वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 38, कुल 835 में से
संदर्भ में पढ़ेंव्यलिखदिति केचित् । एवं स तयथाबुद्धिबलं समीकृत्य नियमेन तन्महाभाष्यस्य पाठप्रवच-
नाभ्यां तिसृभिर्द्विजदारैर्ज्ञातिनिर्वर्त्त्यन्कालं यापयामास । ततः कदाचिद्वसन्तसमये चतस्रोपि
भार्या रममाणस्यास्य गर्भमादधुः । ततस्स यथाकालं यथायोग्यं पुंसवनादीनि कर्माणि
निर्वर्त्तयांचकार । ततस्ता उचितेषु समयेषु चतस्रोपि दीप्ततेजसः एकैकक्रमेण चतुरः
पुत्रानसोषत । यथाकालं स द्विजवरस्ताञ्जातकर्मणा संस्कृत्य वर्णक्रमेण वररुचिर्विक्रमार्को भट्टि-
भर्तृहरिरिति नामभिराहूयोपनीय त्रीन्साङ्गोपाङ्गांश्चतुरो वेदानध्याप्य महाभाष्यमप्यजीगपत् ।
ततो भर्तृहरिस्तुरीयासूनुर्महाभाष्यं पिपठिषुस्तच्छिष्यैः स्वभ्रातृभिरनधिकारीति निवारितो
रहः पितुरन्तिकमुपेत्य प्रणिपत्य सविनयं भुवोन्तरे किंचित्कुहरमकुतोभयं वि