वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 114, कुल 490 में से
संदर्भ में पढ़ें११६ वीरमित्रोदयस्य राजनीतिप्रकाशे
अभिषेकाह्नि यत्नेन प्रतिसंवत्सरं नृपः ॥ इति ।
इति संवत्सराभिषेकः ।
अथाभिषिक्तस्य राज्ञो गुणवतो जनपदपरिपालनादीन्
धर्मान् वक्तुं यैर्गुणैः प्रजापालनयोग्यो भवति ते गुणा
उच्यन्ते । तत्र—
शङ्खलिखितौ, राजा दीर्घदर्शी महोत्साहः शक्तिमाननस्र्-
युर्भक्तबलस्त्यागी शरण्यः सर्वभूतानां संविभक्तः सत्यवा-
ग्मत्सरी गम्भीरो ऽमर्षणो बुधस्तेजस्वी प्रतिविधानकुशलो-
ऽदीर्घसूत्रो दक्षः क्षमावान् लक्ष्यज्ञो देशकालद्रव्यप्रयोगस-
ङ्ग्रहनिमित्तज्ञानकुशलो गूढमन्त्रप्रचारसंवृतरन्ध्रः पररन्ध्रज्ञो दृढ-
प्रहारी लघुहस्तो जितस्थानासनहिमानपो जितकामरागद्वेषलो-
भमत्सरः प्रजाभिरामो दीनानुग्रहकर्त्ता ब्राह्मणेष्वन्नप्रदाता
श्रीयशोऽर्थी ।
अस्यार्थः। दीर्घदर्शी अनागतकार्यतत्त्वज्ञः। महोत्साहः, पु-
रुषार्थसाधनकर्माध्यवसाय उत्साहः स महान् यस्य सः। बहुवि-
षयत्वमविहन्यमानत्वं चोत्साहस्य महत्त्वम् । शक्तिमान् प्रभावो-
त्साइमन्त्रशक्तित्रययुक्तः। अनसूयुः, असूया परगुणेषु दोषारो-
पस्तद्रहितः । गम्भीरः अनुपलेखितक्रोधहर्षाद्याकारः । अमर्षणः
परसमृद्धेरसोढा । प्रतिविधानम्, उपस्थितानिष्टप्रतीकारः, तत्र
कुशलः । अदीर्घसूत्रः, अचिराक्रियः, अवश्यकार्याणां कर्मणां
प्रारम्भे प्रारब्धानां च परिसमाप्तौ यो न विलम्बते । दीर्घसू-
त्रस्य कर्महानिरुक्ता-
मत्स्यपुराणे,
अदीर्घसूत्रश्च भवेत्सर्वकर्मसु पार्थिवः ।
दीर्घसूत्रस्य नृपतेः कर्महानिर्ध्रुवं भवेत् ॥ इति