वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 95, कुल 237 में से
संदर्भ में पढ़ें१९६ वेदस्वरूप-विमर्शः
तदपि न; पौर्वापर्यानुरोधेन मन्त्रार्थस्य सायणेन अन्यथा व्याख्या-
तत्वात् । तथा हि—
'यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यन्ति ।
यो जागार तमयं सोम आह तवाह्मस्मि सख्ये न्योकाः ॥'
(ऋ० सं० ५.४५.१४)
भाष्यम्—यो देवः गृहे विनिद्रः, तम् ऋचा सर्वशाखात्मिकाः
कामयन्ते सामानि स्तोत्ररूपाणि यन्ति प्राप्नुवन्ति । अयमभिषुतः
सोम आह वक्ति—मां स्वीकुर्विति । तादृशस्य तव सख्ये समानख्याने
हितकरणो न्योकाः नियतस्थानः अहमस्मि भवामि ।
तथा च अग्नेर्जागार तमृचः कामयन्ते आहिताग्नीनां गृहे आहवनी-
यादिरूपेण अग्नेरेव विनिद्रतालक्षणं जागरणमुपपद्यते । सख्यहित-
करणो न्योकाः इत्यस्यापि निश्चितमोकः स्थानं यस्येति रीत्या नियत-
स्थानत्वमेव
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें