वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 93, कुल 237 में से
संदर्भ में पढ़ें१६२ वेदस्वरूप-विमर्शः
यन्न स्वतन्त्रः । पुरुषास्वातन्त्र्यमात्रं चापौरुषेयत्वं रोचयन्ते
जैमिनीया अपि । तच्च अस्माकमपि समानम्, अन्यत्राभि-
निवेशात्' इति ।
एतेन मन्त्रेषु ब्राह्मणेषु च तास्ता आख्यायिका इतिहासाश्च वेदा-
पौरुषेयत्वाविरोधिनो ग्राह्या एव । तदभिप्रायेणैव सायणादीनां यथाश्रुतार्थ-
व्याख्यानम्, एकत्र निर्दिष्टस्य सिद्धान्तस्य सर्वत्र योजयितुं शक्यत्वात् ।
एतेन निरुक्ते (अ० २) - 'आर्ष्टिषेणो होत्रमृषिर्निषीदन् देवापि देव-
सुमतिं चिकित्वान्' इत्यादिषु देवापि-शन्तनु-प्रभृतीनां चरितं तत्तन्मन्त्र-
निदानत्वेन प्रस्तौति । बृहद्देवताकृत् शौनकोऽपि बहूनामृषीणां चरितानि
मन्त्रनिदानत्वेन बृहद्देवतायां स्पष्टमाचष्टे इत्यादिकमपि समाहितमेव ।
यत्तु - "वेदेषु सर्ववेतिहासानभ्युपगमे
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें