उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
१३० उत्तररामचरितं [ ६-१७
एतान्यपश्यन्गुरवः पुराणाः
स्वान्येव तेजांसि तपोमयानि ॥ १५ ॥
अथैतन्मन्त्रपारायणोपनिषदं भगवान्कृशाश्वः परःसहस्रसंवत्सरान्तेवासिने
कौशिकाय प्रोवाच । स तु भगवान्मह्यमित्येष गुरुपूर्वानुक्रमः । कुमारस्य
कुतः संप्रदाय इति पृच्छामि ।
लवः—स्वतःप्रकाशान्यावयोरस्त्राणि ।
रामः—( विचिन्त्य । ) किं न संभाव्यते । प्रकृष्टपुण्यपरिपाकोपादान-
कोऽपि महिमा स्यात् । द्विवचनं तु कथम् ।
लवः—भ्रातरावां यमौ ।
रामः—स तर्हि द्वितीयः कः ।
( नेपथ्ये । ) दाण्डायन
आयुष्मतः किल लवस्य नरेन्द्रसैन्यै-
रायोधनं ननु किमात्थ सखे तथेति ।
अद्यास्तमेतु भुवनेष्वधिराजशब्दः
क्षत्रस्य शस्त्रशिखिनः शममद्य यान्तु ॥ १६ ॥
रामः—अथ कोऽयमिन्द्रमणिमेचकुरुच्छवि-
र्ध्वनिनेव बद्धपुलकं करोति माम् ।
नवनीलनीरधरधीरगर्जित-
क्षणबद्धकुड्मलकदम्बडम्बरम् ॥ १७ ॥
लवः—अयमसो मम ज्यायानार्यः कुशो नाम भरताश्रमान्प्रतिनिवृत्तः ।
रामः—( सकौतुकम् । ) वत्स इत एवाह्वयैतमायुष्मन्तम् ।
लवः—एवम् । ( इति परिक्रामति । )
पश्य पठमस्य । उपनिषदं । तमरेभ्य प्रभृति । अन्तेवासिने शिष्याय ।
गुरूणाम् । कुतः कस्मात् । पुण्यानां परिपाक परिणाम एव उपादानं
कारणं यस्य । उपादानमिति यमायिति च ध्वनी । तथा अनिशयेनेत्यर्थ ॥
आयुष्मतः किलेति ॥ १६ ॥ क्षत्रम्य रामस्येति भावः । शस्त्राण्येव
शिखिनः अग्नय ॥ १६ ॥ अथ कोऽयमिन्द्रेति ॥ १७॥ इन्द्रमणिवत्
मेचका नीला छविः कान्ति यम्य । धीरगर्जितक्षणे गम्भीरस्तनितक्षणे ।
यद्धकुड्मलः यः कदम्बो नीर तस्य डम्बरः शारभटी यस्य तम् ।
१ 'अथैतास्मन्त्रान्द्रोपनिषदम्' ग-क. २ 'सहस्राधिकसंवत्सरपरिचर्यानिरा
यान्ते०' न. ३ 'पूर्वानुक्रमः' घ, 'क्रमः' घ. ४ 'भुवनेषु च राज०' न.
६-१९ ] उत्तररामचरितं १३१
( ततः प्रविशति कुशः । )
कुशः- ( साकूतहर्षनेत्रं धनुरास्फालयन् । )
दत्तेन्द्राभयदक्षिणं भगवतो वैवस्वताद्वा मनो-
दृप्तानां दहनाय दीपितनिजक्षत्रप्रतापाग्निभिः ।
आदित्यैर्यदि विग्रहो नृपतिभिर्धन्यं ममैतत्ततो
दीप्तास्त्रस्फुरदुग्रदीधितिशिखानीराजितस्यं धनुः ॥ १८ ॥
( इति विकटं परिक्रामति । )
रामः-कोऽयमिन्क्षत्रियपोतके पौरुषातिरेकः ।
दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा
धीरोद्धता नमयतीव गतिर्धरित्रीम् ।
कौमारकेऽपि गिरिवद्गुरुतां दधानो
वीरो रसः किमयमभ्युत दर्प एव ॥ १९ ॥
लवः- ( उपसृत्य । ) जयन्त्वार्यः ।
कुशः-आयुष्मन् किमियं वार्ता युद्धं युद्धमिति ।
लवः-यत्किञ्चिदेतत् । आर्यस्तु दृष्टभावमुत्सृज्य विनयेन वर्तताम् ।
कुशः-किमर्थम् ।
'आरभटी चारभटीकाऽम्बरश्च' इति रुद्रः ॥ १७ ॥ दत्तेन्द्राभयेति ॥ १८ ॥
वैवस्वतान्मनोरागतैः जातायैः । संभूतिरिति यावत् । दृप्तानां गर्वितदै-
त्यानाम् । आदित्यैः वैकर्तनैः । 'ऐक्ष्वादिजनकादित्यविदेहरघवो दिशः'
इत्यमरः । मानितैरिति च पाठः । ततः विस्तृतः । विग्रहो यदि युद्धं चेत् ।
धनुः । दीप्तास्त्राण्येव स्फुरन्तौ उग्रदीधिती अग्निमूर्ती तयोः शिखानिः
ज्वालाभिः । नीराजिता कृतनीराजना । गुम्भि(म्फि?)तेति यावत् । ज्या
मौर्वी यस्मिन् तादृशं शोभतामिति शेषः । धनुर्भ योजितास्त्रं भवत्विति भावः
॥१८॥ क्षत्रपोते क्षत्रियडिम्भे । पौरुषस्य सामर्थ्यस्य । अतिरेकः आधि-
क्यम् ॥ दृष्टिस्तृणीकृतेति ॥१९॥ जगत्त्रये मत्ताः । 'बलाधिके च सत्त्वोऽ-
स्त्री' इत्यमरशेषः । गतिः गमनम् । पादार्पणक्रम इति यावत् । 'बाल्ययौवनम-
ध्यस्थं वयः कौमारकं विदुः ।' इति नन्दी । गुरुतां गुरुत्वं गुणविशेषं
महत्त्वं च । गिरिवदिति कथनं गुरुतायां सार्वकालिकत्वसूचकम् । उत
अथवा । 'औद्धत्यमशङ्को दर्पः ।' इति गोवर्धनः ॥ १९॥ युद्धमित्यनादरे ।
यत्किञ्चिदिति कथनं आत्मसदृशयुद्धाभावज्ञापकम् । दृप्तभावं दर्पम् ।
, १ 'सक्रोधं कृतधैर्य' न. २ 'दमनाय' भ. ३ 'दीप्तास्त्र०' न-घ-व.
४ 'उत्सृज्याधोऽस्मिन् विनयेन' व-घ.
१३२ उत्तररामचरितं [५-२०
लवः—यदय देवो रघुपतिस्तिष्ठति। स च दिदृक्षावयोस्कण्ठते च
युष्मत्सैनिकपंक्त्य ।
कुशः—(सतर्कम्।) स रामायणकथानायको ब्रह्मकोशस्य गोपायिता।
लवः—अथ किम्।
कुशः—आशंसनीयपुण्यदर्शनः स महात्मा। किं तु कथमस्माभिरुपग-
न्तव्य इति न संप्रधारयामि।
लवः—यथैव गुरुस्तथोपसदनेन।
कुशः—कथं हि नामैतत्।
लवः—अभ्युदात्तः सुजनश्चन्द्रकेतुरेौरिमलेयः प्रियवयस्येति सख्येन मामु-
पतिष्ठते। तेन तत्सम्बन्धेन धर्मतात एवायं राजर्षिः।
कुशः—संग्रह्यवचनीयो राजन्येऽपि प्रश्रयः।
(उभौ परिक्रामतः।)
लवः—पश्यत्वेनमार्यो महापुरुषमाकारानुभावगाम्भीर्यसम्भाव्यमानवि-
विधलोकोत्तरसुचरितातिशयम्।
कुशः—(निर्वर्ण्य।)
अहो प्रासादिकं रूपमनुभावश्च पावनः।
स्थाने रामायणकविर्देवी वाचं व्यवीवृतत् ॥ २० ॥
(उपसृत्य) तात प्राचेतसान्तेवासी कुशोऽभिवादयते।
रामः—एह्येह्यायुष्मन्!
आवयोरिति सप्तमीद्विवचनम्। धातृङ्.। ब्रह्मण एव विप्रा त एव कोशाः
अर्थांप.। ‘वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्र.’ इत्यमरः। ‘गुरुस्तात उपाध्याय.’
इति पठन् इति शेषः । उदात्त महान् । और्मिलेयः ऊर्मिलापुत्र. ।
‘सख्यं साप्तपदीनम्’ इत्यमर । राजन्ये क्षत्रियविषये । प्रश्रयः विनदः ।
...श्चास्र इति रभसः। आकारानुभावस्य स्वरूपप्रभावस्य। गाम्भीर्येण ॥
अहो प्रासादिकमिति ॥ २० ॥ प्रासादिकं प्रसादनदानम् । ‘माहात्म्ये
चानुभाव.’ इति वषिल । वाल्मीकिः रामायणमुद्दिश्य । वाचं सरस्वतीम् ।
व्यवीवृतत् वर्तयति स्मेल्यर्थः। परिणामयति स्मेति यावत्। स्थाने युक्तम्
१ 'रघुनन्दनः स्थितः । स रामायणकथानायको ब्रह्मकोशस्य गोप्ता' इति
सूत्रवाक्य न-पुस्तके. २ 'भवीवृनद्' क, 'मवीवृषत्' न.
६-२३] उत्तररामचरितं १३३
अमृताध्मातजीमूतस्निग्धसंहननस्य ते।
परिष्वङ्गाय वात्सल्यादयमुत्कण्ठते जनः॥ २१॥
(परिष्वज्य। स्वगतम्।) तत्किमपत्यमयं दारकः।
अङ्गादङ्गात्स्रुतः इव निजस्नेहजो देहसारः
प्रादुर्भूय स्थित इव बहिश्चेतनाधातुरेकः।
सान्द्रानन्दक्षुभितहृदयप्रस्रवेनेव सृष्टो
गात्रं श्लेषे यदमृतरसस्रोतसा सिञ्चतीव ॥ २२ ॥
लवः—तात ललाटंतपो घर्मांशुः। तदत्र सालवृक्षच्छायाये मुहूर्त्तमासनप-
रिग्रहं करोतु तातः।
रामः—यदभिरुचितं वत्सस्य।
(सर्वे परिक्रम्य यथोचितमुपविशन्ति।)
रामः—(स्वगतम्।)
अहो प्रश्रययोगेऽपि गतिस्थित्यासनादयः।
साम्राज्यशंसिनो भावाः कुशस्य च लवस्य च ॥ २३ ॥
॥ २० ॥ अमृताध्मातेति ॥ २१ ॥ अमृतेन सुधया। आध्मातः पूरित-
च जीमूतः मेघः। तस्येव स्निग्धं संहननं वपुः यस्य । 'मसृणश्यामयोः
स्निग्धम्' इति शाश्वतः ॥ २१ ॥ अङ्गादङ्गादिति ॥ २२ ॥ 'अङ्गादङ्गादिति'
श्रुतिः । यद. । निजस्नेहजः स्वप्रेमसंभवः। सारो बलं एको मुख्यः ।
चेतनायाः धातुः। 'कामोद्रेके चेतने' इति, 'धातु' स्याद्गर्भविकृतौ' इति
शब्दमालाभण्डार्थवी । आनन्देन क्षुभित. स्थानाद्गत्यासी हृदयप्रस्रवः तेन
सिक्तः । प्रस्रव आर्द्रता । 'पाडता' (पाण्डा ?) इति महाराष्ट्राः । स तादृशः
सम...यावत्। आश्लेषः आलिङ्गनम् । मम ये हिमप्योतं तुहिननिर्गलनम्।
आ समन्ताद् शंसतीव । एतदालिङ्गनमतिमुखशीतलमिति भावः ॥ २२ ॥
'कठोर...सूर्य्यं दृष्टो रविः करे' । यदा ललाटं तपति स्याल्ललाटन्तपस्तदा ॥'
डल्मरशेषः । 'भूर्जंशु मण्डस्मात्' इति धन्वन्तरिः । आसनपरिग्रहं
शासनं गृहाण । ध्वनिय ॥ अहो प्रश्रययोगेऽपीति ॥ २३ ॥ प्रश्रययोगे
अनन्यकर्तृरविनययोगेऽपि । स्वस्यैवोपचारकतादशायामपीति भाव । 'योग-
सन्नहनोपायध्यानसंगतियुक्तिषु' इत्यमरः । स्थितिः अवस्थानम् । आसनं
उपवेशनम् । अनयोराङ्गत्वेन रूपणादिकं प्रद्यते । भावाः चेष्टा लक्षयन्ति कः ।
१ 'मिह' घ. २ 'परिप्वङ्गत' ब. ३ 'तत्किमप्य च दारकः' न. ४ 'स्रुत'
के-घ. ५ 'निजो देहजः स्नेहसारः' घ-च. ६ 'इव' क-घ. ७ 'प्रस्रवेणावसित्तः'
ग. ८ 'आश्लेष. स दि मम हिमख्योतनादांसतीव' न. ९ 'ललाटंतपस्तपति' न.
१२ उ०
१३४ उत्तररामचरितं [ ६-२५
वपुरवियुतसिद्धा एव लक्ष्मीविलासाः
प्रतिकलकमनीयां कान्तिमुद्भेद्यन्ति ।
अमलिनमिव चन्द्रं रश्मयः स्वे यथा वा
विकसितमरविन्दं विन्दवो माकरन्दाः ॥ २४ ॥
भूयिष्ठं च रघुकुलकुमारच्छायाममयोः पश्यामि ।
कठोरपारावतकण्ठमेचकं
वपुर्वृपस्कन्धसुबन्धुरांसकम् ।
प्रसप्रत्तिहस्तिस्मितं च वीक्षितं
ध्वनिश्च मङ्गल्यमृदङ्गमांसलः ॥ २५ ॥
(निपुणं निरूप्य ।) अये न केवलमस्मत्संवादिनी आकृतिः ।
अपि जनकसुतायास्तच्च तच्चानुरूपं
स्फुटमिह शिशुयुग्मे नैपुणोन्नेयमस्ति ।
'भावस्सत्त्वास्वभावाभि... लक्षणे' इति कपिल ॥ २३ ॥ भङ्गान्तरेणाह ॥
वपुरवियुतसिद्धेति ॥ २४ ॥ वपुषा अवियुताः अविमुक्ता सन्त :
सिद्धाः सहजसिद्धा इति यावत् । 'काष्ठा निशत्तु या फलाः' इति
हरदत्तः । उन्नेदयन्ति प्रकाशयन्ति । स्वे आत्मीया । 'श्वो शता-
वात्मनि स्वं त्रिष्वात्मीये स्वेऽस्त्रिया धने' इत्यमर । माकरन्दाः मक-
रन्दसम्बन्धिन । यथा चेत्युपमानपदम् । 'यथैव वा य यद्वच्च यथा वा'
इति भेदारः ॥ २४ ॥ 'भूयिष्ठम्वित' इत्यमर । रघुकुलस्यैव कुमारमिति
विवेक ॥ कठोरपारावतेति ॥ २५ ॥ कठोरः तरुण इति यावत् ।
'मेचकश्याम .. ...मनोहरम्' इति त्रिकमार्क । सुशार पादपूरक ।
व्यर्थ इति यहव । वीक्षितं अवलोकनं । प्रसप्रं च तत् सिंहस्येव स्ति-
मितं निश्चलमित्यर्थ । माङ्गल्य-...सौ मृदङ्गस्येव मांसलः गम्भीर इति
भाव । 'मङ्गले साधु मङ्गल्य' इति नन्दी । 'सर्वमङ्गलमङ्गल्ये' इति श्रीसूक्त-
भाष्ये स्पष्टमेतत् ॥ अपि जनकसुताया इति ॥ २६ ॥ तत्तत् चिह्न-
मिति थे...यमजायत्स्वलोपमम् । शिशु इति प्रेमोपचार बालानित्यर्थ ।
अपिसम्भावनायाम् । 'धन्यो मातृमुरस्तुन' इति मयण्डितान्तमनुसरन् ।
१ 'अवेहिन' क-घ-च. २ 'प्रतिक्षणकमनीय' घ-ध, 'कमनीय' क. ३ 'का-
न्तिमरोत्तयन्ति' क-च-घ. ४ 'रस' क-घ-व. ५ 'हे ममोदा' क-प-घ.
६ 'विकसितमिव पद्म' क-घ-ध. ७ 'भूयिष्ठ च रघुकुलकुमारमनयो' न.
८ 'बन्धुरांनयो.' न; 'स्कन्धमवगुरांरायो' घ, 'अन्थुरांगकम्' घ. ९ अ-
सादहसंवादिनी' क-प; 'असादश' न.
६-२७] उत्तररामचरितं १३५
ननु पुनरिव तन्मे गोचरीभूतमक्ष्णो-
रमिनवशत्पद्मश्रीमदास्यं प्रियायाः ॥ २६ ॥
शुक्लाच्छदन्तच्छविसुन्दरेयं
सैवोष्ठमुद्रा स च कर्णपाशः ।
नेत्रे पुनर्यद्यपि रक्तनीले
तथापि सौभाग्यगुणः स एव ॥ २७ ॥
( विचिन्त्य । ) तदेतत्प्राचेतसाध्युषितमरण्यं यत्र किल देवी परित्यक्ता ।
इयं चानयोराकृतिर्ययोऽनुभावश्च । यदपि स्वतः प्रकाशान्यस्त्राणीति तत्र
विमृशामि । अपि खलु तच्चित्रदर्शनप्रासङ्गिकमस्त्राभ्यनुज्ञानमुद्भूतं स्यात् ।
न ह्यसाम्प्रदायिकान्यस्त्राणि पूर्वैषामप्यनुशुश्रुम । अय च संप्लवमानमात्मानं
मुखानिशयो हृदयस्य मे विस्रम्भयते । र्धमादिति च भूयिष्ठमात्मसंवादः ।
भूयिष्ठ च मया द्विधा प्रनिपन्नो देव्या गर्भिणीभाव आसीत् । ( सास्रम् । )
परां रूढे स्नेहे परिचयविकासादुपचिते
रहो निर्बन्धाया अपि सहजलब्धाजडदृशः ।
सुख तु तरीय...ह--नन्विति । अभिनवं अध्वान (१) । श्रीः शोभा ।
'श्रीर्वेषादौ' इति विश्व । तत् अनुश्मान आस्यम् । ननु निश्चये । पुनरिव
शब्दालङ्कारो इति दयालव ॥ २६ ॥ शुक्लाच्छदन्तेति ॥ २७ ॥ शुक्ला...
अच्छा निर्मला । मुद्रा...रेति चय । कर्ण एव पाश । रूपत्वेनि
कल्पलताकारः । रक्तेति । 'नीलरक्तान्तलोचन' इति महापुरुषलक्षणम् ।
स एव प्रियासम्बन्ध्येवेत्यर्थे ॥ २७ ॥ तनापीति-अत्राणा स्वतः-
प्रकाशनेत्यर्थ । प्रासङ्गिकं प्रसङ्गभवम् । शस्त्राभ्यनुज्ञानमिति-सर्वथा
एतानि त्वत्प्रभवमुपस्थास्यन्तीति प्रथमाङ्के चित्रपटिकादर्शनावसरे मयैवाभ्य-
नुज्ञा कृतेति भाव । असाम्प्रदायकानि देशिकाम्यनुज्ञानेतराणीत्यर्थ ।
सुप्लवमानयो. उन्मेषड्रेल्यौ । विस्रम्भः विश्वास । आत्मना सह
सवाद इत्यर्थ । जीवद्वयरूपे अपत्ये विद्र यस्मिन् ॥ परां कोटिं स्नेहे
इति ॥ २८ ॥ 'उपचारो बहिरुस्नेह प्रीतिरन्तरमुच्यते' इति वस्तुनिर्णयः ।
सहजलब्धा चासौ सा समन्तान्नभ्नेतरविषय इति यावत् । जडे अरम-
१ 'मुक्तच्छ' क-घ-च. २ 'वपुश्च' घ, 'अन्तर्भवनमदो' घ. ३ 'इति
च । हतारि खलु हरिरि वित्र' न. ४ 'प्रसङ्ग' न. ५ 'अय दिन्प्रत्यक्षुर' म,
'हाय च संप्लव' प. ६ 'सुमुख जाङ्गिरथ' न-क. ७ 'विप्रलम्भ' न.
८ 'दमा..वाद' दत्त्राणि घ-ख-पुस्तस्थो. ९ 'परां कोटि स्नेहे' न.
१० 'अपिचते' न.
१३६ उत्तररामचरितं [ ६-३०
मयैवादौ ज्ञातः करतलपरामर्शकलया
द्विधा गर्भग्रन्थिस्तदनु दिवसैः कैरपि तया ॥ २८ ॥
(रुदित्वा) तत्किमेतौ पृच्छामि केनचिदुपायेन ।
लवः—तात किमेतत् ।
बाष्पवर्षेण नीतं वो जगन्मङ्गलमाननम् ।
अवश्यायावसिक्तस्य पुण्डरीकस्य चारुताम् ॥ २९ ॥
कुशः—अयि वत्स
विना सीतादेव्या किमिव हि न दुःखं रघुपतेः
प्रियानाशे कृत्स्नं किल जगदरण्यं हि भवति ।
स च स्नेहस्तावानयमपि वियोगो निरवधिः
किमेवं त्वं पृच्छस्यनधिगतरामायण इव ॥ ३० ॥
रामः—( स्वगतम् । ) अये तटस्थै आलापः । कृतं प्रश्नेन । मुग्धहृदय
कोऽयमाकस्मिकस्ते परिप्लवो विकारः । एवं च निर्भिन्नहृदयावेगः शिशु-
स्फारिणौ दृशो नेत्रे यस्या । कलया चातुर्येण । 'ग्रन्थिर्मर्मणि' इति या-
दव । तया सीतयेत्यर्थ ॥ २८ ॥ केनचित् अन्यापदेशेनेत्यर्थ ॥ बाष्प-
वर्षेणेति ॥ २९ ॥ ते तव । 'बाल्ये सुतानां...त्वदाहारपूर्णा गिर' इति भो-
जचरिते । जगतां मङ्गलं येन यस्माद्वा । अवश्यायैः हिमं । पुण्ड-
रीकस्य हिममिव स्वन्मुखस्य बाष्पधारापि चारुतेति भाव । अनेन अ-
नितरसाधारण सौन्दर्ये व्यज्यते । अत एव 'किमिव हि मधुराणा मण्डनं
नाकृतीनाम्' इत्यस्यापत्यातशाकुन्तले । पुण्डरीकेति कथनात् पाण्डिमा
लक्ष्यते । तथा च-'या दशा विरहे स्त्रीणां सैव पुंसामपि' इति काव्यचि-
न्तामणौ ॥ २९ ॥ विना सीतादेव्या इति ॥ ३० ॥ सीतयेव देवी
तया । 'देवी कृताभिषेकायाम्' इत्यमर । अरण्यमिव दुरुत्तरमित्यर्थः । यापि
...सस्नेह ह (१) तावान्या छेद इत्येवालम् । तथापि स्थितस्य गतिश्चिन्त-
नीयेति न्यायात् । सः प्रसिद्ध । स्नेहः तावान् अगण्य इत्यर्थ ॥ अन-
धिगतं रामायणं येन । अत्र प्रथमो हिकार पादपूरक इति कश्चित् । तन्न
'नहि नो नापीति' अमरसिंहेनाभिधानात् । द्वितीयस्तु प्रसिद्धवाचक । इत्थं
किमिति भ्रान्त पाठ । बतेति साधु । अये इत्याश्चर्ये ॥ ३० ॥ तटस्थः
षष्टत (?) अनेन ज्ञातोऽस्मीति भाव । आकस्मिकः अकस्माद्भव ।
परिप्लवः चपल । विनिर्भिन्नं भेदितं च यत् हृदयं तस्मिन् आवेगः
१ 'अवश्यायाम्बुसिक्तस्य' घ. २ 'तटस्थस्त.' क-घ-प. ३ 'स्नेहस्तैरप्य.'
क, 'संहृष्टापिक्षार' न.
जनेनाप्यनुकम्पितोऽस्मि । भवतु तावदन्तरयामि । ( प्रकाशम् ।) वत्सौ
रामायणं रामायणमिति श्रूयते भगवतो वाल्मीकेः सरस्वतीनिष्यन्दः प्रश-
स्तिरादित्यवंशस्य । तत्र कौतूहलेन यत्किञ्चिच्छ्रोतुमिच्छामि ।
कुशः—स इत्थ एव सन्दर्भोंऽस्माभिरादृतः । स्मृतिप्रत्युपस्थितौ
तावदिमौ बालचरितस्यान्त्येऽध्याये द्वौ श्लोकौ ।
रामः—उदीरयतं वत्सौ ।
कुशः—
प्रकृत्यैव प्रिया सीता रामस्यासीन्महात्मनः ।
प्रियभावः स तु तया स्वगुणैरेव वर्धितः ॥ ३१ ॥
तथैव रामः सीतायाः प्राणेभ्योऽपि प्रियोऽभवत् ।
हृदयं त्वेव जानाति प्रीतियोगं परस्परम् ॥ ३२ ॥
रामः—कष्टमनिदारुण्यं हृदयमर्मोद्घातः । हा देवि एवं किल तदा-
सीत् । अहो निरन्वयविपर्यासविरसवृत्तयो विप्रलम्भपर्यवसायिनस्तापयन्ति
संप्रसादवृत्तान्ताः ।
सभ्रमः यस्य । शिशुजनेनाप्यनुकम्पितोऽस्मि । इतेनेनश्च कैमुतिकन्याय-
भावः । अन्तरयामि छादयामि इत्यर्थः । निष्यन्दः गलनम् । प्रशस्तिः
प्रशंसा । स्मृतिप्रत्युपस्थितौ स्मृतौ इति यावत् । बालेति बाल-
काण्डचरित्रस्य । अन्त्ये चरमे । 'अध्यायस्सर्ग' इति केदार । वत्सा-
विति द्विवचनसंबोधनम् ॥ प्रिया तु सीतेति ॥ ३१ ॥ गुणे दयादाक्षि-
ण्यादिनि । रूपाणा सौन्दर्याणा गणैः राशिभिश्च । एवकारश्चकारार्थः ।
अनेकार्थ्याच्छब्दानां यथाप्रकरणं बुधैर्ज्ञेयोऽर्थ इति दण्डिवचते । प्रीतिः
सन्तोषः । व्यवर्धत तस्यानिति शेषः ॥ ३१ ॥ तथैव राम इति ॥ ३२ ॥
रामस्य सीता यथा तथैवेत्यर्थः । हृदयमित्येकवचनमहिम्ना उभयोर्हृदय-
मेकमेव, वपुषी परं द्वे इति भावः । परस्परं प्रीतियोगं तु हृदयमेव
जानातीत्यन्वयः ॥ ३२ ॥ मर्मतः पूर्वानुभूतावस्था । 'उद्घात आरम्भः'
इत्यमरः । एवं श्रोत्रद्वयानुस्यूतेत्यर्थः । निर्गतश्च वन्यस्य विपर्यासः
वैपरीत्यं यस्मात् । तादृश् वृत्तं चरितं यस्मिन् सा पाप्मी विप्रलम्भस्तद्वत्तारः
तस्य स्मृतिः स्मरणं । तत्पर्यवसायिनः स्मरणपर्यवमानवन्त तावकाः
त्वदीया । संप्रसादस्य सम्यक् प्रसन्नतायाः । वृत्तान्ताः उद्गता इत्यर्थ ।
वंशोदितचरित्रश्रृङ्गारस्मरणपर्यवसायिनी जाता तव प्रसादवर्तिरिति भावः ।
—'विपर्यासो वैपरीत्ये' इति, 'अन्वयो वंशे' इति, 'वृतं चरिते' इति च, 'वि-
१ 'विपर्यासविरसप्रवृत्तस्मृतिपर्यवसायिनस्तावकाः संप्रसादवृत्तान्ताः' न.
१३८ उत्तररामचरितं [ ६-३५
क्व तावानानन्दो निरतिशयविश्रम्भबहुलः
क्व चाऽन्योन्यप्रेम क्व च नु गहनाः कौतुकरसाः ।
सुखे वा दुःखे वा क्व नु खलु तदैक्यं हृदययो-
स्तथाप्येष प्राणः स्फुरति न तु पापो विरमति ॥ ३३ ॥
भोः कष्टम् ।
प्रियागुणसहस्राणामेकोन्मीलनपेशलः ।
य एष दुःसहः कालस्तमेव स्मारिता वयम् ॥ ३४ ॥
यदा किंचित्किंचित्कृतपदमहोभिः कतिपयै-
स्तैदीषद्विस्तारि स्तनमुकुलमासीन्मृगदृशः ।
वयःस्नेहाकूतव्यतिकरघनो यत्र मदनः
प्रगल्भव्यापारः स्फुरति हृदि मुग्धश्च वपुषि ॥ ३५ ॥
लवः—अयं च मन्दाकिनीचित्रकूटवनविहारे सीतादेवीमुद्दिश्य रघुपते.
श्लोक —
प्रलम्भस्तु शृङ्गारे' इति मेदिन्यमरकपिलसंसारावर्ता ॥ क्व तावानानन्द
इति ॥ ३३ ॥ विश्रम्भः विश्वास । बन्धनाऽस्तीति भाव । चेतः मन ।
यत्र यत्र यस्मिन् मनसीत्यर्थ । तद्भेदलेशरहितं प्रसिद्धं वा । हृदययोः
आवयोरिति शेष. । 'पुंसि भूय्यसवः प्राणा.' इत्यमराद्यनुशासनात् प्राणा इति
वक्तव्ये प्राण इति कृते प्रमाद इति केचित् । तन ॥ 'हृदि प्राणो' इति
तस्योक्ते । विरमति विरतो भवति । एतेन तद्विरहव्यथायां अपानादयो
विरता , पुनराशानुबन्धात् प्राणमात्र हृदि वर्तत इति भाव ॥ ३३ ॥ प्रि-
यागुणेति ॥ ३४ ॥ उन्मीलनं उदय । प्रकृते स्मरणमिति यावत् । तं
कौमाराविर्भावरूपमेव कालमित्यर्थ ॥ ३४ ॥ यदा किंचित्किंचिदिति
॥ ३५ ॥ स्तनमुकुलं कर्तृ । यदा अहोभिः दिवसैः । कृतपदं कृत-
स्थान । चतुर्थपाद सहदीति (?) मूलम् । तदा ईषत् मनाग् । विस्तारि
विस्तारशालि । आसीत् । यस्मिन् यत्र हृदि । वयसः स्नेहे प्रादुर्भावरूपे
प्रेम्णि । आकूतं अभिप्राय । तस्य व्यतिकरेण सम्बन्धेन । घनः सान्द्र ।
मदनः । प्रगल्भव्यापारः प्रकटव्याप्ति सन् । चरति । वपुषि च मुग्धः
मनोज्ञ । चरतीत्यर्थ । तथा च मदनः वयसा सह हृदि वपुषि च प्रौढ
१ 'क्व चेऽन्योन्य यज्ञा.' घ-थ. २ 'क्रमोन्मीलनतत्पर ' न; 'क्रमोन्मीलन' घ.
३ 'दुःसह.' भ. ४ 'तदा' क-घ-य. ५ 'यदेतद्विस्तारि' न. ६ 'चित्रकूट-
कामेनि मन्दाकिनीविहारे' न.
६-३७ ] उत्तररामचरितं १३९
त्वदर्थमिव न्यस्तः शिलापट्टोऽयमग्रतः ।
यस्यायमभितः पुष्पैः प्रवृष्ट इव केसरः ॥ ३६ ॥
रामः-( सच्छवालितस्नेहकरुणम् ) बते हि नाम मुग्ध शिशुजन-
विशेषात्स्वदण्डधर । हा देवि स्मरसि वा तस्य प्रदेशस्य तत्समयविस्रम्भा-
तिप्रसङ्गसाक्षिणः ।
श्रमाम्बुशिशिरीभवत्प्रसृतमन्दमन्दाकिनी-
मरुत्तरलितालकाकुलललाटचन्द्रद्युति ।
अकुङ्कुमकलङ्कितोज्ज्वलकपोलमुत्प्रेक्ष्यते
निराभरणसुन्दरश्रवणपाशमुग्धं मुखम् ॥ ३७ ॥
आसीदिति भाव ॥ ३५ ॥ त्वदर्थमिव निन्यस्त इति ॥ ३६ ॥ 'चतु-
स्त्रोणा शिला शिलापट्ट' इति त्रिकाण्डी । 'धलोमण्डा' इति महाराष्ट्राः ।
यस्य शिलापट्टस्य । समन्तत इति भाव । 'य चायमभित' इति वा पाठः ।
'केसरः काञ्चनद्रुम' इति धन्वन्तरि । 'शोन्दलहीरुङ्ग' इति महाराष्ट्राः ।
पुष्पैः प्रवृष्टः प्रकर्षेण वृष्ट । कृतपुष्पवर्ष इति यावत् । द्वितीयतृतीयपाद-
योर्र्यामेति ध्वनि ॥ ३६ ॥ सेति-रहोगततया लज्जा । बालोक्तमिति स्मि-
तम् । पत्या आत्मार्यतया वन स्नेहः । ईदृशमपि लडोऽङ्गे करुणा दन्त
ऽङ्गतो रहोया सर्वत्रैवम्भूत्तम् ॥ हा देवीत्यादिकथन हृदयस्थिता सीता प्रदीति
बोध्यम् । चाशब्द किमर्थ । तस्य यावत्सेति ध्वनि । विस्रम्भ. विश्वास ।
तेनातिप्रसङ्गः सुरतान्तादि भाव ॥ तदेवाह-धमाम्बुशिशिरीभ-
वदिति ॥ ३७ ॥ धमजले शीतलभवन् । प्रसृतः व्याप्त । मन्दः
सूसूनय । न मन्दाकिनीमारत । तेन तरलितैः । कम्पितै । अलकैः
भूर्णकुन्तलै । आकुलं ढोढ तदेव चन्द्रः तस्य युतिः कान्ति यस्मिन् ।
ललाटस्य चन्द्र इति सादृश्यरूपे धीनाथ । कुङ्कुमेन कलङ्किनी लाञ्छितां न
भवन इति अकुङ्कुमकलङ्कितो । उज्ज्वलौ सत प्रकाशमानौ कपोलो
यस्मिन् । कुङ्कुम कुङ्कनादिप्रचुर रङ्गविशेष । 'पथे' इति द्राविडा । प्रवृवे
रङ्गकुङ्कुमेति कथन वनवासार्हालेभ्यप्रयुक्तनित्यवगन्तव्यम् । एतेन कविना
निवद्वाभित्वं सूचितम् । निर्गतो आभरणे य तौ सुन्दरयो श्रवणयोः
पाशो ताडपने दलाव् । तादृश च तन्मुग्धं मनोहरम् । अनेन कृतावशुर
इति बोध्यम् । मुखं वदनम् । उत्प्रेक्षितं ईदृगिद तारांपेति योजेना कृत्वा
इतरथं । मयेति शेष । तथा च निरूपाधिक सातासौन्दर्यमिति भाव ।
१ 'आव्रत' न. २ 'अने नामाय मुग्ध' घ. ३ 'तस्य यत्समयवि-
सम्भातिप्रसङ्गस्य' न. ४ 'सौन्दर' घ-च.
१४० उत्तररामचरितं [ ६-३९
( स्तम्भित इव स्थित्वा । सकरुणम् ) अहो नु खलु भोः ।
चिरं ध्यात्वा ध्यात्वा निहित इव निर्माय पुरतः
प्रवासेप्याश्वासं न खलु न करोति प्रियजनः ।
जगज्जीर्णारण्यं भवति च फलैग्रव्युपरमे
तुषूलानां राशौ तदनु हृदयं पच्यत इव ॥ ३८ ॥
(नेपथ्ये ।) वसिष्ठो वाल्मीकिर्दशरथमहिष्योऽथ जनकः
सहैवारुन्धत्या शिशुकलहमाकर्ण्य सभयाः ।
जराग्रस्तैरंगैरथ खलु विदूराथमतया
चिरेणागच्छन्ति त्वरितमनसोऽपि प्रथमजडाः ॥३९॥
राम —कथं भगवत्यरुन्धती वसिष्ठोऽम्बाश्च जनकश्चात्रैव । कष्टं कथं
एतद्वयते द्रष्टव्या । (.सकरुणं विलोक्य । ) अहह तातजनकोपि दैवाद्येवा
यात इति वज्रेणेव ताडितोऽस्मि मन्दभाग्यः ।
अकुङ्कुमेति निराभरणेति च ध्वनी । एवमादिषु घटेषु परमनधीतार्था (१)
सुपीहिताथलमत्तयथोरवत्पलायन्तेतरामव्युत्पन्नजरद्द्वितिखण्डा , तदत्र व्यु-
त्पन्नरसिका एव प्रमाणं इति दिक् ॥ ३७ ॥ सजात स्तम्भ जडीभाव यस्य
स्तम्भित स्तब्ध कुण्ठित इत्येत्यर्थ ॥ चिरं ध्यात्वा ध्यात्वेति ॥ ३८ ॥
चिरं ध्यात्वा निर्माय । प्रवासेऽपि । पुरतः अग्रत । निहित इवेत्येकं
पदम् । निषण्ण इव सम्भाव्यमान इति शेष । प्रियजन य कोऽपि । आश्वासं
सान्त्वनम् । न खलु न करोत्येवेत्यन्वय । ध्यात्वा स्थित इव चेति क्वचि
त्पाठ । फलग्रस्य प्रकृते सीतायामपि । उपरमे तु उपरतौ अदर्शने इति
भाव । जगत् भुवनम् । ‘निस्सारे च क्षितीभूते जीर्णं शुष्के भयास्पदे’
इति मेदिनी । नेदमेकमेवावभासन, इतरदप्यस्तीत्याह-तदनु तस्मादरण्या
वभासनात् । अनु पश्चात् । हृदयमिति मुख्यतयोक्तम् । अत एव, ‘शिवस्य
हृदय विष्णोश्च हृदयं’ इति निर्देश । ‘तुषूल शङ्कुभि जीर्णे श्वभ्रे ना तु
तुषानले’ इत्यमर । तेषा राशौ पुञ्जे । पच्यतं प्रकर्षण गलितमित्यु-
त्प्रेक्षा ॥ ३८ ॥ वसिष्ठो वाल्मीकिरिति ॥ ३९ ॥ महिष्यः कौसल्या-
दय । ध्वनिश्च । शिशू लवचन्द्रकेतू । गात्रैः अवयवै । अथ
खल्वित्यसाधु । इहेति साधु पाठ । त्वरितमनसाभिर्गम्यत इति तेषामध्यव
साय । तथाऽपि वार्धकदशया चिरेणागच्छन्तीति सहोऽर्थ ॥ ३९ ॥ पितृ
सत्वादात् तातश्चाऽसौ जनक इति व्यपदेश । ताडित इति सीतापरित्यागा-
१ 'विरल्य' घ-च; 'फलेग्रव्युपरमे' न. २ '०मनसो विरूथजटा,' म.
६-४२ ] उत्तररामचरितं १४१
सम्बन्धस्पृहणीयताप्रमुदितेर्जुष्टे वसिष्ठादिभि-
र्दृष्ट्वापत्यविवाहमङ्गलमहे तत्तत्तातयोः सङ्गतम्।
पश्यन्नीदृशमीदृशः पितृसखं वृत्ते महावैशसे
दीर्ये किं न सहस्रधाहमथवा रामेण किं दुष्करम् ॥४०॥
( नेपथ्ये । ) भो भो, कष्ट कष्टम् ।
अनुभावमात्रसन्निवेशितथियं
सहसैव वीक्ष्य रघुनाथमीदृशम्।
प्रथमप्रमूढजनकप्रबोधनाद्
विधुराः प्रमोहमुपयान्ति मातरः ॥ ४१ ॥
रामः—हा तात हा मातर हा जनक
जनकानां रघूणां च यत्परं गोत्रमङ्गलम् ।
तत्राप्येककरणे पापे वृथा वः करुणा मयि ॥ ४२ ॥
पराश्रादिनि भाव ॥ सम्बन्धस्पृहणीयतेति ॥ ४० ॥ स्पृहणीयता
इच्छा । जुष्टे सेविते । अपत्यानां सीतादीनाम् । तत्तत्तातयोः तासां सीता-
दीनां तातयो जनककुशध्वजयो । सङ्गतं समागमम् दृष्ट्वा । महावैशसे
परित्यागरूपे अप्रिये । वृत्ते अतीते सति । ईदृश पश्यन्नहं न दीर्ये किं
न दल्यामि । 'वैशसनप्रियम्' इति, 'वृत्तमतीते' इति त्रिकाण्डशेषनामनि-
धाने । 'दलति दीर्यति' इति पाठरोधः । अत्र जीर्य ( दीर्ये २ ) इति क्वै
प्रमाद् । 'न विदीर्ये कठिना खलु स्त्रिय' इति कुमारसंभवे ईश्वरकृष्ण-
मिश्रेण दर्शनीय ॥ सन्देह न दीर्ये कुत पुनरिद सामर्थ्यमित्यत ग्राह—
अथवेति ॥ किं दुष्कर किमपि दुष्करं नेत्यर्थ सर्वं सुकरमिति भाव
॥ ४० ॥ अनुभावमात्रेति ॥ ४१ ॥ अनुभावः प्रभाव । सुधी शोभा
तद्र्वीवा । 'तस्य धीरनपायिनी' इति स्मरणात् । 'सीता लक्ष्मीर्भवान्विष्णु'
इति रामायणे च । ईदृशं सीताविधुरम् । विधुराः दीना । प्रमोहं
मूर्च्छातिशयम् ॥ ४१ ॥ जनकानां रघूणामिति ॥ ४२ ॥ तात निमि-
शाधिप इत्यर्थ । यत् भूम्यपत्यमिति शेष । सीतेत्यथ । वृत्तस्तं अशेषम् ।
गोत्रयोः वशयोध्र मङ्गलम् । तत्रापि सीतायाम् । अकरुणे पापे मयि ।
१ 'मङ्गलवेशे' न. २ 'दृष्टे' क-घ-व ३ 'समुञ्चित' घ-व.
४ 'प्रथमप्रमूढजनकप्रबोधिता.' म. ५ 'तन्निष्करुणे' क-घ-व.
यात्रसम्भावयामि । ( इत्युत्तिष्ठति । )
कुशलवौ—इत इतस्तात ।
( सकरुणावुलं परिक्रम्य निष्क्रान्ता सर्वे । )
इति कुमारप्रत्यभिज्ञानो नाम षष्ठोऽङ्कः ।
सप्तमोऽङ्कः ।
( ततः प्रविशति लक्ष्मणः । )
लक्ष्मणः—भो भो अद्य खलु भगवता वाल्मीकिना सब्रह्मक्षत्रपौरजा-
नपदाः प्रजाः सहास्माभिराहूय कृत्स्न एव सदेवासुरतिर्यङ्गुरगनायकनिकायः
सचराचरो भूतग्रामः स्वप्रभावेण सन्निधापितः । आदिष्टश्चाहमार्येण—
'वत्स लक्ष्मण भगवता वाल्मीकिना स्वकृतिमप्सरोभिः प्रयुज्यमानां द्रष्टु-
घ' युष्माकम् । करुणा वृथा ॥ ४२ ॥ इति महाराजपद + उत्तररामचरित
सञ्जीवनाख्यटिप्पणे षष्ठोऽङ्कः ॥
॥ षष्ठोऽङ्कस्सम्पूर्णः ॥
अथ मुखसन्धिप्रभृतिउपक्षिप्तनाटकीययावद्वस्तुक्रोडीकरणरूपं निर्वहणसन्धिं
प्रपञ्चयिष्यन् वाल्मीक्याश्रमपरित्यक्तजानकीसमुद्भूतार्थमन्तर्नाटकितारचना च
नत्करिष्यन् प्राचेतसवचनानुवृत्तिस्थावरजङ्गमप्रायजगद्विनुतपरिशुद्धमैथिलीकु-
शलवप्रमुखैः श्रीरामभद्रमानन्दयिष्यन् कविरङ्गारम्भवशात् पूर्वसूचनां विनैव
समासनिवेशोपकरणाङ्गतल्लक्ष्मणप्रवेशं प्रक्रमते—तत इति ॥ षष्ठाङ्कपरिसमा-
नानन्तरमित्यर्थः । भो इति मनः प्रति सम्बोधनम् । जानपदाः देशवासिनः ।
म्रियते मर्त्यः न म्रियते अमर्त्यः । मर्त्याश्चामर्त्याश्चेत्यर्थः *मर्त्यामर्त्यरूप इत्यर्थः ।
तिर्यञ्चः कामधेन्वादयः पशवः । उरगनायकः वासुकिः तस्य निकायः
भुजगानां वर्गः तेषां सन्तानः परम्परा यस्मिन् । 'वर्गो निकाये' इति, 'पर-
म्पराभिजनायोस्सन्तान' इति नन्दिहेमचन्द्रौ । चराचरैः जङ्गमस्थावरैः
सहितः । भूतानां पृथिव्यादीनाम् । 'क्ष्मादारुते भूतं' इति, 'वृन्दे ग्राम''
इति चामरः । आतोद्यस्य स्थानं आस्पदम्, तत्तीरस्य प्रशस्तथी
तलपावनत्वादिति स्व(त ३)दन्तरालस्य परित्यक्तसीताधिष्ठानत्वादिति च
भावः । अत एव सीतादेवी प्राप्तप्रसववेदना आत्मानमतिदुःखवेगात्
१ 'भोः किं तु खलु' ग. + प्रथमाङ्कटीकासमाप्तौ टीकाकृता पश्चात्तदृष्टं स्थितं
तदत्राप्यनुसन्धेयम् २ '०तिर्यङ्निकाय.' न ३ 'जङ्गमः स्थावरश्च' क-घ-प्र.
७-१] उत्तररामचरितं १४३
नुपनिमंत्रिताः सः । तद्गङ्गातीरमाभोगोपस्थानमुपगम्य क्रियतां समाज-
संनिवेशः' इति । कृतश्च मर्त्यामर्त्यस्य भूतग्रामस्य समुचितस्थानसंनिवेशो
मया । अयं तु—
राज्याश्रमनिवासेऽपि प्राप्तकष्टमुनिव्रतः ।
वाल्मीकिगौरवादार्य इत एवाभिवर्तते ॥ १ ॥
( ततः प्रविशति रामः ।)
रामः—वत्स लक्ष्मण अपि स्थिता रङ्गमौढिकाः ।
लक्ष्मणः—अथ किम् ।
रामः—इमौ पुनर्बालौ कुशलवौ कुमारचन्द्रकेतुश्चैमां प्रतिपत्तिं लम्भ-
यितव्यौ ।
लक्ष्मणः—प्रभुस्नेहप्रत्ययात्तथैव कृतम् । इदं चास्तीर्णं राजासनम् ।
तदुपविशत्वार्यः ।
रामः—( उपविशति । )
लक्ष्मणः—प्रस्तूयतां भोः ।
गङ्गाप्रवाहे निक्षिप्तवती इति तृतीयाङ्कविष्कम्भे तमसोक्तम् । संनिलादुपेति
इत्यग्रे लक्ष्मणवचना स्फुटीभविष्यति चेति दिक् ॥ 'हतं वीणादिकम्'
इत्यादि, 'वादिनातोद्यनामकं' इत्यन्तदमरः । 'वाजन्त्री' इति महा-
राष्ट्राः । समाजः सभा । गत्वेति पूर्वमनुवादः । संप्रति स्वतः कथनमिति
न पुनरुक्तिः ॥ राज्याश्रमेति ॥ १ ॥ राज्यमेव आश्रमः सौख्याभा-
वादिति भावः । कष्टं च तन्मुनिव्रतम् । वाल्मीकिना वाल्मीकौ च
गौरवात् ॥ १ ॥ 'रङ्गो नाट्यस्थलं' इति, 'सामाजिकः प्रेक्षकः' इति
च त्रिकाण्डशेषः । प्रतिपत्तिः मर्यादा । वात्सल्यमिति यावत् । लम्भ-
यितव्यौ प्रापणीयौ । प्रभोः स्नेहेन । प्रत्ययात् विश्वासात् । कुशलवयोः
भवति स्नेहेन अस्मदीयानपि तयोर्विश्वासः अस्तीति भावः । तथैव चन्द्र-
केतुवत् । कृतं वात्सल्यमिति शेषः । राजासनमास्तीर्णमिति कवेरिव कस्य
न व्याचतुरचातुर्यम् । 'नृपासनं पत्तद्रासनं सिंहासनं च तत्' इत्यमर-
सिंहेनाभिहिततया सिंहासनस्त्यारणत्वासंभवात् ॥ न च वाच्यमास्तरणो-
चितनभ्यदासनं भवत्विति । तर्हि समानायकल्य महाराजत्वे जगत्वते इति
गद्या वक्ष्यमाणे वचसि वास्तरवापत्तेः । तस्माद्बतरमूलगुरुक्यादानामेव
१ 'तद्गङ्गातीरतीरमनोपस्थानम्' घ. २ 'स्थानेषु समुपवेशसङ्गो मया' घ.
३ 'प्रेक्षकाः' क-घ-घ. ४ '०स्तृती स्थानप्रतिपत्तिम्' क-घ-घ.
सूत्रधार —(प्रविश्य।) भो भो भगवाम्भूतार्थवादी प्राचेतसः
सस्थावरजङ्गमं जगदाज्ञापयति—यदिदमस्माभिरार्षेण चक्षुषा समुद्वीक्ष्य
पावनं वचनोऽमृतं रसन्नाद्भुतरसं च किंचिदुपनिबद्धं तत्र कार्यगौरवादवधा-
तव्यमिति ।
राम —एतदुक्तं भवति। साक्षात्कृतधर्माण ऋषयः । तेषाममृतम्भ-
राणि भगवन्तः परोरजांसि प्रज्ञानानि न क्वचिद्व्याहन्यन्त इत्यनैमित्तिकोऽयं
शान्तिरिति ।
(नेपथ्ये।) हा अज्जउत्त हा कुमार लक्खण एआइणिं असरणं रण्णे
आसण्णप्पसववेअणं हदास सावदा म अहिलसन्ति । सा हं दाणिं मन्दभा-
इणी भाहीरईए अत्ताणं णिक्खिविस्सम् । [हा आर्यपुत्र हा कुमार लक्ष्मण
एकाकिनीमशरण्यामरण्य आसन्नप्रसववेदनां हताशा श्वापदा मामभिलषन्ति ।
साहमिदानीं मन्दभागिनी भागीरथ्यामात्मानं निक्षेप्स्यामि ।
धारणमिति दिक् ॥ भूतार्थवादी सत्यवस्तुवादी । 'भूतं त्रिषूचिते सत्ये
इति, 'अर्थोऽर्थनाविषयशोधनकारणवस्तुषु' इति कपिल्लेडारौ । 'कथयामि
ते भूतार्थम्' इति असत्याख्यातशाकुन्तले । प्रति उद्दिश्य आर्षेण ऋषे
र्रिकेन । वचनान्येव अमृतानि यस्मिन् । करुणश्चाद्भुतश्चापि रसो
यस्मिन् । किञ्चित् चरितमिति शेषः । कार्ये प्रयोजने । आर्षप्रसादे इति
भावः । साक्षात्कृता धर्मा यैस्ते । साक्षात्कृतधर्माणः । 'न्यायाचार
स्वभावेषु धर्मे पुण्ये जनस्थितौ' इति रत्नमाला ॥ 'श्ववृत्ति स्तेयमस्माभि स्ता
विदितधर्मणाम् इति लोल्लटः । 'ऋषयस्सत्यवचसः' इत्यमरः । अमृतं
बिभ्रति अमृतम्भराणि इति कवेः प्रमादः । तथापि 'वीणाऽस्तु सा या
छमयी प्रिये ते शृणोषि वाक्यायाममृतम्भराणि ।' इति धीनाथः । परो
रजांसीति—यानि रजसः पराणि तानीत्यर्थः । शुद्ध अरजस्कम् । परोरज
इति वेदारः । 'प्रमादरहितं ज्ञानं प्रज्ञानम्' इत्यपरस्य । अनभिशङ्कनी
यानि मान्त्रैयोचितानि इत्येतदुक्तं भवतीति पूर्वेणान्वयः ॥ अथ अत्र
नाटकपात्रभूतायाः लक्ष्मणपरित्यक्तायाः सीतायाः प्रवेशसूचनमारभते—
नेपथ्ये इति । हा आर्यपुत्र हा कुमार लक्ष्मण एकाकिनीमशरणामासन्नप्र
सवामरण्य हताशा श्वापदा अभिलषन्ति । हा इदानीं मन्दभागिनी आत्मानं
भागीरथ्यां निक्षिपामि । 'अरण्यक' इति कवेः प्रमादः । 'शेषोऽरण्ये' इत्य
१ पन्नांसि क-घ-च-पुस्तकेषु २ ''धर्माणो महर्षयः' क-प-ञ
३ 'अमृतसाराणि क-घ-प ४ 'इति नामिशङ्कनीयानि' क, 'न शङ्कनी-
यानि' ग, ५ 'हदासा' (हताशा ) टी
७-२ ] उत्तररामचरितं १४५
लक्ष्मणः-( आत्मगतम् । ) कष्टं बतान्यदेव किमपि ।
सूत्रधारः-विश्वंभरात्मजा देवी राज्ञा त्यक्ता महावने ।
प्राप्तप्रसवमात्मानं गङ्गादेव्यां विमुञ्चति ॥ २ ॥
( इति निष्क्रान्तः । )
प्रस्तावना ।
रामः-( सावेगम् । ) देवि देवि लक्ष्मणमवेक्षस्व ।
लक्ष्मणः-आर्य नाटकमिदम् ।
रामः-हा देवि दण्डकारण्यवासप्रियसखि एष ते रामोदैवदुर्विपाकः ।
लक्ष्मणः-आर्य दृश्यतां तावत्प्रबन्धार्थः ।
रामः-एष सज्जोऽस्मि वज्रमयः ।
( ततः प्रविशत्युत्सङ्गितैकैकदारकाभ्यां पृथिवीगङ्गाभ्यामवलम्बिता सीता । )
रामः-वत्स लक्ष्मण असंविज्ञातमैन्निबन्धनमन्धतमसमिव प्रविशामि
धारय माम् ।
देवी-
समाश्वसिहि कल्याणि दिष्ट्या वैदेहि वर्धसे ।
अन्तर्जले प्रसूतासि रघुवंशधरौ सुतौ ॥ ३ ॥
सीता-( समाश्वस्य । ) दिट्ठिआ दारए पसूदम्हि । हा अज्जउत्त ।
दिष्ट्या दारकौ प्रसूतास्मि । हा आर्यपुत्र ।
नुशब्दात्तकारलोपेन रणे इति कण्ठस्य सामीप्यात् । अत एव 'रान'
इति महाराष्ट्राः । 'आपदा द्विसञ्जतन्' इति सुरायवर्तः । कष्टमिति-
यन्निर्वोढुं शक्यं तदन्यदेव स्यादिति भावः । विश्वम्भरात्मजेति ॥ २ ॥
विश्वम्भरायाः भूमेः ॥ २ ॥ प्रस्तावना ॥ सावेगं सभयसंभ्रमम् ।
लक्ष्मणमवेक्षस्वेति-अहमपराधीति भावः । नाटकमिदमिति-पश्यतः
अननिवारणायेति बोध्यम् । उत्सङ्गितः उत्सङ्गे कृतः एकैकदारको
याभ्यामित्यर्थः । अत्र कुशलवौ गङ्गापृथिव्यौ सीता एतावत्पात्रसम्बन्धी-
दृश्यम् । कुत्र अर्थं विना तत्सम्बन्धिनयनदृग्गोचरतादिकं निपुणमतिभिरव-
गन्तव्यम् ॥ एइन्निबन्धनं ज्ञानसम्बन्ध ॥ समाश्वसिहि कल्याणीति
१ 'धृतं' क-घ; 'लक्ष्मण अपेक्षस्व' प. २ 'रामाद्दिपाक.' ग. ३ 'अ-
संविज्ञातपदनिबन्धनं तमसीवात्मानं प्रविशामि' ग. ४ 'अन्तर्गर्भम्' घ-प.
१३ उ०
१४६ उत्तररामचरितं [ ७-३
लक्ष्मणः-( पादयोर्निपत्य ।) आर्य आर्य दिष्ट्या वर्धामहे । कल्याण-
प्ररोहो रघुवंशः । (विलोक्य ।) हा हा कथं क्षुभितबाष्पोत्पीडनिर्भरः
प्रमुग्ध एवार्यः । (वीजयति ।)
पृथिवी-वत्से समाश्वसिहि ।
सीता-( समाश्वस्य ।) भअवदीओ का तुम्हे । मं मुञ्चह । भगवत्यौ के
युवाम् । मा मुञ्चतम् ।
पृथिवी-इयं ते श्वशुरकुलदेवता भागीरथी ।
सीता-भअवदि णमो दे । भगवति नमस्ते ।
भागीरथी-चारित्रोचितां कल्याणसम्पदमधिगच्छ ।
लक्ष्मणः-अनुगृहीताः स्मः ।
भागीरथी-इयं तु जननी ते विश्वम्भरा ।
सीता-हा अम्म ईदिसी अहं तुए दिट्ठा। हा अम्ब ईदृश्यहं त्वया दृष्टा ।
पृथिवी-एहि वत्से एहि पुत्रि ।
( उभौ आलिङ्ग्य मूर्च्छतः ।)
लक्ष्मणः-( सहर्षम् ) दिष्ट्या गङ्गापृथिवीभ्यामभ्युपपन्नायां ।
रामः-( अवलोक्य ।) दिष्ट्या घटतेऽत्यन्तकरुणोत्तरं वर्तते ।
भागीरथी-अत्रभगवती विश्वम्भरापि नाम व्यधत इति जितमपत्न-
॥ ३ ॥ दिष्ट्या इदानीं प्रसूताम्भि(त्रि ?) कल्याणी शुभौ प्ररोहौ अङ्कुरौ
सुतरूपौ यस्मिन् । क्षुभितानां जर्जराणां । बाष्पाणां उत्पीडः प्रादु-
र्भाव निर्भरः निरतिशय यस्मिन् । प्रकर्षेण मुग्धः मूढ । भगवत्यौ के
युवां मा मुञ्चतम् । भगवत्यौ इति संबोधनम् । भागीरथीत्वापादक हेतु-
गर्भं नाम । भगवति नमस्ते ॥ हा अम्ब ईदृशी त्वयाऽहं दृष्टा ॥ मूर्च्छतः
मुद्यतः । प्रेमावेशेनेति भाव ॥ आर्या सीता । अभ्युपपन्ना अनुगृ-
हीता ॥ दिष्ट्या दैवात् । एतत् अभ्युपपादन अनुग्रह इति यावत् ।
करुणो रस उत्तरः अधिक यस्मिन् । इद एतदित्यस्य विशेषविशेषणं
बोध्यम् ॥ अत्र सीताविषये । तथा न । एषा विश्वम्भरा । अथ्वा गीतेव
१ 'भअवदि का तुम इमं अ' ( का त्वम्, इमं प) क-घ-प. २ 'चारि-
त्रोचिताम्' घ-प. ३ 'करणतर एतेनेदं वर्तते' क-ग-प; 'परमात्तरम्' न.
७-५ ] उत्तररामचरितं १४७
स्नेहेन । यद्वा सर्वसाधारणो ह्येष मानसो मोहग्रन्थिश्चेतनावतामुपप्लवः
संसारतन्तुः । देवि भूतधात्रि वत्से वैदेहि समाश्वसिहि समाश्वसिहि ।
पृथिवी-देवि सीतां प्रसूय कथमश्वसिमि ।
सोढश्चिरं राक्षसमध्यवास-
स्त्यागो द्वितीयो हि सुदुःसहोस्याः ।
भागी०-को नाम पाकाभिमुखस्य जन्तो-
द्वाराणि दैवस्य विधातुमीष्टे ॥ ४ ॥
पृथिवी-भगवति भागीरथि युक्तमेतत्सर्वं न वो रामभद्रस्य ।
न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः ।
नाहं न जनको नाग्निर्नारानुवृत्तिर्न सन्ततिः ॥ ५ ॥
सीता-हा अज्जउत्त सुमराविदोम्हि । हा आर्यपुत्रं स्मारितास्मि ।
कल्पशतानि वा तदपि व्यथते । अत एव (अफल ?) स्नेहेन जितमिति
भावः ॥ मानसः मनस्सम्बन्धी । मोहग्रन्थिः ममतापाशः । 'ममता-
गृह्योर्मोहः' इति, 'ग्रन्थिर्नो पर्वपाशयो' इति वामनयादवौ । चेतना-
वतां प्राणिनाम् । 'उपप्लव उपद्रवे' इति ध्वनिमञ्जरी । गूढैतान्तर इति
च दिशरी प्रसिद्धा । भूतधात्रि इति भूवाचक सद्योपनम् ॥ सोढश्चि-
रमिति ॥ ४ ॥ सोढः क्षान्तः । लङ्कायामिति भावः । हि प्रसिद्वौ ।
अहिस्तर्पं इव सुदुस्सह इति एकपद च । पाको सुरादु सपरिणामंः
तामुद्दिश्य अभिमुखस्य । 'पोते च परिणामे च पाक' इति नानार्थमञ्जरी ।
जन्तोर्विषये । 'तस्य वा तस्य विषये' इति समवयदिति । दैवस्य सुरा-
दुरात्रापरविधेः । द्वाराणि प्रवेशमार्गान् । विधातुं आच्छादयितुम् ।
ईष्टे समर्थो भवति । तथा च-'अवश्यमनुगोक्तव्यं कृतं कर्म शुभाशुभम् ॥'
इति भावः । 'प्रवेशमार्गे च द्वारि छिद्रे च' इति धनञ्जयः ॥ ४ ॥ न
वो रामभद्रस्येति भिन्नं वाक्यम् । यः युष्माकम् । रामभद्रस्य नेति
युक्तमित्यनुषङ्गः । 'सीताऽर्धमभवान्बिष्णु' इति स्मारितयादिति भावः ।
तदेवाह-न प्रमाणीकृत इति ॥ ५ ॥ अनुवृत्तिः अनुवर्तनम् ।
सन्ततिः रघुणां वंशः । प्रमाणीकृत इति पदं सर्वत्र यथोचितमूह्यम्
१ 'मनसो मूढग्रन्थिरानन्द.' न, 'जननो मोहग्रन्थिरनश्वर.' क-च, 'गृह्य-
स्थिरनश्वर.' घ. २ 'अनुभूत.' क-घ-च. ३ 'स्वरचिरम्' घ. ४ 'द्वितीयस्तु'
न; 'द्वितीयश्च' क-घ-च. ५ 'जन्तुः' न-व. ६ 'सदृशमुक्तम् । युक्तमेतन्न
रामभद्रस्य' क-घ-च; 'सर्वं वो रामभद्रस्य' न. ७ 'न तु वृत्ति' न.
१४८ उत्तररामचरितं [७-६
पृथिवी—आः क्खवार्यपुत्र ।
सीता—(सलज्जास्रम्।) जहा वा अम्बा भणादि । यथा वाऽम्बा
भणति ।
रामः—अम्ब पृथिवि, ईदृशोऽस्मि ।
भागी०—भगवति वसुन्धरे शरीरमसि संसारस्य । तत्किमसंविदानेव
जामात्रे कुप्यसि ।
घोर लोके विततमयशो या च वह्नौ विशुद्धि-
र्लङ्काद्वीपे कथमिव जनस्तामिह श्रद्दधातु ।
इक्ष्वाकूणां कुलधनमिदं यत्समाराधनीयः
कृत्स्नो लोकस्तदिति विषमे किं स वत्सः करोतु ॥ ६ ॥
लक्ष्मणः—अव्याहतान्त प्रकाशा हि देवताः सर्व्वेषु ।
भागी०—तथाप्येष तेऽञ्जलिः ।
राम.—अम्ब अनुवृत्तरुदया भगीरथकुले प्रसीद ।
पृथिवी—देवि नित्यं प्रसन्नास्मि यः किं त्वापातदु सहस्नेहसंवेगेनैवं
ब्रवीमि । न पुनर्न जानामि सीतास्नेहं रामभद्रस्य ।
॥ ५ ॥ हा आर्यपुत्र स्मर्यसे । आः कोपे । यथाऽम्बा भणति । 'अम्बा
माता गुरुवधू श्वश्रूज्येष्ठप्रजापती' इति रत्नमाला । शरीरमसि शरीरमिव
रक्ष्यं प्रार्थनीयासीत्यर्थः । सर्वाधारत्वादिति भावः ॥ घोरं लोके विततमिति
॥ ६ ॥ विततं विस्तृतम् । श्रद्दधातु दृढप्रत्ययादिति भावः । समाराध-
नीय इति यत् इदं इक्ष्वाकूणां कुलधनमित्यर्थः । तद्वदावश्यकमिति
भावः । एतेन- 'लज्जा ( रुजा ? ) कुलधनं राजा लङ्का प्रायाद्विभीषण ।'
इत्यत्र यत् कैरपि यथेच्छं व्याहृतम्, तत्परास्तम् । तत् तस्मात् । इति
पूर्वोक्तप्रकारेण । विषमे सङ्कटे ॥ ६ ॥ सर्व्वेषु विषयेषु । अथ गङ्गा भूमिं
प्रत्याह-तथापीति । ते तुभ्यम् । अञ्जलिः मया दियत इति शेष ।
अनुवृत्त अनुगल रुत इत्यर्थः । तत्तादृशस्य अद्भूमिति सम्प्रदायार्थः । अत
एव अनावागतोऽस्मीति विक्रमचरिते डिण्डिमः । आपाते श्राकर्णनक्षण
एव दुस्सहं कौलीनं यस्मात्तादृशी चासौ मुग्धा तस्या स्नेहस्य आवेगः
शागमन्नावैग आवेगतस्तेनेत्यर्थ । 'दर्शनक्षण आपातमथवाकर्णनक्षण' ।
१ 'तदिह' न-क, 'तमपि विषमे' घ, 'तदतिगहनम्' य. २ 'भूतेषु विशेषेण
गङ्गा' घ-य. ३ एतल्लक्ष्मणवाक्य घ-यं-पुस्तक्रयो . ४ 'दु मह शोकावेगोत्प-
त्तस्य न पुनर्न' य; 'किं स्वभावापातु सह स्नेहसंवेग 'न.
७-८ ] उत्तररामचरितं १४९
दह्यमानेन मनसा दैवाद्वत्सां विहाय सः ।
लोकोत्तरेण सत्त्वेन प्रजापुण्यैश्च जीवति ॥ ७ ॥
रामः—सकरुणा हि गुरवो गर्भरूपेषु ।
सीता—( सदधी कृताञ्जलिः । ) णेटु मं भत्तगो अङ्गेसु विळअं अग्या ।
नयतु मामात्मनोऽङ्गेषु विलयमम्बा ।
रामः—किमप्यब्रवीत् ।
भागी०—शान्तम् । अविलीना संवत्सरसहस्राणि भूयाः ।
पृथिवी—वत्से भवेश्वर्यौ ते पुत्रकौ ।
सीता—अणाधम्हि । किं एदेहि । अनाथास्मि । किमेताभ्याम् ।
रामः—हृदय वज्रमसि ।
भागी०—कथं त्वं सनाथाप्यनाथा ।
सीता—कीरिसं मे अभग्गाए सणाहत्तणम् । कीदृशं मे अभाग्याया
सनाथत्वम् ।
देव्यौ—जगन्मङ्गलमात्मानं कथं त्वमवमन्यसे ।
आवयोरपि यत्सङ्गात्पवित्रत्वं प्रकृष्यते ॥ ८ ॥
लक्ष्मणः—आर्य श्रूयताम् ।
रामः—प्रयोक्तु लोकः ।
( नेपथ्ये कलकलः । )
रामः—अद्भुततर किमपि ।
सीता—किन्ति आदळूकलकल अन्तरिक्खं पवत्तदि । किमिलद्धकल-
कलमन्तरिक्षं प्रवर्त्तते ।
इति, 'दुर्ललितं लोके च' इति केदाराह्वनौ । अत एव 'अदत्तान्नधुरम्'
इति शार्ङ्गरवः । सीताया स्नेहम् । 'धैर्य्यं सत्त्व' इति जयः ॥ दह्यमानेन
मनसेति ॥ ७ ॥ प्रजानां पुण्यै ॥ ७ ॥ गर्भाणिव रूपं जास्येति
येषां तेम्भाविति शेषः ॥ नयतु मामात्मनोऽङ्गेषु विलयमम्बा । 'जन्मर्धाने
च विलय' इत्यमरः । अविलीना अनष्टा । किमेताभ्यामनाथभ्याम् ।
वज्रमिति- एवमप्येतत्प्रवदसीति भावः । कीदृशं मे अभाग्याया सना-
थत्वम् । नाथनातपतित्वानिदेवैश्वार्येख्याहि' इति मन्त्री ॥ जगन्मङ्गलमिति
॥ ८ ॥ यत् यस्मात् आवयोः । सङ्गात् सम्भवे । प्रकृष्यते अधि-
१ 'पैवेन' घ. २ 'वज्रमहम्' क-घ-य. ३ 'कथं वन्ध्यो सनाथाप्यनाथा'
न. ४ एदाम्हि क-घ-य-पुस्तकेषु.