विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 189, कुल 493 में से
संदर्भ में पढ़ें( १६४ )
लावण्यलुब्धाभिरलब्धमेव भूपालकन्यामधुपाङ्गनाभिः ।
कवित्ववक्तृत्वफला चुचुम्ब सरस्वती तस्य मुखारविन्दम् ॥१९॥
अन्वयः
कवित्ववक्तृत्वफला सरस्वती लावण्यलुब्धाभिः भूपालकन्यामधुपाङ्ग-
नाभिः अलब्धम् एव तस्य मुखारविन्दं चुचुम्ब ।
व्याख्या
कवित्वं काव्यकर्तृत्वं वक्तृत्वं वाग्मिता च फलं यस्याः सा सरस्वती वाग्देवता,
यस्यास्समवधाने सति कवित्वं वक्तृत्वञ्चानायासेनेव प्रतिफलतीति भावः ।
लावण्ये कुमारस्य सौन्दर्ये लुब्धाभिस्तत्साक्षात्काङ्क्षिणीभिर्भूपालानां राज्ञां कन्या
राजकुमार्य एव मधुपानां भ्रमराणामङ्गनाः स्त्रियस्ताभिरलब्धमप्राप्तं तस्य
कुमारस्य मुखमेवारविन्दं कमलं 'वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम्'
इत्यमरः । चुचुम्ब तस्य मुखे निवासं चकारेत्यर्थः । सरस्वती कुमारवृत्तान्ते
नायकव्यवहारसमारोपात्समासोक्तिरलङ्कारः । भूपालकन्यासु भ्रमराङ्गनात्वा-
भेदारोपान्मुखे चारविन्दत्वाभेदारोपाद्रूपकालङ्कारः । तेन चाऽस्य विलक्षणं
कवित्वं वाग्मित्वञ्च व्यज्यते ।
भाषा
उस राजकुमार के सौन्दर्य पर मोहित राजकन्या रूपी भ्रमराङ्गनाओं से
अप्राप्य उसके मुख कमल को कवित्व तथा वक्तृत्व शक्ति देनेवाली सरस्वती ने
चूमलिया । अर्थात् सरस्वती ने उसके मुख में वास कर लिया । अतएव वह
कुमार बाल्यकाल में ही कविता बनाने में और युक्तिपूर्ण बातें करने में अत्यन्त
निपुण हो गया ।
तं बालचन्द्रं परिपूर्यमाण-मालोक्य लावण्यकलाकलापैः ।
कुमुद्वतीनामिव कामिनीनां निशासु निद्रा विमुखीबभूव ॥२०॥
अन्वयः
निशासु लावण्यकलाकलापैः परिपूर्यमाणं तं बालचन्द्रम् आलोक्य
कुमुद्वतीनाम् इव कामिनीनां निद्रा विमुखीबभूव ।