विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 192, कुल 493 में से
संदर्भ में पढ़ें( १६७ )
तेजस्विनामुन्नतिमुन्नतात्मा सेहे न बालोऽपि नरेन्द्रसूनुः ।
देवोऽपि भास्वाञ्छरणेच्छयेव समाश्रितो विष्णुपदं रराज' ॥२३॥
अन्वयः
उन्नतात्मा बालः अपि नरेन्द्रसूनुः तेजस्विनाम् उन्नतिं न सेहे ।
भास्वान् देवः अपि शरणेच्छया इव विष्णुपदं समाश्रितः रराज ।
व्याख्या
उन्नत उन्नतिप्रवन आत्मा यस्य स बालोऽपि स्वल्पवयस्कोऽपि नरेन्द्रसूनू
राजपुत्रस्तेजस्विनां तेजसा जाज्वल्यमानानामुन्नतिमभ्युदयं न सेहे न सोढुं शशाफ ।
यतो भास्वान् सूर्यो देवोऽपि विबुधोऽपि 'अमरा निर्जरा देवास्त्रिदशा विबुधाः
सुराः' इत्यमरः । शरणेच्छयेव स्वरक्षा याचमान इव विष्णुपदं विष्णोर्भगवतः
पदं चरणं विष्णुपदमाकाश वा 'वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी'
इत्यमरः । समाश्रित प्राप्तो रराज शुशुभे । तस्य बाल्यकालादेव तेजस्पुन्न-
त्यसहनस्वभावात्सूर्यो देवोऽपि भीत्या विष्णुपदङ्गत इव शुशुभे इति भावः ।
अत्र हेतूत्प्रेक्षा ।
भाषा
उन्नतात्मा वह राजपुत्र, बालक होते हुए भी, तेजस्वियो के अभ्युदय को
नहीं सहन कर सकता था । इसीलिये मानो, सूर्य, देव होते हुए भी, इससे
अपनी रक्षा करने के लिये भगवान् विष्णु की शरण में गया या आकाश में
शोभित हुआ ।
उच्चैः स्थितं तस्य किरीटरत्नं तेजोधनानामुपरि स्थितस्य ।
क्षमामिव प्रार्थयितुं लुलोठ संक्रान्तिमङ्ग्या मणिपादपीठे ॥२४॥
अन्वयः
तेजोधनानाम् उपरिस्थितस्य तस्य उच्चैः स्थितं किरीटरत्नं मणिपादपीठे
संक्रान्तिभङ्ग्या क्षमां प्रार्थयितुम् इव लुलोठ ।
१ किमपेक्ष्य फलं पयोधरान् ध्वनत प्रार्थयते मृगाधिप ।
प्रकृति. खलु सा महीयसः सहते नान्यसमुन्नति यया ॥ इत्युक्ते ।
भारवि (किरातार्जुनीये २ सर्गे २१ श्लोक )