सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

त्वमन्येषाम् स्यादिति वाच्यम् । सकलभाषामूलभूतसंस्कृतभाषाया आदिभाषात्वेन तादृश-
भाषाव्युत्पादकस्य स्वेतरभाषादिवेदाङ्गत्वे मानाभावात् । किञ्चात्र वेदशब्दस्य योगरूढत्वं,
तत्र तु केवलयौगिकत्वमिति विशेषात् । अपि चैतदुत्पत्तिसमयेऽनादेरपौरुषेयार्थतो नित्य-
स्यास्य सिद्धत्वात् । मूलवेदवत्तदङ्गस्यापि नव्यत्वेन कल्पनीयत्वाच्च ।
वेदप्रतिपाद्यः प्रयोजनवदर्थो धर्मः । भोजने प्रयोजने श्येनयागादौ च दोषवारणाय
पदत्रयमत्र लक्षणे बोध्यम् । ईश्वरेण वेद्यन्ते ज्ञाप्यन्ते धर्मार्थकाममोक्षा इति वेदः । अपौरुषेयं
वाक्यं वेद इति यावत् । यद्वेष्टप्राप्त्यनिष्टपरिहारयोरलौकिकमुपायं यो ग्रन्थो वेदयति स
वेदः । अलौकिकपदेन प्रत्यक्षानुमाने व्यावर्त्येते । अनुभूयमानस्रक्चन्दनवनितादेरिष्टप्राप्ति-
हेतुत्वमौषधसेवनादेरनिष्टपरिहारहेतुत्वं च प्रत्यक्षसिद्धम् । स्वेनानुभूयमानस्य पुरुषान्तरगत-
स्य च तथात्वमनुमानगम्यम् । नन्वेवं भाविजन्मगतसुखादिकमप्यनुमानगम्यमिति चेन्न ।
तद्विशेषस्यानवगमात् । न हि कोपि ज्योतिष्टोमादिष्टप्राप्तिः कलञ्जभक्षणवर्जनादनिष्टनिवृत्ति-
रित्यमुमर्थं वेदमन्तरेणानुमानसहस्रेणाप्यवगन्तुं शक्नोति । तस्मादुक्तलक्षणो वेद इति न
स वेद इति सिद्धम् । "प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुद्ध्यते । एवं विदन्ति वेदेन तस्मा-
द्वेदस्य वेदता" इत्यन्यत्र विस्तरः ।
ऋग्यजुश्च 'मन्त्रः' इत्युच्यते । मन्त्रा द्विविधाः-वैदिकाः, तान्त्रिकाश्चेति । वैदिकाश्च
द्विविधाः-प्रगीताः, अप्रगीताश्चेति । तत्र प्रगीताः सामानि । अप्रगीता द्विविधाः-छन्दो-
बद्धास्तद्विलक्षणाश्चेति । तत्र प्रथमा ऋचः । अन्त्या यजूंषि । नियतवर्णपदा ऋक् । ऋग्बा-
हुल्यवानृग्वेद इति यावत् । अनियतवर्णपदं यजुः । निगदो यजुर्विशेषः । ऋग्यजुषोर-
विवक्षया गानप्राधान्यवान् सामवेदः । ऋग्यजुषोरविवक्षया शान्तिकपौष्टिकप्राधान्यवानथ-
र्वणवेद इति विवेकः ।
विधिरर्थवादोऽनुवादश्च ब्राह्मणम् । तच्च "ब्राह्मणम्--अष्टविधम्--इतिहासः--पुरा-
णम्--विद्याँ--उपनिषदः--श्लोकाँः--सूत्राणि--व्याख्याँनानि--अनुँव्याख्यानानि" इति श्रीवि-
द्यारण्यैः तैत्तिरीयोपनिषट्टीकायां दीपिकायामुक्तम् । तत्र विधिर्नाम-अज्ञातार्थबोधकं
वाक्यम् । सविधिश्चतुर्धा--उत्पत्तिविधिर्विनियोगविधिरधिकारविधिः प्रयोगविधिश्चेति ।
कर्मस्वरूपमात्रबोधको विधिः--उत्पत्तिविधिः । अङ्गप्रधानबोधको विधिः--विनियोगविधिः ।
कर्मजन्यफलस्वाम्यको विधिः--अधिकारविधिः । प्रयोगप्रांशुभावबोधको विधिः, अङ्गानां
प्रयोगबोधको विधिर्वा--प्रयोगविधिः ।
पुनस्त्रिविधो विधिः--अपूर्वविधिर्नियमविधिः परिसङ्ख्याविधिश्चेति । प्रमाणान्तरेणाप्रा-
प्तस्य प्रापको विधिः-अपूर्वविधिः । पक्षप्राप्तानुवादको विधिः-नियमविधिः । इतरव्यावृत्तिफ-
लको विधिः-परिसङ्ख्याविधिः । अयं परिसङ्ख्याविधिः द्विधा-श्रोती, लाक्षणिकी चेति ।
अर्थवादः-प्राशस्त्यनिन्दान्यतरपरं वाक्यम् । स द्विविधः-विधिशेषः, निषेधशेषश्चेति ।
स त्रिधा--गुणवादानुवादभूतार्थवादभेदात् । प्रमाणान्तरविरोधे सत्यर्थवादः--गुणवादः ।

प्रमाणान्तरावगतार्थबोधकवादः-अनुवादः । प्रमाणान्तरविरोधतथाप्रसिद्धिहितार्थबोधको वादः-
भूतार्थवादः ।
विधिमन्त्रनामधेयनिषेधार्थवादादिमीमांसापूर्वकं वेदार्थनिर्णयः कार्यः । विधीनामनुष्ठान-
विधायकत्वेन, मन्त्राणामनुष्ठेयार्थस्मारकत्वेन, उद्भिदादिवाक्यानां नाम्ना विधेयार्थपरिच्छेद-
कत्वेन, निषेधानां विधेयार्थसंकोचकत्वेन, अर्थवादानां विधेयप्राशस्त्यसंपादकत्वेन--अर्थव-
त्त्वमिति दिक् ।
उपवेदाश्च चतुर्धा-क्रमेणाऽऽयुर्वेदधनुर्वेदगान्धर्ववेदतन्त्रभेदात् ।
अस्याः वेदराशेः षडङ्गानि, शिक्षा व्याकरणं छन्दो निरुक्तं ज्योतिषं कल्पश्चेति ।
"छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ।
शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्" इति शिक्षावचनात् । अत एव व्याकरणं
मुख्यमङ्गम् । सर्वस्य गात्रस्य शिरः प्रधानमित्यभियुक्तोक्तेः । मुखस्यैव प्रायः पुरुषभेदादिपरि-
चायकत्वदर्शनाच्च ।
तत्र-शिक्षा नाम-उदात्तानुदात्तस्वरितप्रचयाख्यस्वरह्रस्वदीर्घप्लुतानुनासिकाननुनासिकादिभे-
दभिन्नवर्णसमुदायात्मकपदपरिपाटीक्रमेण वेदशिक्षणप्रकारवान् नारदपाणिन्यादिमहर्षिकृतो
ग्रन्थः । "अथ शिक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् । साम सन्तानः"
इति श्रुतेः । किं च "गीती शीघ्री शिरःकम्पी तथाऽलिखितपाठकः । अनर्थज्ञोऽल्पकण्ठश्च
षडेते पाठकाधमाः ॥ ३२ ॥ माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः ॥ धैर्यं लयसमर्थं च षडेते
पाठका गुणाः ॥ ३३ ॥ मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । सवा-
ग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्" ॥ ५२ ॥ "आत्मा बुद्ध्या समेत्यार्था-
न्मनो युक्ते विवक्षया" ॥ ६ ॥ इत्याद्युक्तरीत्योच्चारणादेस्तदेकगम्यत्वात् । उच्चारणमर्थज्ञान-
पूर्वकमेवावश्यकमिति दिक् । तत्र निर्दुष्टतया शब्दोच्चारणे दोषज्ञानमन्तरा निर्दुष्टत्वज्ञानासम्भव
इति तादृशसंवृताद्यष्टादशदोषज्ञानं शिक्षाधीनमिति ज्ञेयम् । ते दोषाश्च-( १ ) संवृतः-
एकारादीनां संवृतत्वं दोषो, न त्वकारस्य । ( २ ) कलः-स्थानान्तरनिष्पन्नः । ( ३ )
ध्मातः-येन श्वासाधिक्याद्ध्रस्वोपि दीर्घ इव लक्ष्यते । ( ४ ) एणीकृतः-अविशिष्टः किमय-
मोकारोऽथवौकार इति सन्देहो यत्र । ( ५ ) अम्बूकृतः-योऽव्यक्तोप्यन्तर्मुखो दृश्यते ।
( ६ ) अद्धिकः-दीर्घोपि ह्रस्व इव । ( ७ ) ग्रस्तः-जिह्वामूले निगृहीतः । ( ८ ) निरस्तः-
निष्ठुरः । ( ९ ) प्रगीतः--सामवदुच्चारितः । ( १० ) उपगीतः--समीपस्थवर्णान्तरगीत्या-
ऽनुरक्तः । ( ११ ) क्षित्रणः--कम्पमान इव । ( १२ ) रोमशः--गम्भीरः । ( १३ ) अविल-
म्बितः--वर्णान्तरासम्भिन्नः । ( १४ ) निर्हतः--रूक्षः । ( १५ ) विकम्पितः--स्पष्टोऽर्थः ।
( १६ ) सन्दष्टः--वर्द्धित इव । ( १७ ) द्रुतम्--स्पष्टोऽर्थः । ( १८ ) विकीर्णः--
वर्णान्तरप्रसृतः-- एकोऽप्यनेकनिभः इति । ताश्च शिक्षाः द्वात्रिंशत्संख्याका मुद्रिताः
शिक्षासंग्रहनाम्ना ।

( ६ ) लघुत्रिमुनिकल्पतरुः ।
छन्दो-नाम-लौकिकवैदिकशब्दान् छन्दयति नियमयतीति पादयतिविरामादिव्यवस्थापकः
पिङ्गलादिमहर्षिप्रणीतो ग्रन्थः । गायत्र्या यजतीत्यादिविध्यादौ निर्णयायोपयुज्यते । तद्भेदाश्च
प्रस्तारादिना नानेत्यादिकं तत एवावधार्यम् ।
ज्योतिषं नाम-लोकवदेव सूर्यचन्द्रादिज्योतिराश्रित्य तत्तद्देशशास्त्रविहितकर्मानुष्ठानकाल-
निर्णयायाध्ययनाध्यापनादिविधिनिषेधकालनिर्णयाय गरुडचयनादौ गणितज्ञानायाऽऽपदादिषु
होराप्रश्नस्कन्धद्वारा फलादेशादिप्रतिपादनाय कृतो ग्रन्थः । परं तु ऋग्वेदाङ्गज्योतिषं षट्त्रिंशच्छ्लो-
क्यात्मकमिति विशेषः । वेदाङ्गज्योतिषग्रन्थस्य टीका सोमाकरकृतास्ति । तत्र टीकान्त्यभागे
“शेषकृतयजुर्वेदाङ्गज्योतिष” इत्युल्लेखाद्भेदभेदेन तदङ्गज्योतिषमपि भिन्नमिति ज्ञायते । तत्र
यजुर्वेदाङ्गज्योतिषमृग्वेदाङ्गज्योतिषापेक्षयाऽभिन्नमेव । प्रायः । तत्रर्ग्वेदाङ्गज्योतिषस्था एव त्रिंश-
च्छ्लोक्या यजुर्वेदाङ्गज्योतिषे कचिद्वृत्तमात्रेण भिन्नाः । अर्थेन त्वभिन्ना एव दृश्यन्ते । तथा
त्रयोदश ग्रन्थास्ततोधिका दृश्यन्ते । ऋग्यजुर्वेदाङ्गज्योतिषयोस्संहत्य ग्रन्था एकोनपञ्चाशत्स्युः ।
अथर्वणवेदाङ्गज्योतिषं त्वेतदुभयापेक्षया विलक्षणमेव । वेदाङ्गज्योतिषाचार्यश्च “लगधः”
इति “पञ्चसंवत्सरमयं युगाध्यक्षं प्रजापतिम् । दिनर्त्वयनमासाङ्गं प्रणम्य शिरसा शुचिः ॥ १ ॥
प्रणम्य शिरसा कालमभिवाद्य सरस्वतीम् । कालज्ञानं प्रवक्ष्यामि लगधस्य महात्मनः”
इति तदादावुक्तेः । मलयाळदेशे “लगडाचार्यः” इत्यपि देशभेदेनोच्चारणभेदो दृश्यते ।
कल्पो नाम-बोधायनापस्तम्बाश्वलायनादिमहर्षिप्रणीत एकशाखायां भिन्नभिन्नप्रकरणोक्त-
मन्त्राणां न्यायलभ्यशाखान्तरस्थानां च मन्त्राणां प्रयोगक्रमकल्पको ग्रन्थः । ते च बहवः ।
तथापि कानिचित्प्रदर्श्यन्ते नामभिः--
तत्र पूर्वसूत्राणि नव— अपरसूत्राणि नव—
१ अग्निवेश्यसूत्रम् । १ वैखानससू०
२ बोधायनसूत्रम् । २ शौनकीयसू०
३ आपस्तम्बसूत्रम् ! ३ भारद्वाजसू०
४ सत्याषाडसूत्रम् । ४ अग्निवेश्यसू०
५ द्राह्यायणसूत्रम् । ५ जैमिनीयसू०
६ अगस्त्यसूत्रम् । ६ अमाथुन्यसू०
७ शाकल्याश्वलायनसूत्रम् । ७ माध्यन्दिनसू०
८ शाम्भवीयसूत्रम् । ८ कौण्डिन्यसू०
९ कात्यायनीयसूत्रम् । ९ कौषीतकिसू०
इत्यष्टादश सूत्राणि स्मृतिमुक्ताफले आचारकाण्डे स्मृतिकर्तृनिरूपणप्रकरणे वैद्यनाथदीक्षितै-
र्यथोक्तानि तथात्र प्रदर्शितानि । एतेषां श्रौतस्मार्तधर्मादिभेदेन बहवोऽवान्तरभेदाः ।
व्याकरणं नाम-अर्थविशेषमाश्रित्य स्वरप्रकृतिप्रत्ययादिविशेषादीन्विद्वत्पदखण्डार्थविशेष-
ज्ञापकः विशेषेण संस्कारविशेषेण आसमन्ताद्वैदिकाँल्लौकिकांश्च शब्दान्करोति तथाभूतम्

पूर्वभागः । ( ७ )

पाणिन्यादिमहर्षिप्रणीता ग्रंथराशिः । तच्च नवविधम् “—ऐन्द्रं चान्द्रं काशकृत्स्नं कौमारं शाक-
टायनम् । सारस्वतं चापिशलं शाकलं पाणिनायकम” इति श्रीतत्त्वनिधावुक्तेः “ सोयं नवव्या-
करणार्थवेत्ता” इति श्रीवाल्मीकीयरामायणे उक्तेश्च । न चेदमप्रमाणम् । हनुमत्समये पाणिन्यादेर-
नुत्पत्तेरिति वाच्यम् । अत एव पूर्वपूर्वयुगीयपाणिनीयव्याकरणादीनां सत्त्वानुमानात् । “धाता
यथापूर्वमकल्पयद्” इति श्रुतेः ।
( १ ) तत्र-ऐन्द्रं व्याकरणं श्रुत्योद्घुष्यते—“वाग्वै पराच्यव्याकृता अवदत् ॥ तं देवा
इन्द्रमब्रुवन् । इमं नो वाचं व्याकुर्विति । सोऽब्रवीत् । वरं वृणै । मह्यं चैवैष वायवे च सह
गृहातादिति । तस्मादैन्द्रवायवस्सह गृह्यते । तामिन्द्रो मध्यतोऽपक्रम्य व्याकरोत् । तस्मा-
दियं व्याकृता वागुच्यते” इति । इयं श्रुतिरिन्द्रस्य व्याकरणकर्तृत्त्वपरत्वेन श्रीविद्यारण्या-
चार्यैर्व्याख्याता ।
( २ ) चान्द्रमार्षग्रन्थेष्वन्वेषणीयम् । “ चान्द्रास्तु आमोदरकुक्षिविति पेठुः” इत्यादिना
स्पष्टमनुमातुं शक्यते तत्सत्ता ।
( ३ ) काशकृत्स्नं व्याकरणं पतञ्जलिना “ शैतोर्चे ष्ठन्यता—” इत्यत्र नाम्ना उक्तम् ।
( ४ ) कौमारं त्वाग्नेयपुराणन्त्यभागे । एतत्पाणिनिकृतं प्रातिशाख्यसूत्रमेव तदित्यन्ये ।
( ५-६ ) सारस्वतं, शाकटायनमृक्तन्त्रव्याकरणाख्यं चाधुना मुद्रितान्युपलभ्यन्त
एव सर्वत्र भरतखण्डादौ ।
( ७-८ ) आपिशलं, शाकलं च; पाणिनिसूत्रेषु तत्रतत्र तन्नाम्नोरनुवादात्ते बभूवतुरि-
त्यनुमीयते ।
( ९ ) पाणिनीयं व्याकरणं चाधुना मुद्रितं सर्वत्रोपलभ्यत एव ।
एवम् “ अवङ् स्फोटायनस्य” इत्युक्तेः स्फोटायनव्याकरणं, कात्यायनेन “पौष्करसादेः”
इत्युक्तेः पौष्करसादिव्याकरणं, “विन्दतिश्चान्द्रदौर्गादेः” इत्युक्तेर्दौर्गव्याकरणम्, “व्याघ्रमूत्यादय-
स्त्वेनम्” इत्याद्युक्तेर्व्याघ्रभूतिव्याकरणादिकमप्यासीदित्यनुमीयते । श्रीमत्पण्डितम्याक्सिमूलर्कृतं,
भोजकृतं, व्याकरणं श्रीमण्डारकरकृतमार्गोपदेशिकादिव्याकरणं च सुलभमेव । एवमाशुबोधव्याक-
रणं जैनेन्द्रव्याकरणं कातन्त्रव्याकरणं च ।
नन्वेवं सत्स्वेतेषु बहुषु व्याकरणेष्वन्यतमस्य यस्य कस्य वा वेदाङ्गत्वमास्तामिति चेन्न ।
इच्छया नियममन्तरा कस्याप्यर्थनिर्णयस्यायुक्तत्वात् । एकस्यैव शब्दस्य व्याकरणभेदेन साधु-
त्वासाधुत्वयोरापत्तेश्च । तस्मात्सर्वलौकिकालौकिकशब्दव्युत्पादकस्य पाणिनीयव्याकरणस्यैव
वेदाङ्गत्वमभ्युपगमस्स्यात् । व्याकरणान्तरे तु सर्वेषां लौकिकालौकिकशब्दानां न व्युत्पादनम् ।
“इदमक्षरं छन्दो वर्णशास्तमनुक्रान्तं ब्रह्माबृहस्पतये प्रोवाच । बृहस्पतिरिन्द्राय, इन्द्रो भरद्वा-
जाय, भरद्वाज ऋषिभ्यः, ऋषयो ब्राह्मणेभ्यः । तं खल्विममक्षरसमाम्नायमित्याचक्षते न
मुक्त्वा न नक्तं ब्रूयाद्वक्षरराशिः” इति ऋक्तन्त्रव्याकरणोक्तरीत्याक्षररूपस्यास्य चतुर्दशसूत्रकद-
म्बस्याम्नायत्वमिति तन्मूलकत्वाच्च । अत एवास्य ज्ञाने सर्ववेदपारायणजं पुण्यमित्युक्तम् । छान्दो-

( ८ ) लघुत्रिमुनिकल्पतरुः ।

ऽयेऽपि व्याकरणं ( चतुर्दशसूत्ररूपम् ) उपक्रम्य वेदानां वेद इत्युक्तम् । किं च “कृते तु
मानवा धर्मास्त्रेतायां गौतमाः स्मृताः । द्वापरे शङ्खलिखिताः कलौ पाराशरास्मृताः” इति
वचनेनाऽऽचारव्यवस्थावच्छब्दसाधुत्वासाधुत्वव्यवस्थाया अपि पाणिनिकृताया एवाभ्युपेयत्वात् ।
अत एव पराशरोपपुराणे-“पाणिनीयं महाशास्त्रं पदसाधुत्वलक्षणम् । सर्वोपकारकं ग्राह्यं कृत्स्नं
त्याज्यं न किंचन' इत्युक्तं संगच्छते । अत एव “शताच्च ठन्यतावशते” इति सूत्रे शाकलका-
शकृत्स्नव्याकरणान्तरस्थं “ शताच्च ठन्यतावग्रन्थे ”इति सूत्रमुपन्यस्य तन्मते शत्यश्शतिको वा
गोसंघ इति साधुः । पाणिनिमते तु शतको गोसंघ इत्येव साधुरिति व्याकरणयोर्विरोधमु-
पन्यस्य नियतकालाश्च स्मृतयो व्यवस्थाहेतवो भवन्ति । “कलौ पाराशरास्मृताः” इतिवन्मु-
नित्रयमतेनैवाऽद्यत्वे साध्वसाधुप्रविभाग इत्युक्तं भाष्यकैयटयोः । यथोत्तरम् मुनीनां प्रामाण्याच्च ।
अत एव “न बहुव्रीहौ” इत्यत्र महाभाष्ये त्वत्कपितृक इत्यस्यैव साधुत्वं, न त्वत्कत्पितृक इत्य-
स्येति स्पष्टम् । एतद्व्याकरणमूलभूतचतुर्दश सूत्राणि भगवता परमकारुणिकेन महेश्वरेण पाणिनये
उपदिष्टानि । अत एव “ नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम् (१४)। उद्धर्तु-
कामस्सनकादिसिद्धानेतद्विमर्शे शिवसूत्रजालम् ” इति नंदिकेश्वरकृतकाशिकायामुक्तं, “ येना
क्षरसम्नाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तम् ” इत्युक्तं च संगच्छत इति दिक् ।
ननु पदपदार्थनिर्णायकत्वेन व्याकरणस्योक्तं वेदाङ्गत्वम् । तत्र व्याकरणस्थपदपदार्थनिर्णायकं
किमिति चेत्तत्रान्यत्तत्रान्यदित्यनवस्थेति चेन्न । वेदार्थनिर्णायकं मुख्यमङ्गमिदमेव । व्याकरणे
तन्निर्णायकं तु काव्यकोशादिकम् । तत्र चोपदेशपरम्परेत्यदोषादिति दिक् ।
निरुक्तं नाम-व्याकरणस्यैव परिशिष्टमिति वक्तुं युक्तम् । वैदिकाश्शब्दा निश्शेषेणोच्यन्तेऽर्था-
दिन्निर्णयेनेति तथाभूतः यास्कप्रणीतो ग्रन्थः । स चाष्टादशाध्यायात्मकः । तत्रान्तिमौ द्वाव-
ध्यायौ परिशिष्टशब्देनोच्येते । चतुर्दशाध्यायानां खण्डानि ( ४८० ) एकेषां मते । अन्यमते
( ४४८ ), ततः परस्य मते ( ४४३ ) इति ज्ञेयानि । नैघण्टुककाण्डस्य पञ्चाध्यायाः,
नैगमकाण्डस्य षडध्यायाः, दैवतकाण्डस्य षडध्यायाः, परिशिष्टस्यैकोऽध्यायः इत्यष्टादशाध्याया
अत्र ज्ञेयाः । उदाहरणरूपं वेदवाक्यं निगमः । एतद्भाष्यं स्कन्दस्वामिना कृतम् । नैघण्टुक-
काण्डे षष्ठाध्यायादि जम्बूमार्गाश्रमवासिदुर्गाचार्यकृतमृज्वर्थाख्यव्याख्यानं मुद्रितमेव । अत्रिगोत्र-
देवराजयज्वकृतनैघण्टुककाण्डस्य निर्वचनाख्यव्याख्यानमादौ पञ्चमाध्यायान्तमस्ति । क्षीरस्वाम्य-
नन्ताचार्येण निघण्टुव्याख्या कृतेत्युल्लेखः क्वचिद्दृश्यते । निघण्टुपदेनायमन्यो वा लौकिक इति
विचार्यम् । प्राय इदमेव भवेत् । यतोस्य नाम बहवो ग्रन्थकारास्स्वग्रन्थेषूल्लङ्कयन्ति ।
तस्यास्य व्याकरणस्य को विषयः, किं प्रयोजनम्, अधिकारी कः, सम्बन्धश्च कः इति
चेत्तत्राहुः-वैदिका लौकिकाश्च शब्दाः विषयाः । तज्ज्ञानं प्रयोजनम् । तज्जिज्ञासुरधीतकाव्य-
कोशादिरधिकारीति ज्ञेयम् । तान्यष्टादशप्रकाराणि- १ वेदरक्षा, २ ऊहः, ३ आगमः, ४
लाघवम्, ५ असन्देहः, ६ म्लेच्छताऽसम्पत्तिः, ७ स्वरवर्णदोषराहित्यम्, ८ सार्थकवेदज्ञा-
नम्, ९ सुशब्दापशब्दज्ञानयोर्धर्माधर्मज्ञानम्, १० प्रत्यभिवादे नाम्नि प्लुतज्ञानम्, ११

पूर्वभागः । ( ९ )

विध्यादिवाक्यघटकविभक्तिपदार्थादिज्ञानम्, १२ पदाक्षरादिविभागज्ञानम्, १३ चतुर्विधपदजात-
कालव्यङ्ग्यव्यञ्जकविभक्तिस्थानभेदज्ञानम्, यद्वा सकलपदजातज्ञानम्, १४ वाग्विस्तारसम्पत्तिः,
१५ असाधुशब्देभ्यो विविच्य सुशब्दज्ञानम्, १६ अपशब्दप्रयोगजन्यप्रत्यवायपरिहारकप्राय-
श्चित्ताभावः, १७ नामकरणेषु विहितनामस्वरूपज्ञानम्, १८ सर्वविभक्त्यन्तानां सम्यगुच्चार-
णमिति । एतद्व्याख्यानं महाभाष्ये विस्तृतम् । तथापि किञ्चिन्निरूप्यते । तद्यथा-( १ ) भद्रं
कर्णेभिरित्यादौ लोकविलक्षणस्य कर्णेभिरित्यस्य "बहुलं छन्दसि" इति व्याकरणेन साधु-
त्वम् । ( २ ) अग्नये त्वा जुष्टं निर्वपामीत्यादौ सूर्योद्देश्यताकत्वविवक्षायां सूर्याय त्वा जुष्टं
निर्वपामीत्याद्यूहो व्याकरणेन सिध्यति ( ३ ) विश्वेदेवासः इत्यादौ "आज्जसेरसुक्" इत्यसु-
गागम इत्यादिकं व्याकरणेन सिध्यति । ( ४ ) ब्राह्मणस्याध्यापनं धर्मः । तच्चाध्यापनं वैदुष्या-
यत्तम् । तच्च शब्दार्थादिषु साध्वसाधुत्वप्रतियोगिकभेदज्ञानाधीनम् । तच्च शब्दादीनां प्रतिपद-
पाठादिना दुःशकम् । शब्दादीनामानन्त्यात् । तस्मादुत्सर्गापवादाद्यनुगमकलक्षणेनैव तज्ज्ञानं
साध्यम् । तेन लाघवमपि । अत एव महाभाष्ये "बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिप-
दोक्तानां शब्दानां शब्दपारायणं प्रोवाच । नान्तं जगाम । इन्द्रश्चाध्येता । बृहस्पतिर्वक्ता ।
दिव्यं वर्षसहस्रमध्ययनस्य कालः । न चान्तं जगाम" इत्युक्तम् । शब्दपारायणम्-योगरूढ्या
तदाख्यशास्त्रविशेष इति कैयटः । एवं च प्रतिपदपाठस्य दुश्शकत्वप्रतिपादकोऽयमर्थवादः ।
( ५ ) "स्थूलपृषतीमनड्वाहीमालभेत", "इन्द्रशत्रुर्वर्धस्व" इत्यादौ बहुव्रीहिस्तत्पुरुषो वेति
सन्देहे पूर्वपदप्रकृतिस्वरेण बहुव्रीहिरिति तु व्याकरणेन सिध्यति । ( अत्रेयमाख्यायिका ) पुरा
किल त्वष्टुर्ब्रह्मणः पुत्रे इन्द्रेण निहते विश्वरूपवधात्कुपितेन त्वष्ट्राऽऽरब्धे वीन्द्रे सोमेऽनपहूतेनैवे-
न्द्रेण पीतस्य सोमस्यावशेषं दृष्ट्वा क्रुद्धस्त्वष्टेन्द्रहन्तृवृत्राख्यपुत्रोत्पादनायाऽभिचारिकं यियक्षमाणः
आहवनीयमुपप्रावर्तयत्स्वाहेन्द्रशत्रुर्वर्धस्वेति । ततो वृत्र उदभूदिति श्रूयते तैत्तिरीयसंहिता-
याम् । तदेतच्छ्रुत्वा भीत इन्द्रः ब्रह्मलोकं गत्वा सरस्वतीं तुष्टाव । ततोनुकम्पया सरस्वती
[L22

( १० ) लघुत्रिमुनिकल्पतरुः ।
( ८ )—“स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् । योऽर्थवित्स-
कलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा” इति “यदधीतमविज्ञातं निगदेनैव शब्द्यते ॥
अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित्” “अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः ”
इति च भाष्यादावुक्तरीत्यार्थज्ञानमन्तरा वेदानुपूर्वीज्ञानस्य निरर्थकत्वोक्तेरर्थज्ञानमावश्यकम् ।
तच्च व्याकरणाध्येतुः प्रकृतिप्रत्ययार्थज्ञानेन सुसाध्यं, नान्यस्य । अत एव “वेदार्थज्ञो जपं
जप्त्वा तथैवाध्ययनं द्विजः । कुर्वन्स्वर्गमवाप्नोति नरकं तु विपर्यये” इति व्यासेनोक्तम् ।
( ९ )—एकस्यापशब्दस्य भूयांसोऽपशब्दाः । संस्कृततदतिरिक्तभाषाशब्दादयः इति
यावत् तत्प्रयोगेण दुष्यति । एकस्य सुशब्दस्य प्रयोगे तु न तथा दुष्यति । अनन्तफलमप्या-
प्नोति तद्दोषप्राप्तिपरिहारो व्याकरणेनैव सिध्यत्यनन्तफलप्राप्तिश्च । तदेतदुच्यते “यस्तु प्रयु-
ङ्क्ते कुशलो विशेषे शब्दान्यथावद्व्यवहारकाले । सोऽनन्तमाप्नोति फलं परत्र वाग्योगविद्दुष्यति
चापशब्दैः” इति ।
( १० )—प्रत्यभिवादे गुर्वादिभिः स्त्रीभिन्नैः प्लुतः कार्य इति विधिरस्ति । तच्च व्याकरण-
ज्ञानाधीनम् ॥
( ११ )—“प्रयाजाः सविभक्तिकाः कार्याः” इति विधिवाक्यानुसारेण तत्र वाक्येषु तत्त-
द्विभक्त्यन्तघटिततयोच्चारणं व्याकरणेनैव सिध्यति ।
( १२ ) साच्कव्यञ्जनरूपाक्षरज्ञानं पदज्ञानं वाक्यज्ञानं च व्याकरणज्ञानाधीनम् ।
( १३ )—यत्र नामाख्यातोपसर्गनिपातरूपचतुर्विधपदज्ञानं, भूतभविष्यद्वर्तमानतदवान्तराद्य-
तनानद्यतनकालज्ञानं, व्यङ्ग्यव्यञ्जकशब्दज्ञानं सप्तविभक्तिज्ञानं तत्तद्वर्णिनामुरःकण्ठशिरोरूपस्थान-
त्रयज्ञानं तत्र मनुष्ये शब्दः प्रविश्य तथा प्रकाशमापेदे इति ज्ञानं व्याकरणज्ञानाधीनम् ।
तत्रेयं श्रुतिः—“चत्वारिवाग्-.” इत्यादि । अथ वा “परापश्यन्ती मध्यमा वैखरी” इति
चतस्रो वाचः । तत्र तिस्रो गुहायां मूलाधारस्वाधिष्ठानमणिपूरकाख्येषु स्थानेषु क्रमेण सन्ति ॥
तुरीयां वैखर्याख्यां वाचं मनुष्या मुखेनोच्चारयन्तीत्यर्थः । एवं च वर्णानामुत्पत्तिवृद्ध्यादिक्रमो
व्याकरणाधीनः ।
( १४ )—बहूनामपि समानपृष्ठोदरपाणिपादानां वेदवेदाङ्गादिकमधीयमानानां स्वभ्यस्ता-
ध्ययनोपि सूक्ष्मबुद्धिरपि कश्चित्पदशः प्रकृतिप्रत्ययविभागेन विगृह्यार्थेनैनां न पश्यति न
जानाति वाचम् । अर्थपरिज्ञानमेव हि वाचां फलम् । एकः शृण्वन्नपि न शृणोत्येनाम् । य
एव हि सम्यगर्थं जानाति स एवैनां वाचं जानाति शृणोति च । तत्रेयं श्रुतिः—“उत त्वः
पश्यन्न ददर्श वाचमुतत्वः शृण्वन्न शृणोत्येनाम् । उतो त्वस्मै तन्वाँ ३ विसस्रे जायेव पत्य
उशती सुवासाः” इति । अर्थो हि वाचश्शरीरम् । प्रातिपदिकाद् धातोश्चार्थादौ प्रत्ययानां
विधानात् । तच्च ज्ञानं व्याकरणज्ञानाधीनम् ।
( १५ )—सुशब्दापशब्दसमूहात्परिशोध्यापशब्दान्विहायैव सुशब्दसंपत्सम्पादनं व्याकरण-
ज्ञानाधीनम् । तदाह श्रुतिः—“सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत ।
अत्रा सखायस्सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधिवाचि” इति ।

पूर्वभागः । ( ११ )

( १६ )—आहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्ती स्यात् । तदनिष्टपरिहारश्च व्याक-
रणज्ञानाधीनः ।
( १७ )—दशम्युत्तरकालं जातस्य पुत्रस्य नाम विदध्याद्घोषवदाद्यन्तरन्तःस्थमवृद्धं तत्संब-
न्धित्रिपुरुषान्यतमाभिधायि शत्रोर्मनुष्यस्य वा यन्नाम न भवति, किन्तु देवतादेः तथाभूतं
द्वयक्षरं चतुरक्षरं वा कृदन्तं नाम कार्यम् । न तद्धितान्तमिति विविधविहितरीत्या नामकरण-
ज्ञानं व्याकरणज्ञानाधीनम् ।
( १८ )—यो व्याकरणज्ञः स शब्दान् यथेच्छं विनियोक्तुं शक्नोति, नान्य इति तदेतदपि
व्याकरणज्ञानाधीनमिति च महाभाष्ये स्पष्टमिति दिक् ॥
तज्जिज्ञासुरधिकारी । प्रतिपाद्यप्रतिपादकभावादिसंबन्ध इति ज्ञेयम् ।
वेदोपाङ्गानि तु—“पुराणं न्यायो मीमांसा धर्मशास्त्रम्' इति । ( पुराणं ) द्विविधम्-
महापुराणमुपपुराणं चेति । एकैकं पुनरष्टादशधा भवति । तच्चोभयं व्यासकृतम् । व्यासाः—
बहव इत्युक्तमित्यन्यत् । न्यायः—पदार्थानां सर्वेषामनुगमरूपेण प्रकाशकः काणादादिमहर्षि-
प्रणीतो ग्रन्थः । मीमांसा—वेदार्थकर्मनिर्णायको ग्रन्थः । स च प्रकारः किञ्चित्प्राक् संक्षेपेण
निरूपितः । धर्मशास्त्रम्—मन्वादिमहर्षिप्रणीतः स्मृत्यादिरूपो ग्रन्थ इत्यलम् ।
अथ वेदवेदाङ्गयोरध्ययनादिकालो निरूप्यते—
“श्रावण्यां प्रौष्ठपद्यां वा ह्युपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान्विप्रोऽर्द्धपञ्च-
मान्'' ॥ ४ । ९५ ॥ “ततः परंन्तु छन्दांसि शुक्लेषु नियतः पठेत् । वेदाङ्गानि रहस्यं च
कृष्णपक्षेषु संपठेत्” ॥ ४ । ९८ ॥ इति मनूक्तेः । स्मृत्यन्तरं च “इत ऊर्ध्वमनध्याये-
ष्वाङ्गान्यधीयीत” इति स्मृत्यन्तराद्युक्तेश्च श्रावण्यामुपाकर्मपक्षे तत आरभ्य, प्रौष्ठपद्यामुपाकर्म-
पक्षे तत आरभ्य सार्द्धचतुर्मासपर्यन्तं वेदाध्ययनं कार्यम् । “पुष्ये तु छन्दसां कुर्याद्बहिरुत्सर्जनं
द्विजः । माघशुक्लस्य वा प्राप्ते पूर्वार्द्धे प्रथमेऽहनि ॥ ४ । ९६ ॥ यथाशास्त्रं तु कृत्वैवमुत्सर्गं
छन्दसां बहिः । विरमेत्पक्षिणीं रात्रिं तदैवकमहर्निशम्” ॥ ४ । ९७ ॥ इति मनूक्तेः सार्द्ध-
चतुर्मासान्तर्गतान्तिमपक्षान्तर्गतदिनेषु यत्र पुष्यः तत्रोत्सर्गः कार्यः, माघशुक्लस्य प्रथमेऽहनि प्रौष्ठ-
पद्यां येनोपाकर्म कृतं तेनोत्सर्गः कार्य इत्यर्थः एवमुत्सर्गादित्रिदिनानध्यायानन्तरं शुक्लपक्षेषु
वेदान्, कृष्णपक्षेषु तत्रानध्यायेष्वपि वेदाङ्गानि चाधीयीत । पठेदित्युक्ते वेदाङ्गानामुक्तकालेष्वप्य-
ध्ययनं सिद्धमिति दिक् ।
( अङ्गाध्ययनादिषु नानध्यायदोषो भवति )—
“अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः । न धर्मशास्त्रेष्वन्येषु पर्वण्येतानि वर्जयेद्”
इति “नित्ये जपे च काम्ये च क्रतौ पारायणेपि च । नानध्यायोस्ति वेदानां ग्रहणे
गाहणे स्मृतः” इति च क्रमेण कौर्मशौनकीययोर्वचनात् ।
अथ वेदतदङ्गोपाङ्गाध्ययनाध्यापनविध्यादयः ।
नन्वस्तु वेदाङ्गत्वं व्याकरणस्य । तदध्ययने वेदाध्ययने वा प्रवृत्तिः कुतः स्यादिति

चेद् ॥ अत्रोच्यते ॥ “ब्राह्मणेन निष्कारणेन षडङ्गो वेदोऽध्येयो ज्ञेयश्च” इति श्रुत्या, “द्वे
विद्ये वेदितव्ये परा चैवापरा च । तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वणवेदश्शिक्षा कल्पो
व्याकरणं निरुक्तं छन्दो ज्योतिषम् ” इति मुण्डकश्रुत्या, “स्वाध्यायोऽध्येतव्यः”, “स्वाध्यायप्रव-
चनाभ्यां न प्रमदितव्यम्” इति श्रुतिभ्यां “छन्दः पादौ तु वेदस्य हस्तौ कल्पोथ पठ्यते ।
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते । शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात्सा-
ङ्गमधीत्यैव ब्रह्मलोके महीयते” इति शिक्षावाक्येन, “द्वे च विद्ये वेदितव्ये इति चाथर्वणी श्रुतिः ।
परया त्वक्षरप्राप्तिः ऋग्वेदादिमयी परा” इति विष्णुपुराणोक्त्या, “द्वे च विद्ये वेदितव्ये परा
चैवापरा द्विज । ऋग्यजुस्सामाथर्वाख्यो वेदा अङ्गानि षड् द्विजाः । शिक्षा कल्पो व्याकरणं
निरुक्तं ज्योतिषं तथा । छन्दश्शास्त्रं च मीमांसा धर्मशास्त्रं पुराणकम् । न्यायो वैद्यकगांधर्वधनु-
र्वेदार्थशास्त्रकम् । अपरेयं परा विद्या तया ब्रह्म निगद्यते” इत्याग्नेयोक्त्या च, यथा “अहरह-
स्सन्ध्यामुपासीत” इत्यादिश्रुत्या सन्ध्यावन्दनादिकं दृष्टफलाश्रवणेपि कारणमनपेक्ष्यैव कर्तव्य-
त्वेन विधीयते, तथा वेदवेदाङ्गतदुपाङ्गाध्ययनमपि कारणमनपेक्ष्यैव ब्राह्मणस्य कर्तव्यत्वेन विधी-
यते । किंच “सत्यान्मा प्रमदः” “सत्यं वद” “नानृतं वदेद्” इति श्रुतिभ्यः “न म्लेच्छितवै
नापभाषितवै म्लेच्छो ह वा एष यदपशब्दः” इति भाष्याद् यज्ञे कर्मण्यपशब्दो-
च्चारणे “सारस्वतीयामिष्टिं निर्वपेद्” इति श्रुतेः “विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् ।
अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति” इति स्मृतेश्च कर्तव्येन विहितस्य वेदतदङ्गाध्ययनस्या-
करणेऽविहितस्यापशब्दस्योच्चारणे सुशब्दस्यानुच्चारणे वा सत्यप्रमादादिजन्यप्रत्यवायजन्यापूर्वद्वार-
कानिष्टभयोत्पत्त्यापत्तेस्तन्निवृत्तये तदध्ययनं विहितम् । किञ्च “ यस्य वेदश्च वेदी च विच्छिद्येते
त्रिपूरुषम् । स वै दुर्ब्राह्मणो ज्ञेयः सर्वकर्मबहिष्कृतः ” इति स्मृतेः “योऽनधीत्य द्विजो वेद-
मन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ” इति स्मृतेः “द्विजातीनाम-
ध्ययनमिज्या दानमिति ब्राह्मणस्याधिकाः प्रवचनयाजनप्रतिग्रहाः पूर्वेषु नियमः ” इति गौतमो-
क्तेः, “तपो दमो दया दानं सत्यं धर्मश्श्रुतं घृणा । विद्या विज्ञानमास्तिक्यमेतद्ब्राह्मणलक्षणम् ”
इति स्मृतेः, “ वेदः कृत्स्नोधिगन्तव्यस्स्रहस्यो द्विजन्मना । कुविवाहैः क्रियालोपैर्वेदानध्ययनेन
च । कुलान्यशु विनश्यन्ति ” इति मनुस्मृतेश्च द्विजानां श्रुतविद्याध्ययनाध्यापनाग्निहोत्राचर-
णदानतपोदमदयासत्यविज्ञानसंपादनास्तिकत्वान्यावश्यकानि भवन्ति । किं च “शास्त्रं सुनिश्चि-
तमपि प्रतिचिन्तनीयमाराधितोपि नृपतिः परिशङ्कनीयः । अङ्के स्थितापि युवतिः परिपाल-
नीया शास्त्रे नृपे च युवतौ च कुतो वशित्वम् ” इति नीतिकृदुक्तेरावर्तनादिकं चात्यावश्य-
कम् । “विद्या विहीनः पशुः ” इत्युक्तिरप्युक्ताशयेनैव । एवं चैतदध्ययनं ब्राह्मणस्य नित्यमिति
सिद्धम् ॥ तथा काम्यत्वमपि—“एकश्शब्दस्सम्यग्ज्ञातः सुष्ठु प्रयुक्तश्शास्त्रान्वितस्स्वर्गे लोके
कामधुग्भवति” इति श्रुत्या मतान्तरे स्मृत्या “ अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्राणि विद्या ह्येताश्चतुर्दश ” “ पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः
स्थानानि विद्यानां धर्मस्य च चतुर्दश ” इति च स्मृतिभ्यां धर्मादिकाम्यफलसम्पादकत्वोक्तेः ।

अत एव “ यश्च व्याकुरुते वाचं यश्च मीमांसतेऽध्वरम् । तावुभौ पुण्यकर्माणौ पंक्तिपावन-
पावनौ ” इति “ यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान्यथावद्व्यवहारकाले । सोऽनन्तमाप्नोति
फलं परत्र वाग्योगविदुष्यति चापशब्दैः-”, इति “ नाकमृष्टिसुखं यान्ति सुयुक्तैर्वडवारथैः ।
अथ पत्काषिणो यान्ति येचीकम्रतभाषिणः ;” इति च महाभाष्यं “ पातं जले विष्णुपदाप-
गायाः पातञ्जले चापि न येऽवगाहम् । आ च क्षतेश्शुद्धिदमा प्रसूतेराचक्षते रागमधोक्षजे
च ” इत्यभियुक्तोक्तं च संगच्छते । अत एव “ आपः पवित्रं परमं पृथिव्यामपां पवित्रं
परमं च मन्त्राः । महर्षयो व्याकरणं निराहुः ” इति स्कान्दोक्तं संगच्छते ॥
“ अष्टवर्षं ब्राह्मणमुपनयीत । तमध्यापयीत ” इति ब्राह्मणस्याध्यापनविषयेपि विधिर्जागर्ति
तथा द्विजानामध्यापनाधिकारेपि विधिर्भवति-“ वेदाभ्यासं ततः कुर्यात्प्रयत्नाच्छक्तितो द्विजः ।
वेदमध्यापयेच्छिष्यान्धारयेच्च विचारयेद् ” इति व्यासेन “मन्त्रार्थज्ञो जपञ्जुह्वंस्तथैवाध्यापयन्द्वि-
जः । स्वर्गलोकमवाप्नोति नरकं तु विपर्यये” इति हारीतेन चोक्तेः ।
अध्यापनं त्रिविधं-धर्मार्थमर्थार्थं शुश्रूषार्थं चेति । “अध्यापनं च त्रिविधं धर्मार्थं चार्थ-
कारणात् । शुश्रूषाकरणं चेति ऋषिभिः परिकीर्तितम् । एषामन्यतमाभावे मृषाचारो भवे-
द्विजः ” इति हारीतोक्तेः ।
अन्येभ्यो नीचेभ्योपि क्वचिदध्ययनादीनि कार्याणि । अत एव “अब्राह्मणादध्ययनमापदि
शुश्रूषानुव्रज्या च यावदध्ययनम्” इति बोधायनेन “अब्राह्मणादध्ययनमापत्काले विधीयते ।

१. संज्ञा, परिभाषा एवं सन्धि प्रकरण (अच्, हल् व विसर्ग सन्धि सटीक)

( १४ ) लघुत्रिपुनिकल्पतरुः ।

यत्कृतम्” इति शुक्रनीतौ, “कन्या सती देवमर्कमाजुहाव यशस्विनी” इति महाभारते
आदिपर्वणि सप्तषष्टितमे ( ६७ ) अध्याये, “स्त्रीणां प्रव्रजितानां तु करशुल्कैर्विवर्जयेत्”
इत्याग्नेये, “विद्वज्जनवन्दिता सीता प्राह-” इति “विपुलहृदयैकवेद्ये-खिद्यति शास्त्रे जडो न
सौख्यं स्वे । निन्दति कञ्चुकिकारं प्रायश्शुष्कस्तनी नारी” इत्यादेर्भोजप्रबन्धादौ,
“ शतपथिकी” “काशकृत्स्ना” “उपाध्याया” “आचार्याणी” इत्यादीनां महाभा-
ष्यादौ चोक्तिः संगच्छते । प्रागुक्तरीत्या “नानृतं वदेद्” इति निषेधस्य सर्वसाधा-
रणत्वाच्च । आचार्यशुश्रूषणादिनियम एव स्त्रीणां नेत्यभिप्रायेण निषेधविध्यादयः प्रवृत्ताः ।
अत एव “द्विविधाः स्त्रियो ब्रह्मवादिन्यः सद्योवध्वश्च । तत्र ब्रह्मवादिनीनामुपनयनमग्नीन्धनं
वेदाध्ययनं स्वगृहे भिक्षाचर्येति । सद्योवधूनामुपस्थिते विवाहे कथंचिदुपनयनमात्रं कृत्वा
विवाहः कार्यः” इति हारीतेनोक्तं संगच्छते इति दिक् । शूद्रास्तु-नाधिकारिणः वेदतदङ्गा-
ध्ययनादौ विना विशेषविधिं भवन्ति । यथा-निषादस्थपत्यादयः ॥
परे तु “पुरा कल्पे तु नारीणां मौञ्जीबन्धनमिष्यते । अध्यापनं च वेदानां सावित्रीवाचनं
तथा ॥ वर्जयेदजिनं चीरं जटावल्कलमेव च” इति यमोक्तेः, “अश्मारोहणमारभ्य स्त्रीणां
गौर्यर्चनं परम् । पुराणपठनं श्रेयो न वेदाध्ययनादिकम्” इत्यादि स्मृतेश्च स्त्रीणां वेदतद्-
ङ्गाध्ययनादिकं नेत्याहुः ॥
अथाध्ययनाध्यापनप्रकारः किञ्चिद्विचार्यते-
“अभ्यासार्थे द्रुता वृत्तिः प्रयोगार्थे तु मध्यमा । शिष्याणामुपदेशार्थे वृत्तिरिष्टा
विलम्बिता” इति “गीती शीघ्री शिरःकम्पी तथाऽलिखितपाठकः । अनर्थज्ञोऽल्पकण्ठश्च
षडेते पाठकाधमाः” इति च शिक्षायाम्. “सप्तद्वीपा वसुमती त्रयो लोकाश्चत्वारो वेदास्साङ्गानि
रहस्यानि” इति “अनधीतमविज्ञातं निगदेनैव शब्द्यते । अनग्नाविव शुष्कैधो न तज्ज्वलति
कहिँचिद्” इति च महाभाष्ये “वेदस्वीकरणं पूर्वं विचारोऽभ्यसनं जपः । तद्दानं चैव
शिष्येभ्यो वेदाभ्यासो हि पञ्चधा” इति “पारायणं वर्तयेद्ब्रह्मचारी गुरुः शिष्येभ्यः
समनुव्रतेभ्यः । अध्यासीनो दिशमेकां प्रशस्तां प्राचीमुदीचीमपराजितां वा ॥ एकः श्रोता
दक्षिणतो निषीदेद्द्वौ वा भूयांसस्तु यथावकाशम्” इति च शौनकीये नानारूपेण लोक-
हितायोपदिष्टानप्यर्थान्प्रायः स्वयमपरीक्ष्यैव साहसेन शिक्षायुक्तानर्थाननुपदिश्यैव काव्यं
शास्त्रं वेदान्वाध्यापयन्त्यधीयते चास्मत्पाठकाः । व्याकरणेनैव लोकवेदशास्त्रपुराणागमम-
न्त्रतन्त्रकाव्यनाटकाळङ्कारादियावद्विद्यागतानां कलागतानां त्रैकालिकग्रंथादिगतानां सुशब्दानां
विभक्त्यादेः व्याकरणपित्रैव संस्कार्यतया तदर्थज्ञानमन्तरा संस्कारस्याशक्यत्वमित्यादित
आरभ्य सूत्रतदुदाहरणप्रत्युदाहरणलिङ्गानुशासनगणपाठादिस्थपदानां संस्कारणादिसमये
लोकवेद्धेतुसाध्यपक्षादिकानां तत्तद्यज्ञपदार्थतत्संस्काराणां साङ्ख्ययोगादिस्थप्रधानपुरुषेश्वर-
तत्त्वादिकानामर्थानां ज्ञानस्य तद्वाचकसुशब्दज्ञानस्य च शिक्षणावश्यकत्वेपि तद्रहिता-
स्स्म । तदिदं दौर्भाग्यमल्पज्ञानामध्यापकत्वेन प्रायः परिकल्पनामूलम् । तस्माद्भारत-

उत्तरभागः । ( १९ )

श्वासिनस्सर्वे वयं तैर्बञ्चिताः । अन्यथा व्याकरणस्य प्रयोजनत्वेन सप्तद्वीपा वसुमती
त्रयो लोका इति महाभाष्यकृतामुक्तिः कथं संगच्छतामिति सुधियो विभावयन्तु । किं च
“ आत्मा बुद्ध्या समेत्यार्थान्मनो युंक्ते विवक्षया ” इत्युक्तेरर्थज्ञानानन्तरं शब्दप्रयोग
इति सिद्धेऽपि तदुभयोस्सम्बन्धज्ञानमन्तरा तदसम्भव इति स्पष्टमेव । किञ्च शिक्षामेव
स्वतोऽविचारयन्तोपि शिक्षयन्तीति विचित्रमेतत् । तस्मादस्मदीयमेतादृशं पल्लवपाण्डित्यं
ज्ञात्वाऽस्मांस्तृणायान्वे न मन्यन्त इति तथैवाग्रेऽप्यन्धपरम्पराप्रचारे ब्राह्मणानामस्माकं
कान्यागतिर्भवितेति च विचार्य त्रिमुनिगुणगंभीरं पाण्डित्यं संपाद्यमिति पर्यालोच्य चैकस्यैव
सूत्रस्य दिनत्रयेण दिनपञ्चकेन वा यावज्ज्ञानं यथा स्यात्तथा सर्वैर्यतितव्यम् । तच्च ज्ञानमुपदेशा-
धीनं लोकानुभावाधीनं चेति त

विचित्रतरं वृत्तं ददृशे । तदीयविचित्रतराश्रुतदृष्टपूर्वनृत्तदर्शनजनितपरमानन्दाम्बुधिनिमज्जना-
निरुद्धनिःश्वासतया मत्स्यशरीरेण गौरवमासादितम् । येन त्वमतीव क्लेशितोसि । किं च नर्त्त-
नावसाने मन्मुखेन त्वां कात्यायनकृतस्य पाणिनिर्वार्तिकग्रन्थस्य महाभाष्यं कर्तुं स आज्ञापयति
स्मेति । ततस्तद्भगवन्नृत्तदर्शनकुतूहलेन पुनःपुनः प्रणिपत्य तद्याचमानं प्राञ्जलिमनन्तं तद्दर्शनाय
गन्तुमाज्ञापयामास ।
ते पाणिन्यादयः के ? तेषां ग्रन्थाः के ? कुत्रत्याश्चेति चेद्यथाप्राप्तं तन्निरूप्यते—तथा हि
पणिनामा कश्चिन्महर्षिरवाप पाणिनं नाम कुमारम् । स पाणिनो दाक्षीमुद्वाह्य तस्यां
पाणिनिनामानं तनूजमजनयत् । अतिक्रान्तबाल्यः पाणिनिर्विद्याग्रहणयोग्यं वयः प्राप्य
नन्दराजराज्यकाले तद्राज्ये निवसन्तमुपवर्षनामानं पण्डितवरिष्ठमुपजगाम विद्यासम्पत्तिला-
भाय । तत्रास्य सब्रह्मचारिणौ वररुचिव्याडिनामानावास्ताम् । स कदाचिद्वादे परा-
जितो निर्वेदमवाप्य व्याकरणविद्यासाम्राज्यलाभाय सर्वविद्याधिपमीशानं तपसाराद्धुं निश्चिय
प्रयागक्षेत्रं गत्वाऽक्षयवटस्याधोभागेतितीव्रं तपश्चक्रे । यत्र स्वस्वेष्टार्थसिद्धये सनकादयोपि
सिद्धाः परमेश्वरं तपसोपासां चक्रिरे । चिरात्कदाचित्कठोरतत्तपश्वर्यापरितुष्टस्तत्तदभीष्ट-
वरान्प्रदित्सुर्भगवान्नाम्बरङ्गतलमधिष्ठाय नृत्यन्नादयामास चतुर्दशकृत्वो ढक्काम । स नादो
यथान्यैः श्रवणपथेन स्वस्वाभीष्टसाम्राज्यप्रापकवरदानवाक्यामृतत्वेन पीतस्तथा पाणि-
निनापि स्वेन करिष्यमाणं यद् “अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं
च सूत्रं सूत्रविदो विदुः ,’’ इत्युक्तलक्षणलक्षितसूत्रसमूहरूपो सधातुपाठगणपाठयुक्ता-
ष्टाध्यायात्मको ग्रन्थः लिङ्गानुशासनं चेत्येतन्मूलभूतचतुर्दशसूत्रात्मकव्याकरणाम्नायाङ्ग-
विद्यासाम्राज्यप्रापकवरदानवाक्यामृततयापीयत । तदुक्तं नन्दिकेश्वरकृतकाशिकायाम्—
“नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम् । उद्धर्तुकामस्सनकादिसिद्धानेत-
द्विमर्शे शिवसूत्रजालम् ,’’ इति । ततोऽनेन स्वलब्धव्याकरणमूलभूतोक्तसाम्राज्यतेजोबलेन
पाणिनिः-- “ वृद्धिरादैच् ” इत्यादिकानि “ अ अ ” इत्यन्तानि सूत्राण्यष्टाध्यायात्मना,
लिङ्गानुशासनसूत्राणि षडधिकारात्मना, तत्तत्सूत्रेषु गणशब्दपाठांस्तत्रैव गणपाठार्थानर्थ-
विचित्रतरचित्रितं कण्डादिना सहैकादशगणं धातुपाठं यजुर्वेदस्य प्रातिशाख्याख्यं सूत्रग्रन्थं
तथा शब्दोच्चारणक्रमनिर्णायिकां दशखण्डात्मिकां शिक्षां तथा जाम्बवतीपरिणयाख्यं पाता-
लविजयापरनामकं काव्यग्रन्थं च चकार । यत एव “ वरतनु संप्रवदन्ति कुक्कुटाः ” इति
व्यक्तावाचमित्यत्र महाभाष्ये कस्यचित् श्लोकस्य भागः प्रत्युदाहरणत्वेन गृहीतः ।
अन्ये त्वियं पाणिनीयशिक्षा न पाणिनिकृता । यतः “अथ शिक्षां प्रवक्ष्यामि पाणि-
नीयं मतं यथा” इत्यादावन्तेपि—“येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं
प्रोक्तं तस्मै पाणिनये नमः” ॥ ९७ ॥ “अज्ञानान्धस्य लोकस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः” ॥ ९८ ॥ “त्रिनयनमुखनिस्सृतामिमां य इह पठेत्प्र-
यतश्च सदा द्विजः । स भवति धनधान्यपशुपुत्रकीर्तिमानतुलं च सुखं समश्नुते दिवीति

उत्तरभागः । ( १७ )

दीवीति” ॥ ५९ ॥ ( १ ) इति शिक्षायां “प्रवक्ष्यामि पाणिनीयं मतं यथा” इति “तस्मै
पाणिनये नमः” “त्रिनयनमुखनिस्सृतामिमाम्” इति चोक्तेः । पाणिनिकर्तृकत्वे तदनुपपत्तेश्च ।
एवं च पाणिनिकृतां नष्टां दुर्लभां वा पर्यालोच्य तदुपदेशपरम्परागतेन तदीयशिष्येण तदुक्तार्थ-
प्रतिपादिकेयं पाणिनितोऽन्येन त्रिनयनाख्येन केनचिद्विदुषा कृतेत्याहुः । अन्ये तु पुराणा-
दिषु “व्यास उवाच” इति “व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे”
इति वच्चार्षग्रन्थानामेष स्वभाव इत्यदोषः । एतेन याज्ञवल्क्यस्मृतिर्न तेनोक्तेति मिताक्षरोक्तिः
परास्तेत्याहुः ॥ अध्यात्मशिक्षाया गववाचार्यकृतं भाष्यं जागर्तीति दिक् । एवं सगणंश्चतुर्ग्रन्थान्वि-
रचय्याध्यापनादिना प्रचारयन्कालक्रमेण सर्वत्र प्रथयामास । अयं कुत्रत्य इति न ज्ञायते ।
तत आगत्य स्वकृतं व्याकरणशास्त्रं स्वगुरूपवर्षादिभ्यः श्रावयामास । तत्र कौशाम्बी-
नगरवासिनः सोमदेवशर्मणो वसुदत्तायामुत्पन्नोऽभ्यस्तसकलशास्त्रः कात्यायनस्तदुपश्रुत्य चित्रि-
तहृदयोऽसूयामाश्रित्येशानानुग्रहेण तादृशविचित्रग्रन्थरचनापर्युत्सुकस्स्वयमप्याश्रमं कंचिद्गत्वा तपसा
परमेश्वरमाराधयामास । ततस्तदनुग्रहेण वार्तिकाख्यं ( वाक्यात्मकं ) पाणिन्युक्तार्थपरिपूरकं
दुरुक्तपुनरुक्तार्थनिरासकं च ग्रन्थमकरोत् ।
एवमन्यानपि कात्यायनसूत्रवररुचिप्रयोगलक्षश्लोकात्मकबृहत्कथादीन् ग्रन्थान्निर्माय काण-
भूत्यादिभ्यः श्रावयित्वाऽऽरुरोह नन्दराजराज्यसाचिव्यपदम् । यस्य बृहत्कथाग्रन्थस्य सारं
संगृह्य सोमदेवभट्टेन कथासरित्सागराख्यो ग्रन्थो व्यरचि । तामुपश्रुत्य पाणिनिः स्वव्याकरण-
न्यूनताप्रदर्शकवार्तिक ( वाक्य ) ग्रन्थनिर्मितिममृष्यन्कात्यायनमहर्षेराश्रममाजगाम । आगत्य
च तमर्घ्यपात्रेण प्रत्युद्गच्छन्तमप्यविगणय्य यतो महेश्वरानुग्रहपात्रभूतेन मया कृते शास्त्रेनुक्त-
दुरुक्तपुनरुक्तादिदुश्चिन्ताकुलेन त्वया वाक्यग्रन्थः कृतस्तेनापराधेन त्वमचिरात्पतिष्यसीति
शशाप । सोपि तं यतो वाक्यग्रन्थं शङ्करप्रसादपरिणामरूपमजानंस्त्वं मह्यमशपस्ततस्त्व-
च्छिष्योऽप्यचिरात्पतत्विति शशाप । ततस्तत्रैवारण्ये तस्यामेव त्रयोदश्यां तिथौ पाणिनिर्गच्छ-
न्केनचिद्व्याघ्रेण व्यापादितः कैलासं जगाम । तदुक्तं विष्णुगुप्तेन “सिंहो व्याकरणस्य कर्तु-
रहरत्प्राणान्प्रियान्पाणिनेर्मीमांसाकृतमुन्ममाथ सहसा हस्ती मुनिं जैमिनिम् । छन्दोज्ञाननिधिं
जघान मकरो वेलातटे पिङ्गल ह्यज्ञानावृतचेतसामतिरुषां कोऽर्थस्तिरश्शां गुणैः” इति पञ्चतन्त्रे
मित्रप्राप्तिनामकदितीयभागे । यः पञ्चतन्त्रग्रन्थ आङ्ग्लपञ्चशतकात्परं नोत्पन्न इत्यांग्लपण्डि-
तानां सिद्धान्तविषयः । एवं कात्यायनोपि तस्यामेव तिथौ कैलासगमनाय देहं तत्याज ।
तं कालमारभ्य वैयाकरणास्त्रयोदश्यां व्याकरणशास्त्राध्ययनाध्यापनव्यवहारमत्याक्षुः । यत्कृतस्य
वार्तिकग्रन्थस्य दुर्बोधस्य महाभाष्यं कार्यमिति श्रीशङ्करः श्रीविष्णुमुखेन पतञ्जलिमाज्ञापया-
मासेत्यनुपदमेवोक्तम् । ततो भगवदनुज्ञामवाप्य तस्माच्छ्रीनटेश्वरनृत्तदर्शनाय चिदम्बरं गच्छेति
शेषांशेन त्वमवतरेति चाज्ञप्तस्तं प्रणम्य निर्जगाम । ततस्सवार्तिकं पाणिनिव्याकरणं पाणि-
निशिष्येण व्याघ्रभूतिना कात्यायनशिष्येण श्वोभूतिना चाऽध्यापनद्वारेण प्रकटितं जग-
द्विख्यातं च बभूव ।
२

: the letter is र्ध्य(with ध) orर्घ्य(with घ)? Notice in L13:धृतार्य्यजलेorधृतार्घ्यजले? In L14: तेनार्घ्यजलेन. Let's compare the second letter of अर्ध्यमुत्सिसृजेandतेनार्घ्यजलेन: In तेनार्घ्यजलेन, it has the same glyph: र्घा/र्घ्य. Wait, is it र्घ्य? Look at the loop: it has no notch at the top. 'ध' usually has an open top or curl. 'घ' has a continuous top bar. But under a repha, 'घ्य' has a repha on the top right. Actually, it looks like अर्ध्यin the first one andअर्घ्यin the second, or bothअर्घ्य. Let's look closely: First one (L14): अर्ध्य- notice the top has a slight break like 'ध'? Or is it 'र्घ्य'? Wait, in L12:सा चार्य्यदानाय- look at that:चार्घ्यदानायorचार्य्यदानाय? Wait, in L12, it is सा चार्घ्यदानाय- wait, the letter isर्ध्यorर्घ्य`

नाट्यमदृष्टपूर्वमपश्यत् । ततस्संस्तुतो नटेशः फणिपतिं पाणिनिवाक्यग्रन्थस्य महाभाष्यं
निर्माय दिवं व्रजेत्याज्ञाप्यन्तर्दधात् । अथ तौ व्याघ्रपात्पतञ्जली यत्र स ननृते तत्र तत्प्रतिकृतिं
लिखितुः । तदादि तच्चिदम्बरेशप्रतिकृतिदर्शनेनेदानीमपि कुटिले कलौ लोका निष्कल्मषा
भूत्वाऽनुत्तमं पुरुषार्थमनायासेनोपलभन्ते । नटेशनृत्तं स्मारंस्मारमतीव चित्रीयमाणहृदयः
पतञ्जलिर्लोकहितैषी प्रागुक्तरीत्या तादृशीं व्याकरणशास्त्रस्यातिजीर्णांमवस्थामसह्मानः “यद्वि-
स्मृतमदृष्टं वा सूत्रकारेण तत्स्फुटम् । वाक्यकारो ब्रवीत्येवं तेनादृष्टं च भाष्यकृद्” इत्युक्तलक्ष-
णलक्षितं महाभाष्यं चकार । तथान्यावपि ग्रन्थावनेन रचितावित्यग्रे वक्ष्यते इति केचित् ।
तदा तत्पिपाठिषुभिस्सहस्राधिकैः शिष्यैः प्रणिपत्य प्राञ्जलि

An accurate, line-by-line transcription of the provided Sanskrit text:

ततः गोनर्ददेशं ( गोनर्दतीरं ) प्राप्य गोणिकां स्वजननीं नमस्कृत्य किञ्चित्कालाभ्यन्तरे
तस्यां सुरलोकपथमवतीर्णायां ततोमितष्ठौ ।
अथ पतञ्जलिशिष्यो ब्रह्मराक्षसोपि ततो निर्गत्य मार्गे वटमेकमारुह्य गुरूपदिष्टरीत्या पचेः क्ते
किं रूपमिति पथिकान्पृच्छन्पक्तमिति प्रतिवदतस्सर्वानप्यभक्षयत् । एवं बहुतिथे काले व्यति-
क्रान्तेऽन्यं कञ्चन पथिकमागतं दृष्ट्वा यथापूर्वमपृच्छत् । स चैनं राक्षसं पक्वमिति प्रत्युत्त-
रेणाम्भ्यनन्दयत् । सोपि राक्षसशापमोक्षकालं सन्निहितं मन्वानस्तस्माद्वृक्षादवतीर्य—कस्त्वं,
कस्मादागतः, किमागमनप्रयोजनम् । अधीतपाणिनिव्याकरणशास्त्र इव दृश्यसे । महा-
भाष्यं त्वामध्यापये यदीच्छसि, तद्वदेति पप्रच्छ । सोपि—अहं चन्द्रगुप्तो नाम द्विजः ।
[

व्यलिखदिति केचित् । एवं स तयथाबुद्धिबलं समीकृत्य नियमेन तन्महाभाष्यस्य पाठप्रवच-
नाभ्यां तिसृभिर्द्विजदारैर्ज्ञातिनिर्वर्त्त्यन्कालं यापयामास । ततः कदाचिद्वसन्तसमये चतस्रोपि
भार्या रममाणस्यास्य गर्भमादधुः । ततस्स यथाकालं यथायोग्यं पुंसवनादीनि कर्माणि
निर्वर्त्तयांचकार । ततस्ता उचितेषु समयेषु चतस्रोपि दीप्ततेजसः एकैकक्रमेण चतुरः
पुत्रानसोषत । यथाकालं स द्विजवरस्ताञ्जातकर्मणा संस्कृत्य वर्णक्रमेण वररुचिर्विक्रमार्को भट्टि-
भर्तृहरिरिति नामभिराहूयोपनीय त्रीन्साङ्गोपाङ्गांश्चतुरो वेदानध्याप्य महाभाष्यमप्यजीगपत् ।
ततो भर्तृहरिस्तुरीयासूनुर्महाभाष्यं पिपठिषुस्तच्छिष्यैः स्वभ्रातृभिरनधिकारीति निवारितो
रहः पितुरन्तिकमुपेत्य प्रणिपत्य सविनयं भुवोन्तरे किंचित्कुहरमकुतोभयं वि

( २२ ) लघुत्रिमुनिकल्पतरुः ।

यदा कालवशेन प्रातैर्विघ्नविशेषैरध्ययनाध्यापनादिप्रचारः समूलमुन्मूलितो दाक्षिणात्येष्वेव
क्वचित्पुस्तकमात्र एव पाणिनिव्याकरणकात्यायनवार्तिकमहाभाष्यादिग्रन्था विशश्रमुश्च । किं च
चित्रकूटमधिवसता केनचिन्नारायणनाम्ना विदुषा तन्महाभाष्यं ततो विलिख्य रक्षितमासीत् ।
तदा कश्चित् ( ब्रह्मराक्षसः ) तन्महाभाष्यपुस्तकंमानीय वसुरातादिभ्यो ददौ । यैर्विक्रमादित्य-
ज्येष्ठभ्रातरं भर्तृहरिमन्यांश्च बहूनि शास्त्राण्यध्यापयद्भिर्जीर्णं तच्छास्त्रमुद्धृतम्-भूदिति केचित् ।
ततो भर्तृहरिः स्वपितृचन्द्रगुप्तद्विजलिखितवत्स ( अज ) भक्षितावशिष्टवटपत्रस्थमहाभाष्य-
ग्रन्थे पौर्वापर्यपर्यालोचनया वत्स ( अज ) भक्षितग्रन्थांशमवगत्य पत्रान्तरेषु तान्विलिख्य
समीकृत्य जीर्णं तन्महाभाष्यं समुद्धृत्य सपादलक्षकारिकाभिर्महाभाष्यकारतात्पर्यार्थावबोधकं
ब्रह्मवाक्यपदभेदेन काण्डत्रयात्मकं वाक्यपदीयाभिधं महाभाष्यव्याख्यानं चकार । यद्धेलाराज-
पुंञ्जराजपण्डितकृतटीकाभ्यां संशोभते स्म । काश्यामिदानीं मुद्रितं तदिति तु भ्रमः । लघुत्वात् ।
ततो भर्तृहरिर्वाक्यपदीयमेवं संग्रथ्य “अहो भाष्यमहो भाष्यमहो वयमहो वयम् ।
मामदृष्ट्वा गतस्स्वर्गमकृतार्थः पतञ्जलिः” इति गुर्वाधिक्षेपकगर्वदुर्भरेण स्वीयदुर्भषणदुष्परिपाकेन
स्वीयमेनं महानिबन्धमप्रतिष्ठापदमारोहयामास । एतदीयगुर्वाधिक्षेपकदुरुक्तिमसहमानैस्तात्कालि-
कैर्विद्वद्भिरयं ग्रन्थोऽध्ययनाध्यापनपथंमनापादित इति यावत् । अत एवेदानीं प्रायः स ग्रन्थो
दौर्लभ्यपदवीमवापेत्यस्मदीयं दौर्भा ( सौभा ) ग्यम् । एवमेतैश्चतुर्भिश्चन्द्रगुप्तद्विजपुत्रैरुज्जयिन्यां
कलियुगं कृतयुगायितमिति वदन्ति ।
( अत्र केचित् )—विक्रमार्कसमयात् ८४९ पञ्चचत्वारिंशदुत्तराष्टशतीमितेषु, अथ वा
कलेः ३८८८ अष्टाशीत्युत्तराष्टशत्यधिकत्रिसहस्रेषु, -वर्षेषु व्यतीतेषु तदुत्तरे विभववर्षे
वैशाखमासे शुक्लपक्षे दशम्यां केरलदेशे कलापीग्रामे शिवगुरुशर्मणो भार्यायां सतीनाम्न्यां
श्रीशङ्कराचार्यः पुत्र उदियाय । तदाहुर्वृद्धाः-“विधिनागेशवह्व्यब्दे ३८८८ विभवे मासि
माधवे । शुक्लपक्षे दशम्यां तु शङ्करार्योदयस्स्मृतः” इति । कलेरिति शेषः । तथैव लोक-
प्रवादादित्याहुः । अन्ये शङ्करमन्दारसौरभे नीलकण्ठभट्टास्तु- “प्रासूत तिष्यशरदामतिया-
तवत्यामेकादशाधिकशतो नचतुस्सहस्रयाम् ३९११ ” इति । तिष्यशरदां कलिवर्षाणामि-
त्यर्थ इत्याहुः । अपरे तु विक्रमार्कसमयात्परस्मिन् ११५० सार्द्धशताधिकसहस्रतमे वर्षे
गुर्जरनृपो जयसिंहनामासीत् । तदानीं श्रीपत्तनवासिनो देवसूरिनाम्नो जैनाचार्यस्य शिष्यो
माणिक्याभिधः पण्डितो बभूवेति मेरुतुङ्गाचार्यकृतप्रबन्धचिन्तामणिग्रन्थतो ज्ञायते । स
माणिक्यपण्डितः स्वकृतकाव्यप्रकाशटीकायां सङ्केताभिधायां द्वितीयोल्लासे कुमारिलभट्टाचार्यमतं
स्वोक्तार्थे प्रमाणीचकार । कुमारिलभट्टाचार्यशङ्करार्ययोः प्रयागक्षेत्रे समागमः समजनीति
शङ्करदिग्विजयै स्पष्टम् । तस्माच्छ्रीशङ्कराचार्यदेशिकचरणानामपि स एव समय इत्याहुः ॥
आङ्ग्लदेशीयाङ्ग्लपण्डितास्तु आङ्ग्राष्टमशके ( सन् ८०० ) तेषां स्थितिं न्यरूपयन् ।
आङ्ग्लविद्यानिपुणास्तैलिङ्गोपपदा मोहमय्यां प्राड्विवाकपदमधिष्ठिताः काशीनाथपन्तास्तु
आङ्ग्ल षष्ठे शके ( सन् ६०० ) श्रीशङ्कराचार्याणां स्थितिं वर्णयांचक्रुः मुद्राराक्षसनाटक-

उत्तरभागः । ( २३ )

प्रस्तावनायाम् । यदा श्रीशङ्कराचार्यः उपनयनोत्तरं जन्मतॊऽष्टमे सप्तमे वा वयसि कदाचि-
त्स्नातुं पूर्णानदीमवतीर्य नक्रगृहीतपादोऽभूत्, तदा स्वस्य जन्मान्तरप्राप्तिसमयमुपस्थितं
मन्वानः संन्यासपरिग्रहं जन्मान्तरं निश्चित्य तत्र जले स्थितस्सन्नेव तत्र स्थितायै स्वमात्रे
संन्यासेनैव स्वस्य ग्राहविनिर्मोकं विनिवेद्य तदनुमत्या संन्यासं परिगृह्य ग्राहग्रहान्मुक्तः ।
उपर्यागत्य तत्रातीव खिन्नां तां प्रणम्य सम्मान्य तदनुज्ञामवाप्य च गुर्वनुग्रहं कामयमानः
तदातिप्रसिद्धतरं श्रीगोविन्दभगवत्पादमेव योग्यं देशिकं मत्वा तद्दर्शनाय बदरिकाश्रमं प्रतस्थे ॥
प्रस्थाय च क्रमेण बहून्देशानतिलङ्घ्यास्तमयं गतवति भगवति भास्वति वाराणसीं
प्रविवेश । तत्र रात्र्यां विश्वेशमद्वितीयं ब्रह्म ध्यायन्विचित्रैर्बहुभिः स्तवैः तुष्टाव । तेन प्रसन्नो
भगवांस्तस्मै ब्रह्मसूत्रभाष्यनिर्माणशक्तिं वरमादिदेश । एवं वरमुपलभ्य प्रातरेव ततो निर्गत्या-
स्ताचलं प्रविशति निशापातावुदयाचलमधिरूढे च चित्रभानावादित्ये तत्र हिरण्मयं पुरुषमभि-
ध्यायन्पथिकैः सह गच्छ