वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 90, कुल 237 में से
संदर्भ में पढ़ेंHere is the line-by-line transcription of the Sanskrit text from the provided image:
[पृष्ठ १५६]
१५६ वेदस्वरूप-विमर्शः
आविर्भावो भवति । अनात्मनि आत्माभिमानः शिथिलो जायते ।
अनेन क्रमेण देहादिषु दृढत्वेऽपगते कम्पाख्या तृतीया दशा आविर्भवति ।
देहतादात्म्यबोधस्य सम्यक्तया निवृत्त्यनन्तरं संविदोन्मुख्ये जायमाने
बाह्यवृत्तीनामुपरमात् आन्तरस्य कस्यचनानुभवस्य स्फुटमनुदयात्
योगनिद्राख्या तुरीयदशा समुन्मेषमुद्गच्छति । एतदुत्तरमेव चिदात्मनि
पूर्णा रूढिः सञ्जायते । तदा सममं विश्वमेव ब्रह्मरूपेण भासते,
चिदात्मकतया साक्षात्क्रियते च । अस्यां दशायामधिरूढस्य महायोगिनः
स्पन्दाख्याया महाशक्तेः तादात्म्यं भवति । एतदेव च महाव्याप्तिरिति
पूर्णेरिति शास्त्रेषु प्रसिद्धा तुर्यातीता परब्रह्मरूपा दशा । अस्यामवस्थितस्य
योगिनः सदैव सृष्टिसंहाराधिकारित्वेन परमेश्वर्यमुदेति । महाभावस्वरूपेयं
दशा वस्तुतो वाग्वृत्तीनामगोचरत्वादवर्णनीयैव” इति ।
तत्राप्युच्यते-केवलात्मस्वरूपावाप्तिः नाप्राप्तप्राप्तिः, किन्तु विस्मृत-
ग्रैवेयकमणिप्राप्तिरिव ज्ञानमात्रसाध्या प्राप्तप्राप्तिरेव । अज्ञानेन आरोपि-
तस्य अकैवत्यस्य ज्ञानेन निवृत्तिरेव कैवल्यप्राप्तिः । तेनैव देहात्मबोध-
बाधादिसर्वा अवस्था गतार्था भवन्ति । मुक्तानामेव कैवल्यमुपगतानां
सृष्टिसंहाराद्यधिकारिब्रह्मपमैश्वर्यमशास्त्रीयमेव, 'जगद्व्यापारवर्जमिति
बादरायणसूत्रविरोधात् ।
यच्च-“पश्यन्त्येव सूक्ष्मत्वेन परा वाक् । पश्यन्तीमतिक्रान्ता तद्भिन्न-
रूपा वा से"तिस्तु विचारस्तु व्यर्थ एव । सगुणनिर्गुणभेदेन परापरभेदेन च
द्विविधतया वर्णितस्यापि ब्रह्मणो यथैकत्वं न विरुद्धं तथैवैक प्रत्यवमर्शिनी
वाग् गुणभूमिरूपेणेत्य कदाचित् पश्यन्तीति कदाचित् परेति संज्ञया
उपवर्ण्यते । परन्तु वर्तते तत्रापि किञ्चिद्रहस्यमिति यथाऽनुभवं तन्नि-
वेद्यते । षोडशकले पुरुषे पञ्चदशकलानां परिणामशालित्वेऽपि षोडशीरूपा
एका चित्कला परिणामस्य साक्षिभूता परमासृतरस्वरूपा तिष्ठति । अस्यां
दृष्टस्वरूपायामधिकारो निवर्तते । इयं देवी वाक् योगिभिर्ज्ञानिभिश्च
द्रष्टृत्वेन निर्दिश्यते । अमृतरूपाया अस्या निरोधोऽपि न सम्भवति,
कुतस्तु विनाशः ? तथापि वक्तृविवक्षावशान्निरोधे व्यपदिश्यमाने महा-
बिन्द्वात्मक-निष्कलासनसमारूढं निष्कलं परमं तत्त्वं तत्त्वोत्तीर्णमपि
[पृष्ठ १५७]
वेदस्वरूप-विमर्शः १५७
परतत्त्वरूपेण उपवर्ण्यमानं नित्यलीलास्रोल्लासपरं स्वात्मनि साक्षा-
त्क्रियते । सामरस्यमुपगतमनादिमिथुनं वागर्थयुगलमेव निरञ्जनं
परब्रह्मपदमिति अद्वयविदां परिभाषाेभति ।
तत्राप्युच्यते-यद्यपि केषांचिद्ररीत्या पश्यन्त्येव परा भवति; तथापि
कार्यकारणोपाधिको भेवस्तु अभ्युपगन्तव्य एव । सगुण-निर्गुणयोः
परा-ऽपरयोश्च तादृग् भेदोऽभ्युपगम्यत एव । अत एव गुणभूम्युपाधि-
कत्वेन पश्यन्त्याः सोपाधिकत्वम्, तद्राहित्येन च परस्या निरूपाधिकत्व-
मपि आपेक्षिकं वर्णयितुं शक्यते । षोडशी चित्कला तु सर्वसाक्षिभूता
निरूपाधिकस्वरूपैव । दृश्यसत्त्वे तत्र द्रष्टृत्वव्यपदेशे सत्यापि वस्तुतो
दृशिरूपत्वमेव । 'स भगवः कस्मिन् प्रतिष्ठितः ? स्वे महिम्नि' इति
रीत्या अन्तिमाधारस्य निराधारत्वनेव, अन्तिममूलस्य अमूलत्वमिव च
सर्वावभासकस्य सर्वाधारस्य सर्वमूलस्य अनावारत्वा दिकमेव मुख्यम् ।
उपाधिविवक्षायामेव स्वे महिम्नि तस्याऽवस्थानन् । तत्रैव महाबिन्दात्मक-
निष्कलासनत्वकल्पनम् । तत्राभिव्यक्ते परस्मिन् तदारूढत्वव्यपदेशः ।
तस्मिन्नेव स्वात्मनि सामरस्यमुपगतत्वमनादिमिथुनत्वञ्च परिकल्प्यते ।
'आत्मरतिरात्मक्रीड आत्ममिथुन' इत्यादिश्रुतेस्तत्रैव पर्यवसानम् । चैतन्यं
पुरुषस्य स्वरूपमितिवत् त्रिकल्पारोपेण अभेदेऽपि भेदव्यपदेशसम्भवात् ।
यथाकथञ्चित् श्रौतमद्वैतसिद्धान्तं तान्त्रिकं शैवं शाक्तं वा मतमाश्रित्य
अंशतः विप्रतिपत्तावपि तत्त्वोत्तीर्णे परतत्त्वे सामञ्जस्यं सम्भवति ।
परं वेदस्वरूपनिरूपणे अस्य भागस्य न कोऽपि उपयोग इति तु निष्प्रपञ्च-
मेवेति संक्षेपः ।