वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 89, कुल 237 में से
संदर्भ में पढ़ें१५४ वेदस्वरूप-विमर्शः
परमन्येषां रीत्या द्वादशोत्तर-पञ्चशतलवात्मकमेव मात्रायाः
स्वरूपम् । ततश्च मात्राया द्वादशोत्तर-पञ्चशततमो भाग उन्मनाकालः ।
एतद्रीत्या महाबिन्दावेव कालाभावः । यस्य मन्त्रानुसन्धानं समाधि-
भावापन्नं भवेत् तस्यैव महाबिन्दुगभवः पुरुषार्थोपयोगी मनोरोधश्च
सम्भवति । तद्बलेनैव च चक्रषटकस्था वर्णशक्तयः बिन्दुभावमापद्यन्ते ।
परमेतत् सर्वं वैदिक तान्त्रिक तद्भिन्न-बौद्धाऽऽर्हतादिमन्त्रानुसन्धानेष्वपि
समानमेव योगक्षेमम् । वेदस्वरूपनिर्णये न किञ्चिदपि तेन निर्वहति ।
केवलं यथाकथञ्चित् प्रचरितेऽपि वेदस्वाध्याये केषाञ्चित् शैथिल्यमेव
जायते । तेनायं विचारो न वेदश्रद्धाविधायकः, किन्तु तदपनोदक एव ।
यदप्युक्तम्—"पश्यन्त्यादिभेदभिन्ना त्रिविधा वाक् स्थूला सूक्ष्मा