वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 33, कुल 835 में से
संदर्भ में पढ़ेंविचित्रतरं वृत्तं ददृशे । तदीयविचित्रतराश्रुतदृष्टपूर्वनृत्तदर्शनजनितपरमानन्दाम्बुधिनिमज्जना-
निरुद्धनिःश्वासतया मत्स्यशरीरेण गौरवमासादितम् । येन त्वमतीव क्लेशितोसि । किं च नर्त्त-
नावसाने मन्मुखेन त्वां कात्यायनकृतस्य पाणिनिर्वार्तिकग्रन्थस्य महाभाष्यं कर्तुं स आज्ञापयति
स्मेति । ततस्तद्भगवन्नृत्तदर्शनकुतूहलेन पुनःपुनः प्रणिपत्य तद्याचमानं प्राञ्जलिमनन्तं तद्दर्शनाय
गन्तुमाज्ञापयामास ।
ते पाणिन्यादयः के ? तेषां ग्रन्थाः के ? कुत्रत्याश्चेति चेद्यथाप्राप्तं तन्निरूप्यते—तथा हि
पणिनामा कश्चिन्महर्षिरवाप पाणिनं नाम कुमारम् । स पाणिनो दाक्षीमुद्वाह्य तस्यां
पाणिनिनामानं तनूजमजनयत् । अतिक्रान्तबाल्यः पाणिनिर्विद्याग्रहणयोग्यं वयः प्राप्य
नन्दराजराज्यकाले तद्राज्ये निवसन्तमुपवर्षनामानं पण्डितवरिष्ठमुपजगाम विद्यासम्पत्तिला-
भाय । तत्रास्य सब्रह्मचारिणौ वररुचिव्याडिनामानावास्ताम् । स कदाचिद्वादे परा-
जितो निर्वेदमवाप्य व्याकरणविद्यासाम्राज्यलाभाय सर्वविद्याधिपमीशानं तपसाराद्धुं निश्चिय
प्रयागक्षेत्रं गत्वाऽक्षयवटस्याधोभागेतितीव्रं तपश्चक्रे । यत्र स्वस्वेष्टार्थसिद्धये सनकादयोपि
सिद्धाः परमेश्वरं तपसोपासां चक्रिरे । चिरात्कदाचित्कठोरतत्तपश्वर्यापरितुष्टस्तत्तदभीष्ट-
वरान्प्रदित्सुर्भगवान्नाम्बरङ्गतलमधिष्ठाय नृत्यन्नादयामास चतुर्दशकृत्वो ढक्काम । स नादो
यथान्यैः श्रवणपथेन स्वस्वाभीष्टसाम्राज्यप्रापकवरदानवाक्यामृतत्वेन पीतस्तथा पाणि-
निनापि स्वेन करिष्यमाणं यद् “अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं
च सूत्रं सूत्रविदो विदुः ,’’ इत्युक्तलक्षणलक्षितसूत्रसमूहरूपो सधातुपाठगणपाठयुक्ता-
ष्टाध्यायात्मको ग्रन्थः लिङ्गानुशासनं चेत्येतन्मूलभूतचतुर्दशसूत्रात्मकव्याकरणाम्नायाङ्ग-
विद्यासाम्राज्यप्रापकवरदानवाक्यामृततयापीयत । तदुक्तं नन्दिकेश्वरकृतकाशिकायाम्—
“नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम् । उद्धर्तुकामस्सनकादिसिद्धानेत-
द्विमर्शे शिवसूत्रजालम् ,’’ इति । ततोऽनेन स्वलब्धव्याकरणमूलभूतोक्तसाम्राज्यतेजोबलेन
पाणिनिः-- “ वृद्धिरादैच् ” इत्यादिकानि “ अ अ ” इत्यन्तानि सूत्राण्यष्टाध्यायात्मना,
लिङ्गानुशासनसूत्राणि षडधिकारात्मना, तत्तत्सूत्रेषु गणशब्दपाठांस्तत्रैव गणपाठार्थानर्थ-
विचित्रतरचित्रितं कण्डादिना सहैकादशगणं धातुपाठं यजुर्वेदस्य प्रातिशाख्याख्यं सूत्रग्रन्थं
तथा शब्दोच्चारणक्रमनिर्णायिकां दशखण्डात्मिकां शिक्षां तथा जाम्बवतीपरिणयाख्यं पाता-
लविजयापरनामकं काव्यग्रन्थं च चकार । यत एव “ वरतनु संप्रवदन्ति कुक्कुटाः ” इति
व्यक्तावाचमित्यत्र महाभाष्ये कस्यचित् श्लोकस्य भागः प्रत्युदाहरणत्वेन गृहीतः ।
अन्ये त्वियं पाणिनीयशिक्षा न पाणिनिकृता । यतः “अथ शिक्षां प्रवक्ष्यामि पाणि-
नीयं मतं यथा” इत्यादावन्तेपि—“येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं
प्रोक्तं तस्मै पाणिनये नमः” ॥ ९७ ॥ “अज्ञानान्धस्य लोकस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः” ॥ ९८ ॥ “त्रिनयनमुखनिस्सृतामिमां य इह पठेत्प्र-
यतश्च सदा द्विजः । स भवति धनधान्यपशुपुत्रकीर्तिमानतुलं च सुखं समश्नुते दिवीति