वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
इस ग्रन्थ के बारे में
'वेदस्वरूप-विमर्श' स्वामी हरिहरानन्द सरस्वती, जिन्हें स्वामी करपात्री जी महाराज के नाम से जाना जाता है, की रचना है। करपात्री जी (१९०७-१९८२) बीसवीं शताब्दी के प्रमुख सनातनी संन्यासी और शास्त्रार्थी थे, जिन्होंने वेद-प्रामाण्य और परम्परागत धर्म के पक्ष में विपुल साहित्य लिखा। यह ग्रन्थ वेद के वास्तविक स्वरूप पर उनका विचार प्रस्तुत करता है।
ग्रन्थ के सम्पादक न्याय-व्याकरण-साहित्याचार्य पं० रामगोविन्द शुक्ल हैं, और इसे भक्ति-सुधा साहित्य परिषद, कलकत्ता ने प्रकाशित किया। संस्कृत में लिखे गए सम्पादकीय निवेदन के अनुसार यह ग्रन्थ उन मतों का युक्ति और प्रमाण से खण्डन करता है जो वेद को आंशिक रूप से ईश्वर-रचित या ऋषि-रचित मानते हैं, जो ब्राह्मण-ग्रन्थों को वेद नहीं मानते, या जो वेद की आधुनिक 'विज्ञानवादी' व्याख्या करते हैं।
ग्रन्थ के मुख्य विषय हैं: वेद की अपौरुषेयता और शब्द की नित्यता, मन्त्र और ब्राह्मण दोनों का वेदत्व, आर्ष व्याख्या-पद्धति, और वेद पर आधुनिक आक्षेपों का उत्तर। मीमांसा-दृष्टि से वेद-प्रामाण्य पर हुई बीसवीं शताब्दी की बहस को समझने के लिए यह एक महत्त्वपूर्ण स्रोत है।
१५० वेदस्वरूप-विमर्शः
यदप्युक्तम्—"स्वाध्यायेन पुनःपुनरनुष्ठितेन प्राणापानयोरापेक्षिकं
साम्यं जायते। तदानीं स्थूलवायोः सूक्ष्मतासम्पत्तौ
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें[पृष्ठ १५२]
वेदस्वरूप-विमर्शः
सापेक्षा चिद्रूपापत्तिः सञ्जायते । न च मन्त्रमात्रेणैव अधिष्ठानसाक्षा-
त्कारोऽपीति
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१५४ वेदस्वरूप-विमर्शः
परमन्येषां रीत्या द्वादशोत्तर-पञ्चशतलवात्मकमेव मात्रायाः
स्वरूपम् । ततश्च मात्राया द्वादशोत्तर-पञ्चशततमो भाग
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें[पृष्ठ १५६]
१५६ वेदस्वरूप-विमर्शः
आविर्भावो भवति । अनात्मनि आत्माभिमानः शिथिलो जायते ।
अनेन क्रमेण देहादिषु दृढत्वेऽपगते कम्पाख्या तृतीया दशा आविर्भवति ।
देहतादात्म्यबोधस्य सम्यक्तया निवृत्त्यनन्तरं संविदोन्मुख्ये जायमाने
बाह्यवृत्तीनामुपरमात् आन्तरस्य कस्यचनानुभवस्य स्फुटमनुदयात्
योगनिद्राख्या तुरीयदशा समुन्मेषमुद्गच्छति । एतदुत्तरमेव चिदात्मनि
पूर्णा रूढिः सञ्जायते । तदा सममं विश्वमेव ब्रह्मरूपेण भासते,
चिदात्मकतया साक्षात्क्रियते च । अस्यां दशायामधिरूढस्य महायोगिनः
स्पन्दाख्याया महाशक्तेः तादात्म्यं भवति । एतदेव च महाव्याप्तिरिति
पूर्णेरिति शास्त्रेषु प्रसिद्धा तुर्यातीता परब्रह्मरूपा दशा । अस्यामवस्थितस्य
योगिनः सदैव
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२. द्वितीय परिच्छेद: मन्त्र-ब्राह्मण स्वरूप एवं आर्ष व्याख्या-पद्धति
: ३ :
वेदे ऐतिहासिकघटनादि-विचारः
यदुक्तम्—“पौराणिकभुवनकोशवर्णनप्रसङ्गे इतिहासादिप्रसङ्गे
च पुराणटीकाकारैः औदासीन्यं प्रदर्शितम् । एवं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंupa nitya, then why deny history?
"साम्येन इतिहासविलोपे..." or "इतिहासविलोपापक्षस्य" or "इतिहासविलोपोपक्षस्य"?
Wait! Look at the words:
"इतिहासविलोपे कस्य
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१६२ वेदस्वरूप-विमर्शः
यन्न स्वतन्त्रः । पुरुषास्वातन्त्र्यमात्रं चापौरुषेयत्वं रोचयन्ते
जैमिनीया अपि । तच्च अस्माकमपि समानम्, अन्यत्राभि-
निवेशात्' इति ।
एतेन मन्त्रेषु ब्राह्मणेषु च तास्ता आख्यायिका इतिहासाश्च वेदा-
पौरुषेयत्वाविरोधिनो ग्राह्या एव । तदभिप्रायेणैव सायणादीनां यथाश्रुतार्थ-
व्याख्यानम्, एकत्र निर्दिष्टस्य सिद्धान्तस्य सर्वत्र योजयितुं शक्यत्वात् ।
एतेन निरुक्ते (अ० २) - 'आर्ष्टिषेणो होत्रमृषिर्निषीदन् देवापि देव-
सुमतिं चिकित्वान्' इत्यादिषु देवापि-शन्तनु-प्रभृतीनां चरितं तत्तन्मन्त्र-
निदानत्वेन प्रस्तौति । बृहद्देवताकृत् शौनकोऽपि बहूनामृषीणां चरितानि
मन्त्रनिदानत्वेन बृहद्देवतायां स्पष्टमाचष्टे इत्यादिकमपि समाहितमेव ।
यत्तु - "वेदेषु सर्ववेतिहासानभ्युपगमे
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१६४ वेदस्वरूप-विमर्शः
श्रयणमन्तरा यत्किञ्चिदाश्रयणं समुत्तरणाय कुशकाशावलम्बनमेव ।
अत एव शङ्करभगवत्पादा अपि श्रीशबरस्वामिनः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१९६ वेदस्वरूप-विमर्शः
तदपि न; पौर्वापर्यानुरोधेन मन्त्रार्थस्य सायणेन अन्यथा व्याख्या-
तत्वात् । तथा हि—
'यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यन्ति ।
यो जागार तमयं सोम आह तवाह्मस्मि सख्ये न्योकाः ॥'
(ऋ० सं० ५.४५.१४)
भाष्यम्—यो देवः गृहे विनिद्रः, तम् ऋचा सर्वशाखात्मिकाः
कामयन्ते सामानि स्तोत्ररूपाणि यन्ति प्राप्नुवन्ति । अयमभिषुतः
सोम आह वक्ति—मां स्वीकुर्विति । तादृशस्य तव सख्ये समानख्याने
हितकरणो न्योकाः नियतस्थानः अहमस्मि भवामि ।
तथा च अग्नेर्जागार तमृचः कामयन्ते आहिताग्नीनां गृहे आहवनी-
यादिरूपेण अग्नेरेव विनिद्रतालक्षणं जागरणमुपपद्यते । सख्यहित-
करणो न्योकाः इत्यस्यापि निश्चितमोकः स्थानं यस्येति रीत्या नियत-
स्थानत्वमेव
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें.
It really looks like 'देवान्'!
Wait, then what is Word 3?
'पि' 'तु' 'ः' or 'पितृः'?
Word 4: 'पत्रित्रमिति' or 'पवित्रमिति'?
Word 5:
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंतेषां देवजनानां वा
[R18] अनीकं समूहरूपं चित्रमाश्चर्यकरं सूर्यमण्डलम् उदगात् उदयाचलं
[R19] प्राप्तमासीत् । तच्च मित्रस्य वरुणस्य अग्नेस्तदुपलक्षितानां
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें(स्वरूपाद्) - look at the bottom, there is 'द्' and 'व्य'!
द् + व्य = द्व्य!
त - ि - र - ि - क -् - त - म् - ए - व = व्यतिरिक्तमेव!
Yes!!
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१७४ वेदस्वरूप-विमर्शः
'आत्मा ह्यग्निः तदेतमेते उभे रसो भूत्वाऽपीतः । ऋक् च साम
च तदुभे ऋक्सामे यजुरपीतः ( शत० १०.१.१.६)
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१०६ वेदस्वरूप-विमर्शः
इह वेदविलक्षणशब्दाभिव्यञ्जिका वाग् इन्द्रियरूपैव संस्तुता ।
सापि प्राणरूपस्य इन्द्रस्य पत्नी । एवमन्यान्यपि तादृशानि श्रुति-
वाक्यानि । यथा-
'वाचं धेनुमुपासीत । तस्याश्चत्वारः स्तनाः- स्वाहाकारो वषट्कारो
हन्तकारः स्वधाकारः' इति ।
'स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयो वाङ्मयः प्राणमय'
इत्यत्रापि न वाय्वाकाशाद्युत्पत्तेः पूर्ववर्तिन्यः कश्चन कला विवक्षिताः ।
अयमात्माऽपरोक्षः । प्रत्यगात्माऽत्र विवक्षितः, 'यत् साक्षादपरोक्षात्'
इति तस्यैवापरोक्षत्वप्रसिद्धेः । तस्यैव च ब्रह्मरूपताऽपि युक्ता सर्वो-
पाधिनिरपेक्ष्याभिप्रायेण । तत्तदुपाधिवैशिष्ट्याभिप्रायेण तु विज्ञानमयो
मनोमयः वाङ्मयः प्राणमय इत्यादिव्यपदेशः, वागादीनां भौतिकत्व-
श्रवणात् ।
यदुक्तम्- 'ज्ञानञ्च क्रिया च अर्थश्चेति त्रीणि तत्त्वानि उपलभ्यन्ते
तदनुकूलं त्रयमेव कारणत्वेनाम्नायतें श्रुतिषु मनः प्राण वाच' इत्यादि ।
तदपि न क्षोदक्षमम्; मनआदीनां ज्ञानादिकारणत्वे सत्यपि तेषा-
मभौतिकत्वानुपपत्तेः । 'अन्नमयं हि सोम्य मनः आपोमयः प्राणस्तेजोमयी
वाग्' इत्यादि-छान्दोग्यश्रुतिविरोधात् शब्दमूलत्वात् सृष्टेरर्थस्य
वाङ्मूलत्वं वक्तुं शक्यते ।
कैश्चित्तु शब्दतन्मात्रमूलकत्वात् आकाशादिप्रपञ्चस्य शब्दमूलत्व-
मुच्यते । अन्यैस्तु-'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्'
'अतः कविर्नामसु यावदर्थः स्यादप्रमत्तो व्यवसायबुद्धिः' इत्यादिरीत्या
विकाराणां कारणातिरेकेणासत्त्वात् नामधेयमात्रत्वमुक्तम् । अन्यैस्तु-
स्फोटात्मकज्ञानस्यैव शब्दरूपत्वात् तदात्मकस्य ब्रह्मणो जगत्कारणत्व-
मेव शब्दस्य वाचो वा जगत्कारणत्वम् । अपरैस्तु-'ओमिति ब्रह्म'ति
रीत्या वाच्यवाचकयोः अभेदात् ओमात्मवागभिन्नब्रह्मकारणत्वमेव
जगतः, अर्थस्य वा वाक्कारणत्वम्, नादबिन्द्वादिरूपेण ब्रह्मतच्छक्तिरू-
पचिदचिन्मिश्राद्यवस्थारूपेण ब्रह्मण एव विवर्त इति । तदेतत्सर्वं
मञ्जूषादिषु स्पष्टमेव । निःश्वसितरूपत्वन्तु शब्दराशिरूपवेदे तद्गत-
मन्त्रब्राह्मणोपनिषदादीनामेवेति संक्षेपः ।
: २ :
यच्च वेदानाम्पौरुषेयत्व-परमेश्वरप्रणीतत्व-मनुष्यप्रणीतत्वपक्षाणां
समन्वयायोक्तम्- "वेदशब्दः तदवान्तरविशेषवाचका ऋग्यजुःसामाथर्व-
शब्दाश्च द्वेधा श्रुतिष्वेव व्यवहृताः-वैज्ञानिकार्थपराः, ज्ञानपराश्च ।
अव्ययपुरुषकलासु अन्यतमा वाक् ऋग्यजुःसामाथर्वरूपा; तद्धितान्तश्चैषां
शब्दानां वैज्ञानिकोऽर्थः । ज्ञानपरो वेदशब्दोऽपि ज्ञाने, तत्सम्बद्धे, शब्द-
समूहे ज्ञानविषयीभूतेषु लौकिकेषु अलौकिकेषु चार्थेषु व्यासज्यवृत्तिः ।
सर्वविध लौकिकाऽलौकिकार्थ विषयकं शब्दाभिव्यक्तिप्रयोजकम्, अभि-
व्यक्तशब्दप्रयोज्यं वा ज्ञानं वेदः । तादृशज्ञानविषयीभूतास्ते तेऽर्था
वेदः । तत्तज्ज्ञानानुवेधकः तत्तदर्थज्ञानप्रयोज्याभिव्यक्तिकः अभिव्यक्तः
संस्तत्तदर्थज्ञानप्रयोजको वा शब्दसमूहो वेदः । समुदाये प्रवृत्ताः शब्दा
अवयवेष्वपि प्रवर्तन्ते' इति न्यायेन केवले ज्ञाने केवले शब्दसमूहे, केवले
अर्थेष्वपि वेदशब्दप्रवृत्तिः । 'वेदनं वेदः, विद्यते (ज्ञायते) अनेन, वेद्यते
ज्ञाप्यते अनेनेति वा वेदः, वेद्यन्ते वा ये ते वेदाः' इति विभिन्नाभिः
व्युत्पत्तिभिः विभिन्नेष्वर्थेषु विभिन्ना वेदशब्दा वा अभ्युपगम्यन्ते ।
तत्र केवलज्ञानाभिप्रायेण प्रयुक्ते वेदशब्दे वेदस्य अपौरुषेयत्वम्,
ज्ञानस्य स्वरूपेण नित्यत्वात्, केनाप्युत्पादयितुमशक्यत्वाच्च । त एव
ईश्वररूपा वेदा इति शक्यं वक्तुम्, ईश्वरस्य ज्ञानरूपतायाः सर्वत्र
व्यवहृतत्वात् । ज्ञानविषयीभूतार्थाभिप्रायेण केवलार्थाभिप्रायेण वा
प्रयुक्ते वेदशब्दे ईश्वरनिर्मिता वेदाः, अर्थानां परमेश्वरनिर्मितत्वात् ।
तादृशस्य ज्ञानस्यापि महर्षिभिरीश्वरप्रसादेनैव लब्धत्वात् ।
तथापि तादृशज्ञानाभिप्रायेण ईश्वरनिःश्वसितं वेदाः, ज्ञानस्य नित्य-
त्वेन अर्थोपहितत्वमात्रस्य ईश्वरसम्पादितत्वेन प्रणीतत्वकथनस्यापि
सामञ्जस्यात् । निःश्वसितत्वं तु ततो निष्क्रान्तत्वमेव । तत्तदर्थपरत्वे तु
ईश्वरप्रणीता इति युक्तम् । ज्ञानानुविद्धशब्दसमूहाभिप्रायेण प्रयुक्ते
वेदशब्देऽपि शब्दनित्यत्ववादिनामपौरुषेया वेदाः । अनित्यत्ववादिनां
वे० वि० २
१०८ वेदस्वरूप-विमर्शः
तु ईश्वरप्रणीताः। पुरुषाणां तु न पश्यन्त्या वाच उत्पादने व्यापार
इत्युक्तमेव उपरिष्टात्।
अथ आदिश्वक्तॄणां ज्ञानप्रयोज्यशब्दसमूहाभिप्रायेण श्रोतॄणां ज्ञान-
प्रयोजकशब्दसमूहाभिप्रायेण वा प्रयुक्ते वेदशब्दे तु ऋषिप्रणीताः वेदाः,
ऋषिभिरेव ईश्वरप्रसादेन ज्ञानमवाप्य मन्त्र-ब्राह्मणात्मकशब्दसमूहस्य
प्रयुक्तत्वात्। तत्रापि शब्दनित्यतावादे वाक्यरचनाभिप्रायेण प्रणीतत्वम्,
अनित्यतावादे तु शब्दाभिप्रायेणापि, वाक्य-स्फोटवादिनां वाक्यनित्यता-
पक्षे तादृश-वाक्याभिव्यञ्जकप्रयत्नव्यञ्जिकर्तृत्वमात्रेण प्रणेतृत्वमिति।
तदपि पूर्वोक्तरीत्याऽसङ्गतमेव; मन्त्रब्राह्मणात्मकशब्दराशौ तद्विशेष-
नियताक्षरपद्य-गद्य-गीति-तन्मिश्रात्मकेषु ऋगादिष्वेव वेद-तद्विशेष-
शब्दानां सर्वत्र प्रयोगदर्शनेन उक्तसमुदायवाचकत्वाभावात्, अन्यत्र तु
प्रयोगस्य लाक्षणिकत्वात्।
यद्यपि 'वेदनं वेदः, विद्यतेऽनेनेति वेदः, वेद्यतेऽनेनेति वेदः, विद्यन्ते
वेद्यन्तेवा ये ते वेदा' इत्यादिद्व्युत्पत्तिभिः प्रत्यक्षादिप्रमाणेषु आलोकादि-
सहकारिकारणेषु घटादिव्यर्थेषु च वेदशब्दप्रयोगः प्रसज्यते, परं न तथा
शिष्टप्रयोगो दृश्यते। वेदशब्दस्य अनेके अर्था भवन्तु नाम, प्रकृते तु
रूढिर्योगमपहरतीति न्यायेन योगरूढार्थस्यैव शिष्टैः परिगृहीतत्वात्,
तत्रैव पौरुषेयत्वाऽपौरुषेयत्व-जीवेश्वर-कृतत्वाद्विना विप्रतिपत्तिरिति
ज्ञानाद्यंशेन अपौरुषेयत्वसमर्थनाभासो व्यर्थ एव, तत्र विप्रतिपत्तेरेवा-
भावात्। समुदाये प्रयुक्तस्य शब्दस्य तदवयवेषु प्रवृत्तिः रूढ्यर्थाभिप्राये-
णैव, 'पञ्चाल आगतः, ग्रामो दग्धः, ग्राम आगत' इति रूढशब्दानाम्
उदाहरणरूपेण ग्रहणात्। नात्र समुदाये वेद-शब्दस्य रूढिः, योगेन तु
सम्पाद्यतेऽनेकार्थता।
'त्रयो वेदाः, त्रयी विद्या, त्रयं ब्रह्म' इत्यादि-वेद-ब्रह्म-विद्या-शब्दा
अपि शब्दराशिपरा एव। न च शब्दे विद्याशब्दप्रयोगाभावः शङ्कनीयः;
"पञ्चाक्षरी-विद्या, पञ्चदशी, षोडशी विद्येत्यादौ मन्त्रेषु विद्याशब्द-
प्रयोगदर्शनात्, 'विद्यां जपेत्' इति शिष्टप्रयोगदर्शनाच्च। नहि 'वेदं
वेदस्वरूप-विमर्शः १०९
कृत्वा वेदिं करोति' इत्यादौ वेदशब्दस्य व्युत्पत्तिलभ्यास्ते तेऽर्था ग्रहीतुं
शक्याः केनापि, पारम्पर्यविरोधात्।
यदप्युक्तम्- "मन्त्रशब्दः शब्दोपदिष्टविज्ञाने रूढः शब्देऽपि प्रवर्तते"
इति। तदपि न युक्तम्; निष्प्रमाणकत्वात्। 'मन्त्रान् सम्प्राहुरित्यत्र तु
शब्दाभिप्रायेणैव तत्प्रयोगस्य युक्तत्वात्, तथैव शिष्टसम्मतत्वाच्च। न
च 'यदेतन्मण्डलं तपति तन्महदुक्थम्, 'मण्डलमेवर्च्ः', 'वाग्वा असा-
वादित्यः' इत्यादिषु तेषु तेषु वैज्ञानिकेष्वर्थेषु वागादिशब्दप्रयोगेण
अस्यैव समुदायवाचकतेति वाच्यम्; 'प्राणो वा अर्णवः, मनो वै समुद्रः'
इत्यादिष्वित् उपासनार्थमौपचारिकभेदप्रयोगस्यैव तत्र तत्रोक्तत्वात्। यथा
'प्राणो वा' इत्यादिना प्राणार्णवयोर्न भेदः, न वा अर्णवस्य प्राण-
शब्दवाच्यत्वं ज्ञायते, तथैव नोक्थादित्ययोः अभेदो न वा आदित्यस्य
उक्थादिशब्दवाच्यत्वम् 'वाग्वा' इत्यादिना विज्ञायते। किन्तु केनचिद्
योगेन
निर्विकल्पज्ञानस्य चेद्देदत्वं तर्हि पुराण-काव्यादिरूपत्वं कथं न भवेत्,
सर्वस्यैव निर्युक्तिकत्वात् । तत्तन्मन्त्रार्थविशिष्टस्य ज्ञानस्य वेदत्वरुचेत्
कुतस्तन्नित्यत्वम्, विशिष्टस्य सर्वस्यैव वेदान्तिनयेऽनित्यत्वाभ्युपगमात् ।
लौकिकालौकिकार्यविषयकविशिष्टज्ञानेषु वेदशब्दप्रयोगस्तु अनुपलम्भ-
पराकृत एव ।
यदप्युक्तम्—"तपोयोगादिनां परमेशप्रसादमवाप्य समाधौ तत्तत्-
स्वर्गापूर्वदेवतादिज्ञानं यज्ञ-स्वर्गादि कार्यकारणभावविज्ञानं च प्रत्यक्ष-
रूपमवाप्य महर्षिभिः मन्त्राः ब्राह्मणा ने च प्रकटीकृता.ने । तन्त्रेषु
मन्त्रेषु त एव ऋषिनाम्नापि स्मर्यन्ते । ब्राह्मणान्यपि तत्तदृषिनाम्ना
प्रसिद्ध्यन्ति । ते च मन्त्र-ब्राह्मणात्मका वेदाः शिष्य प्रशिष्यपरम्परायां
प्रकीर्गरूपेण प्रचरन्ति स्म कालेन । व्यासोपज्ञं तेषां संहित
१८२ वेदस्वरूप-विमर्शः
षाणामभूतानामपीणामेव वाचः, ऋषीणामेव प्रथमाविर्भूतत्वात्" इति । परं
सर्वमिदं कल्पनामात्रम् ; निर्विशेषब्रह्माव्यतिरिक्तस्य सर्वस्यैव कार्यत्वेन
भवदभिमतापौरुषेयत्वासम्भवात् 'एकमेवाद्वितीय'मित्यादिश्रुतिविरोधाच्च ।
ब्रह्मान्तर्गतत्वेऽपि स्वगतभेदापस्त्या न विरोधपरिहारसम्भवः । जीवाना-
मपि परमार्थतो ब्रह्मरूपतैवेति न तेन सद्वितीयतापत्तिः । न तथा प्रकृति-
तद्विकाराणां ब्रह्मणा मुख्याभेदस्तत्र, बाधसामानाधिकरण्ये 'योऽयं स्थाणुः
पुमानेषः इति बाधेनैव अभेदव्यवहारात् ।
न च उपनिषत्पुराणादिषु न वा तद्विचाररूपे ब्रह्मसूत्रे च तन्निर्णयः,
तेषां ब्रह्मभिन्नत्वे कार्यत्वम्, अभिन्नत्वे चिद्रूपता, प्राणादीनामचिद्रूपता-
वर्णनविरोधश्च । इन्द्रियरूपाया वाचो वेदलक्षणायाश्च तदधिष्ठात्र्या
[
१८४ वेदस्वरूप-विमर्शः
वस्तुतस्तु—'स्वाध्यायोऽध्येतव्यः' इति विधिना सार्थस्यैव स्वाध्याय-
पदवाच्य-वेदराशेः अध्ययनविधानात् तदर्थमेव पूर्वोत्तरमीमांसात्मकस्य
वाक्यशास्त्रस्य प्रवृत्तेश्च आचार्यपारम्पर्येणैव वेदस्वरूपग्रहणवद् वेदार्थ-
स्यापि ग्रहणौचित्यम्। यद्यपीदानीं पारम्पर्यविलोपो इव दृश्यते; तथापि
वसिष्ठ-मनु-व्यास-जैमिनि-कुमारिल-शङ्कर-मण्डन-पद्मपाद-तोटक-हस्ता-
मलक-वाचस्पति-सायणादिभिः पारम्पर्येणैव वेदांस्तदर्थांश्च अधिगंत्यैव
तदर्थसम्बन्धे किञ्चिदुदितं लिखितं वा। अतो मन्त्राणां ब्राह्मणानां श्रौत-
सूत्राणां पूर्वोत्तरमीमांसासूत्राणां यागोपासनादिपद्धतीनाञ्च अनुष्ठानपार-
म्पर्याणाञ्च एकरूप्येण संगतिर्भवति। व्याकरण कोशादिबलेनैव अर्थकरणे
तु शतधा सहस्रधा विरुद्धा अपि पण्डितप्रकाण्डैरनेके विस्मापका अर्थाः
कर्तुं शक्यन्त एव।
यदुक्तम्—'तदानीं भौतिकविज्ञानस्य अनाविर्भूतत्वाद् वैज्ञानिकेऽर्थे
तेषां भाष्यकाराणां दृष्टिर्न गता, इदानीन्तनानां विज्ञानसंस्कृतत्वात्
वैज्ञानिकार्थाविष्कारः संभवती'ति। तन्न; तथात्वे वेदस्य आधुनिक-
विज्ञानैरेव गतार्थत्वात् अनुपादेयत्वापत्तेः। किञ्च—यदि संशय-विपर्यया-
नास्कन्दितं यथार्थज्ञानमेव विज्ञानं तदा तु सायणादिभाष्यमपि विज्ञान
बोधकमेव भाष्यमिति वक्तुं शक्यत एव।
यदप्युक्तम्—"विभिन्नं वस्तुजातमखिलङ्गीकृत्य मूलान्वेषणक्रमेण
एकत्वपर्यन्तं गतिर्ज्ञानम्, एकं तत्त्वं निरूढं मत्वा क्रमेण तस्य अनन्त-
रूपताप्रतिपत्तिर्विज्ञानम्, विशिष्य ज्ञानं हि विज्ञानम्, विविधं ज्ञानं
विभेदेन ज्ञानं वा विज्ञानमिति प्रत्यक्षे प्रत्यक्षायिते वा स्फुटे प्रतिभासे
विज्ञानशब्दः प्रवर्तते। 'मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः'
इति कोषाद्दि'ति। तदंशत एव सत्यम्; मोक्षहेतुज्ञानेऽपि विज्ञानशब्द-
प्रयोगदर्शनात्। अत एव 'विज्ञानं शिल्पशास्त्रयोरित्यपि नैकान्तिकम्,
किन्तु प्रायिकमेव।
'तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः।'
इति बृहदारण्यके मोक्षहेतौ विज्ञानशब्दप्रयोगदर्शनात्। अन्यत्राप्युक्तम्—
वेदस्वरूप-विमर्शः १८५
'अविज्ञातं विजानतां विज्ञातमविजानताम्।' ( केनोपनिषद् )
'एवं मुनेर्विजानत आत्मा भवति गौतम।' ( काठके )
'विज्ञातारमरे केन विजानीयात्।'
'तद्विज्ञानेन परिपश्यन्ति धीराः।'
'वेदान्त-विज्ञान-सुनिश्चितार्थाः ।' ( इति मुण्डके )
'आनन्दो ब्रह्मेति व्यजानात्। ( तैत्तिरीयके )
'तद्धास्य विजज्ञाविति विजज्ञाविति।' ( छान्दोग्ये )
'भूमानं भगवो विजिज्ञासे।'
सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमनुविद्य विजानाति।'
'विज्ञातारमरे केन विजानीयात्।' ( बृहदारण्यके )
यथा 'सत्यं ज्ञानमिति ज्ञानपदं ब्रह्मपरम्, तथैव 'विज्ञानमानन्दं
ब्रह्म'ति विज्ञानपदमपि ब्रह्मपरम्।
'नहि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते।'
'तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः।' ( बृहदारण्यके )
'तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते।
सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति ॥' (सप्तशती)
'विबुद्धश्च भक्त्यैव कथोपनीतया प्रपेदिरेऽद्धोच्युत ते गतिं
पराम्' इति च। विबोधो विज्ञानमित्यनर्थान्तरम्।
वस्तुतस्तु—ब्रह्मसाक्षात्कारस्य अपरोक्षरूपत्वात् ब्रह्मज्ञानं प्रत्यक्ष-
ज्ञानमेव। तेन तत्र तत्र विज्ञानशब्दप्रयोग एव। अत एव 'ज्ञानं तेऽहं सवि-
ज्ञानम्' इत्यत्र ज्ञानपदेन शास्त्रार्थज्ञानं विज्ञानशब्देनापरोक्षज्ञान-
मेव विवक्षितम्। तेनैव 'तमेव विदित्वा', ऋते ज्ञानान्न मुक्तिः' इत्यादौ
तु ज्ञानशब्देनैव अपरोक्षज्ञानं विवक्षितम्, तस्यैव मोक्षहेतुत्वात्।
अत एव श्रीशङ्कराचार्यप्रभृतिभिः विज्ञानसहितमित्यस्य अनुभव-
युक्तमिति विवरणं कृतम्।
'नवैकादश पञ्च त्रीन् भावान् भूतेषु येन वै।
ईक्षेताथैकमप्येषु तज्ज्ञानं मम निश्चितम् ॥'
पृष्ठ १८४
१८४ वेदस्वरूप-विमर्शः
एतदेव हि विज्ञानं न तथैकेन येन तत् ।
स्थित्युत्पत्त्यप्ययान् पश्येद्भावानां त्रिगुणात्मनाम् ॥'
इति भागवत-वचनानामपि श्रीधरस्वामिभिः भेदन्निरसनपूर्वकमेकत्व-
दर्शनमेव विज्ञानमित्यर्थ उक्तः । तथा हि—यत् यदा एकेनानु-
गतान् एकात्मकान् भावान् पूर्वमैक्षत, ते तथा पूर्ववन्न पश्येत् । तदेकं
परमकारणं ब्रह्मव । तदा एतदेव विज्ञानमुच्यते । स्थित्युत्पत्त्यया-
नित्यत्वेन तदुत्पत्त्यादिमत्त्वेन तदनन्यत्वं समर्थ्यते, तेन नैकवाक्यताऽपि
छिद्यते, न वाऽध्याहारादिकम्, सिद्धस्यैव स्फुटीकरणात् ।
न चैवं 'ज्ञानं तेऽहं सविज्ञानमिति विज्ञानस्य अप्रधानतादर्शनं
विरुद्धयेत इति वाच्यम्; 'यज्ञेन विविदिषन्ति' इत्यादौ शाब्दन्यायेन
प्रत्ययार्थस्य प्राधान्येऽपि तेनापि ईप्सिततमत्वेन इष्यमाणवेदनस्य
प्राधान्यवत् ज्ञानस्याप्राधान्येऽपि तत्साध्यत्वेन तत्प्राधान्याविरोधात् ।
वेदान्तिनये महावाक्यादिभिः शब्दैरेव अपरोक्षता भवति । मनना-
दिभिस्तु प्रतिबन्धनिवृत्तिरेव । तदुक्तं संक्षेपशारीरके-
'पुरुषापराधमलिना विषया निरवद्यचक्षुरुदयापि यथा ।
न फलाय भर्तृ विषया भवति, श्रुतिसंभवापि तु तथात्मनिधीः ॥
पुरुषापराधविनिवृत्तिफलः सकलो विचार इति वेदविदः ।
पुरुषापराधविगमे तु पुनः..................................॥' इति ।
ज्ञानं विज्ञानमिति परोक्षापरोक्षभेदेन ज्ञानद्वैविध्योक्तिरपि न
विरुद्धयते । प्रसङ्गानुसारेण विज्ञानशब्दस्यार्थो यज्ञादिविविधज्ञानमपि
न विरुद्धयते । अपरोक्षज्ञानाभिप्रायेण लौकिकविद्यास्वपि विज्ञानपद-
प्रयोगे न विरोधः अपरोक्षप्रतिभासत्वस्य सर्वानुगतत्वात् । परोक्षरूपासु
विद्यासु तु ज्ञानवैविध्याभिप्रायेणैव विज्ञानपदप्रयोगोऽस्तु । हर्षादि-
शब्दवद् अनेकार्थतास्वीकारस्यापि अदोषत्वात् ।
ननु अनेकार्थतास्वीकारस्य मीमांसकैः कदर्थितत्वाद् विज्ञानशब्दस्य
क्रमिको विकास एव सिद्धयतीति चेन्न । 'औत्पत्तिकस्त्वर्थस्य शब्देन
सम्बन्ध' इत्यादिसूत्रे शब्दार्थतत्सम्बन्धानाम् औत्पत्तिकत्वाभ्युपगन्तुभिः
मीमांसकैः विकासस्य नितरां निरस्तत्वात् ।
पृष्ठ १८५
[R1] वेदस्वरूप-विमर्शः १८५
[R2] अध्यारोपस्य विज्ञानार्थत्वे तेनैव मोक्षः सिद्ध्येत, पूर्वोदाहृतश्रुतिषु
[R3] विज्ञानस्य मोक्षहेतुत्वश्रवणात् । यस्मात् अध्यारोपापवादसिद्ध-
[R4] मोक्षहेतुभूत-निर्विशेषतत्वप्रतिभासेऽपि विज्ञानशब्दो अकामेनाप्यभ्यु-
[R5] पेतव्यः सत्यनेकार्थत्वे विज्ञानशब्दस्य तत्तदाचार्याणां विविधोपयोगोऽपि
[R6] समजसा भवन्ति ।
[R7] निदर्शित-श्रुतिषु निर्विशेष-ब्रह्मसाक्षात्कारे निर्विशेषे ब्रह्मणि च
[R8] विज्ञानशब्दप्रयोगः प्रदर्शित एवेति तदन्यप्रमाणानि तदनुसारेणैव
[R9] नेयानि । अत एव बौद्धैः ज्ञानसामान्य एव विज्ञानशब्दः प्रयुज्यते । तावतैव
[R10] ते विज्ञानवादिन उच्यन्ते । जैनैस्तु अपरोक्षात्मक-सर्वज्ञज्ञानमपि ज्ञान-
[R11] शब्देनैव व्यवह्रियते ।
[R12] 'ज्ञायते विद्द्यतेऽस्मादिति ज्ञानम्, पिता' इति मेदिनी ।
[R13] 'ज्ञातेयं ज्ञातृत्वम्'—इत्यमरः ।
[R14] 'विज्ञान-ज्ञान । जानकारी । बुद्धि । प्रतिभा । विवेक । निपु-
[R15] णता । पटुता । लौकिक ज्ञान । काम-धन्धा । व्यवसाय । सङ्गीत ।'—
[R16] इति संस्कृतशब्दार्थ कौस्तुभः ।
[R17] 'विवेकविज्ञाने । शास्त्राचार्योपदेशजे, साक्षान्मोक्षफले, आत्म-
[R18] निश्चये । तत्त्वज्ञाने । शास्त्रे । मोक्षफलिकायां धियि । जीवेश्वरजगद्भेद-
[R19] भ्रमाधिष्ठानभूते, नित्यस्वप्रकाशे, सच्चिदानन्दरूपाद्वितीये, परमार्थसत्ये ।
[R20] आत्मानात्मसर्वपदार्थावबोधे । विज्ञानं ज्ञानकर्मणोरिति मेदिनी ।
[R21] विज्ञानं कार्मणे ज्ञाने, इति हेमचन्द्रः । संशयविपर्ययरहिते ज्ञाने ।
[R22] चिच्छक्तौ । विज्ञप्तिरूपे ब्रह्मणि । अपरोक्षे ज्ञानफले । ब्रह्मात्मैक्या-
[R23] नुभवे । विज्ञप्तौ । यज्ञादिधर्मकौशले । विवेकबुद्धौ । उपासने । शास्त्रार्थ-
[R24] विषयज्ञाने । शिल्पबुद्धौ । शिल्पकर्मणि ।'—इति शब्दार्थचिन्तामणिः ।
[R25] "ज्ञानं विशेषेण सामान्येन चावबोधः । 'मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं
[R26] शिल्पशास्त्रयोः इत्यमरः (१.५.६) । अस्यार्थः—मोक्षे शिल्पे शास्त्रे
[R27] च या धीः सा ज्ञानं विज्ञानञ्चोच्यते । एषा विशेषप्रवृत्तिः । अन्यत्र
[R28] घटपटादौ या धीः साऽपि ज्ञानं विज्ञानञ्चोच्यते । एषा सामान्या
[R29] प्रवृत्तिः । मोक्षे धीर्ज्ञानं विज्ञानञ्च, यथा-ज्ञानान्मुक्तिः । 'सा याचिता
वेदस्वरूप-विमर्शः (पृष्ठ १८८)
१८८ वेदस्वरूप-विमर्शः
च विज्ञानं तुष्टा ऋद्धि प्रयच्छति' । अन्यत्र यथा—'ज्ञानमस्ति समस्तस्य
जन्तोर्विषयगोचरे' इति । घटत्वप्रकारकज्ञानमिति केचित् । 'ये केचित्
प्राणिनो लोके सर्वे विज्ञानिनो मताः' इति ।'—इति शब्दकल्पद्रुमः।
'चतुर्दशानां विद्यानां धारणं हि यथार्थतः ।
विज्ञानमितरं विद्याद्येन धर्मो विवर्धते ॥
अधीत्य विधिवद्विद्यामर्थञ्चैवोपलभ्य तु ।
धर्मकार्यान्निवृत्तश्चेन्न तद्विज्ञानमिष्यते ॥
यथा संदेवो भगवान् विद्यते यत्र विद्यते ।
साक्षादेव महादेवस्तज्ज्ञानमिति कीर्तितम् ॥'
—इति कौर्मे उपविभागे १४ अध्याये ।
भौतिकविज्ञानवादिभिस्तु प्रमाणैर्ज्ञातस्य युक्तिभिः परीक्षितस्य
प्रयोगेणानुभव एव विज्ञानं मन्यते । न च वैदिकविज्ञानवादिनां प्राण-
वागादयः प्रयोगेणानुभवितुं शक्यन्ते, शब्दप्रमाणायत्तत्वात्तद्विज्ञानस्य ।
“यत्त जूः इति शब्दाभ्यां 'इलेक्ट्रोन-प्रोट्रोन' इति वैज्ञानिकप्रसिद्धे
तत्त्वे गृह्ये ते” इति कथनन्तु पशुनुकरणमेव ।
किञ्च—प्रत्यक्षं प्रत्यक्षाश्रितं वा ज्ञानमेव विज्ञानमिति रीत्याऽपि
वैदिकार्थज्ञानस्य न विज्ञानपदव्यपदेश्यत्वं संभवति, धर्मादितत्त्वस्य
शब्दैकसमधिगम्यत्वेन अपरोक्षत्वासंभवात् । वेदस्य दृष्टार्थपरत्ववर्णनं
तु भट्टपादैर्बहुधा खण्डितमेव—
'लोकायतिकमूर्खाणां नैवान्यत् कर्म विद्यते ।
यावत्किञ्चिद्दृष्टार्थं तद् दृष्टार्थं हि कुर्वते ॥
वैदिकान्यपि कर्माणि दृष्टार्थान्येव ते विदुः ।
अल्पेनापि निमित्तेन विरोधं योजयन्ति च ॥
तेभ्यश्चेत् प्रसरो नाम दत्तो मीमांसकैः कचित् ।
न च कश्चन मुञ्चेयुर्धर्ममार्गं हि ते तदा ॥
प्रसरं न लभन्ते हि यावत् कचन मर्कटाः ।
नाभिद्रवन्ति ते तावत्पिशाचा वा स्वगोचरे ॥
वेदस्वरूप-विमर्शः (पृष्ठ १८९)
वेदस्वरूप-विमर्शः १८९
कश्चिद् दत्तेऽवकाशो हि स्तोकेऽप्यालब्धजन्मभिः ।
जीवितुं लभते कस्तैस्तन्मार्गपतितः स्वयम् ॥
तस्माल्लोकायतस्थानां धर्मनाशनशालिनाम् ।
एवं मीमांसकैः कार्यं न मनोरथपूरणम् ॥' इति ।
नास्तिकतानिकरणायैव भट्टपादानां मुख्यः प्रयत्न आसीत् । यथा-
'प्रायेणैव हि मीमांसा लोके लोकायतीकृता ।
तामास्तिकपथे कर्तु मयं यत्नो मया कृतः ॥ इति ।
यदुक्तम्—"वेदेषु विज्ञानसारेव शैली दृश्यते, एकस्मात् मूलात्
परस्परायत्त-विलक्षणपदार्थघटितस्य उत्पत्तिः बहुधा प्रपञ्चिता । तत्त-
द्वस्तुधर्माश्च करतलामलकवद्विस्पष्टं ग्राहिताः । तस्माद्वैदिकं सर्वमपि
विज्ञानम् आत्मविज्ञानं ब्रह्मविज्ञानं धर्मविज्ञानं विज्ञानशब्देनैव
उपदेष्टुमर्हम्” इत्यादि । तत्सत्यम् ; विस्पष्टताऽभिप्रायेण तथात्वेऽपि
धर्माऽपूर्व-स्वर्गाद्यतीन्द्रियाणां पदार्थानां शास्त्रैकसमधिगम्यत्वेन करतल-
गतामलकवत् अपरोक्षत्वासंभवस्य उक्तत्वात् । मोक्षहेतु ज्ञानस्यापि
वैदिकत्वेन तस्य च भवदुक्तरीत्या विज्ञान-पदव्यपदेश्यत्वाभावाच्च ।
धर्मब्रह्मात्मकस्य वेदार्थस्य महता समारम्भेण वशिष्ठ-मनु-व्यास-जैमिनि-
शबर-शङ्कर-सायणादिभिः विवरणं कृतमेव । तेन तद्गौरवमपि स्फुटमेव ।
न चातीन्द्रियाणां पदार्थानामपि प्रत्यक्षतोपपादनमेव गौरवम् ;
तस्य भ्रमरूपत्वात् । शास्त्रतात्पर्यविदां शबरस्वामिनां कुमारिलभट्ट-
पादानां च वेदादिसकलशास्त्रपाण्डित्यप्राखर्यमपि तद्ग्रन्थपरिशीलना-
मतिरोहितमेव । परो