वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 34, कुल 835 में से
संदर्भ में पढ़ेंउत्तरभागः । ( १७ )
दीवीति” ॥ ५९ ॥ ( १ ) इति शिक्षायां “प्रवक्ष्यामि पाणिनीयं मतं यथा” इति “तस्मै
पाणिनये नमः” “त्रिनयनमुखनिस्सृतामिमाम्” इति चोक्तेः । पाणिनिकर्तृकत्वे तदनुपपत्तेश्च ।
एवं च पाणिनिकृतां नष्टां दुर्लभां वा पर्यालोच्य तदुपदेशपरम्परागतेन तदीयशिष्येण तदुक्तार्थ-
प्रतिपादिकेयं पाणिनितोऽन्येन त्रिनयनाख्येन केनचिद्विदुषा कृतेत्याहुः । अन्ये तु पुराणा-
दिषु “व्यास उवाच” इति “व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे”
इति वच्चार्षग्रन्थानामेष स्वभाव इत्यदोषः । एतेन याज्ञवल्क्यस्मृतिर्न तेनोक्तेति मिताक्षरोक्तिः
परास्तेत्याहुः ॥ अध्यात्मशिक्षाया गववाचार्यकृतं भाष्यं जागर्तीति दिक् । एवं सगणंश्चतुर्ग्रन्थान्वि-
रचय्याध्यापनादिना प्रचारयन्कालक्रमेण सर्वत्र प्रथयामास । अयं कुत्रत्य इति न ज्ञायते ।
तत आगत्य स्वकृतं व्याकरणशास्त्रं स्वगुरूपवर्षादिभ्यः श्रावयामास । तत्र कौशाम्बी-
नगरवासिनः सोमदेवशर्मणो वसुदत्तायामुत्पन्नोऽभ्यस्तसकलशास्त्रः कात्यायनस्तदुपश्रुत्य चित्रि-
तहृदयोऽसूयामाश्रित्येशानानुग्रहेण तादृशविचित्रग्रन्थरचनापर्युत्सुकस्स्वयमप्याश्रमं कंचिद्गत्वा तपसा
परमेश्वरमाराधयामास । ततस्तदनुग्रहेण वार्तिकाख्यं ( वाक्यात्मकं ) पाणिन्युक्तार्थपरिपूरकं
दुरुक्तपुनरुक्तार्थनिरासकं च ग्रन्थमकरोत् ।
एवमन्यानपि कात्यायनसूत्रवररुचिप्रयोगलक्षश्लोकात्मकबृहत्कथादीन् ग्रन्थान्निर्माय काण-
भूत्यादिभ्यः श्रावयित्वाऽऽरुरोह नन्दराजराज्यसाचिव्यपदम् । यस्य बृहत्कथाग्रन्थस्य सारं
संगृह्य सोमदेवभट्टेन कथासरित्सागराख्यो ग्रन्थो व्यरचि । तामुपश्रुत्य पाणिनिः स्वव्याकरण-
न्यूनताप्रदर्शकवार्तिक ( वाक्य ) ग्रन्थनिर्मितिममृष्यन्कात्यायनमहर्षेराश्रममाजगाम । आगत्य
च तमर्घ्यपात्रेण प्रत्युद्गच्छन्तमप्यविगणय्य यतो महेश्वरानुग्रहपात्रभूतेन मया कृते शास्त्रेनुक्त-
दुरुक्तपुनरुक्तादिदुश्चिन्ताकुलेन त्वया वाक्यग्रन्थः कृतस्तेनापराधेन त्वमचिरात्पतिष्यसीति
शशाप । सोपि तं यतो वाक्यग्रन्थं शङ्करप्रसादपरिणामरूपमजानंस्त्वं मह्यमशपस्ततस्त्व-
च्छिष्योऽप्यचिरात्पतत्विति शशाप । ततस्तत्रैवारण्ये तस्यामेव त्रयोदश्यां तिथौ पाणिनिर्गच्छ-
न्केनचिद्व्याघ्रेण व्यापादितः कैलासं जगाम । तदुक्तं विष्णुगुप्तेन “सिंहो व्याकरणस्य कर्तु-
रहरत्प्राणान्प्रियान्पाणिनेर्मीमांसाकृतमुन्ममाथ सहसा हस्ती मुनिं जैमिनिम् । छन्दोज्ञाननिधिं
जघान मकरो वेलातटे पिङ्गल ह्यज्ञानावृतचेतसामतिरुषां कोऽर्थस्तिरश्शां गुणैः” इति पञ्चतन्त्रे
मित्रप्राप्तिनामकदितीयभागे । यः पञ्चतन्त्रग्रन्थ आङ्ग्लपञ्चशतकात्परं नोत्पन्न इत्यांग्लपण्डि-
तानां सिद्धान्तविषयः । एवं कात्यायनोपि तस्यामेव तिथौ कैलासगमनाय देहं तत्याज ।
तं कालमारभ्य वैयाकरणास्त्रयोदश्यां व्याकरणशास्त्राध्ययनाध्यापनव्यवहारमत्याक्षुः । यत्कृतस्य
वार्तिकग्रन्थस्य दुर्बोधस्य महाभाष्यं कार्यमिति श्रीशङ्करः श्रीविष्णुमुखेन पतञ्जलिमाज्ञापया-
मासेत्यनुपदमेवोक्तम् । ततो भगवदनुज्ञामवाप्य तस्माच्छ्रीनटेश्वरनृत्तदर्शनाय चिदम्बरं गच्छेति
शेषांशेन त्वमवतरेति चाज्ञप्तस्तं प्रणम्य निर्जगाम । ततस्सवार्तिकं पाणिनिव्याकरणं पाणि-
निशिष्येण व्याघ्रभूतिना कात्यायनशिष्येण श्वोभूतिना चाऽध्यापनद्वारेण प्रकटितं जग-
द्विख्यातं च बभूव ।
२