सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 195, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 195

( १७० )
व्याख्या
अयमद्भुतमाश्चर्यविलम्बि साहसं विक्रमोऽङ्को चिह्नं यस्य स 'कलङ्काङ्कौ
लाञ्छनञ्च चिह्नं लक्ष्म च लक्षणम्' इत्यमरः । एकवीरोऽद्वितीयशूरो
विक्रमाङ्कदेवः सिंहासनं राज्यसिंहासनमलङ्करोति विभूषयति चेद्यदि तर्हि एतस्य
राजकुमारस्याऽङ्कस्थितामुत्सङ्गे स्थितां भ्राजमानां सिंहिमिव मृगेन्द्राङ्गना-
मिवाऽपरिभवनीयामप एवाऽजेया राजलक्ष्मीं नृपश्रियंमभियोक्तुमाक्रमितुं हठात्
गृहीतुमित्यर्थः । कः को वा क्षमते प्रभवति न कोपीत्यर्थः ।
भाषा
यदि अद्भुतसाहस के लक्षणों से युक्त यह अद्वितीय वीर विक्रमाङ्कदेव
राजसिंहासन (राजगद्दी) को सुशोभित करेगा तो इसकी गोद में रहने वाली
सिंहिनी के समान राजलक्ष्मी को कौन छेड़ सकेगा ! अर्थात् सिंहिनी के समान
प्रबल इसकी राजलक्ष्मी से कौन छेड़ छाड़ करेगा अर्थात् उसको छीनने का
प्रयत्न करेगा ।
करोमि तावद्युवराजमेन-मत्यक्तसाम्राज्यभरस्तनूजम् ।
तटद्वयी संश्रयणाद्दधातु धुनीव साधारणतां नृपश्रीः ॥२८॥
अन्वय
अत्यक्तसाम्राज्यभरः (अहं) एनं तनूजं तावत् युवराजं करोमि ।
नृपश्रीः धुनी इव तटद्वयीसंश्रयणात् साधारणतां दधातु ।
व्याख्या
न त्यक्तः परित्यक्तः साम्राज्यस्य सम्पूर्णराज्यस्य भरो भारो येन स
एवम्भूतोऽहमेनं विक्रमाङ्कदेवनामकं तनूजं, तथा शरीरात् जायत इति सूनूस्तं
तनूजं पुत्रं तावत् युवराजं करोमि राज्यकार्यभारग्रहणे नियुक्तं विदधामि ।
नृपश्रीः राजलक्ष्मीः धुनीव नदीव 'अथ नदी सरित् । तरङ्गिणी शैवलिनी तटिनी
ह्रादिनी धुनी' इत्यमरः तटयोर्द्वयी तटद्वयी तस्याः संश्रयणादाश्रयणात् साधारण-
तामुभयावलम्बिरूपात् सामान्यस्वरूपं दधातु । विक्षोभं न गच्छत्विति भावः ।
भाषा
में अपने साम्राज्य का भार न छोड़ते हुए इस विक्रमाङ्कदेव को सम्प्रति
युवराज पद पर नियुक्त कर देता हूँ । ऐसा कर देने से दोनो तटों के आश्रय