सामग्री पर जाएँ
सर्वकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 27, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 27

( १० ) लघुत्रिमुनिकल्पतरुः ।
( ८ )—“स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् । योऽर्थवित्स-
कलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा” इति “यदधीतमविज्ञातं निगदेनैव शब्द्यते ॥
अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित्” “अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः ”
इति च भाष्यादावुक्तरीत्यार्थज्ञानमन्तरा वेदानुपूर्वीज्ञानस्य निरर्थकत्वोक्तेरर्थज्ञानमावश्यकम् ।
तच्च व्याकरणाध्येतुः प्रकृतिप्रत्ययार्थज्ञानेन सुसाध्यं, नान्यस्य । अत एव “वेदार्थज्ञो जपं
जप्त्वा तथैवाध्ययनं द्विजः । कुर्वन्स्वर्गमवाप्नोति नरकं तु विपर्यये” इति व्यासेनोक्तम् ।
( ९ )—एकस्यापशब्दस्य भूयांसोऽपशब्दाः । संस्कृततदतिरिक्तभाषाशब्दादयः इति
यावत् तत्प्रयोगेण दुष्यति । एकस्य सुशब्दस्य प्रयोगे तु न तथा दुष्यति । अनन्तफलमप्या-
प्नोति तद्दोषप्राप्तिपरिहारो व्याकरणेनैव सिध्यत्यनन्तफलप्राप्तिश्च । तदेतदुच्यते “यस्तु प्रयु-
ङ्क्ते कुशलो विशेषे शब्दान्यथावद्व्यवहारकाले । सोऽनन्तमाप्नोति फलं परत्र वाग्योगविद्दुष्यति
चापशब्दैः” इति ।
( १० )—प्रत्यभिवादे गुर्वादिभिः स्त्रीभिन्नैः प्लुतः कार्य इति विधिरस्ति । तच्च व्याकरण-
ज्ञानाधीनम् ॥
( ११ )—“प्रयाजाः सविभक्तिकाः कार्याः” इति विधिवाक्यानुसारेण तत्र वाक्येषु तत्त-
द्विभक्त्यन्तघटिततयोच्चारणं व्याकरणेनैव सिध्यति ।
( १२ ) साच्कव्यञ्जनरूपाक्षरज्ञानं पदज्ञानं वाक्यज्ञानं च व्याकरणज्ञानाधीनम् ।
( १३ )—यत्र नामाख्यातोपसर्गनिपातरूपचतुर्विधपदज्ञानं, भूतभविष्यद्वर्तमानतदवान्तराद्य-
तनानद्यतनकालज्ञानं, व्यङ्ग्यव्यञ्जकशब्दज्ञानं सप्तविभक्तिज्ञानं तत्तद्वर्णिनामुरःकण्ठशिरोरूपस्थान-
त्रयज्ञानं तत्र मनुष्ये शब्दः प्रविश्य तथा प्रकाशमापेदे इति ज्ञानं व्याकरणज्ञानाधीनम् ।
तत्रेयं श्रुतिः—“चत्वारिवाग्-.” इत्यादि । अथ वा “परापश्यन्ती मध्यमा वैखरी” इति
चतस्रो वाचः । तत्र तिस्रो गुहायां मूलाधारस्वाधिष्ठानमणिपूरकाख्येषु स्थानेषु क्रमेण सन्ति ॥
तुरीयां वैखर्याख्यां वाचं मनुष्या मुखेनोच्चारयन्तीत्यर्थः । एवं च वर्णानामुत्पत्तिवृद्ध्यादिक्रमो
व्याकरणाधीनः ।
( १४ )—बहूनामपि समानपृष्ठोदरपाणिपादानां वेदवेदाङ्गादिकमधीयमानानां स्वभ्यस्ता-
ध्ययनोपि सूक्ष्मबुद्धिरपि कश्चित्पदशः प्रकृतिप्रत्ययविभागेन विगृह्यार्थेनैनां न पश्यति न
जानाति वाचम् । अर्थपरिज्ञानमेव हि वाचां फलम् । एकः शृण्वन्नपि न शृणोत्येनाम् । य
एव हि सम्यगर्थं जानाति स एवैनां वाचं जानाति शृणोति च । तत्रेयं श्रुतिः—“उत त्वः
पश्यन्न ददर्श वाचमुतत्वः शृण्वन्न शृणोत्येनाम् । उतो त्वस्मै तन्वाँ ३ विसस्रे जायेव पत्य
उशती सुवासाः” इति । अर्थो हि वाचश्शरीरम् । प्रातिपदिकाद् धातोश्चार्थादौ प्रत्ययानां
विधानात् । तच्च ज्ञानं व्याकरणज्ञानाधीनम् ।
( १५ )—सुशब्दापशब्दसमूहात्परिशोध्यापशब्दान्विहायैव सुशब्दसंपत्सम्पादनं व्याकरण-
ज्ञानाधीनम् । तदाह श्रुतिः—“सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत ।
अत्रा सखायस्सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधिवाचि” इति ।