्क्येन,
व्यवहारान्नृपः पश्येत्-इति ।
राज्ञां धर्मं परं विद्यात्तथा वै चरदृष्टिता ।
स्वदेशपालनं धर्मः परराष्ट्राभिमर्दनम् ॥
यज्ञदानक्रिया चैव सङ्ग्रामे चापलायनम् ।
कामादीनामाभ्यन्तराणां स्वविषयवासित्वेनाऽऽभ्यन्तरा-
णां भृत्यादीनां च जय उक्तः—
तत्रैव,
कामः क्रोधो मदो मानो लोभो हर्षस्तथैव च ।
जेतव्यो रिपुषड्वर्ग आन्तरः पृथिवीक्षिता ॥
स्वस्वविषये व्यवस्थापनं जयः ।
एतेषां विजयं कृत्वा कार्यों भृत्यजयस्तथा ।
कृत्वा भृत्यजयं राजा पौरान् जानपदान् जयेत् ॥
कृत्वा च विजयं तेषां शत्रून् बाह्यांस्ततो जयेत् ।
अन्तिमो जयः पराभवः । बाह्यास्त्रिविधा उक्ताः—
तत्रैव,
विहिता राजधर्माः । १२३
बाह्याश्च त्रिविधा ज्ञेयास्तुल्याभ्यन्तरकृत्रिमाः ॥
गुरवस्ते यथापूर्वं तेषु यत्नः सदा भवेत् ।
अमात्यादिभी राजा रक्ष्यो राज्ञा च ते रक्ष्या इत्युक्तम्-
तत्रैव,
स्वाम्यमात्यो जनपदो दुर्गं दण्डस्तथैव च ।
कोशो मित्रं च धर्मज्ञ सप्ताङ्गं राज्यमुच्यते ॥
दण्डो बलम् ।
सप्ताङ्गस्यापि राज्यस्य मूलं स्वामी प्रकीर्त्तितः ।
मूलं प्रधानम् ।
तन्मूलत्वात्तथाङ्गानां स तु रक्ष्यः प्रयत्नतः ॥
अमात्यादिभिरिति शेषः ।
षडङ्गरक्षा कर्त्तव्या तथा तेन प्रयत्नतः ।
षडङ्गानि अमात्यादयः । तेन राज्ञा ।
अङ्गेभ्यश्च तथैकस्तु द्रोहमाचरतेऽल्पधीः ॥
एकः, अङ्गमध्यस्थः कश्चित् ।
वधस्तस्य तु कर्तव्यः शीघ्रमेव महीक्षिता ॥
तथा,
एकस्यैव महीभर्तुर्भूयः कार्ये सुनिश्चिते ।
ब्राह्मणान् पर्युपासीत त्रय्यां राम सुनिश्चितान् ॥
नासच्छास्त्ररतान्मूढांस्ते हि लोकस्य कण्टकाः ।
सुनिश्चिते, उपस्थित इति शेषः । उपासीत नियुञ्जीत ।
तथा,
यजेत राजा बहुभिः क्रतुभिः स्वाप्तदक्षिणैः ॥
स्वाप्तदक्षिणैः, ऋत्विग्भिः प्राप्ता दक्षिणा येषु तैः ।
धर्मार्थं चैव विप्रेभ्यो दद्याद्भोगान् धनानि च ।
१२४ वीरमित्रोदयस्य राजनीतिप्रकाशे
स्याच्चाम्नायपरो लोके वर्तेत पितृवन्नृषु ॥
आवृत्तानां गुरुकुलाद्द्विजानां पूजनं भवेत् ।
आवृत्तानां कृतसमावर्तनानाम् ।
नृपाणामक्षयो ह्येष निधिर्ब्राह्मो विधीयते ॥
हिः प्रसिद्धः ।
तस्माद्राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः ।
तथा,
सङ्ग्रामेष्वनिवर्त्तित्वं प्रजानां परिपालनम् ।
शुश्रूषा ब्राह्मणानां च राज्ञां निःश्रेयसं परम् ॥
कृपणानाथवृद्धानां विधवानां च योषिताम् ।
योगक्षेमं च वृत्तिं च तथैव परिकल्पयेत् ॥
योगः अलब्धलाभः । क्षेमं सिद्धस्य परिपालनम् । वृत्ति-
र्जीवनोपायः ।
तथा,
आश्रमेषु यथाकालं तैलं भाजनभोजनम् ।
स्वयमेव नयेद्राजा सत्कृतानवमन्य च ॥
आश्रमेषु स्थानेषु । सत्कृतान्, कार्येषु नियुक्तान् । अवम-
त्य उपेक्ष्य । अनेनादरातिशय उच्यते ।
तथा,
तापसे सर्वकार्याणि राज्यमात्मानमेव च ।
निवेदयेत्प्रयत्नेन देववच्चैनमर्चयेत् ॥
मनुः,
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥
१ अयं सार्धश्लोको मुद्रितमनुपुस्तके नोपलभ्यते ।
विहिता राजधर्माः । १२५
विश्वासयेच्चापि परं तत्त्वभूतेन हेतुना ।
बकवच्चिन्तयेदर्थान् सिंहवच्च पराक्रमेत् ।
वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् ॥
यथा वृको मेषादिरक्षकानवधानमासाद्य मेषं हन्ति, एवं
शत्रुरक्षकानवधाने शत्रुं हन्यात् । विनिष्पतेत्, शत्रुभिरभिभूत
आश्रयान्तरं गच्छेत् ।
विष्णुधर्मोत्तरे तु,
दृढप्रहारी च भवेत्तथा सूकरवन्नृपः ।
चित्राकारश्च शिखिवद्दृढभक्तस्तथा श्ववत् ॥
भवेच्च मधुराभाषी तथा कोकिलवन्नृपः ।
काकशङ्की भवेन्नित्यमज्ञातवसतिं वसेत् ॥
काकशङ्की, काकवन्न कमपि विश्वसेत् ।
विष्णुः, आयद्वाराणि नोच्छिन्द्यान्नापात्रवर्षी स्यात् ।
आयद्वाराणि, द्रव्योत्पत्तिस्थानानि खानिशुल्कप्रभृतीनि ।
महाभारते तु विशेषः ।
चरेद्धर्माणि कटुको मुञ्चेत्स्नेहं न नास्तिकः ।
आनृशंस्यश्चरेदर्थं चरेत्काममनुद्धतः ॥
प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः ।
दाता नापात्रवर्षी स्यात्प्रगल्भः स्यादनिष्ठुरः ॥
सन्दधीत न चानार्यैर्विगृह्णीयान्न च बन्धुभिः ।
नाभक्तं चारयेच्चारं कुर्यात्कार्यमपीडया
अर्थं ब्रूयान्न चासत्सु गुणान् ब्रूयान्न चात्मनः ।
आदद्यान्न च साधुभ्यो नासत्पुरुषमाश्रयेत् ॥
नापरीक्ष्य नयेद्दण्डं न च मन्त्रं प्रकाशयेत् ।
विसृजेन्न च लुब्धेभ्यो विश्वसेनापकारिषु ॥
१२६ वीरमित्रोदयस्य राजनीतिप्रकाशे
अनीर्षुर्गुप्तदारः स्यादृजुः स्यादघृणी नृपः ॥
स्त्रियः सेवेत नात्यर्थं मृष्टं भुञ्जीत नाहितम् ।
अस्तब्धः पूजयेन्मान्यान् गुरून् सेवेदमयया ॥
अर्चेद्देवानदम्भेन श्रियमिच्छेदकुत्सिताम् ।
सेवेत प्रणयं हित्वा १ दक्षः स्यान्न त्वकालवित् ॥
सान्त्वयेत्तन्न २ मोघाशमनुगृह्णन् च क्षिपेत् ।
प्रहरेन्न त्वविज्ञाय हत्वा शत्रून्न शोचयेत् ॥
क्रोधं कुर्यान्न चाकस्मान्मृदुः स्यान्नापकारिषु ।
तथा,
ऊखरेष्वपि वर्षन्तं पात्रेषु मृदु वर्षिणम् ।
पर्जन्यमपि निन्दन्ति किम्पुनर्वसुधाधिपम् ॥ इति ।
विष्णुधर्मोत्तरे बालकादीनां धनं राज्ञैव रक्ष्यमित्युक्तम्।
बालदायादकं रिक्थं तावद्राजाऽनुपालयेत् ।
यावत्स स्यात्समावृत्तो यावद्वाऽतीतशैशवः ॥
बालपुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च ।
पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ॥
जीवन्तीनां तु तासां ये तद्धरेयुः स्वबान्धवाः ।
तान् शिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः ॥
तथा चौरैरपहृतं प्रजाद्रव्यं राज्ञा स्वकोशाद्दातव्यमित्युक्तम्—
तत्रैव,
सर्वेषामेव वर्णानां चौरैरपहृतं धनम् ।
तत्प्रमाणं स्वकात्कोशाद्दातव्यमविचारयन् ॥
ततस्तु पश्चात्कर्त्तव्यं चौरान्वेषणमञ्जसा ।
चौररक्षाधिकारिभ्यो राजाऽपि तदवाप्नुयात् ॥
१ धृत्वा, धाञो रूपमिदम् । २ न च मोक्षायेत्यपि पाठः।
विहिता राजधर्माः १२७
आहृते च तथा वित्ते हृतमित्येव वेदिनम् ।
निर्द्धनं पार्थिवः कृत्वा विषयात्स्वाद्विवासयेत् ॥
आहृते, चौरान्वेषिभिरितिशेषः । हृतमित्येव वेदिनम्,
चौरैरपहृतं न मया प्राप्तमिति निवेदयितारं चौरान्वेषिणं मि-
थ्यावादितया प्रमाणैर्निर्णीय निर्द्धनं कृत्वा स्वदेशाद्विवासये-
दिति व्याख्येयम् । अपहृतस्यादाने राज्ञो दोषमाह—
याज्ञवल्क्यः,
देयं चौरहृतं द्रव्यं राज्ञा जानपदाय तु ।
अददद्धि समाप्नोति किल्बिषं यस्य तस्य तत् ॥ इति ।
यत्तु धनस्वामिन एव परिचारकैर्नीतं तत्त राज्ञा न
देयमित्युक्तम्—
विष्णुधर्मोत्तरे,
न तद्राज्ञा प्रदातव्यं गृहे यत्परिचारकैः ।
प्रचरद्भिर्हृतं द्रव्यं कार्यं तत्रान्ववेक्षणम् ॥
अन्ववेक्षणम्, तर्जनताडनादिना तत्परिचारकेभ्यो दाप-
नीयं, न तु स्वयं दातव्यमित्यर्थः । स्वविषये क्षुधाऽवसद्यमानस्य
श्रोत्रियस्य वृत्तिकल्पनमपि राज्ञ आवश्यकमित्युक्तम्—
तत्रैव,
न च क्षुधाऽवसीदेत श्रोत्रियो विषये वसन् ।
यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा ॥
तस्य सीदति तद्राष्ट्रं दुर्भिक्षव्याधितस्करैः ।
श्रुतवित्ते तु विज्ञाय वृत्तिं तस्य प्रकल्पयेत् ॥
रक्षेच्च सर्वतस्त्वेतान् पिता पुत्रमिवौरसम् ।
संरक्ष्यमाणो राज्ञा यः कुरुते धर्ममन्वहम् ॥
तेनायुर्वर्द्धते राज्ञो द्रविणं राष्ट्रमेव च । इति ।
१२८ वीरमित्रोदयस्य राजनीतिप्रकाशे
देवतारामादेः पालनं तत्पूजनं चावश्यकमित्युक्तम्-
तत्रैव,
स्वदेशदेवतार्चायाः कृतारामं पुरातनैः ।
दायं वित्तं जनं तासां प्रयत्नात्परिपालयेत् ॥
पालयन्ति महीं देवाः पालिताः पृथिवीक्षिता ।
देवायत्तमिदं सर्वं भूतलं द्विजपुङ्गव ॥
धूपदीपनमस्कारपुष्पमाल्यानुलेपनैः ।
रत्नानां सम्प्रदानैश्च पूजनीयाः सुरोत्तमाः ॥
पूजिताः पूजयन्त्येते आयुषा यशसा श्रिया ।
प्राप्यते देवताभक्त्या मनुष्येण महत्पदम् ॥
पूजिताः सम्प्रयच्छन्ति कामान्नृणां मनोगतान् ।
एकमप्याश्रितो देवं राजा भार्गवनन्दन ॥
सर्वासां पूजनं कुर्याद्देवतानामसंशयम् ।
ब्राह्मणाश्च नियोक्तव्या वेदोक्तसुरपूजने ॥
ब्राह्मणस्य पूजनं पालनं चोक्तम्-
तत्रैव,
ब्राह्मणान् पूजयेद्राजा ब्राह्मणान् पालयेत्सदा ।
ब्राह्मणा हि महाभागा देवानामपि देवताः ॥
ब्राह्मणानां क्षितिं दद्याद्भोगानन्यांश्च पार्थिव ।
ब्राह्मणानामिति षष्ठी चतुर्थ्यर्थे । ब्राह्मणानां क्षितिं दत्त्वा-
स्वमुद्राङ्कितं पत्रमपि दद्यात् । तदुक्तम्—
विष्णुना,
ब्राह्मणेभ्यो भुवं दद्याद्येषां च प्रतिपादयेत् तेषां
स्ववंश्यान् भुवः प्रमाणं दानच्छेदोपवर्णनं च पटे ताम्र-
पट्टे वा लिखितं स्वमुद्राङ्कितं चागामिनृपतिपरिज्ञानार्थं द-
विहिता राजधर्माः । १२९
द्यदिति ।
येषां येभ्य इत्यर्थः । तेषां वंश्यान् । स्ववंश्यांश्चेति क्वचि-
त्पाठः । दानच्छेदोपवर्णनम्, दानच्छेदे उपवर्णनं, नरकस्येति
शेषः । अथ वा दानच्छेदो दत्तभूमिसिमापरिच्छेदः । तथाच-
याज्ञवल्क्यः,
दत्त्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् ।
आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः ॥
पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् ।
अभिलेख्यात्मनो वंश्यानात्मानं च महीपतिः ॥
प्रतिग्रहपरिमाणं दानच्छेदोपवर्णनम् ।
स्वहस्तकालसम्पन्नं शासनं कारयेत्स्थिरम् ॥ इति ।
व्यासः,
स्थानं वंशानुपूर्वी च देशं ग्राममुपागतान् ।
ब्राह्मणांस्तु तथा चान्यान् याज्यानाधिकृतानपि ॥
कुटुम्बिनोऽथ कायस्थान् दूतवैद्यमहत्तरान् ।
मेदचण्डालपर्यन्तान् सर्वान् सम्बोधयन्निति ॥
मातापित्रोरात्मनश्च पुण्यायामुकसूनवे ।
दत्तं मयाऽमुकायाद्य दानं सब्रह्मचारिणे ॥
अनाच्छेद्यमनाहार्यं सर्वभोगविवर्जितम् ।
चन्द्रार्कसमकालीनं पुत्रपौत्रान्वयागतम् ॥
दातुः पालयितुः स्वर्गं हर्तुर्नर कमेव च ।
षष्टिवर्षसहस्राणि दानच्छेदे फलं लिखेत् ॥
स्वमुद्रावर्षमासार्द्धदिनाध्यक्षाक्षरान्वितम् ।
एवंविधं राजकृतं शासनं समुदाहृतम् ॥ इति ।
स्थानं राजधानी। उपागतान् आगन्तुकान्। महत्तरो ग्रा-
१७
१३० वीरमित्रोदयस्य राजनीतिप्रकाशे
मदाता । अर्द्धं पक्षः । दिनाध्यक्षो वारः । तत्र पत्रेऽन्यानपि
स्मृत्यन्तरोक्तान् श्लोकान् लिखेत् । ते च श्लोकाः-
पूर्वदत्तां द्विजातिभ्यो यत्नाद्रक्ष्युधिष्ठिर ।
महीं मतिमतां श्रेष्ठ दानाच्छ्रेयोऽनुपालनम् ॥
बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः ।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥
षष्टिवर्षसहस्राणि स्वर्गे मोदति भूमिदः ।
आक्षेप्ता चावमन्ता च तान्येव नरकं वसेत् ॥
अपानीयेष्वरण्येषु शुष्ककोटरवासिनः ।
कृष्णाहयोऽभिजायन्ते पूर्वदायं हरन्ति ये ॥ इति ।
स्मृत्यन्तरे,
सन्धिविग्रहकारी तु भवेद्यस्तस्य लेखकः ।
स्वयं राज्ञा समादिष्टः स लिखेद्राजशासनम् ॥ इति ।
विष्णुधर्मोत्तरे,
ब्राह्मणेपु तु यद्दत्तं विधिवत्पारलौकिकम् ।
वेदलाङ्गलकृष्टेषु द्विजक्षेत्रेषु भार्गव ॥
उप्तस्य दानबीजस्य फलस्यान्तो न विद्यते ।
तस्मात्पूज्या नमस्कार्याः संविभाज्यास्तथा द्विजाः ॥
राज्ञा सर्वप्रयत्नेन लोकद्वयमभीप्सता ।
यद्ब्राह्मणास्तुष्टतमा वदन्ति तद्देवताः प्रत्यभिनन्दयन्ति ।
तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः ॥ इति ।
तथा साध्वीनामपि पालनमुक्तम्-
तत्रैव,
साध्वीनां पालनं कुर्यात्पूजनं च महीपतिः ।
एकपत्न्यः स्त्रियः सर्वा धारयन्ति जगत्त्रयम् ॥
विहिता राजधर्माः । १३१
भर्तृव्रता भर्तृपरा भर्तृपूजनतत्परा ।
यतः स्त्री सा दिवं याति सह भर्त्रा द्विजोत्तम ॥
एकपत्न्यस्तु यद्दुःखं सहन्ते द्विजसत्तम ।
तेन ताः स्वर्गमासाद्य सुखमायान्त्यनेकधा ॥
तासां प्रभावो हि महांस्तेजश्चैवातिदुःसहम् ।
न कोपनीया नोपेक्ष्या नैव ताश्च विमानयेत् ॥
नाह्येदपराधेपु दण्ड्यस्तासां पतिर्भवेत् ।
तथा,
अनाथां च सदा साध्वीं बिभृयात्पार्थिवोत्तमः ।
तस्यां यद्दीयते दानं तदनन्तं प्रकीर्तितम् ॥
साध्वीनामपमानेन कुलं दहति पूरुषः ।
तासां सम्पूजनाद्राम स्वकुलं चोन्नतं भवेत् ॥ इति ।
तथा—
गवां हि पालनं राज्ञा कर्त्तव्यं भृगुनन्दन ।
इत्यादिनाध्यायेनौषधान्नघासजलादिदानान्युक्तानि तत्रैव ।
तथा,
गवां प्रचारभूमिं तु वाहयित्वा हलादिना ।
नरकं महदाप्नोति यावदिन्द्राश्चतुर्दश ॥ इति ।
मनुः,
अलब्धं चैव लिप्सेत लब्धं रक्षेच्च यत्नतः ।
रक्षितं वर्द्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत् ॥
एतच्चतुष्टयं विद्यात्पुरुषार्थप्रयोजनम् ।
अस्य सम्यगनुष्ठानं नित्यं कुर्यादतन्द्रितः ॥ इति ।
महाभारते,
सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन ।
३२ वीरमित्रोदयस्य राजनीतिप्रकाशे
नैकत्र परिनिष्ठाऽस्ति ज्ञानस्य पुरुषे क्वचित् ॥
सर्वस्य ज्ञानस्यैकत्र पुरुषे परिनिष्ठाऽवस्थितिर्नास्तीत्यर्थः
अप्युन्मत्तात्प्रलपतो बालाच्च परिजल्पतः ।
सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् ॥
धनुर्वेदेतिहासे च यत्नः कार्यो विजानता ।
हस्तिपृष्ठेऽश्वपृष्ठे च रथचर्यासु चैव हि ॥
द्वौ भागावेतिहासार्थं भागस्त्रय्या विधीयते ।
इष्वस्त्रादिषु भागोऽन्यश्चतुर्थैवमहः स्मृतम् ॥
येषां त्रीण्यवदातानि योनिविद्या च कर्म च ।
तान् सेवेतैः समास्या हि शास्त्रेभ्योऽपि गरीयसी ॥
समास्या, सम्यक्प्रकारेण आस्या उपवेशनम् ।
गुरुपूजां च सततं वृद्धानां पर्युपासनम् ।
श्रवणं चैव विद्यानां कुर्वन् श्रेयोऽधिगच्छति ॥
न वै श्रुतमविज्ञाय वृद्धाननुपसेव्य च ।
धर्मार्थौ वेदितुं शक्यौ बृहस्पतिसमैरपि ॥
विद्यावृद्धान् सदैव त्वमुपासीथा नराधिप ।
शृणुया यच्च ते ब्रूयुः कुर्याश्चैवाविचारयन् ॥
सहस्रमपि मूर्खाणां यद्युपास्ते महीपतिः ।
अथ वाप्ययुतान्येव नास्ति तेषु सहायता ॥
एकोऽपि शास्त्रवित्प्राज्ञो गुरूणां पर्युपासिता ।
राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् ॥
सदैव हितकामानां सुहृदां न शृणोति यः ।
प्राज्ञानां कृतविद्यानां स नरः शत्रुन्दनः ॥
शत्रुन्दनः शत्रूणामानन्दजनकः ।
आदावेव मनुष्येण वर्तितव्यं यथाक्रमम् ।
विहिता राजधर्माः । १३३
यथा नातीतमर्थं वै पश्चात्तापेन शोचति ॥
अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः ।
इन्द्रियाणामनैश्वर्यादैश्वर्याद्भूश्यतीह सः ॥
संनियच्छति योगेन उत्थितं कामहर्षयोः ।
स श्रियो भाजनं राजन् पश्चाद्यस्तु न मुह्यति ॥
नावमान्या बुद्धिमद्भिरवरोत्कृष्टमध्यमाः ।
न हि मानप्रदग्धानां कश्चिदस्ति मदः क्वचित् ॥
अवृत्तेर्भयमन्त्यानां मध्यानां मरणाद्भयम् ।
उत्तमानां तु मर्त्यानामवमानात्परं भयम् ॥
अन्त्यानाम्, अधमानां मर्त्यानाम् । अवृत्तेः, जीविकानाशात्
भयम् ।
कर्मणा मनसा वाचा चक्षुषा च चतुर्विधम् ।
प्रसादयति यो लोकं तं लोको न प्रसीदति ॥
तमुद्दिश्य लोको न प्रसीदति नावसन्नो भवति ।
यो नोद्धतं जातु करोति वेषं न पौरुषेणापि विकत्थते च ।
नीत्या हि किञ्चित्क्षमते विवादं सर्वत्र तादृग्लभते प्रशंसां ॥ इति ।
राज्ञोऽधिकमित्यनुवृत्तौ—
गौतमः,
योगश्च विजये भये विशेषेण चर्या च रथधनुर्भ्याम् । इति ।
योग उपायः । विजये, शत्रूणां तद्राष्ट्रादेश्च । भये विशेषे-
, भये शत्रुप्रभृतिभ्य उपस्थिते, विशेषेणोपायः कार्य इत्य-
: । चर्या पर्यटनम् । रथधनुर्भ्यामिति वाहनायुधानामुपलक्ष-
म्, दृष्टार्थत्वात् ।
मनुः,
नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः ।