विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
( १६१ )
भाषा
खेलते हुए, वेश्याओं के पैंजेव के शब्दों को सुनकर आए हुए राजहंस पक्षियों
को भगा देने वाले उस बालक ने, सम्पूर्ण पृथ्वी का एक छत्र राजा हो कर
भविष्य में अन्य श्रेष्ठ राजहंसा अर्थात् राजाओं के महत्त्व की असहनशीलता
का परिचय दिया।
स पीडयन्नायसपञ्जरस्थान् क्रीडापरः केसरिणां किशोरान् ।
समाददे भाविरिपुद्विपेन्द्र-युद्धोपयोगीव तदीय शौर्यम् ॥१५॥
अन्वयः
क्रीडापरः सः आयसपञ्जरस्थान् केसरिणां किशोरान् पीडयन् भाविरि-
पुद्विपेन्द्रयुद्धोपयोगि तदीयौर्य समाददे इव ।
व्याख्या
क्रीडापरो बालक्रीडासक्त स आयसपञ्जरस्थान् लौहनिर्मितपिञ्जरस्थितान्
लोहोऽस्त्री शस्त्रक तीक्ष्ण पिण्ड कालायसावसी' इत्यमर । केसरिणा सिंहाना
किशोरान् शिशून् पीडयन् बाधमानो भाविषु भविष्यत्सु रिपव एव द्विपेन्द्रास्तेषा
शत्रुगजेन्द्राणा युद्धेषु नर्मयेषु 'युद्धमायोजन जन्य प्रधन प्रविदारणम्' इत्यमर' ।
उपयोगि कार्यसाधकं विजयकारीतिभाव । तदीयं सिंहशिशुसम्बन्धि शौर्य
पराक्रमं समाददे इव गृहीतवानिव । सिंहोऽनायासेन स्वशौर्येण गजं हन्ति
तदीय शौर्येणायमपि भविष्यत् काले रिपुगजेन्द्रं हनिष्यतीति भाव । रूपकसह-
कृतोत्प्रेक्षालङ्कार ।
भाषा
खेलकूद में लगे हुए उस बालक ने लोहे के पिंजरे में के शेर के बच्चों को
तंग कर भावी शत्रुरूपी गजेन्द्रों के युद्ध में उपयोगी उनके शौर्य को मानो
ले लिया । सिंह ही का शौर्य गजेन्द्रा के मारने में समर्थ होता है । इसलिये
इसने शत्रुरूपी गजेन्द्रों को मारने के लिय मानो इनसे शौर्य छीन लिया ।
प्राप्तोदयः पादनखैश्चकासे स बालचन्द्रः परिवर्द्धमानः ।
अभ्यर्थमानः सहखेलनाय बालैरपत्यैरिव शीतरश्मेः ॥१६॥
”
( १६४ )
लावण्यलुब्धाभिरलब्धमेव भूपालकन्यामधुपाङ्गनाभिः ।
कवित्ववक्तृत्वफला चुचुम्ब सरस्वती तस्य मुखारविन्दम् ॥१९॥
अन्वयः
कवित्ववक्तृत्वफला सरस्वती लावण्यलुब्धाभिः भूपालकन्यामधुपाङ्ग-
नाभिः अलब्धम् एव तस्य मुखारविन्दं चुचुम्ब ।
व्याख्या
कवित्वं काव्यकर्तृत्वं वक्तृत्वं वाग्मिता च फलं यस्याः सा सरस्वती वाग्देवता,
यस्यास्समवधाने सति कवित्वं वक्तृत्वञ्चानायासेनेव प्रतिफलतीति भावः ।
लावण्ये कुमारस्य सौन्दर्ये लुब्धाभिस्तत्साक्षात्काङ्क्षिणीभिर्भूपालानां राज्ञां कन्या
राजकुमार्य एव मधुपानां भ्रमराणामङ्गनाः स्त्रियस्ताभिरलब्धमप्राप्तं तस्य
कुमारस्य मुखमेवारविन्दं कमलं 'वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम्'
इत्यमरः । चुचुम्ब तस्य मुखे निवासं चकारेत्यर्थः । सरस्वती कुमारवृत्तान्ते
नायकव्यवहारसमारोपात्समासोक्तिरलङ्कारः । भूपालकन्यासु भ्रमराङ्गनात्वा-
भेदारोपान्मुखे चारविन्दत्वाभेदारोपाद्रूपकालङ्कारः । तेन चाऽस्य विलक्षणं
कवित्वं वाग्मित्वञ्च व्यज्यते ।
भाषा
उस राजकुमार के सौन्दर्य पर मोहित राजकन्या रूपी भ्रमराङ्गनाओं से
अप्राप्य उसके मुख कमल को कवित्व तथा वक्तृत्व शक्ति देनेवाली सरस्वती ने
चूमलिया । अर्थात् सरस्वती ने उसके मुख में वास कर लिया । अतएव वह
कुमार बाल्यकाल में ही कविता बनाने में और युक्तिपूर्ण बातें करने में अत्यन्त
निपुण हो गया ।
तं बालचन्द्रं परिपूर्यमाण-मालोक्य लावण्यकलाकलापैः ।
कुमुद्वतीनामिव कामिनीनां निशासु निद्रा विमुखीबभूव ॥२०॥
अन्वयः
निशासु लावण्यकलाकलापैः परिपूर्यमाणं तं बालचन्द्रम् आलोक्य
कुमुद्वतीनाम् इव कामिनीनां निद्रा विमुखीबभूव ।
( १६५ )
व्याख्या
निशासु रात्रिषु लावण्यस्य सौन्दर्यस्य कलास्तासा कलापाः समूहास्तैः परि-
पूर्यमाण तं यत्नः कुमारः चन्द्र इव शशीव नूतनचन्द्रो वा तं समालोक्य दृष्ट्वा
कुमुद्वतीनामिव कुमुदिनीनामिव कामिनीनामङ्गनाना निद्रा विमुखोबभूवापससार
गतेत्यर्थः । यथा निशासु नवीनचन्द्रं विलोक्य कुमुदिनी विकसिता भवति स्वकुङ्-
मलत्वरूपनिद्रा जहाति तथैव कामिन्योऽपि तमद्भुतसौन्दर्ययुक्तं कुमारं निरीक्ष्य
कामज्वरपीडिताः सत्यो रात्रौ निद्रा न लभन्तय इति भावः । अत्र कुमुद्वती
कामिन्योर्द्वयोरेकक्रियान्वयात्तुल्ययोगितालङ्कारः ।
भाषा
रात्रियों में जिस प्रकार कलासमूहों से क्रमशः परिपूर्ण होने वाले नूतन
चन्द्रमा को देखकर कुमुदिनी विकसित हो जाती है और उसकी कलीस्वरूपी
निद्रा हट जाती है उसी प्रकार सौन्दर्य से परिपूर्ण होने वाले उस कुमार को
देखकर सुन्दरियां काम ज्वर से पीड़ित हो जाती है अतएव रात्रियों में उनकी
निद्रा दूर हो जाती है ।
धैर्येण तस्मिन्नवधीर्य याति स्मरोत्सुकानां नगराङ्गनानाम् ।
आबद्धमुग्धभ्रुकुटिच्छटानां पेतुः सकोपं नयनोत्पलानि ॥२१॥
अन्वयः
धैर्येण अवधीर्य याति तस्मिन् स्मरोत्सुकानाम् आबद्धमुग्धभ्रुकुटीच्छ-
टानां नगराङ्गनानां नयनोत्पलानि सकोपं पेतुः ।
व्याख्या
धैर्येण धीरतया स्वस्वाभाविकगुणेन गाम्भीर्येणाऽवधीर्य कामिनीस्तिरस्कृत्य
याति गच्छति तस्मिन् कुमारे स्मरेण कामवेगेनोत्सुकानामुद्वेलितमानसानामाबद्धाः
सङ्कुचिता अत एव मुग्धा सुन्दर्यो या भ्रुकुटयस्तासा च्छटा शोभा यासां तासां
नगराङ्गनानां नागरिकसुन्दरीणां नयनान्येव नेत्राण्येवोत्पलानि इन्दीवराणि
तानि सकोप कोपेन सहित यथा स्यात्तथाऽनादर दृष्ट्या समुद्भूतेन क्रोधेन पेतुः
न्यपतन् । कामवेगेनोत्सुकानामङ्गनानां धीरतयाऽवधीरणात्तस्मिन् ताः कुपिताः
सञ्जाता इति भावः।
( १६६ )
भाषा
स्वाभाविक धीरता से सुन्दरियों के आकर्षण में न पड कर उनकी अवहेलना
करने वाले उस राजपुत्र पर, कामवेग से चलायमान मन वाली सङ्कुचित
अतएव सुन्दर भौंवा की शोभा से युक्त नागरिक सुन्दरियों के नेत्र कमल, क्रोध
से पडते थे । अर्थात् अपनी अवहेलना देखकर नागरिक सुन्दरियाँ भौंवें चढाकर
क्रोध से उसे देखती थीं ।
लावण्यलक्ष्मीकुलधाम्नि तत्र विवर्द्धमाने शनकैः कुमारे ।
कासामजायन्त न कामिनीनां निद्रादरिद्राणि विलोचनानि १ ॥२२॥
अन्वयः
तत्र लावण्यलक्ष्मीकुलधाम्नि कुमारे शनकैः विवर्द्धमाने सति कासां
कामिनीनां विलोचनानि निद्रादरिद्राणि न अजायन्त ।
व्याख्या
तत्र कल्याणपुरे लावण्यस्य सौन्दर्यस्य या लक्ष्मी श्रीस्तस्याः कुलधाम
कुलगृहं तस्मिन् 'धाम तेजो गृहे भगो' इत्यमरः । सौन्दर्यशोभाकुलगृहे तस्मिन्
कुमारे राजपुत्रे शनकैः शनैः शनैर्विवर्द्धमाने सति वर्द्धिते सति कासां कामिनीना-
मङ्गनानां विलोचनानि नयनानि निद्रादरिद्राणि निद्रारहितानि नाजायन्त न
जातानि अपितु सर्वाः कामिन्यो रात्रौ तस्य स्मरणान्निद्रां न लेभिरे । तस्याद्भुत-
सौन्दर्यश्रियमवलोक्य सर्वा अपि कामिन्यः कामपरवशाः सत्यो रात्रौ निद्रां न
लेभिर इति भावः ।
भाषा
सौन्दर्य की शोभा के कुलगृह स्वरूप उस राजपुत्र के धीरे २ बडे होने पर
उस कल्याण पुर म कौन ऐसी युवतियाँ थीं जिन्हें निद्रा का दारिद्र्य न हुआ ।
अर्थात् अलौकिक सौन्दर्य से सुशोभित उस राजपुत्र को देख कर सब युवतियाँ
काम पीडित हो निद्रा से वञ्चित हो गईं ।
१ अयमेव भाव प्रकारान्तरेणास्य रागस्य विवक्षितत्वे श्लोके प्रदर्शित ।
( १६७ )
तेजस्विनामुन्नतिमुन्नतात्मा सेहे न बालोऽपि नरेन्द्रसूनुः ।
देवोऽपि भास्वाञ्छरणेच्छयेव समाश्रितो विष्णुपदं रराज' ॥२३॥
अन्वयः
उन्नतात्मा बालः अपि नरेन्द्रसूनुः तेजस्विनाम् उन्नतिं न सेहे ।
भास्वान् देवः अपि शरणेच्छया इव विष्णुपदं समाश्रितः रराज ।
व्याख्या
उन्नत उन्नतिप्रवन आत्मा यस्य स बालोऽपि स्वल्पवयस्कोऽपि नरेन्द्रसूनू
राजपुत्रस्तेजस्विनां तेजसा जाज्वल्यमानानामुन्नतिमभ्युदयं न सेहे न सोढुं शशाफ ।
यतो भास्वान् सूर्यो देवोऽपि विबुधोऽपि 'अमरा निर्जरा देवास्त्रिदशा विबुधाः
सुराः' इत्यमरः । शरणेच्छयेव स्वरक्षा याचमान इव विष्णुपदं विष्णोर्भगवतः
पदं चरणं विष्णुपदमाकाश वा 'वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी'
इत्यमरः । समाश्रित प्राप्तो रराज शुशुभे । तस्य बाल्यकालादेव तेजस्पुन्न-
त्यसहनस्वभावात्सूर्यो देवोऽपि भीत्या विष्णुपदङ्गत इव शुशुभे इति भावः ।
अत्र हेतूत्प्रेक्षा ।
भाषा
उन्नतात्मा वह राजपुत्र, बालक होते हुए भी, तेजस्वियो के अभ्युदय को
नहीं सहन कर सकता था । इसीलिये मानो, सूर्य, देव होते हुए भी, इससे
अपनी रक्षा करने के लिये भगवान् विष्णु की शरण में गया या आकाश में
शोभित हुआ ।
उच्चैः स्थितं तस्य किरीटरत्नं तेजोधनानामुपरि स्थितस्य ।
क्षमामिव प्रार्थयितुं लुलोठ संक्रान्तिमङ्ग्या मणिपादपीठे ॥२४॥
अन्वयः
तेजोधनानाम् उपरिस्थितस्य तस्य उच्चैः स्थितं किरीटरत्नं मणिपादपीठे
संक्रान्तिभङ्ग्या क्षमां प्रार्थयितुम् इव लुलोठ ।
१ किमपेक्ष्य फलं पयोधरान् ध्वनत प्रार्थयते मृगाधिप ।
प्रकृति. खलु सा महीयसः सहते नान्यसमुन्नति यया ॥ इत्युक्ते ।
भारवि (किरातार्जुनीये २ सर्गे २१ श्लोक )
( १६८ )
व्याख्या
तेज एव दीप्तिरेव धनं येषा ते तेजोधनास्तेषां तेजस्विनामुपरि सर्वोत्कर्षेण
स्थितस्य विद्यमानस्य तस्य राजसूनोरूर्ध्वः शिरसि स्थितं विराजमानं किरीट-
रत्नं मुकुटरत्नं मणिभो रत्नादिभिर्निर्मिते पादपीठे पादाधारपीठे सक्रान्तिभङ्ग्ग्या
प्रतिबिम्बव्याजेन क्षमां प्रार्थयितुमिव याचितुमिव लुठोठ पपात । अत्रोत्प्रेक्षा-
लङ्कारः ।
भाषा
सब तेजस्वियो में श्रेष्ठ इस राजपुत्र के, मस्तक पर का मुकुटमणि, रत्न
जडित पाव रखने की चौकी पर पडी अपनी परछाई के मिष से (उस तेजस्वी
के भी ऊपर बैठने के अपराध से) मानो क्षमा याचना करने के लिये उसके पैरो
पडता था ।
अत्रान्तरेऽभूज्जयसिंहनामा पुत्रस्तृतीयोऽपि नराधिपस्य ।
स्वप्नेऽपि संवादयशोदरिद्रश्चन्द्रार्द्धचूडस्य न हि प्रसादः ॥२५॥
अन्वयः
अत्र अन्तरे नराधिपस्य जयसिंहनामा तृतीयः अपि पुत्रः अभूत्।
हि चन्द्रार्द्धचूडस्य प्रसादः स्वप्ने अपि संवादयशोदरिद्रः न (भवति) ।
व्याख्या
अत्रान्तरेऽस्मिन्नवकाशे 'अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये' इत्य-
मरः । नराधिपस्याऽऽहवमल्लदेवराजस्य जयसिंहनामा जयसिंहनामकस्तृती-
योऽपि पुत्रः सूनुरभूदजायत । हि यस्मात्कारणात् चन्द्रार्द्धश्चूड़ायां शिरसि यस्य
तस्य शिवस्य प्रसादोऽनुग्रहः स्वप्नेऽपि कथमपीतिभावः । संवादस्य स्वानुकूल-
फलदानरूपस्य वचनस्य यशस्तेन दरिद्रो रहितो न, भवतीत्यर्थः ।
शिवप्रसादप्राप्तिप्रयोजकवचनस्य सदैव सत्यत्वमिति कुतस्तद्वचनस्य मिथ्या-
भाव प्रसङ्ग इति भावः । अत्र पूर्वार्द्धोक्तस्य द्वितीयार्द्धोक्तेनाऽर्थेन समर्थना-
दर्थान्तरन्यासालङ्कारः । "सामान्यं वा विशेषेण विशेषस्तेन वा यदि ।
कार्यञ्च कारणेनेदं कार्येण च समर्थ्यते । साधर्म्येणेतरेणाऽर्थान्तरन्यासोऽष्टधा
ततः ।" इति लक्षणात् ।
( १६९ )
भाषा
इसी बीच में आहवमल्लदेव राजा को जयसिंह नामक तृतीय पुत्र भी
हुआ । क्योंकि भगवान् शङ्कर की कृपा, स्वप्न में भी, वचनानुकूल फलप्रदान
के यश से वञ्चित नहीं हो सकती ।
सर्वासु विद्यासु किमप्यकुण्ठ-मुत्कण्ठमानं समरोत्सवेभ्यः ।
श्रीविक्रमादित्यमथावलोक्य स चिन्तयामास नृपः कदाचित् ॥२६॥
अन्वयः
अथ कदाचित् सः नृपः श्रीविक्रमादित्यं सर्वासु विद्यासु अकुण्ठं
समरोत्सवेभ्यः किमपि उत्कण्ठमानम् अवलोक्य चिन्तयामास ।
व्याख्या
अथाऽनन्तर कदाचित् कस्मिंश्चित्समये सः प्रसिद्धो नृपो भूपतिराहवमल्लदेवः
श्रीविक्रमादित्यं तन्नामकं स्वसुतं सर्वासु सकलासु विद्यासु शस्त्रशास्त्रप्रविद्याष्वकुण्ठ-
ममन्दं निपुणमित्यर्थः 'कुण्ठो मन्दः क्रियासु यः' इत्यमरः । समरोत्सवेभ्यो
युद्धकार्येभ्यः किमपि अनिर्वचनीयतयोत्कण्ठमानं समुत्सुकमवलोक्य दृष्ट्वा चिन्तया-
मास विचारयामास ।
भाषा
कुछ काल के अनन्तर, समग्र शस्त्र और शास्त्र विद्याओं में निपुण अपने
मध्यम पुत्र श्री विक्रमादित्य को संग्राम महोत्सवों के लिए विशेष लालायित
देखकर राजा आहवमल्लदेव सोचने लगे ।
अलङ्करोत्यद्भुतसाहसाङ्कः सिंहासनं चेदयमेकवीरः ।
एतस्य सिंहीमिव राजलक्ष्मीमङ्कस्थितांकः क्षमतेऽभियोक्तुम् ॥२७॥
अन्वयः
अयम् अद्भुतसाहसाङ्कः एकवीरः सिंहासनम् अलङ्करोति चेत् (तर्हि)
एतस्य अङ्कस्थितां सिंहीम् इव राजलक्ष्मीम् अभियोक्तुं कः क्षमते ।
( १७० )
व्याख्या
अयमद्भुतमाश्चर्यविलम्बि साहसं विक्रमोऽङ्को चिह्नं यस्य स 'कलङ्काङ्कौ
लाञ्छनञ्च चिह्नं लक्ष्म च लक्षणम्' इत्यमरः । एकवीरोऽद्वितीयशूरो
विक्रमाङ्कदेवः सिंहासनं राज्यसिंहासनमलङ्करोति विभूषयति चेद्यदि तर्हि एतस्य
राजकुमारस्याऽङ्कस्थितामुत्सङ्गे स्थितां भ्राजमानां सिंहिमिव मृगेन्द्राङ्गना-
मिवाऽपरिभवनीयामप एवाऽजेया राजलक्ष्मीं नृपश्रियंमभियोक्तुमाक्रमितुं हठात्
गृहीतुमित्यर्थः । कः को वा क्षमते प्रभवति न कोपीत्यर्थः ।
भाषा
यदि अद्भुतसाहस के लक्षणों से युक्त यह अद्वितीय वीर विक्रमाङ्कदेव
राजसिंहासन (राजगद्दी) को सुशोभित करेगा तो इसकी गोद में रहने वाली
सिंहिनी के समान राजलक्ष्मी को कौन छेड़ सकेगा ! अर्थात् सिंहिनी के समान
प्रबल इसकी राजलक्ष्मी से कौन छेड़ छाड़ करेगा अर्थात् उसको छीनने का
प्रयत्न करेगा ।
करोमि तावद्युवराजमेन-मत्यक्तसाम्राज्यभरस्तनूजम् ।
तटद्वयी संश्रयणाद्दधातु धुनीव साधारणतां नृपश्रीः ॥२८॥
अन्वय
अत्यक्तसाम्राज्यभरः (अहं) एनं तनूजं तावत् युवराजं करोमि ।
नृपश्रीः धुनी इव तटद्वयीसंश्रयणात् साधारणतां दधातु ।
व्याख्या
न त्यक्तः परित्यक्तः साम्राज्यस्य सम्पूर्णराज्यस्य भरो भारो येन स
एवम्भूतोऽहमेनं विक्रमाङ्कदेवनामकं तनूजं, तथा शरीरात् जायत इति सूनूस्तं
तनूजं पुत्रं तावत् युवराजं करोमि राज्यकार्यभारग्रहणे नियुक्तं विदधामि ।
नृपश्रीः राजलक्ष्मीः धुनीव नदीव 'अथ नदी सरित् । तरङ्गिणी शैवलिनी तटिनी
ह्रादिनी धुनी' इत्यमरः तटयोर्द्वयी तटद्वयी तस्याः संश्रयणादाश्रयणात् साधारण-
तामुभयावलम्बिरूपात् सामान्यस्वरूपं दधातु । विक्षोभं न गच्छत्विति भावः ।
भाषा
में अपने साम्राज्य का भार न छोड़ते हुए इस विक्रमाङ्कदेव को सम्प्रति
युवराज पद पर नियुक्त कर देता हूँ । ऐसा कर देने से दोनो तटों के आश्रय
( १७१ )
से स्वाभाविक रूप से बहने वाली नदी के समान हम दोनों के आश्रय में रहने
वाली राजलक्ष्मी समान रूप से चलती रहेगी ।
एवं विनिश्चित्य कृतप्रयत्न-मूचे कदाचित्पितरं प्रणम्य ।
सरस्वतीनपुरसिञ्जितानां सहोदरेण ध्वनिना कुमारः ॥२६॥
अन्वयः
कुमारः कदाचित् एवं विनिश्चित्य कृतप्रयत्नं पितरं प्रणम्य सरस्वतीनू-
पुरसिञ्जितानां सहोदरेण ध्वनिना ऊचे ।
व्याख्या
कुमारो विक्रमाङ्कदेवः कदाचित् कस्मिंश्चित्काले एवं पूर्वोक्तप्रकारेण
विनिश्चित्य निश्चय विधाय कृतः समारब्धः प्रयत्न उद्योगो येन तं पितर जनक-
माहवमल्लदेव प्रणम्य नमस्कृत्य सरस्वत्या वाग्देव्या नूपुराणां मञ्जीराणां
‘पादाङ्गदं तुलाकोटि मंजोरो नूपुरोऽस्त्रियाम्’ इत्यमरः । सिञ्जितानां स्वनानां
सहोदरेण सदृशेन मधुरेणेत्यर्थः ध्वनिना शब्देन वचसा वा ऊचे जगाद ।
सुमधुर-कर्णप्रियशब्देन स्वपितर जगादेति भावः ।
भाषा
किसी समय राज कुमार ने, पूर्वोक्त निश्चय कर तदनुरूप कार्य करने में
प्रवृत्त अपने पिता आहवमल्लदेव को, सरस्वती के पैंजेन की ध्वनि के सदृश
सुमधुर और कर्णप्रिय शब्दो में कहा ।
आज्ञा शिरश्चुम्बति पार्थिवानां त्यागपभोगेषु वशे स्थिता श्रीः ।
तव प्रमादात्सुलभं समस्त-मास्तामयं मे युवराजभावः ॥३०॥
अन्वयः
आज्ञा पार्थिवानां शिरः चुम्बति, श्रीः त्यागपभोगेषु वशे स्थिता, तव
प्रसादात् समस्तं सुलभम् । मे युवराजभावः आस्ताम् ।
व्याख्या
आज्ञा मदीयादेशः पार्थिवाना राज्ञा शिरः शीर्षं चुम्बति समाक्रामति । सर्वे
राजानो ममाज्ञापालनं कुर्वन्तीति भावः । श्रीर्धनादिसमृद्धिस्त्यागेषु दानेषु-
( १७२ )
पभोगेषु सम्भोगेषु वशे स्थिता ममाऽऽधीना दानसम्भोग्यादिषु नास्ति मे
द्रव्याभाव इत्यर्थ । तव प्रसादादनुग्रहात्समस्तं समग्रं वस्तुजात सुलभे सुखेन
लभ्य, मे मम युवराजभावो यौवराज्ये नियोजनमास्ता विरमतु ।
भाषा
मेरी आज्ञा का सब राजा लोग पालन करते हैं । दान और उपभोग के
लिये मुझे द्रव्य की कमी नहीं है । आप के अनुग्रह से मुझे सब सुलभ है ।
मुझे युवराज बनाने का विचार स्थगित किया जाय ।
जगाद देवोऽथ मदीप्सितस्य किं वत्स धत्से प्रतिकूलभावम् ।
ननु त्वदुत्पत्तिपरिश्रमे मे स चन्द्रचूडाभरणः प्रमाणम् ॥३१॥
अन्वयः
अथ देवः जगाद । वत्स मदीप्सितस्य प्रतिकूलभावं किं धत्से ।
ननु मे त्वदुत्पत्तिपरिश्रमे सः चन्द्रचूडाभरणः प्रमाणम् ।
व्याख्या
अथ स्वपुत्रवचनश्रवणानन्तरं देवो राजा जगाद कथयामास । हेवत्स ! हे
पुत्र ! ममेप्सितमभीष्टं मदीप्सितं तस्य मदभीष्टस्य मनोरथस्य प्रतिकूलभावं
प्रातिकूल्यं विरोधमित्यर्थ । किं किमर्थं धत्से करोषि । ननु निश्चयेन मे मम
तवोत्पत्तिर्जन्म त्वदुत्पत्तिस्तत्र परिश्रमस्तपस्यादिकरणं तस्मिन् स चन्द्रश्चूडायां
शिरस आभरणं भूषणं यस्य स शिवः प्रमाणं साक्षी । स शिव एव जानाति
तव जन्महेतो यादृशं कठिनतपश्चरण मयाऽनुष्ठितमतो मम मनोरथस्य विरोधं
विहाय तत्साधयेति भाव ।
भाषा
पुत्र की ऐसी उक्ति को सुनने के अनन्तर राजा ने कहा । बेटा ! मेरे
अभीप्सित कार्य का क्यों विरोध करते हो। तुम्हारा जन्म होने के लिये मुझे
तपश्चरणादि अनुष्ठान में कैसा परिश्रम करना पड़ा है यह चन्द्रशेखर शंकर ही
जानते हैं । इसलिये मेरी इच्छा का विरोध न करो ।
धत्से जगद्रक्षणयामिकत्वं न चेन्मङ्गीकृतयौवराज्यः ।
मौर्वीरवापूरितदिङ्मुखस्य क्लान्तिः कथं शाम्यतु मद्भुजस्य ॥३२॥
( १७३ )
अन्वयः
त्वम् अङ्गीकृतयौवराज्यः (सन्) जगद्रक्षणयामिकत्वं न धत्से चेत्,
मौर्वीरवापूरितदिङ्मुखस्य मद्भुजस्य क्लान्तिः कथं शाम्यतु ।
व्याख्या
त्वमङ्गीकृत परिगृहीत यौवराज्य युवराजकर्म येन स एवम्भूतस्सन् जगतो
भुवनस्य 'विष्टप भुवनं जगत्' इत्यमर । रक्षण पालनं तस्य यामिकत्व प्रहरित्वं
न धत्से न वहसि चेत् मौर्व्या ज्याया रखेण नादेनाऽऽपूरितानि दिशा मुखानि येन
स तस्य मद्भुजस्य मम बाहो 'भुज बाहु प्रवेष्टो दो' इत्यमर । क्लान्ति
परिश्रान्ति कथ केन प्रकारेण शाम्यतु शान्तिमेतु । मदुपार्जितस्य रक्षणे यदि
त्व दीक्षितो न भविष्यसि तर्हि मत्कठोरपरिश्रमस्य साफल्य कुत इति भावः ।
भाषा
अगर तुम युवराज पद को स्वीकार कर जगत की रक्षा के लिय पहरेदारी
नही करोगे तो प्रत्यञ्चा के शब्दो से सब दिशाओ को भर देन वाली अर्थात्
गुजाने वाली मेरी इस भुजा की थकावट कैसे दूर होगी । अर्थात् मेरी जीती
हुई पृथ्वी के यदि तुम पहरे दार न बनोगे तो मेरा इस समस्त पृथ्वी को जीत
कर अपन अधीन करने का कठोर परिश्रम कैसे सफल होगा ।
आकर्ण्य कर्णाटपतेः सखेद-मित्थं वचः प्रत्यवदत्कुमारः ।
सरस्वतीलोलदुकूलकान्तां प्रकाशयन्दन्तमयूखलेखाम् ॥३३॥
अन्वयः
कुमारः कर्णाटपतेः इत्थं सखेद वचः आकर्ण्य सरस्वतीलोलदु-
कूलकान्ता दन्तमयूखलेखा प्रकाशयन् प्रत्यवदत् ।
व्याख्या
कुमारो राजकुमार कर्णाटपतेर्दक्षिण भारतस्थितकर्णाटकदेशाधिपतेराहव-
मल्लदेवस्येत्यनेवम्भूत खेदेन दुःखेन सहित युक्त खेदप्रकाशक वचो वाणीमाकर्ण्य
निशम्य सरस्वत्या वागधिष्ठातृदेव्या लोल चञ्चल यददुकूल वस्त्रं तद्वत कान्ता
शुभ्रत्वेन रमणीया दन्ताना रदाना मयूखा किरणा सेषा लेखा पङ्क्ति
'वीथ्यालिरावलि पङ्क्ति श्रेणी लेखातु राजय, इत्यमर । तां प्रकाशयन्
प्रकटयन् प्रत्यवदत् प्रत्युत्तर ददौ । अत्रोपमालङ्कार ।
( १७४ )
भाषा
दक्षिण भारत स्थित कर्णाटक देश के राजा आहवमल्लदेव की अर्थात् अपने
पिता की ऐसी दुखभरी वाणी को सुनकर सरस्वती के चञ्चल सफेद वस्त्र
के समान शुभ्र दातां के किरणों की पंक्ति को प्रकट करते हुए, राजकुमार
ने प्रत्युत्तर दिया ।
वाचालतैषा पुरतः कवीनां कान्त्या मदोऽयं सविधे सुधांशोः ।
त्वत्संनिधौ पाटवनाटनं यत् तथापि भक्त्या किमपि ब्रवीमि ॥३४॥
अन्वयः
यत् त्वत्संनिधौ पाटवनाटनम् एषा कवीनां पुरतः वाचालता, अयं
सुधांशोः सविधे कान्त्याः मदः तथापि भक्त्या किमपि ब्रवीमि ।
व्याख्या
यत् यद्यपि म्यत्तव संनिधौ समीपे पाटवस्य चातुर्यस्य नाटनं प्रकाशनमेषा
कवीनां वर्णनाचातुरीसम्पन्नानां पण्डितानां पुरतोऽग्रे वाचालता मुखरताभिव्य-
क्तिरेव न तु किञ्चिदुचितं वचनमिति । (अय च) अयं (इदमित्युचितम्)
सुधांशोः सकलकान्तिनिधानस्येन्दोस्सविधे संनिकटे कान्त्या शोभया 'शोभा
कान्तिर्द्युतिश्छवि' इत्यमर । मद स्वाभिमानप्रकाशनमेव । यथा चन्द्रसमीपे
कान्तिगर्वप्रकाशनं कविसमीपे वचोभिनाटनं च व्यर्थं तथैव तव समीपे मदीयो-
क्तिरिति भावः । तथाप्येवं सत्यपि निष्प्रयोजनकत्वेऽपि मयि भक्त्या, पूज्येष्व-
नुरागो भक्तिस्तया किमपि किञ्चिद्वचो ब्रवीमि वच्मि । निदर्शनाऽलङ्कार ।
भाषा
यद्यपि आप के समक्ष मेरा चातुर्य प्रकाशन करना विद्वानों के सम्मुख
मुखरता अर्थात् बकवाद करना है और कान्ति निधान चन्द्रमा के सम्मुख कान्ति
की शेखी बघारना है । तो भी आप में जो मेरी भक्ति है अर्थात् पूज्यत्व
बुद्धि है उससे कुछ कहता हूँ ।
विचारचातुर्यमपाकरोति तातस्य भूयान्मयि पक्षपातः ।
ज्येष्ठे तनूजे सति सोमदेवे न यौवराज्येऽस्ति ममाधिकारः ॥३५॥
( १७५ )
अन्वयः
तातस्य मयि भूयान् पक्षपातः (तातस्य) विचारचातुर्यम् अपाकरोति ।
(तातस्य) ज्येष्ठे तनूजे सोमदेवे सति मम यौवराज्ये अधिकारः न अस्ति ।
व्याख्या
तातस्य पितुर्मयि भूयानधिकः पक्षपातः स्नेहान्मदीयपक्षग्रहण तातस्य
विचारस्य विवेकस्य चातुर्यं नैपुण्यमपाकरोति दूरीकरोति । अस्मिन्विषये
भवदुक्तौ विवेकपुरस्सरविचारप्रावीण्यं न दृश्यत इत्यर्थः । यतस्तातस्य ज्येष्ठे
पुत्रे सोमदेवे तन्नामके सति विद्यमाने सति धर्मशास्त्रमर्यादया मम तस्मात्
कनीयसो यौवराज्ये युवराजपदेऽधिकारो योग्यत्वमौचित्यञ्च नाऽस्ति न विद्यते ।
भाषा
आप का मेरे प्रति अधिक पक्षपात, आप की विवेकयुक्त विचार की पटुता
को दूर कर रहा है । आप के ज्येष्ठ पुत्र सोमदेव के रहते हुए मेरा युवराज
पद पाने का कोई अधिकार नही है ।
चालुक्यवंशोऽपि यदि प्रयाति पात्रत्वमाचारविपर्ययस्य ।
अहो महद्वैशसमः किमन्य-दनङ्कुशोऽभूत्कलिकुञ्जरोऽयम् ॥३६॥
अन्वयः
यदि चालुक्यवंशः अपि आचारविपर्ययस्य पात्रत्वं प्रयाति ( तर्हि ) आः
किम् अन्यत्, अहो महत् वैशसम्, अयं कलिकुञ्जरः अनङ्कुशः अभूत् ।
व्याख्या
यदि चालुक्यस्य वंश कुलम्थाऽऽचारो धर्मानुकूलमर्यादा तस्य विपर्ययो
वैपरीत्य तस्य पात्रत्वं भाजनत्वं प्रयाति गच्छति तर्हि आः ! इति खेदे ।
किमदन्यदस्तु । अहो ! इत्याश्चर्ये । महद्वैशस स्यात् महदनर्थप्रयोजक स्यात् ।
"वैशंसं हिंसा" । अतोऽय कलिकुञ्जरः कलिरूपहस्त्यनङ्कुशो निरङ्कुशो
निष्प्रतिबन्धक इत्यर्थ । अभूज्जातः । मर्यादा त्यागे चालुक्यवश कलिकात-
पराभूत इत्यपवाद स्यादिति भाव ।
भाषा
यदि चालुक्यवश भी अनाचार का स्थान बन गया तो बडे आश्चर्य और
( १७६ )
दुःख से कहना पड़ता है कि इतना बडा अनर्थ और क्या हो सकता है। यह
कलि रूपी हाथी निरङ्कुश हो गया। अर्थात् अब कलि के प्रचार में कोई रोक
टोक न रह गई।
लक्ष्म्याः करं ग्राहयितुं तदादौ तातस्य योग्यः स्वयमग्रजो मे ।
कार्यं विपर्यासमलीमसेन न मे नृपश्रीपरिरम्भणेन ॥३७॥
अन्वयः
तत् आदौ मे अग्रजः तातस्य लक्ष्म्याः करं ग्राहयितुं स्वयं योग्यः।
विपर्यासमलीमसेन नृपश्रीपरिरम्भणेन मे न कार्यम्।
व्याख्या
तत्तस्मात्कारणात् धर्मानुकूलमर्यादानुरोधात् मे ममाऽग्रजो ज्येष्ठभ्राता
तातस्य पितुस्तव लक्ष्म्याः श्रियः कर हस्त ग्राहयितु तातरूपप्रयोजककर्तृक-
ज्येष्ठभ्रातृप्रयोज्यकर्तृकलक्ष्मीसम्बन्धिकरग्रहण सम्पादयितुं स्वयमात्मना योग्य-
स्समर्थः। विपर्यासेन प्रातिकूल्येन वैपरीत्येन वा 'स्यादभ्यासो विपर्यासो
व्यत्ययश्च विपर्यये' इत्यमरः। मलीमसेन कलङ्कितेन 'मलीमस तु मलिन कञ्चटं
मलदूषितम्' इत्यमरः। नृपश्रियो राजलक्ष्म्याः परिरम्भणेन समालिङ्गनेन
ग्रहणेनेत्यर्थः। मे मम न कार्यं न किञ्चित्प्रयोजनम्।
भाषा
इसलिये पहिले मेरे ज्येष्ठ भ्राता स्वयं आप के राजश्री का हाथ पकडवाने
के योग्य है। क्रमराहित्य के या प्रतिकूलता के कलङ्क से कलङ्कित राजलक्ष्मी
को स्वीकार करने से मुझे कोई प्रयोजन नहीं है।
ज्येष्ठं परिम्लानमुखं विधाय भवामि लक्ष्मीप्रणयोन्मुखश्चेत् ।
किमन्यदन्यायपरायणेन मयैव गोत्रे लिखितः कलङ्कः ॥३८॥
अन्वयः
ज्येष्ठं परिम्लानमुखं विधाय (अहम्) लक्ष्मीप्रणयोन्मुखः भवामि
चेत् (तर्हि) अन्यायपरायणेन मया एव गोत्रे कलङ्कः लिखितः, किम्
अन्यत्।
( १७७ )
व्याख्या
ज्येष्ठं भ्रातरं सोमदेवं परिम्लानं क्रमप्राप्तराज्यलक्ष्मीपरिग्रहाप्राप्त्या मलिनं
मुखं वदनं यस्य तं विधाय कृत्वाहं लक्ष्म्या प्रणय स्नेहस्तस्मिन्प्रमुख मुख प्रवण
परायणो वा भवामि चेत् तर्हि अन्यायेऽन्याययुक्तकार्ये परायणो लग्नरतेन मया
विक्रमाङ्कदेवेनैष गोत्रे विशुद्धचालुक्यवंशे कलङ्कः कालुष्यं लिखितः सम्पादितः ।
किमन्यदन्यायकार्यम् ? अन्यस्यान्यापकार्यस्याऽन्वेषणप्रयासो व्यर्थ एवेति भावः ।
भाषा
यदि मैं अपने बड़े भाई सोमदेव को क्रमप्राप्त राज्यलक्ष्मी के न प्राप्त होने
से उदास बनाकर स्वयं लक्ष्मी के प्रेम में तत्पर हो जाऊँ, तो अन्याय युक्त
कार्य करने में तत्पर, मैंने ही इस शुद्ध चालुक्य वंश में कलङ्क लगाया । और
क्या अन्याय का कार्य हो सकता है ?
तातश्चिरं राज्यमलङ्करोतु ज्येष्ठो ममारोहतु यौवराज्यम् ।
सलीलमाक्रान्तदिगन्तरोऽहं द्वयोः पदातिव्रतमुद्वहामि ॥३६॥
अन्वयः
तातः चिरं राज्यम् अलङ्करोतु, मम ज्येष्ठः यौवराज्यम् आरोहतु, अहं
सलीलम् आक्रान्तदिगन्तरः सन् द्वयोः पदातिव्रतम् उद्वहामि ।
व्याख्या
तातः पिता चिरं चिराय 'चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः'
इत्यमरः । राज्यमलङ्करोतु विभूषयतु । मम ज्येष्ठो ज्येष्ठभ्राता सोमदेवो
यौवराज्यं युवराजपदम आरोहतु अधितिष्ठतु । अहं लीलया सहितं सलीलं सहेलं
यथास्यात्तथाऽऽक्रान्तानि समधिष्ठितानि दिगन्तराणि येन स आक्रान्तदिगन्त-
रस्सन् द्वयोस्तातस्य भ्रातुश्च पश्चातेः पत्तेः 'पदातिपत्तिपदगपादातिक पदाजयः'
इत्यमरः । व्रतं नियममुद्वहामि धारयामि । अहं तव ज्येष्ठभ्रातुश्च पादातको
भूत्वोभयोः सेवां करिष्यामीति भावः ।
भाषा
आप चिरकाल तक राज्य को शोभित करते रहें । बड़े भाई युवराज पद
पर आरूढ हो । मैं, बात की बात में समग्र दिशाओं में आक्रमण करता हुआ,
आप दोनों का प्यादा बनकर रहूँगा ।
१२
( १७८ )
रामस्य पित्रा भरतोऽभिषिक्तः क्रमं समुल्लङ्घ्य यदात्मराज्ये ।
तेनोत्थिता स्त्रीजित इत्यकीर्त्ति-रद्यापि तस्यास्ति दिगन्तरेषु ॥४०॥
अन्वयः
यत् रामस्य पित्रा आत्मराज्ये क्रमं समुल्लङ्घ्य भरतः अभिषिक्तः तेन
उत्थिता स्त्रीजितः इति तस्य अकीर्तिः अद्य अपि दिगन्तरेषु अस्ति ।
व्याख्या
यत् रामस्य पित्रा दशरथेनाऽऽत्मनः स्वस्य राज्ये क्रमं निय्मोचितपरिपाटी-
क्रमं समुल्लङ्घ्याऽतिक्रम्य भरतः स्वकनीयान्पुत्रोऽभिषिक्तोऽभिषेकतिलकाञ्चितः
कृतस्तेनाऽनूचितकार्येणोत्थिता समुत्पन्ना स्त्रिया भार्यया जितो वशीकृत इति
तस्याऽकीर्तिरपयशोऽद्याप्यद्यापि दिगन्तरेषु सर्वदिक्ष्वस्ति विद्यते ।
भाषा
चूंकि रामजी के पिता दशरथ राजा ने कुलपरम्परागत क्रम का उल्लङ्घन
कर बडे भाई के रहते हुए छोटे भाई, भरत का राज्याभिषेक किया, इस अनु-
चित कार्य से उत्पन्न, स्त्री का वशीभूत, ऐसी उसकी अपकीर्ति अभी भी सब
दिशाओ में अर्थात् सर्वत्र फैली हुई है ।
तदेष विश्राम्यतु कुन्तलेन्द्र यशोविरोधी मयि पक्षपातः ।
न किं समालोचयति क्षितीन्दु-रायासशून्यं मम राज्यसौख्यम् ॥४१॥
अन्वयः
हे कुन्तलेन्द्र ! तत् एषः मयि यशोविरोधी पक्षपातः विश्राम्यतु ।
क्षितीन्दुः मम आयासशून्यं राज्यसौख्यं किं न समालोचयति ।
व्याख्या
हे कुन्तलेन्द्र ! कुन्तलदेशाधिप ! तत्तस्मात्कारणादेव मयि मत्सम्वन्धे
यशसः कीर्तेविरोधी प्रतिबन्धको दुष्कीर्तिजनकः पक्षपातो विश्राम्यतु विश्रान्तिमेतु,
न जायतामित्यर्थः । क्षितीन्दुः पृथिवीन्दुर्भवान् ममाऽयासेन परिश्रमेण शून्यं
रहितमनायासप्राप्तमित्यर्थः । राज्यसौख्यं किं न समालोचयति, कथं न पश्यति ।
अहं स्वनायासेनेव राज्यसौख्यमनुभवामीति भवान् जानात्येवेत्यर्थः ।
( १७९ )
भाषा
इसलिए, हे कुन्तलदेशाधिपति ! मेरे प्रति जो आपका अपकीर्तिजनक
पक्षपात है उसे छोड़ दीजिये । क्या राजा साहेब (आप) नहीं देखते हैं कि मैं
अनायास ही सब राज्य का सौख्य पा रहा हूँ ।
पुत्राद्वचः श्रोत्रपवित्रमेवं श्रुत्वा चमत्कारमगान्नरेन्द्रः ।
इयं हि लक्ष्मीर्धुरि पांसुलानां केषां न चेतः कलुषीकरोति ॥४२॥
अन्वयः
नरेन्द्रः पुत्रात् एवं श्रोत्रपवित्रं वचः श्रुत्वा चमत्कारम् अगात् । हि
पांसुलानां धुरि (स्थिता) इयं लक्ष्मीः केषां चेतः न कलुषीकरोति ।
व्याख्या
नरेन्द्रो राजाऽऽहवमल्लदेवः पुत्रात्सूनोर्विक्रमाङ्कदेवादेवमेवम्भूतं श्रोत्रपवित्रं
कर्णपूतं कर्णसुखदायकमित्यर्थः । वचो वाणीं श्रुत्वा निशम्य चमत्कारमाश्चर्य-
मगात्प्राप्तः आश्चर्यचकितो बभूवेत्यर्थः । हि यस्मात्कारणात् पांसुलानां स्वैरि-
णीनां धुरि अग्रभागे स्थितेयं लक्ष्मीः श्रीः सम्पत्तिरित्यर्थः । केषां पुरुषाणां
चेतो मनः 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । न कलुषी-
करोति न मलिनीकरोति । अपि तु लक्ष्मीः सर्वानैव सन्मार्गाच्च्यावयतीति भावः ।
भाषा
इस प्रकार पुत्र की कर्ण को पवित्र करने वाली अर्थात् कान को अच्छी
लगने वाली वाणी को सुनकर राजा को आश्चर्य हुआ । क्यो कि स्वेच्छा-
चारिणियों में अग्रणी लक्ष्मी किनके चित्तो को मलिन नहीं करदेती । अर्थात्
लक्ष्मी की प्राप्ति में सभी मनुष्यों का मन कलुषित हो जाता है ।
सस्नेहमङ्के विनिवेश्य चैन-मुवाच रोमाञ्चतरङ्गिताङ्गः ।
क्षिपन्निवात्युज्ज्वलदन्तकान्त्या प्रसादमुक्तावलिमस्य कण्ठे ॥४३॥
अन्वयः
रोमाञ्चतरङ्गिताङ्गः एनम् अङ्के सस्नेहं विनिवेश्य अस्य कण्ठे अत्युज्ज्व-
लदन्तकान्त्या प्रसादमुक्तावलिं क्षिपन् इव च उवाच ।
( १८० )
व्याख्या
रोमाञ्चेन रोमहर्षणेन तरङ्गितानि युक्तान्यङ्गानि यस्य स राजाऽऽहवमल्लदेव
एनं विक्रमाङ्कदेवमङ्क उत्सङ्गे सस्नेहं प्रेमोल्लासपूर्वकं यथास्यात्तथा विनिवेश्य
संस्थाप्याऽस्य पुत्रस्य कण्ठे गलभागेऽत्युज्ज्वलाऽतिविशदा दन्तानां 'रदना दन्ता
रदाः' इत्यमरः । कान्तिः प्रभा तया धवलदन्तकान्तिच्छद्मना प्रसादरूपा या
मुक्तानां मौक्तिकानामावलिर्माला तां क्षिपन्निव च निक्षिपन्निव चोवाच जगाद ।
भाषा
सर्व अङ्गों में रोमाञ्च से युक्त उस राजा आहवमल्ल देव ने अपने पुत्र
विक्रमाङ्क देव को प्रेम पूर्वक अपनी गोद में बैठाकर और उसके गले में अपनी
श्वेत दन्तकान्ति के मिष से मानो प्रेम से समर्पित मोतियों की माला को
पहनाते हुए, कहा ।
भाग्यैः प्रभूतैर्भगवानसौ मे सत्यं भवानीदयितः प्रसन्नः ।
चालुक्यगोत्रस्य विभूषणं यत् पुत्रं प्रसादीकृतवान्भवन्तम् ॥४४॥
अन्वयः
असौ भगवान् भवानीदयितः मे प्रभूतैः भाग्यैः सत्यं प्रसन्नः । यत्
चालुक्यगोत्रस्य विभूषणं भवन्तं पुत्रं प्रसादीकृतवान् ।
व्याख्या
असौ भगं विद्यते यस्मिन् स भगवान् 'भगं श्री काममाहात्म्यवीर्ययत्नार्क-
कीर्तिषु' इत्यमरः । 'भगं स्त्री योनिवीर्येच्छाज्ञानवैराग्यकीर्तिषु । माहात्म्य-
श्वर्ययत्नेषु धर्मे मोक्षेऽथ ना रवौ' । इति मेदिनी । भवान्याः पार्वत्या दयितो
वल्लभः 'अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम्' इत्यमरः । शिवो मे
प्रभूतैर्बहुलैर्भाग्यैर्भागधेयैः 'दैवं दिष्ट भागधेय भाग्यं स्त्री नियतिर्विधिः' इत्यमरः ।
सत्यं ध्रुवं प्रसन्नः प्रीतः । यदस्मात्कारणात् चालुक्यगोत्रस्य चालुक्यवंशस्य
विभूषणमलङ्कारभूतं भवन्तं त्वां पुत्रं पुत्रत्वेन प्रसादीकृतवान् दत्तवान् ।
त्वत्सदृशं चालुक्यवंशालङ्कारभूतं पुत्रं प्रसादीकृत्य तेन शिवेन महाननुग्रहः
प्रदर्शित इति भावः । 'भवानीदयितः' इति चिन्त्यम् ।
( १८४ )
व्याख्या
यस्या राजलक्ष्म्या कृते भूमिं बिभ्रति पालयन्तीति भूमिभूतस्तेषां पृथिवी-
पालानां कुमारा पुत्रा राजकुमारों इत्यर्थ । केषां नयस्य नीतेर्विप्लवा विपर्या-
सास्तेषां नयविप्लवानाडनीतीनां पात्रं भाजनं न, न जाता । सा उन्मत्ता
मदान्धा ये मातङ्गा गजा 'गजेऽपि नागमातङ्गौ' इत्यमर । तेषां सहस्रं
तद्वद्गुर्वी भारवती स्पृहणीया च राज्यलक्ष्मीस्ते त्वदर्थं तृणवल्लघुरल्पीयसी
तुच्छा च । अन्येराजकुमारा राज्यलक्ष्मीं सर्वतोऽधिकां मन्यमानास्तदर्थमनीति-
माचरन्ति परन्तु त्वत्कृते सा तुच्छेति भाव ।
भाषा
जिस राज्यलक्ष्मी के लिये अन्य राजाओं के पुत्र गण क्या २ अनीति नही
कर डालते वह सहस्त्रो मदोन्मत्त हाथियों से भी भारी तथा बहुमूल्य राज्यलक्ष्मी
तुम्हारे लिये तृण के समान हलकी है अर्थात् तुच्छ है ।
लङ्कासमीपाम्बुधिनिर्गतेयं रक्तासवैस्तृप्यति राक्षसीव ।
लक्ष्मीरसौ त्वद्भुजदण्डबद्धा पात्रं भवित्री विनयव्रतस्य ॥४७॥
अन्वयः
इयं लङ्कासमीपाम्बुधिनिर्गता लक्ष्मीः राक्षसी इव रक्तासवैः तृप्यति ।
असौ त्वद्भुजदण्डबद्धा सती विनयव्रतस्य पात्रं भवित्री ।
व्याख्या
इय पूर्ववर्णनता लङ्काया रावणनगर्या समीपे योऽम्बुधिस्समुद्रस्तस्मान्निर्गता
जाता लक्ष्मी श्री राक्षसीव रक्तानि रुधिराण्यादासव्या मद्यानि तैस्तृप्यति
तृप्तिमाप्नोति । यथा लङ्काया जाता काचिद्राक्षसी रुधिरपानेनैव तृप्यति
तथैष लङ्कानिकटस्थसमुद्रजा लक्ष्मीरपि रुधिरप्रवाहेण तृप्यतीति भाव । असौ
लक्ष्मीरत्वद्भुजावेव दण्डौ तयोर्बद्धा त्वद्भुजयोर्दण्डेन शासनेन वा बद्धा सती
विनयव्रतस्य विनयरूताशिक्षाया पात्रमास्पदं भवित्री भविष्यति । लोके
दण्डेनैव दुर्विनीतानां शासनं भवति । दुर्विनीता विनीताइव संपाद्यन्ते, क्रूरत्वञ्च
विहन्यते, शुद्धभावश्च संस्थाप्यते इति भाव ।
( १८३ )
भाषा
लङ्का के पास के समुद्र में से उत्पन्न यह लक्ष्मी, राक्षसी के समान रक्त
रूपी सुरा से तृप्त होती है। परन्तु यह तुम्हारे भुजदण्ड से बँध जाने पर
विनम्र हो जाएगी। अर्थात् लङ्का में उत्पन्न राक्षसी जिस प्रकार रक्त पान
कर तृप्त होती है वैसे ही यह लङ्का के समीपवर्ती समुद्र से उत्पन्न होने वाली
लक्ष्मी रक्त प्रवाह् से तृप्त होती है। यह लक्ष्मी तुम्हारे भुजाओ के दण्ड
से दण्डित होकर या तुम्हारी भुजा के आश्रय मे आने पर भविष्य में नम्र
हो जाएगी।
जानामि मार्गं भवतोपदिष्टं ममापि चालुक्यकुले प्रसूतिः ।
किन्त्वत्र लक्ष्मीर्गुणबन्धहीने निसर्गलोला कथमेति दार्ढ्यम् ॥४८॥
अन्वयः
भवता उपदिष्टं मार्गं जानामि । (यतः)मम अपि चालुक्यकुले प्रसूतिः ।
किन्तु गुणबन्धहीने अत्र निसर्गलोला लक्ष्मीः कथं दार्ढ्यम् एति ।
व्याख्या
भवतोपदिष्टं कथितं मार्गं नयवर्त्म जानामि वेद्मि । यतो ममापि चालु-
क्यवंशे नीतिमार्गावलम्बिनि चालुक्यनृपाणां कुले प्रसूतिरुत्पत्तिः । अहमपि
त्वत्सदृशो नीतिमार्गकुशले चालुक्यवंशे जात इति त्वदुक्तं सर्वं नयवर्त्म
जानामीतिभावः । किन्तु परन्तु गुणानां शौर्यादीनां पक्षे रज्जूनां बन्धः संघः पक्षे
ग्रन्थिस्तेन हीने रहितेऽत्र अस्मिन् ज्येष्ठे पुत्रे सोमदेवे निसर्गात्स्वभावादेव
लोला चञ्चलाऽस्थिरा लक्ष्मी राज्यश्रीः कथं केन प्रकारेण दार्ढ्यं दृढ़तां
स्थिरतामित्यर्थः । एति प्राप्नोति समुपयास्यतीति भावः । दृढ़बन्धनेन बद्ध
एव पदार्थो निश्चलो भवतीति नियमः ।
भाषा
तुमने जो नीतिमार्ग दिखाया है उसे मैं भी जानता हूँ। क्यो कि मेरा भी
जन्म नीति कुशल चालुक्य राजाओ के वंश में ही हुआ है। परन्तु शौर्यादिगुणो
के संघ से रहित अथवा बंधन योग्य ग्रन्थियुक्त रस्सी से रहित मेरे ज्येष्ठपुत्र
सोमदेव के युवराज पद पर बैठने पर यह स्वभावत चञ्चला राज्यलक्ष्मी इससे