सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

कारणम् । अत्र चक्षुःसंयुक्तं द्रव्यं, तत्र समवायो रूपस्येति । द्रव्यसमवेतं
रूपादिकं तत्समवेतं शुक्लत्वनीलत्वादिकं तद्वृत्तिविषयतासम्बन्धेन चाक्षुषत्वाव-
च्छिन्नं प्रति, अर्थात् शुक्लत्वादेः प्रत्यक्षे करणीये चक्षुःसंयुक्तसमवेतसमवायः
कारणम् । अत्र चक्षुःसंयुक्तं भूतलादिद्रव्यं, तत्समवेतं रूपं तत्र समवायः शुक्ल-
त्वादेरस्तीति समन्वयः ।
न्या.बो. अन्यत्राप्युदाहर्तुं द्रव्यग्राहकत्वं पूर्वमवधारयति—द्रव्यग्राहकाणीति ।
पृ. ३६. घ्राणरसनश्रवणानि तु गुणमात्रग्राहकाणीत्यतस्तानि पश्चादुदाहरिष्यन्ते इत्याह—
अन्यानीति । त्वगिन्द्रियस्थले उदाहरति—अत इति । द्रव्यप्रत्यक्षे त्वक्-
संयोगः कारणमिति प्रथमवाक्यार्थः । द्रव्यसमवेतशीतस्पर्शादिप्रत्यक्षे त्वक्संयुक्तं
द्रव्यं तत्र यः शीतादेः समवायस्तद्रूपः सन्निकर्षः कारणमिति द्वितीयवाक्यार्थः ।
द्रव्यसमवेतः शीतस्पर्शादिः तत्समवेतं शीतत्वादिकं, तत्प्रत्यक्षे, त्वक्संयुक्तद्रव्य-
समवेते शीतस्पर्शादौ यः शीतत्वादेः समवायः, तद्रूपः सन्निकर्षः कारणमिति
तृतीयवाक्यार्थः ।
आत्मरूपद्रव्यप्रत्यक्षमुदाहरति—एवमिति । आत्मप्रत्यक्षे चक्षुरादीनाम-
सामर्थ्यात् मनसैव तत्प्रत्यक्षं जायतेऽतस्तत्प्रत्यक्षं तद्वृत्तिसुखदुःखादिप्रत्यक्षञ्च
मानसप्रत्यक्षनाम्ना व्यवह्रियते । तत्रात्मनो मानसप्रत्यक्षे आत्मना सह मनः-
संयोगः कारणम् । आत्मसमवेतं यत् सुखदुःखादिकं, तस्य मानसप्रत्यक्षे मनः-
संयुक्तसमवायः कारणम् । अत्र मनःसंयुक्त आत्मा तस्मिन् समवायः सुखादेर-
स्तीति । एवमात्मसमवेते सुखादिके समवेतं यत् सुखत्वादिकं तत्प्रत्यक्षं प्रति
मनःसंयुक्तसमवेतसमवायः कारणम् । अत्र च मनःसंयुक्त आत्मा, तत्समवेतं
सुखादिकं, तत्र समवायः सुखत्वादेरिति भावः । रसनघ्राणयोस्त्विति । तद्गत-
जातिः—रसगन्धगता रसत्वगन्धत्वादिजातिः । द्वितीयतृतीययोरिति ।
संयुक्तसमवायसंयुक्तसमवेतसमवाययोरित्यर्थः । रसगन्धप्रत्यक्षे आद्यः, रसत्वगन्ध-
त्वप्रत्यक्षे द्वितीयः सन्निकर्षः कारणमित्यर्थः ।
न्या.बो. समवाय-समवेतसमवायसन्निकर्षावुदाहरति—श्रवणेति । शब्दप्रत्यक्षे
पृ. ३७. समवायसन्निकर्षः कारणम् । यतो हि श्रवणेन्द्रियं नाकाशस्वरूपाद् भिन्नमस्ति ।
अत आकाशस्वरूपे श्रोत्रेन्द्रिये शब्दस्य समवायसम्बन्धाङ्गीकार इति भावः ।
ककारादिशब्दवृत्तिकत्वादिप्रत्यक्षे समवेतसमवायः कारणमित्याह—शब्द-
वृत्तीति ।
अभावप्रत्यक्षहेतुभूतं विशेषणविशेष्यभावसन्निकर्षं व्याख्यातुमाह—अभाव-
प्रत्यक्ष इतीति । मूलोक्तसन्निकर्षस्यार्थमाह-- विशेषणविशेष्यभाव इति ।
कीदृशाभावप्रत्यक्षे किंविधो विशेषणतासन्निकर्षः कारणमिति स्फोरणायाह—

११२ तर्कसंग्रहे [ प्रत्यक्षपरिच्छेदः
न्या.बो.पञ्चविधेति । कार्यकारणस्वरूपं प्रदर्शयति-तथाहीति । द्रव्यमधिकरणं यस्य
पृ.३८.स द्रव्याधिकरणकोऽभावः, तत्प्रत्यक्षो-भूतलादिद्रव्यनिष्ठो यो घटाद्यभावस्तत्-
प्रत्यक्षो इत्यर्थः । तत्र इन्द्रियसंयुक्तविशेषणता कारणम्, इन्द्रियसंयुक्ते भूतले घटा-
भावस्य विशेषणत्वादिति भावः । द्वितीयं कार्यकारणभावमाह-द्रव्यसमवेतेति ।
द्रव्यसमवेतमधिकरणं यस्याभावस्य, स द्रव्यसमवेताधिकरणकः, तत्प्रत्यक्षो इत्यर्थः ।
द्रव्यं-- घटादिरूपं द्रव्यं, तत्र समवेतं घटत्वं, तत्र विद्यमानो यः पृथिवीत्वाभावः,
तत्प्रत्यक्षो इति तात्पर्यम् । तत्र इन्द्रियसंयुक्तसमवेतविशेषणतासन्निकर्षः कारणम् ।
इन्द्रियसंयुक्तो यो घटस्तत्र समवेतं यद् घटत्वं, तत्र पृथिवीत्वाभावस्य विशेष-
णत्वात् । तृतीयमाह-द्रव्यसमवेतसमवेतेति । द्रव्यं घटः, तत्समवेतं रूपं,
तत्समवेतरूपत्वादौ वर्तमानो यो नीलत्वाद्यभावः, तत्प्रत्यक्षे इत्यर्थः । इन्द्रिय-
संयुक्तो घटः, तत्समवेतं रूपं, तत्समवेतं रूपत्वं, तत्र नीलत्वाभावस्य विशेष-
णत्वादिति भावः । स्वयमुदाहरति-घटे पटत्वाभाव इत्यादि । व्याख्या-
तमेतत् ।
इति तर्कसंग्रहन्यायबोधिनीव्याख्यायां कलायां प्रत्यक्षपरिच्छेदः ।

अथानुमानपरिच्छेदः
न्या.बो. अनुमितिकरणमनुमानं, परामर्शजन्यं ज्ञानमनुमितिरित्यनुमानानुमित्यो-
पृ.३६. लक्षणे मूलकारेणोक्ते ते एव व्याख्यातुमारभते—अनुमानं लक्षयतीत्यादिना ।
मूले अनुमितिकरणपदेन व्याप्तिज्ञानं बोधनीयमित्याह—अनुमिताविति ।
अतो व्याप्तिज्ञानमेवानुमानप्रमाणसंज्ञया व्यवह्रियत इति बोद्धव्यम् । अनुमितौ
जननीयायां लक्ष्यिष्यमाणः परामर्श एव व्यापारो भवतीत्याह—परामर्श इति ।
व्याप्तिज्ञानरूपकरण-परामर्शरूपतद्द्व्यापाराभ्यामनुमितिरूपं कार्यमुत्पद्यत
इत्याह – अनुमितिरिति । लक्षणसमन्वयपुरस्सरं परामर्शस्य व्यापारत्वमुप-
पादयति—परामर्शस्येति । परामर्शो हि व्याप्तिज्ञानाज्जायते, व्याप्तिज्ञानजन्या-
मनुमिति जनयति चेत्यतः तज्जन्यत्वे सति तज्जन्यजनकत्वात् परामर्शो व्यापार
इत्युपपन्नम् । अनुमानलक्षणस्वरूपमाह – अनुमितीति । अनुमानपदवाच्यमाह —
अनुमानं व्याप्तिज्ञानमिति । एतस्येति । व्याप्तिज्ञानं हि परामर्शरूपव्यापार-
द्वारा अनुमिति प्रत्यसाधारणकारणं ( कार्यत्वातिरिक्तानुमितित्वधर्मावच्छिन्न-
कार्यतानिरूपितकारणताशालि) भवत्यूतो व्याप्तिज्ञानमनुमितिकरणमिति सिद्धम् ।
परामर्शजन्यत्वरूपमनुमितिलक्षणं व्याख्यातुं प्रतीकमुपादत्ते—परामर्श-
जन्यमिति । परिष्कृतं लक्षणस्वरूपमाह—परामर्शजन्यत्वविशिष्टज्ञानत्व-
मिति । परामर्शजन्यत्वविशेषणस्य फलमाह अत्रेति । ज्ञानत्वमात्रोपादाने
इत्यर्थः । प्रत्यक्षादावतिव्याप्तिरिति । तस्यापि ज्ञानत्वादिति शेषः । तद्-
वारणायेति । प्रत्यक्षस्य इन्द्रियसन्निकर्षजन्यत्वेन परामर्शजन्यत्वाभावाद्
वारणमिति भावः । ज्ञानत्वानुपादाने दोषमाह—परामर्शजन्यत्वमात्रोक्ता-
विति । परामर्शध्वंसो हि परामर्शजन्यो ऽस्ति, यतो हि यदि परामर्श एव न
स्यात्तदा कस्य ध्वंसो भवेत् ? ध्वंसं प्रति प्रतियोगिनः कारणत्वात् । तस्मात्
परामर्शध्वंसस्यापि परामर्शजन्यत्वेन तत्रातिव्याप्तिः, ज्ञानत्वोपादाने तु नाति-
व्याप्तिः, ध्वंसस्य ज्ञानभिन्नत्वादिति भावः ।
न्या.बो. परामर्शलक्षणं व्याख्यातुं पूर्वं तदवतारयति—अनुमितीत्यादि व्याप्ति-
पृ.४०. विशिष्टेत्यन्तम् । व्याप्तिविशिष्टपक्षधर्मताज्ञानत्वं परामर्शस्य लक्षणं मूले
उक्तम् । अत्र व्याप्तिविशिष्टञ्च पक्षधर्मताज्ञानञ्चेति रीत्या कर्मधारयसमासः ।
ननु साहचर्यरूपाया व्याप्तेः हेतावेव वैशिष्ट्यसत्त्वात् कथं तद्वैशिष्ट्यं पक्षधर्मता-
ज्ञाने प्रोक्तमित्यत आह—विशिष्टपदस्य प्रकारतानिरूपकपरत्वादिति । तथा
८

११४ तर्कसंग्रहे [ अनुमानपरिच्छेदः
च व्याप्तिविशिष्टमित्यस्य व्याप्तिप्रकारकमित्यर्थः । अत्र व्याप्तिः प्रकारो यत्र
ज्ञाने तद् व्याप्तिप्रकारकम् । एवञ्च व्याप्तिप्रकारकत्वं पक्षधर्मताज्ञानेऽस्त्येवेति
नोक्तदोषः । पक्षधर्मतायाः ज्ञानमिति षष्ठीसमासात् पक्षधर्मताज्ञानशब्दो निष्पद्यते ।
अत्र षष्ठ्याः विषयत्वमर्थः । धर्मतापवस्य च सम्बन्धोऽर्थः । तथा च पक्षसम्बन्धि-
विषयकं ज्ञानमिति लभ्यते । एतदेवाह — पक्षधर्मताज्ञानमित्यत आरभ्य
सम्बन्धार्थकत्वादित्यन्तेन ग्रन्थेन । कर्मधारयसमासेन इति । तथा च यत्र
यत्र कर्मधारयसमासो भवति तत्र सर्वत्रैव समस्यमानपदार्थयोरभेद एव संसर्गो
भासते, यथा नीलश्चासौ घटश्चेति विग्रहेण कर्मधारयसमासे य एव नीलपदार्थो
भवति स एव घटपदार्थो भवतीति नीलाभिन्नो घट इति तत्र बोध्यते, तद्वद्
अत्रापि व्याप्तिप्रकारकाभिन्नं यत् पक्षसम्बन्धिविषयकं ज्ञानं, तत् परामर्श इति
तात्पर्यम् । पक्षसम्बन्धिपदेन ( पक्षधर्मपदेन ) हेतुर्गृह्यते इत्यवधारणीयम् ।
उदाहरणमाह मूले—वह्निव्याप्यधूमवान् पर्वत इति ज्ञानं परामर्श इति ।
अत्र ज्ञाने प्रकारीभूतायाः ( विशेषणीभूतायाः ) व्याप्तेः पर्वतरूपपक्षसम्बन्धिनो
धूमस्य च भानात् इदं ज्ञानं व्याप्तिप्रकारकपक्षसम्बन्धिविषयकं जातमत् एवंविधं
ज्ञानमेव परामर्श इति सिद्धम् ।
न्या.बो. ननु धूमो वह्निव्याप्यः, आलोकवान् पर्वतं इत्याकारकसमुहालम्बनज्ञानेऽ-
पृ.४१. परामर्शभूते उक्तलक्षणस्यातिव्याप्तिः, अत्रापि प्रकारविधया व्याप्तेः, पर्वनरूप-
पक्षसम्बन्धिन आलोकस्य च भानेन व्याप्तिप्रकारकपक्षसम्बन्धिविषयकत्वादिति
पूर्वपक्षमाह एवं सतीति । निष्कर्षेणोत्तरयति — पक्षनिष्ठविशेष्यतेति ।
प्रकारताविशेष्यतयोः मिथो निरूप्यनिरूपकभावो भवतीति बहुशः पूर्वमुक्तम् ।
तथा च पक्षनिष्ठविशेष्यतानिरूपिता या हेतुनिष्ठा प्रकारता, तन्निरूपिता या
व्याप्तिनिष्ठाप्रकारता, तच्छाालिज्ञानत्वमिति परामर्शस्य निष्कृष्टं लक्षणम् । अनेन
वह्निव्याप्यधूमवान् पर्वतं इति ज्ञानं परामर्शो भविष्यति । यतस्तत्र विशेष्यः
पर्वतः, विशेष्यता पर्वतनिष्ठा, तन्निरूपिता प्रकारता हेतुभूते धूमे, तन्निरूपिता
प्रकारता व्याप्ताविति तच्छाालिज्ञानत्वस्य तत्र सत्त्वात् । वह्निव्याप्यो धूमः
आलोकवान् पर्वत इति समूहालम्बनज्ञाने तु नातिव्याप्तिः । यतस्तत्र पर्वतनिष्ठ-
विशेष्यतानिरूपिता प्रकारता आलोके विद्यते किन्तु तन्निरूपिता प्रकारता व्याप्तौ
नास्ति, आलोके व्याप्तेरविशेषणत्वात् । धूमिनरूपिता प्रकारता तु व्याप्तौ वर्तते,
किन्तु तस्मिन् धूमे पर्वननिष्ठविशेष्यतानिरूपिता प्रकारतैव नास्ति, पर्वतरूपे
विशेष्ये आलोकस्यैव विशेषणत्वेन धूमस्य विशेषणत्वाभावात् । तथा च तत्र
पक्षनिष्ठविशेष्यतानिरूपितहेतुनिष्ठप्रकारतानिरूपितव्याप्तिनिष्ठप्रकारताशालिज्ञान-
त्वाभावान्नातिव्याप्तिरिति भावः ।

न्यायबोधिनी-संस्कृत-कला ११५
परामर्शलक्षणं परिष्कृत्य सम्प्रत्यनुमितिलक्षणं निष्कर्षयति-एतादृश-
परामर्शति। पक्षनिष्ठविशेष्यतानिरूपितहेतुनिष्ठप्रकारतानिरूपितव्याप्तिनिष्ठ-
प्रकारताशालिज्ञानजन्यत्वे सति ज्ञानत्वमनुमितित्वमित्यर्थः।
अनुमितिपरमर्शयोर्विशिष्य कार्यकारणभावमाह-अनुमितीति। पर्व-
तत्वावच्छिन्नोद्देश्यतेति।
अयमाशयः उद्देशयं विधेयञ्चेति द्वयमप्यनुमितावनुभूयते। यदुद्दिश्य
किमपि विधीयते तदुद्देश्यम् कथ्यते, किमप्युद्दिश्य यद्विधीयते तद्विधेयमिति कथ्यते।
यथा पर्वनमुद्दिश्य वह्निर्विधीयतेऽतः पर्वतोऽत्र उद्देश्यः, वह्निर्विधेयः उद्देश्यता
पर्वतनिष्ठा विधेयता च वह्निष्ठाऽस्ति। यथा लक्ष्यताया अवच्छेदकं पृथिवीत्वं,
लक्ष्यता च पृथिवीत्वावच्छिन्ना भवति, तथैवात्र उद्देश्यताया अवच्छेदकं पर्वतत्वं,
विधेयतायाश्चावच्छेदकं वह्नित्वम्। पर्वतनिष्ठोद्देश्यता पर्वतत्वावच्छिन्ना, वह्नि-
निष्ठा विधेयता च वह्नित्वावच्छिन्ना। धर्मसम्बन्धभेदेनावच्छेदकस्य द्वैविध्यात्
वह्निष्ठा विधेयता यथा वह्नित्वधर्मेण वच्छिन्ना तथा संयोगसम्बन्धेनाप्य-
वच्छिन्ना, संयोगेनैव वह्नेः पर्वते विधेयत्वात्, वह्नित्वावच्छिन्ना विधेयताऽस्ति
यस्यामनुमितौ, सा वह्निन्त्वावच्छिन्नविधेयताकानुमितिः। बहुव्रीहौ कप्रत्ययः।
एवं प्रकारताविशेष्यतादिवत् उद्देश्यनाव्रिधेयनयोरपि परस्परं निरूप्यनिरूपकभाव-
सत्त्वात् पर्वतत्वावच्छिन्नाद्देश्यतानिरूपितसंयोगसम्बन्धावच्छिन्नवह्नित्वधर्मा-
वच्छिन्नवह्नि निष्ठविधेयताकानुमितित्वावच्छिन्नं प्रति अर्थात् पर्वतो वह्निमान्
इत्याकारानुमिति प्रति वह्निव्याप्तिविशिष्ट (व्याप्य ) धूमवान् पर्वत इत्या-
कारकः वह्नित्वावच्छिन्नप्रकारतानिरूपिता या व्यातित्वावच्छिन्ना प्रकारता,
तन्निरूपिता या धूमत्वावच्छिन्ना प्रकारता, तन्निरूपिता या पर्वतत्वावच्छिन्ना
विशेष्यता, तच्छालिनिर्णयः कारणमिति भावः। एतच्च जगदीशभट्टाचार्य-
मतेनोक्तम्।
एतन्मते यत्रैकस्मिन्नेव पदार्थे किञ्चिन्निरूपिता विशेष्यता तिष्ठति,
किञ्चिन्निरूपिता च प्रकारता तिष्ठति, तत्रत्यप्रकारताविशेष्यतयोरभेद एव भवति
अतस्तत्र तन्मते विशेष्यतामनुक्त्वा प्रकारतैव व्यवह्रियते। यथाऽत्रैव
वह्निव्याप्तिविशिष्टधूमवान् पर्वत इति परामर्शे वह्निनिष्ठप्रकारतानिरूपित-
विशेष्यता व्याप्तौ वर्तते, एव तत्रैव धूमनिष्ठविशेष्यतानिरूपितप्रकारताऽप्यस्ति।
वह्न्चपेक्षया विशेष्यीभूता धूमापेक्षया प्रकारीभूता (विशेषणीभूता ) व्याप्तिर-
स्तीति यावत्। एवं धूमस्य व्याप्त्यपेक्षया विशेष्यत्वात् पर्वतापेक्षया च प्रकार-
त्वात् धूमे व्याप्तिनिष्ठप्रकारतानिरूपिता विशेष्यता विद्यते, एवं पर्वतनिष्ठ
विशेष्यता निरूपिता प्रकारताऽपि विद्यते। अतोऽत्र विशेष्यतामनुक्त्वा प्रकारतैव

११६ तर्कसंग्रहे [ अनुमानपरिच्छेदः
केवलं व्यवह्रियते जगदीशभट्टाचार्यानुसारिभिः । अतस्तन्मतेनोक्तकार्यकारणभावे
वह्नित्वावच्छिन्नप्रकारतानिरूपिता या व्याप्तित्वावच्छिन्ना प्रकारता इत्ये-
वोक्तं न तु वह्नित्वावच्छिन्नप्रकारतानिरूपिता या व्याप्तित्वावच्छिन्नविशेष्य-
तेत्युक्तम् ।
गदाधरभट्टाचार्यमते तु यत्रैकस्मिन्नेव पदार्थे विशेष्यताप्रकारते उभे
तिष्ठतस्तत्र विशेष्यताप्रकारतयोर्नभेदो भवति, किन्तु तयोरवच्छेद्यावच्छेदकभाव
एव भवत्यतस्तन्मतेन कार्यकारणभावं परिष्करोति—अभेदानङ्गीकर्तृ मते इति ।
न्या.बो. वह्नित्वावच्छिन्नप्रकारतानिरूपिता या व्याप्तिनिष्ठविशेष्यता, तादृशविशेष्यत्वा-
पृ.४२.वच्छिन्ना या व्याप्तित्वावच्छिन्ना प्रकारता, तन्निरूपिता या धूमनिष्ठविशेष्यता,
तादृशविशेष्यत्वावच्छिन्ना या धूमत्वावच्छिन्ना प्रकारता, तन्निरूपिता या
पर्वतत्वावच्छिन्ना विशेष्यता तच्छालिनिर्णयः उक्तस्वरूपानुमिति प्रति कारणमिति
भावः । अनुमितिकारणीभूतस्यैवंविधनिर्णयस्य स्वरूपमाह—स चेति ।
व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्श इत्यत्र व्याप्तिर्घटकीभूता विद्यते
तस्याः स्वरूपं व्याख्यातुमारभते—यत्रेतीति । यत्र यत्रेति वाक्ये द्विरुक्तं यत्रेति
पदं वीप्सां गमयति । सा च वीप्सा यावन्ति धूमाधिकरणानि सन्ति, तेषु सर्वेष्वेव
वह्निरस्तीति बोधयति । एतावता वह्निर्धूमव्यापक इत्यर्थतो लभ्यते इति
सर्वमाह—यत्रपदवीप्सेन्यादिना लब्धमित्यन्तेन ग्रन्थेन । यत्र यत्रेति वाक्यस्य
स्पष्टीकरणं स्वय मूलकारेणैव ‘साहचर्यनियमो व्याप्ति’रिति वाक्येन कृतं, तदेव
व्याख्यातुं न्यायबोधिनीकार आरभते—तदेवेति । एतदर्थस्त्विति । साहचर्य-
नियम इत्यस्यार्थस्त्वित्यर्थः । नियतस्य साहचर्यं व्याप्तिरिति भावः । नियतपदस्य
‘व्यापकम्’ इत्यर्थः, साहचर्यपदस्य च ‘सामानाधिकरण्य’मित्यर्थः इत्याह—
नियतत्वमिति । व्यापकञ्च वह्निर्भवतीत्युक्तमेव । समानमधिकरणं यस्य स
समानाधिकरणः, तस्य भावः सामानाधिकरण्यम् । नियतस्य व्यापकीभूतस्य वह्नेः
सामानाधिकरण्यं धूमेऽस्ति, यतः यद् वह्नेरधिकरणं वर्तते महानसादि, तदेव
धूमस्याप्यधिकरणं वर्तते । ततो वह्न्यधिकरणमहानसादिवृत्तित्वमेव वह्निसामा-
नाधिकरण्यमिति लभ्यते ।
न्या.बो. एवमाशयवानेव टीकाकारो विशेषरूपेण व्याप्तिस्वरूपमाह—तथा चेति ।
पृ.४३.धूमव्यापकीभूतो यो वह्निस्तत्सामानाधिकरण्यं व्याप्तिरिति भावः । वह्नौ
कीदृशं धूमव्यापकत्वमित्याह—धूमसमानेति । धूमसमानाधिकरणीभूतो
योऽत्यन्ताभावः, तत्प्रतियोगिताया अनवच्छेदकीभूतो यो धर्मस्तद्वत्त्वमित्यर्थः ।
धूमसमानाधिकरणत्वञ्च धूमाधिकरणे वर्तमानत्वम् । तथा च धूमाधिकरणं
पर्वतादिक, तत्र वर्तमानोऽभावो घटाभावः ( घटत्वावच्छिन्नप्रतियोगिताकः ),

तादृशाभावस्य प्रतियोगी घटः, प्रतियोगिता घटनिष्ठा, तस्या अवच्छेदकं घटत्वम्,
अनवच्छेदकं वह्नित्वं धर्मः, तादृशधर्मवत्त्वस्य वह्नौ सत्त्वात् वह्निर्धूमस्य व्यापकः,
व्यापकीभूतवह्निसामानधिकरण्यञ्च धूमे व्याप्तिरिति । एतदेव सर्वं स्वयमप्याह
टीकाकारः—तथा हीति । एतावता हेतुसमानाधिकरणात्यन्ताभावीयप्रति-
योगितानवच्छेदकीभूतसाध्यतावच्छेदकावच्छिन्नसाध्यसामानाधिकरण्यं व्याप्तिरिति
लभ्यते । एतस्य समन्वयस्तु स्वयमेवोक्तदिशाऽवसेयः । इयमेव च सिद्धान्त-
भूतान्वयव्याप्तिरित्याह—इयमिति ।
पूर्वपक्षिणां व्याप्तिमाह—साध्याभाववदवृत्तित्वमिति । साध्यो वह्निः,
तदभावः वह्न्यभावः, तद्वान् जलहदादिः, तत्र वृत्तित्वं मीनादेः, अवृत्तित्वञ्च
धूमस्यास्तीति वह्निनिरूपिता व्याप्तिर्धूमे गच्छतीति समन्वयः । धूमस्य व्याप्तिस्तु
वह्नौ न गमिष्यति । तत्र साध्यो धूमः, तदभावो धूमाभावः, तद्वत् अयःपिण्डम्,
तत्र वृत्तित्वस्यैव वह्नौ सत्त्वात् इति भावः । अतो धूमवान् वह्नेरिति वह्निना
धूमानुमानं न भवितुमर्हति किन्तु धूमेनैव हेतुना वह्नयनुमानं 'वह्निमान् पर्वतः'
इत्याकारकं भविष्यतीति ।
एतस्या एव पूर्वपक्षव्याप्तेः परिष्कृतं स्वरूपमाह—साध्यतेत्यादि ।
साध्यतावच्छेदकसम्बन्धावच्छिन्ना साध्यतावच्छेदकधर्मावच्छिन्ना च या प्रतियोगिता,
तादृशप्रतियोगितानिरूपको यः प्रतियोगितावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिता-
च्छेदकधर्मावच्छिन्नवैयधिकरण्यावच्छिन्नोऽभावः, तदधिकरणनिरूपितं यत् हेतुता-
वच्छेदकसम्बन्धावच्छिन्नं वृत्तित्वं, तादृशवृत्तित्वनिष्ठं यत् वृत्तित्वत्वं, तदवच्छिन्ना
या वृत्तित्वनिष्ठा प्रतियोगिता, तादृशप्रतियोगितानिरूपकोऽभावो व्याप्तिरिति
समस्तवाक्यस्य विग्रहः ।
अयं भावः—साध्यताप्रतियोगिताहेतुतादीनां समेषामेव लक्ष्यतावत् किमप्य-
वच्छेदकं भवति । तच्च सम्बन्धधर्मभेदेन द्विविधं भवति । यत्र यदुपयोगि प्रतीयते
ग्रन्थकारेण तत्र तदुपादीयते । यत्र द्वयमप्युपयोगि तत्र द्वयमप्युपादीयते । एवं येन
सम्बन्धेन साध्यं पक्षे साध्यते, स सम्बन्धः साध्यतावच्छेदकः । यथा पर्वतो
वह्निमानित्यत्र पर्वते पक्षे वह्निरूपं साध्यं संयोगेन सम्बन्धेन साध्यते, तस्मात्
वह्निनिष्ठसाध्यतावच्छेदकसम्बन्धः संयोगः । यथा हृदादौ संयोगेन वह्नेरभावो
गृह्यते तस्मात् वह्न्यभावीयवह्निनिष्ठप्रतियोगितायाः अवच्छेदकः सम्बन्धः संयोगः ।
येन सम्बन्धेन हेतुः पक्षे तिष्ठति स हेतुतावच्छेदकसम्बन्धः । यथा पर्वतो वह्नि-
मान् धूमादित्यत्र धूमः पर्वते संयोगेन वर्ततेऽतो धूमनिष्ठहेतुताया अवच्छेदकसम्बन्धः
संयोग एव । साध्यतादीनामवच्छेदको धर्मः वह्नित्वादिकर्मिति तु लक्ष्यतावच्छेदक-
पृथिवीत्ववद् बोध्यम् । एतैरवच्छेदकीभूतैः सम्बन्धैर्धर्मैश्च साध्यतादयो अवच्छिन्ना

११८ तर्कसंग्रहे [ अनुमानपरिच्छेदः
भवन्ति । वैयधिकरण्यञ्च तदधिकरणेऽविद्यमानत्वम् । साध्याभाववद्वृत्तित्वमिति
लघुलक्षणे यद्वृत्तित्वमस्ति, तस्यैव वृत्तित्वाभावः अर्थात् वृत्तित्वत्वावच्छिन्नवृत्ति-
त्वनिष्ठप्रतियोगितानिरूपकाभाव इत्यर्थः ।
पर्वतो वह्निमान् धूमादित्यास्य लक्षणस्य समन्वयस्त्वित्थम्—साध्यता-
वच्छेदकसंयोगसम्बन्धावच्छिन्ना, साध्यतावच्छेदकवह्नित्वधर्मावच्छिन्ना च या
वह्निष्ठा प्रतियोगिता तादृशप्रतियोगिताकोऽभावो वह्न्यभावः, स चाभावः
प्रतियोगितावच्छेदकसंयोगसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकवह्नित्वधर्मावच्छिन्न-
वैयधिकरण्यावच्छिन्नोऽप्यस्ति, वह्न्यधिकरणे पर्वते वह्न्यभावस्याविद्यमानत्वात् ।
तादृशवह्न्यभाववान् ह्रदादिः, तन्निरूपितं यत् हेतुतावच्छेदकीभूतसंयोगसम्बन्धा-
वच्छिन्नं वृत्तित्वं, तत् मत्स्यादौ शैवालादौ च वर्तते, तादृशवृत्तित्वनिष्ठं यद्
वृत्तित्वत्वं, तदवच्छिन्ना या वृत्तित्वनिष्ठा प्रतियोगिता, तन्निरूपकाभावोऽर्थात्
वृत्तित्वाभाव धूमे हेतौ वर्तते इति तत्र व्याप्तिलक्षणसमन्वयः । एवविधाया
व्या.बो. व्याप्तेः पूर्वपक्षरूपत्वात् पूर्वोक्तायाः सिद्धान्तव्याप्तेरेव युक्तत्वात् पूर्वपक्षव्याप्तौ
पृ.४४. दूषणमाह तच्चेति । केवलान्वयिनि—केवलान्वयिसाध्यके 'इदं वाच्यं ज्ञेयत्वा-
दि'त्यादिस्थले इत्यर्थः । अव्याप्तमिति । संसारे कोऽपि पदार्थो नास्ति यो वाच्यो
न भवेत्, तथा च वाच्यत्वाभावो न कुत्राप्यायास्यतीति वाच्यत्वाभावाधिकरणा-
प्रसिद्ध्या तद्वृत्तित्वादिकं सर्वमेवाप्रसिद्धमिति अप्रसिद्धिगिबन्धनाऽव्याप्तिरिति
भावः ।
स्वार्थानुमानपरार्थानुमानभेदेनानुमानं द्विविधमित्युक्तं मूले, तत्र स्वार्थानुमा-
नस्यार्थमाह—स्वार्थानुमानं नामेति । न्यायेन = प्रतिज्ञाहेतूदाहरणोपनयनिग-
मनसमुदायेनाप्रयोज्यमनुमानं स्वार्थमित्यर्थः । परार्थानुमानमाह — न्यायेति ।
न्यायेन = उक्तसमुदायेन प्रयोज्यमनुमानं परार्थमित्यर्थः । स्वार्थानुमाने प्रतिज्ञादीनां
नावश्यकता, परार्थानुमाने तु प्रतिज्ञादिकमावश्यकमिति भावः । कथमित्यस्य तु
न्या.बो. मूले एवास्त्युत्तरम् । न्यायत्व किमिति प्रश्ने आह — न्यायत्वञ्चेति । अवयवत्वं
पृ.४५. किमित्याह- अवयवत्वञ्चेति । प्रतिज्ञान्यतमत्वन्तु प्रतिज्ञाभिन्नत्वे सति
हेतुभिन्नत्वे सति उदाहरणभिन्नत्वे सति उपनयभिन्नत्वे सति निगमनभेदवान्
यस्तत्प्रतियोगिकभेदवत्त्वम् ।
न्या.बो. अन्वयव्यतिरेकि, केवलान्वयि, केवलव्यतिरेकि चेति लिङ्गं त्रिविधम् ।
पृ.४६. 'हेतुरपदेशो लिङ्गं करणमित्यनर्थान्तरमिति' कणादसूत्रानुसारं लिङ्गपदेन
हेतुर्गृह्यते । तत्रान्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकीति मूलोक्तं प्रथम-
लिङ्गस्वरूपं व्याख्यातुमाह—अन्वयेनेतीति । अन्वयेन व्याप्तिमदित्यस्यार्थमाह-
व्यापकेति । सिद्धान्तिनां पूर्वोक्तहेतुव्यापकसाध्यसामानाधिकरण्यरूपाऽन्वयव्याप्ति-

मानिति तात्पर्यम् । व्यतिरेकेण व्याप्तिमदित्यस्यार्थमाह — व्यतिरेकेणेतीति ।
व्यतिरेकशब्दस्य वाच्यार्थमाह — व्यतिरेको नामाभाव इति । भावार्थमाह —
तथाचेति । अन्वयव्याप्तिर्हि साध्यहेत्वोर्भवति, व्यतिरेकव्याप्तिस्तु साध्याभाव-
हेत्वभावयोर्भवतीत्याशयः । इयमपि व्याप्तिः साहचर्यरूपैव, किन्तु अन्वयव्याप्तौ
हेतुसाध्ययोः साहचर्यम्, अत्र तु साध्याभावहेत्वभावयोः साहचर्यमिति विशेष
इत्याह -- इयञ्चेति । यथा यत्र यत्र धूमस्तत्र तत्र वह्निरिति साहचर्यमन्वय-
व्याप्तिर्भवति तथैव यत्र यत्र वह्नयभावस्तत्र तत्र धूमाभाव इति साहचर्यं व्यतिरेक-
न्या.बो.व्याप्तिर्भवतीत्यर्थः । यथान्वयव्याप्तौ 'यत्र' पदवीप्सया वह्नौ धूमव्यापकत्वं लभ्यते,
पृ.४७.तथात्रापि यत्रपदवीप्सया धूमाभावे वह्नयभावव्यापकत्वं लभ्यत इत्याह —
यत्रपदवीप्सेयेति ।
ननु वह्निधूमयोः साहचर्यात् यथान्वयव्याप्तिः धूमनिष्ठा भवति तथात्रापि
यत्र यत्रेति साहचर्यनियमात् व्यतिरेकव्याप्तिर्वह्नयभावनिष्ठा भवति । तथा च
धूमः अन्वयव्याप्तिमान् भवन्नपि व्यतिरेकव्याप्तिमान्न भवति, तर्हि कथं धूमहेतु-
रन्वयव्यतिरेकित्वेन गीयते इत्यत आह — एवञ्चेति । अयं भावः — व्यतिरेक-
व्याप्तिर्यद्यपि वह्नयभावनिष्ठा भवति तथापि स्वाश्रयीभूतवह्नयभावव्यापकी-
भूताभावप्रतियोगित्वरूपलम्बायमानसम्वन्धेन धूमनिष्ठैवास्ति । तत्र स्वं व्यतिरेक-
व्याप्तिः, तदाश्रयीभूतो वह्नयभावः, तद्व्यापकीभूतोऽभावः धूमाभावः, तत्प्रति-
योगित्वं धूमेऽस्तीत्येतेन सम्बन्धेन व्यतिरेकव्याप्तेः धूमनिष्ठतया धूमो व्यतिरेक-
व्याप्तिमान् भवति, एवं पूर्वोक्तधूमव्यापकवह्निसमानाधिकरण्यरूपान्वयव्याप्ति-
मांश्च भवतीति तस्यान्वयव्यतिरेकिलिङ्गत्वेन गीयमानता युक्तैवेति । व्यतिरेक-
परामर्शस्य स्वरूपमाह — व्यतिकेरेति ।
न्या बो. द्वितीयलिङ्गस्वरूपं व्याख्यातुमाह -- केवलान्वयिन इति । केवलान्वयिनो
पृ.४८. मूलोक्तलक्षणे मात्रपदस्यार्थकथनपुरःसरं तत्स्वरूपमाह — व्यतिरेकव्याप्तिशून्यत्वे
सति अन्वयव्याप्तिमत्त्वं केवलान्वयित्वमिति । यथा-घटोऽभिधेयः प्रमेयत्वादित्यत्र
केवलमन्वयव्याप्तिरेवास्ति 'यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्व'मिति, न तु
व्यतिरेकव्याप्तिरस्ति, प्रमेयत्वाभिधेयत्वयोरखिले जगति सत्त्वेन तदभावस्यैवा-
प्रसिद्धेः । अतः प्रमेयत्वं लिङ्गं केवलान्वयि ।
लक्षणान्तरमाह -- अथवेति । केवलान्वयि साध्यं यस्य तत् केवलान्वयि
लिङ्गं भवतीत्यर्थः । अथवेति लक्षणान्तरकरणे निमित्तमाह — एतच्चेति ।
तदेवोपपादयति -- साध्यस्येति । अयं भावः — यद्यपि 'इदमभिधेयं द्रव्यत्वात्'
इत्यत्रत्यो द्रव्यत्वहेतुः व्यतिरेकी अस्ति, तथापि साध्यस्य केवलान्वयित्वादेव
व्यतिरेकव्याप्तिर्न भविष्यति । यतो हि यत्र यत्र द्रव्यत्वाभावः इति तु वक्तुं

१२० तर्कसंग्रहे [ अनुमानपरिच्छेदः
शक्यते, किन्तु तत्र तत्र अभिधेयत्वाभाव इति न शक्यते वक्तुं, तथा चैतावतेवात्र
व्यतिरेकव्याप्तिर्नैव सम्भविनीति अन्वयमात्रव्याप्तिकं केवलान्वयीति
मूलोक्तं लक्षणमुपपद्यत इत्याशयः । ननु साध्ये कीदृशं केवलान्वयित्वमुच्यते इत्यत
आह - अत्यन्तेति । अत्यन्ताभावस्य न प्रतियोगी यत् साध्यं, तत् केवलान्वयि
भवतीत्यर्थः । संसारे कुत्रापि अभिधेयत्वाभावो नास्तीति तस्मादभिधेयत्वे प्रतियो-
गित्वमपि नास्ति । अतोऽभिधेयत्वं साध्यं केवलान्वयि, केवलान्वयिसाध्यकत्वाच्च
द्रव्यत्वं लिङ्गं केवलान्वयि भवतीति भावः ।
ननु निरुक्तं केवलान्वयित्वं गगनाभावे संयोगाभावे चाव्याप्तम्, गगनाभावस्य,
गगनस्वरूपो योऽभावो गगनाभावाभावः तत्प्रतियोगित्वात्, एवं संयोगाभावस्यापि
संयोगस्वरूपसंयोगाभावाभावप्रतियोगित्वादिति शङ्कते - नचेति । उत्तरयति -
न्या.बो. स्वविरोधीति । स्वविरोधी, वृत्तिमांश्च योऽभावः, तदप्रतियोगित्वं केवलान्व-
पृ.४८. यित्वम् । स्वपदेन प्रतियोगी ग्राह्यः । तथा च गगनाभावः गगनाभावाभावस्य
प्रतियोगी वर्तते किन्तु स गगनाभावाभावः वृत्तिमान्नास्ति, गगनाभावाभावस्य
गगनस्वरूपतया गगनस्य वृत्तिमत्त्वानभ्युपगमात् । एवं संयोगाभावोऽपि यद्यपि
संयोगाभावाभावस्य प्रतियोगी वर्तते तथापि स संयोगाभावाभावः संयोगस्वरूप-
तया वृत्तिमानस्ति किन्तु स्वपदग्राह्यस्य संयोगाभावरूपप्रतियोगिनः विरोधी
नास्ति, यत्र वृक्षे मूलावच्छेदेन कपिसंयोगाभावो विद्यते तत्रैव वृक्षे शाखावच्छेदेन
कपिसंयोगस्यापि सत्त्वात् । वृक्षे देशभेदेन संयोगोऽपि विद्यते संयोगाभावोऽपि
विद्यत इत्याशयः । तथा च गगनाभावे संयोगाभावे च स्वविरोधिद्वृत्तिमदभावप्रति-
योगित्वाभावात् तयोः केवलान्वयित्वमक्षतम् । नव्यरीत्या केवलान्वयित्वमाह -
एकेति । एकजातीयसम्बन्धेन-स्वरूपेण गगनाभावसंयोगाभावयोः सर्वत्र विद्यमान-
त्वेन तयोः केवलान्वयित्वमिति भावः ।
केवलव्यतिरेकत्वं व्याकर्तु मारभते - केवलव्यतिरेकिण इति । निश्चि-
तेति । अन्वयव्यतिरेकव्याप्त्योः स्वरूपं तु प्रदर्शितमेव । केवलव्यतिरेकि लिङ्ग-
मुदाहरति - यथेति । पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वादित्यत्र गन्धवत्त्वं लिङ्गं
केवलव्यतिरेकि, यत्र यत्र गन्धवत्त्वं तत्र तत्र इतरभेदवत्त्वमित्यन्वयव्याप्तेः,
सकलाया गन्धवत्पृथिव्याः पक्षत्वेन, ग्रहासम्भवात् । किन्तु यत्रेतरभेदो नास्ति,
तत्र गन्धवत्त्वमपि नास्तीति व्यतिरेकव्याप्तेरेवात्र संभवात् इति भावः ।
न्या.बो. एतदेवोपपादयति - अत्रेत्यादिना प्रदर्शितवानित्यन्तेन ग्रन्थेन । गन्ध-
पृ.५०. व्यापकेतरभेदसामानाधिकरण्यरूपान्वयव्याप्तिग्रहाभावे हेतुरुक्तः - अत्र यद्गन्ध-
वदिति ।
‘पृथिवी इतरेभ्यो भिद्यते’ इत्यनुमितौ हेतुभूतं व्यतिरेकव्याप्तिघटितं परामर्श-
स्वरूपमाह - एवम्प्रकारेणेति । इतरभेदाभावव्यापकीभूताभावप्रतियोगिगन्धवती

न्यायबोधिनी-संस्कृत-कला १२१
पृथिवीति परामर्शकारः । यत्र यत्र इतरभेदाभावोऽस्ति यथा जले, तत्र गन्धा-
भावो विद्यतेऽत इतरभेदाभावव्यापकीभूताभावः गन्धाभावः, तत्प्रतियोगी गन्धः,
तद्वती पृथिवीति परामर्शवाक्यार्थः । पृथिवीत्वावच्छिन्नोद्देश्यता निरूपितेतरभेद-
त्वावच्छिन्नविधेयताकः इत्यनेन 'पृथिवी इतरेभ्यो भिन्ना' इत्यस्यार्थः उक्तः ।
यथा जलमित्यादेर्मूलस्य यथाश्रुतमर्थमाह-यथाश्रुतमूलार्थस्त्विति । मूलोक्तस्य
यदिति पदस्य जलमित्यर्थः । 'इतरेभ्यो न भिद्यते' इति मूलस्य इतरभेदाभाव-
वदित्यर्थः । न तद् गन्धवदित्यस्यार्थः 'जलमितरभेदाभावव्यापकगन्धाभावव' दिति ।
एव सति मूलकारस्य कोऽभिप्रायो निःसृत इत्याह - इत्येवं प्रकारेणेति ।
अनेन व्यतिरेकयोः साध्याभावहेत्वभावयोः व्याप्तिः प्रदर्शिता । 'न चेयं तथे'
त्यत्रेयंपदार्थमाह- इयं पृथिवीति । “न तथा" इत्यस्यार्थः - इतरभेदाभाव-
व्यापकगन्धाभाववती न किन्तु तदभावात्मकगन्धवतीति । तस्मान्न तथेति मूले
'तस्मात्' पदस्यार्थः - गन्धाभावाभाववत्त्वादिति । 'न तथे' त्यस्यार्थमाह-
इतरभेदाभाववती न किन्तु इतरभेदाभावाभाववती अर्थात् इतरभेदवतीत्यर्थ
इति ।
न्या.बो. पक्षलक्षणव्याख्यानायावतारयति - सन्दिग्धेतीति । मूललक्षणार्थमाह -
पृ.५१. साध्यप्रकारकेति । साध्यं प्रकारो यस्य स साध्यप्रकारकः सन्देहः, तत्र यो
विशेष्यः सः पक्ष इत्यर्थः । साध्यप्रकारकः संदेहः कीदृशो भवतीत्याह-सन्देह-
श्चेति । तथा च पर्वत वह्निमान्नवेति संदेहे पर्वतस्य विशेष्यतया पर्वत एव पक्ष
इति भावः । इदं च प्राचां लक्षणम्, तेषां मतेऽनुमितिपूर्वं पक्षे साध्यसन्देहस्याव-
श्यमुत्पत्तेः स्वीकारात् । किन्तु नव्यानां नैष पन्थाः । ते हि गगनं मेघवन्नवेति संदे-
हाभावेऽपि गगनस्य पक्षत्वसत्त्वेन घनगर्जितश्रवणेन 'गगनं मेघवदिति' गृहान्तर्वर्ति-
पुरुषस्यानुमितिर्भवतीति दृष्ट्वा साध्यप्रकारक सन्देह विशेष्यत्वं पक्षत्वमिति नानु-
मन्यन्ते, किन्तु अनुमित्युद्देश्यत्वं पक्षत्वम् । तथा च मेघानुमितौ साध्यसन्देहा-
भावेऽपि अनुमित्युद्देश्यतया गगनस्य पक्षत्वं नव्यमते उपपन्नम् । इति सर्वमाह-
इदञ्चेत्यादिना स्थिरीकृतमित्यन्तेन ।
न्या.बो. सपक्षलक्षणं व्याख्यातुमवतारयति - निश्चितेतीति । साध्यप्रकारको यो
पृ.५२. निश्चयः तद्विशेष्यत्वं सपक्षत्वमिति भावः । साध्यप्रकारकं निश्चयमाह -
निश्चयश्चेति । तथा चानुमितेः पूर्वं महानसे साध्यस्य निश्चयसत्त्वात् महानसं
सपक्षो भवति । विपक्षतं व्याचष्टे - साध्याभावेति । साध्याभावप्रकारको
यो निश्चयः तद्विशेष्यत्वं विपक्षत्वमित्यर्थः । निश्चयप्रकारमाह - निश्चय-
श्चेति । तथा चात्र वह्न्यभावप्रकारके निश्चये ह्रदस्य विशेष्यत्वेन ह्रदो विपक्षः
कथ्यते । पर्वतो वह्निमानित्यनुमितौ पर्वतः पक्षः, महानसं सपक्षः, ह्रदो विपक्ष
इति तात्पर्यम् ।

१२२ तर्कसंग्रहे [ अनुमानपरिच्छेदः
इदमपर्यन्तं सद्धेतवो व्याख्याताः, इतो हेत्वाभासान् ( असद्धेतून् ) व्याख्या-
तुमारभते—एवमिति । हेत्वाभासपदार्थमाह— हेतुवदिति । हेतुवद् ये आभा-
सन्तेमात्रं, न तु वस्तुतो हेतवस्ते हेत्वाभासा इत्यर्थः । दुष्टहेतव इति यावत् । ते
च हेत्वाभासाः पञ्च । तथा च गौतमसूत्रम्— "सव्यभिचार-विरुद्ध प्रकरणसम-
साध्यसम-कालातीता हेत्वाभासा।" (१।२।४) । ननु के दोषाः यैर्दोषैर्हेतवो
न्या.बो. दुष्टहेतव इति कथ्यन्ते ? तत्राह—दोषाश्चेति । ननु व्यभिचारादिदोषः साक्षात्-
पृ.५३. सम्बन्धेन हेतौ तिष्ठतीति सव्यभिचारो हेतुः दुष्टः प्रतिपाद्यतान्नाम किन्तु ये
बाधादिदोषाः हेतौ न तिष्ठन्ति । किन्तु पक्षादौ एव तिष्ठन्ति, तत्रत्यहेतवः कथ
दुष्टाः कथ्येरन्निति शङ्कामपाकर्त्तुमाह— एकज्ञानेति । तथा च एकज्ञानविषय-
प्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन सर्वे एव हेतवो दोषवन्तो भविष्यन्तीति न
कापि क्षतिः ।
पृथक् पृथक् दोषलक्षणानि त्वग्रे वक्ष्यन्ते, इह पञ्चविधदोषसाधारणं लक्षणं
तावदाह— यद्विषयकत्वेनेति । अत्र तृतीयाया अवच्छिन्नत्वमर्थः । ज्ञानस्येति
षष्ठ्या निष्ठत्वमर्थः । तथा च यद्विषयकत्वावच्छिन्न ज्ञाननिष्ठमनुमितितत्करणा-
न्यतरप्रतिबन्धकत्वं तत्त्वं दोषसामान्यलक्षणम् । यद्विषयकं ज्ञानम् अनुमितितत्क-
रणान्यतरप्रतिबन्धकं स दोष इति तात्पर्यम् ।
अयं भावः—दोषा हि अनुमिति तत्करणीभूतं व्याप्तिज्ञानञ्च प्रतिबध्नन्ति ।
तत्र प्रतिबन्धकता दोषज्ञानेऽस्ति, प्रतिबध्यता चानुमितितत्करणीभूतव्याप्तिज्ञान-
योरस्ति । एवं सति लक्ष्यतालक्ष्योक्तनियमानुसारं दोषज्ञाननिष्ठाया अनुमिति-
तत्करणान्यतरनिष्ठप्रतिबध्यतानिरूपितप्रतिबन्धकताया अवच्छेदकं दोषविषयक-
ज्ञानत्वम् । एवं दोषज्ञाननिष्ठोक्तप्रतिबन्धकता दोषविषयकज्ञानत्वावच्छिन्ना
(दोषविषयकत्वावच्छिन्ना ) भवति । तथा च यद्विषयकत्वावच्छिन्ना दोषज्ञान-
निष्ठा अनुमितितत्करणान्यतरनिष्ठप्रतिबध्यतानिरूपितप्रतिबन्धकता तत्त्वं दोषत्व-
मिति पर्यवसितम् । यथा ह्रदो वह्निमानित्यनुमितौ वह्न्यभाववद्ध्रद इत्याका-
रकबाधो दोषः । तत्र वह्न्यभाववद्ध्रदविषयकं ह्रदो वह्न्यभाववानिति ज्ञाने
सति ह्रदो वह्निमानित्यनुमितिर्न जायते, तथा च ह्रदो वह्निमानित्यनुमितिनिष्ठ-
प्रतिबध्यतानिरूपितप्रतिबन्धकताया वह्न्यभाववद्ध्रदविषयके ज्ञाने सत्त्वेन
एतत्स्थले वह्न्यभाववद्ध्रदरूपबाधदोषः । एवं धूमवान् वह्नेरित्यनुमितिस्थले
धूमाभाववद्वृत्तित्वं वह्निगतं व्यभिचारनामकदोषः । तत्र धूमाभाववद्वृत्तिर्वह्नि-
रिति व्यभिचारज्ञाने सति धूमाभाववद्वृत्तिर्वह्निरिति व्याप्तिज्ञानं न जायते ।
तथा च धूमाभाववद्वृत्तिर्वह्निरिति व्याप्तिज्ञानरूपानुमितिकरणनिष्ठप्रतिबध्यता-
निरूपितप्रतिबन्धकताया धूमाभाववद्वृत्तित्वरूपव्यभिचारज्ञाने सत्त्वेन एतत्स्थले

न्यायबोधिनी-संस्कृत-कला १२३
धूमाभाववद्वृत्तित्वरूपो व्यभिचारो दोषः । तद्वत्त्वाच्च वह्निहेतुः व्यभिचारी
भवति । दुष्टहेतुनिरूपणस्य प्रयोजनमाह-हेतौ दोषज्ञाने इति ।
सव्यभिचारं व्याख्यातुमारभते - सव्यभिचारमिति । लक्षणमाह-
साधारणाद्यन्यतमत्वमिति । अन्यतमपदार्थस्तु पूर्वमुक्तः । साधारणत्वस्वरूप-
माह-साध्याभाववद्वृत्तित्वमिति । फलनिर्देशसहितमुदाहरणमाह - वह्नि-
मान् प्रमेयत्वादिति । अत्र साध्यो वह्निः, तदभाववान् हृदादिः, तत्र प्रमेयत्वस्य
न्या.बो. वृत्तित्वमिति लक्षणसमन्वयः । असाधारण इतीति । सर्वसपक्षविपक्षव्यावृत्तत्वे
पृ. ५४. सति पक्षमात्रवृत्तित्वम् इत्यसाधारणलक्षणे सर्वसपक्षव्यावृत्तत्वस्यार्थमाह-
निश्चितेति । सपक्षपदेन निश्चितसाध्यवतो ग्रहणात् व्यावृत्तत्वपदस्यावृत्तित्वार्थ-
कत्वाच्चेति भावः । साध्यवद्वृत्तित्वपदस्य साध्यसामानाधिकरण्यमित्यर्थ
इत्याह - साध्यवद्वृत्तित्वमिति । एवं रीत्यैव सर्वविपक्षव्यावृत्तत्वमपि
निश्चितसाध्याभावासामानाधिकरण्यरूपं ज्ञेयम् । वायुक्तदुष्टहेतौ एवंविधासाधारण-
त्वज्ञानस्य फलमाह - हेताविति ।
न्या.बो. अनुपसंहारिलक्षणं व्याख्यातुमाह-अनुपसंहारिणं लक्षयतीति । अन्वय-
पृ. ५५. व्यतिरेकदृष्टान्तरहितत्वमनुपसंहारित्वमित्यस्य तात्पर्यमाह - उभयत्रेति । दृष्टा-
न्ताभावादिति = सपक्षविपक्षयोरभावादित्यर्थः । हेतुमाह - सर्वस्यैवेति ।
पक्षत्वात् = सन्दिग्धसाध्यवत्त्वात् । पक्षातिरिक्तप्रसिद्धेरिति - निश्चितसाध्यवतो
निश्चितसाध्याभाववतश्चाप्रसिद्धेरुभयी अपि व्याप्तिर्नास्तीति भावः । तथा चात्रा-
नुमितिहेतुः परामर्श एव न सेत्स्यतीत्याशयः । परिष्कृतमनुपसंहारित्वमाह-
किञ्चिदिति । किञ्चिद्विशेष्यको यो निश्चयः तद्विषयीभूतं साध्यं यस्य हेतोः
स किञ्चिद्विशेष्यकनिश्चयाविषयसाध्यकः, तत्त्वे सति, किञ्चिद्विशेष्यकनिश्चयस्या-
विषयीभूतः साध्याभावो यस्य हेतोः स हेतुः किञ्चिद्विशेष्यकनिश्चयाविषयसाध्या-
भावकः, तत्त्वमनुपसंहारित्वमित्यर्थः । यादृशेन हेतुना तत् साध्यमनुमीयेत यत्
साध्यमन्यत्र ( पक्षातिरिक्ते ) क्वचित् निश्चितं न स्यात् न वा तदभाव ( साध्या-
भाव ) एव क्वचिन्निश्चितो भवेत्, स हेतुग्नुपसंहारी भवतीत्याशयः । अनुपसंहा-
रित्वज्ञानस्य फलमाह - एतदीयेति । व्याप्तिसंशयजननद्वारेति । यत्र साध्य-
साध्याभावान्यतरनिश्चयः क्वाचदपि न भवति, तत्र साध्यहेत्वोः साध्याभावहेत्व-
भावयोर्वा साहचर्यरूपव्याप्तिनिश्चयो नैव जायते अपि तु व्याप्तिसंशय एव
जायते, तत्रेत्यर्थः ।
साध्याभाववदवृत्तित्वमेव व्याप्तिर्युक्ता, केवलान्वयी हेतुश्चानुपसंहारिणि
अन्तर्भावनीय इत्याशयेनानुपसंहारित्वं वस्तुगत्या लक्षयति - वस्तुतस्त्विति ।

१२४ तर्कसंग्रहे [ अनुमानपरिच्छेदः
न्या.बो. विरुद्धं हेत्वाभासं व्याख्यातुमुपक्रमते—विरुद्धं लक्षयतीति । साध्या-
पृ.५६.भावव्याप्त इति । साध्याभावव्याप्तिमानित्यर्थः । का साध्याभावव्याप्ति-
रित्याह—साध्याभावव्याप्तिः साध्याभावनिरूपितव्यतिरेकव्याप्तिरिति । एतस्या
एव पूर्वोपदर्शितं स्वरूपमाह—साध्यव्यापकीभूताभावप्रतियोगित्वमिति ।
साध्यं सिषाधयिषुर्वादो साध्यव्याप्तं हेतुमनुपन्यस्य साध्याभावव्याप्तमेवोपन्यस्त-
वानतः स स्वयमेव निगृहीतो भवतीत्याशयानः टीकाकार एतज्ज्ञानफलमाह—
तथा चेति । सत्प्रतिपक्षस्थलेऽपि एवमेवानुमितिप्रतिबन्ध इत्यतिदिशति—
एवमिति । ननु यदि विरुद्धसत्प्रतिपक्षयोरुभयत्रापि एकदिशैवानुमितिप्रतिबन्ध-
स्तदा तयोः को भेद इत्याह - विरुद्धसत्प्रतिपक्षयोरिति । विरुद्धस्थले एक
एव हेतुर्भवति यः साध्यसाधकत्वेनोपन्यस्यमानोऽपि साध्याभावमेव साधयति,
सत्प्रतिपक्षस्थले तु द्वौ हेतू भवतः, एकः साध्यसाधकत्वेनोपन्यस्तोऽपरश्च साध्या-
भावसाधकत्वेनोपन्यस्त इति तयोर्भेदः ।
न्या.बो. सत्प्रतिपक्षस्वरूपमाह—साध्याभावेति । साध्याभावव्याप्यः प्रतिहेतुरर्थात्
पृ.५७.द्वितीयः प्रतिद्वन्द्वी हेतु., तद्वान् पक्षो यद्धेतो सति, स सत्प्रतिपक्ष इत्यर्थः ।
तयोरपरं भेदकारणमाह—साध्याभावेति । साध्याभावसाधकस्यैव हेतोः अज्ञान-
वशात् साध्यसाधकत्वेनोपन्यस्तत्वात् वादिनोऽतितरामसामर्थ्यं सूचितं भव-
तीत्याशयः ।
नामतोऽसिद्धभेदाः प्रतिपादिता अपि लक्षिता नेति तल्लक्षणमाह—आश्रया-
सिद्धिमिति । पक्षताया अवच्छेदको यो धर्मस्तद्विशिष्टस्य पक्षस्याप्रसिद्धि-
रित्यर्थः । मूलोपदर्शितादेवोदाहरणात् एतज्ज्ञानफलमाह—अत्रेति । गगनीयत्वं
गगनसम्बन्धित्वमित्यर्थः ।
न्या.बो. स्वरूपासिद्धिमाह—स्वरूपासिद्धिनमिति । एतादृशो हेतुरुपादीयते यश्च
पृ.५८. पक्षे स्यादेव नेत्यर्थ ! एतज्ज्ञानफलमाह—तथा चेति । परामर्शे हि पक्षो हेतु-
मत्तया ज्ञायते, तथा च पक्षस्य हेतुशून्यत्वेऽनुमितिहेतुभूतः परामर्श एव नोत्पद्यते
इत्यर्थः ।
व्याप्यत्वासिद्धं हेत्वाभासं व्याख्यातुं प्रतीकमूपादते—व्याप्यत्वासिद्ध
इतीति । सोपाधिको हेतुर्व्याप्यत्वासिद्ध इति मूलोक्तं लक्षणम् । उदाहरणमपि
मूल एवास्ति । इतः “व्यभिचारस्यानुमानमुपाधेस्तु प्रयोजनम्” इति रीत्या
कथमुपाधिना हेतौ व्यभिचारित्वमनुमीयत इति स्पष्टयितुं पूर्वं भूमिका-
मारचयति—प्रकृते इति । उपाधिर्हि साध्यव्यापकत्वे सति साधनाव्यापकः ।
यथा धूमवान् वह्नेरित्यनुमितिस्थले साध्यो धूमः साधनं वह्निरस्ति । यत्र यत्र
धूमोऽस्ति तत्र तत्रार्द्रेन्धनसंयोगोऽस्ति अत आर्द्रन्धनसंयोगो धूमव्यापकः । एवं

सति सुतरां धूम आर्द्वेन्धनसंयोगव्याप्य इत्याह - धूमव्यापकत्वमिति । एवं यत्र
यत्र वह्निरस्ति तत्र तत्रार्द्रेन्धनसंयोगो नास्ति यथा अयोगोलके, अत आर्द्वेन्धन-
संयोगः साधनस्य वह्ने रध्यापको विद्यते । तथा च सुतरां वह्नौ आर्द्वेन्धनसंयोगा-
व्याप्यत्वं सिद्धमित्याह - एवमिति । अव्याप्यत्वमेव व्यभिचारित्वमित्यांह-
तदेवेति । यद्व्यभिचारित्वं यत्र तद्व्याप्यव्यभिचारित्वमपि तत्रेति नियमात्-
आर्द्वेन्धनसंयोगरूपोपाधिव्यभिचारित्व वह्नावस्ति, ततस्तद्व्याप्यधूमव्यभिचारित्व-
मपि वह्नावस्ति इत्याह-तथा चेति ।
अनुमानप्रकारमपि स्वयमेव दर्शयति - अनुमानेति । पूर्वानुमानहेतुं =
वादिनोऽनुमाने यो हेतुस्तमित्यर्थः । अत्र सामान्यव्याप्ति प्रदर्शयति - यो यत्-
न्या.बो साध्येति । उपाधेः फलमाह - एवं प्रकारेणेति । प्रकृतानुमानम् = पर्वतो
पृ.५६. धूमवानित्यनुमानं, तत्र हेतुभूतो वह्निः । तस्मिन् पक्षे = वह्नि पक्षीकृत्येत्यर्थः ।
साध्यव्यभिचारोत्थापकतया = साध्यव्यभिचारानुमापकत्येत्यर्थः । व्याप्यत्वासिद्धि-
न्या बो.रूपदोषज्ञानफलमाह - तथा चेति । साध्याभाववद्वृत्तित्व व्यभिचारः, साध्या-
पृ.६०.भाववदवृत्तित्वं व्याप्तिरिति विवेकः ।
बाधितनामानं हेत्वाभासं व्याख्यातुं प्रतीकमुपादत्ते - यस्येतीति । अर्थः
सुगमः । उदाहरणं मूलत एव ज्ञेयम् । एतद्धेत्वाभासज्ञानफलमाह - तथा चेति ।
अस्य हेत्वाभासस्य बाधित इति नामकरणे निमित्तमाह-बाधितसाध्यकत्वा-
दिति । बाधितं साध्यं यस्य स बाधितसाध्यको हेतुः, तत्त्वादित्यर्थः । साध्यस्य
बाधितत्वादिति यावत् ।
। इति तर्कसंग्रहन्यायबोधिनीव्याख्यायां कलायामनुमानपरिच्छेदः ।
••••०८०••••

अथोपमानपरिच्छेदः
न्यायबोधिनी. उपमानम् = उपमाननामकं तृतीयं प्रमाणम् । लक्षयति = लक्षणद्वारा
पृ. ६१. बोधयति । उपमितिकरणमितीति । उपमितिनामिकायाः तृतीयप्रमितेः करण-
मुपमानं प्रमाणमित्यर्थः । कीदृशमितिनाम्नी प्रमितिरिति जिज्ञासायां प्रदर्शितां तां
व्याख्यातुं प्रतीकमुपादत्ते—उपमिति लक्षयतीति । संज्ञा का ? संज्ञी कः ?
तयोः सम्बन्धश्च क इति संज्ञासंज्ञीतिप्रतीकोपादानपुरःसर प्रदर्शयति—संज्ञा
नामेति । निष्कर्षमाह—तथा चेति । उपमानप्रमाणपदेन किं ग्राह्यमित्यत आह—
उपमानं नामेति । आरण्यकपुरुषोक्त "गोसदृशो गवय" इत्यतिदेशवाक्यार्थ-
विषयक ज्ञानमित्यर्थः । 'अयं गवयशब्दवाच्य' इत्युपमित्युत्पत्तौ अतिदेशवाक्यार्थ-
विषयक शाब्दज्ञानं करणम् । व्यापारोऽत्र क इत्यत आह—अतिदेशवाक्यार्थस्य
स्मरणं व्यापार इति । फलमाह—उपमितिरिति । उपमितिकरणभूतमुपमान-
प्रमाणं स्फुटयति—गोसदृश इति । अस्मिन् 'गोसदृशो गवयपदवाच्य' इत्यतिदेश-
वाक्यार्थबोधे गोसदृश इति विशेष्यम्, गवयपदवाच्यत्वं प्रकारः, अतो गोसादृश्या-
वच्छिन्नविशेष्यकं गवयपदवाच्यत्वप्रकारकं ज्ञानं लभ्यते इति भावः ।
। इति तर्कसंग्रहन्यायबोधिनीव्याख्यायां कलायामुपमानपरिच्छेदः ।

Here is the line-by-line transcription of the Sanskrit text from the image into pure Devanagari Markdown:

अथ शब्दपरिच्छेदः
न्या. बो. शब्दं व्याख्यातुमुपक्रमते—शब्दं लक्षयतीति । लक्ष्यलक्षणे विवेचयति—
पृ. ६२. आप्तोच्चरितत्वे सति वाक्यत्वं लक्षणम्, प्रमाणशब्दत्वं लक्ष्यतावच्छेदक-
मिति । एतेन प्रमाणभूतः शब्दो लक्ष्यो भवति । आप्तोच्चरितत्वे सतीति
विशेषणस्य फलमाह—वाक्यत्वमात्रोक्ताविति । वाक्यत्वमिति विशेष्यस्य
फलमाह—तावन्मात्रोक्ताविति । आप्तोच्चरितत्वमात्रोक्तावित्यर्थः । किं
नामाप्तत्वमित्याह आप्तत्वञ्चेति । घटवद्भूतलमिति शब्दप्रयोगहेतुभूतं
यज्ज्ञानं घटवदिदं भूतलमित्याकारकं, तद्वत्त्वमित्यर्थः । एतदनन्तर पर्यवसितं
शब्दप्रमाणलक्षणमाह—तथा चेति । ज्ञात्वा ह्यर्थं कश्चिच्छब्दं प्रयुङ्क्ते, नहि
हिमालयस्थमौषधमजानानस्तद्वाचक शब्दं प्रयुङ्क्ते भिषजां वरेण्योऽपीति
प्रयोगहेतुभूतयथार्थज्ञानजन्यत्वं शब्दे सुवपन्नम् । इति तु प्राचीनमताभिप्रायेण ।
नव्यानां मतमाह—वस्तुतस्त्विति। प्राचीनमते पदमेव करणम्, नवीनमते
तु पदस्य ज्ञानमेव करणमर्थात् प्रमाणम्, शब्दस्य करणत्वे अतीतानागतशब्दात्
शाब्दबोधानुपपत्तिरिति भावः । फलव्यापारे तु द्वयोर्मने तुल्यौ, व्यापारमाह –
वृत्तिज्ञानेति । वृत्तिज्ञानसहकृतं यत् पदज्ञानं तज्जन्या या पदार्थोपस्थितिः सैव
न्या बो. व्यापार इति भावः । फलमाह—वाक्यार्थज्ञानमिति । अनुमित्यादिवत् शाब्द-
पृ.६३. बोध इति फलस्य संज्ञा । वृत्तिरेव केत्यत आह—वृत्तिर्नामेति । शक्तिलक्ष-
णान्यतरूपेति । द्विविधैवेत्यर्थः । एतेन साहित्यिकाभिमतस्य व्यञ्जनादेः
वृत्तित्वमपाकृतं भवति । कथमिति त्वन्यतोऽनुसन्धेयम् । तत्र शक्तिस्वरूपमाह—
शक्तिनमिति । घटादिविशेष्यको यो घटादिपदजन्यबोधविषयत्वप्रकारक
ईश्वरसङ्केतः स शक्तिरित्यर्थः । सङ्केताकारस्त्वीदृशः-अस्मात् पदादयमर्थो
बोद्धव्य इति । अत्र ‘अयम् अर्थः' इति भागो घटादिरूपविशेष्यबोधकः । 'अस्मात्
पदात्' इत्यस्य एतत्पदजन्ये यर्थः। तव्यप्रत्ययान्तस्य ‘बोद्धव्य’ इति पदस्य
बोधविषयत्वेनेश्वरसङ्केतविषयत्वमर्थः तथा च एतदर्थविशेष्यकैतत्पदजन्यबोध-
विषयत्वप्रकारक ईश्वरसङ्केतः शक्तिरिति लभ्यते । अतो घटादेरर्थत्वात् घटादि-
विशेष्यकेत्याद्युक्तिर्युक्ता । एवंविध ईश्वरसङ्केनः ईश्वरेच्छा रूप एव भवतीत्याह-
ईश्वरसङ्केतो नामेति । ईश्वरेच्छैव एवंविधा शक्तिरित्याह – सैवेति ।
एतावता विषयतासम्बन्धेन घटपदनिरूपिता शक्तिर्घटेऽस्तीति लभ्यते । तथा च
घटविषयकशक्तिनिरूपकत्वाद् घटादिपदं शक्तमित्युच्यते इत्याह शक्तिनिरूप-
कत्वमेवेति । अर्थः पदानां शक्य इत्युच्यते कथमित्याह -विषयतासम्बन्धे-
नेति । पदानिरूपितायाः शक्तेः विषयतासम्बन्धेनाश्रयो अर्थो भवतीत्यत इत्यर्थः ।

शक्तिलक्षणान्यतररूपायां वृत्तौ शक्तिरुक्ता, लक्षणा केत्याह—शक्यसम्बन्धो
लक्षणेति । शक्यस्य यः सम्बन्धः सामीप्यादिः, स एव लक्षणेत्यर्थः । यथा
गङ्गायां घोषः इत्यत्र गङ्गापदस्य शक्यार्थः प्रवाहः, तत्र घोषः ( आभीरपल्ली )
क्षणमपि स्थातुं नार्हति, तस्माद् गङ्गापदस्य सामीप्यसम्बन्धवति तीरे लक्षणा,
अतस्तस्माद् वाक्याद् गङ्गातीरे घोष इत्यर्थो लक्षणया लभ्यते । गौणी-शुद्धाभेदेन
लक्षणा द्वेधेत्याह— सेति । तत्र गौणीमाह--गौणी नामेति । दृष्टान्तं प्रदर्श-
यति—यथेति । माणवकस्तु सिंहो नास्ति, किन्तु विशिष्टे लक्षणां कृत्वा सिंह-
सदृशो माणवक इत्यर्थो लभ्यते । इयमेव गौणी लक्षणा । शुद्धायास्त्रैविध्यमाह—
जहल्लक्षणा, अजहल्लक्षणा, जहदजहल्लक्षणा चेतीति । प्रथमामाह—
लक्ष्यतावच्छेदकरूपेणेति । गङ्गापदस्य लक्ष्यं तीरं भवत्यतो लक्ष्यतावच्छेदकं
तीरत्वं, तेन रूपेणेत्यर्थः । लक्ष्यमात्रबोधेति मात्रपदेन शक्यार्थस्य प्रवाहादेर्व्य-
वच्छेदः । उदाहरति--यथा गङ्गायां घोष इति । गङ्गापदस्य वाच्यो
( शक्यः ) यः प्रवाहः तत्सम्बन्धस्य तीरे सत्त्वादिति । अग्रे सुगमोऽन्वयबोधः ।
द्वितीयामाह—लक्ष्येतेति । या शक्यार्थसहितं लक्ष्यार्थं बोधयति सा अजहल्लक्षणा
कथ्यते । उदाहरति—यथा काकेभ्य इति ।
न्या बो. अयमाशयः—काकेभ्यो दधि रक्ष्यतामिति वाक्येन काकेभ्य एव दधिरक्षणं
**पृ.६४.**करणीयं न विडालादिभ्य इत्यर्थो न भवति, किन्तु यावन्तो दध्युपघातका विडाला-
दयस्तेभ्यः सर्वेभ्य एव दधि रक्षणीयमिति वक्तुस्तात्पर्यं तत्रास्ति । अतस्तत्र काक-
पदस्य दध्युपघातके लक्षणा स्वीक्रियते । तथा च लक्ष्यतावच्छेदकीभूतदध्युपघात-
कत्वेन रूपेणापरे विडालादयो बोध्यन्ते । एवं सति काकपदशक्यार्थः काकोऽपि न
हीयतेऽतोऽजहल्लक्षणेत्यन्वर्थेयं संज्ञेति । अक्षरार्थः स्पष्टः ।
यत्र लक्षणया शक्यार्थेषु कश्चिदर्थो हीयते कश्चिदर्थो न हीयते, सा जहद-
जहल्लक्षणा भवति, तां च वेदान्तिनां मतेनोदाहरति--जहदजहल्ल-
क्षणेति । स्वयं तस्याः स्वरूपमाह—सा चेति । अत्र शक्यतावच्छेदकं परित्यज्यते
व्यक्तिमात्रं बोध्यत इत्याशयः ।
अयं सारः--वेदान्तनये तत् त्वमसीति श्रुतौ तत्पदेन सर्वज्ञत्वविशिष्टात्म-
व्यक्तिः बोध्यते, त्वम्पदेन चाल्पज्ञत्वविशिष्टात्म ( जीवात्म ) व्यक्तिर्बोध्यते ।
घटो द्रव्यमितिवत् "तत् त्वमिति" प्रथमान्ताभ्यां पदाभ्यामभेदो बोध्यते । स
चाभेदः सर्वज्ञत्वाल्पज्ञव्यक्तयोरनुपपन्नः, ततोऽत्र जहदजहल्लक्षणया सर्वज्ञत्वाल्प-
ज्ञत्वांशौ हित्वा व्यक्त्यंशञ्चाहित्वा परस्परमभिन्नमात्ममात्रं बोध्यत इति ।
आकाङ्क्षालक्षणं व्याख्यातुमाह—आकाङ्क्षां लक्षयतीति । पदस्ये-
तीति । पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकाङ्क्षेति मूलोक्तं
लक्षणम्, तस्यायमर्थः—व्यतिरेकोऽभाव इत्यनर्थान्तरम् । एकं पदं यत्पदाभाववशात्

अन्वयं नानुभावयति अर्थात् शाब्दबोधं न जनयति, तस्य पदस्य तस्मिन् पदान्तरे
आकाङ्क्षेति । एतस्यैव व्याख्यामाह टीकाकारः—अव्यवहितोत्तरत्त्वादि-
सम्बन्धेनेति ।
अयमाशयः—घटमिति पदं यदोच्चार्यते तदैव घटीयं कर्मत्वमिति
बोधो जायते, घटस्येति यदोच्चार्यते तदैव घटीयः सम्बन्ध इति बोधो जायते ।
अतः घटपदाव्यवहितोत्तरम् अम्षदोच्चारणमावश्यकम्, एवं घटपदोत्तरं स्य-
( ङस् ) पदोच्चारणमावश्यकम्, केवले घटेति अमिति वा पदे उच्चारिते
व्या बो किञ्चिद्बोधानुत्पादात् । अत्र घटमिति पदेऽव्यवहितोत्तरत्वसम्बन्धेन घटपदविशिष्टम्
पृ.६५.अम्पदमस्ति, एवं घटस्येत्यत्र अव्यवहितोत्तरत्वसम्बन्धेन घटपदविशिष्टं स्यपद-
मस्ति, घटपदापेक्षया ऽव्यवहितोत्तर एव अम्पादस्य स्यपदस्य च वर्तमानत्वात् ।
एतावतेतदायाति यत् यत्पदान्यवहितोत्तरं यत्पदाभावे सति यादृशशाब्दबोधो न
जायते, तादृशशाब्दबोधे अव्यवहितोत्तरत्वसम्बन्धेन तत्पदवत्त्वं तद्पदे आकाङ्क्षेति ।
अत्र घटमिति पदे घटपदं प्रकारः अम्पदं विशेष्यम्, घटपदनिष्ठा या प्रकारता
साऽव्यवहितोत्तरत्वसम्बन्धेन । अत एतदायाति यत् घटीयं कर्मत्वमिति बोध-
जननाय अव्यहितोत्तरत्वसम्बन्धेन घटपदप्रकारकम् अम्पादविशेष्यकं घटमित्येता-
वज्ज्ञानमावश्यकम्, एवंविधज्ञानाभावे तु शाब्दबोधो न जनिष्यते । तथा च
अव्यवहितोत्तरत्वसम्बन्धेन यत्पदप्रकारकतत्पदविशेष्यकज्ञानाभावप्रयुक्तः (ज्ञाना-
भाववशात्) यादृशशाब्दबोधो न जायतेऽव्यवहितोत्तरत्वसम्बन्धेन तत्पदवत्त्वं
तत्पदनिष्ठमाकाङ्क्षेति टीकाकृतां निष्कृष्टं प्रकारान्तरम् । अत एव अम्घट
इति वैपरीत्येनोच्चारणे सति अम्पदस्यैव प्रकारतया घटपदप्रकारकाम्पदविशेष्य-
कज्ञानाभावात् घटीयं कर्मत्वमिति स्वाभीष्टः शाब्दबोधो न जायते । तस्मात्
सिद्धमाकाङ्क्षाज्ञानं शाब्दबोधं प्रति कारणमिति । पङ्क्त्यर्थस्तु व्याख्येयैव
निपुणं करणीय इति ।
न्या.बो अर्थबाधो योग्यतेति मूलस्यार्थमाह—बाधाभाव इति । अर्थबाधाभावो
पृ ६६.योग्यतेत्यर्थः । अग्निना सिञ्चेदिति मूलोदाहृतं व्याचष्टे—अग्निनेति ।
सन्निधिनिरूपणे “असह्योच्चारितानी” त्यस्यार्थमाह—विलम्बोच्चारिता-
नीति ।
लौकिकवैदिकद्विविधवाक्ययोः वैदिकपदेन यद्गृह्यते तदाह—वेदवाक्य-
मित्यर्थ इति । नहि वेदवाक्यमेव प्रमाणं, किन्तर्हि वेदमूलकानि स्मृत्यादीन्यपि
सर्वाणि प्रमाणत्वेन ग्राह्याणीत्याह—इदमुपलक्षणमिति । लौकिकपदस्यार्थमाह-
वेदवाक्यभिन्नमिति । लौकिकवाक्यमाप्तोक्तमेव प्रमाणं, तत्राप्तोक्तत्वं किम् ?
तदाह आप्तत्वञ्चेति । शब्दादिप्रयोगहेतुभूतं यद् यथार्थज्ञानं
तद्वत्त्वमित्यर्थः
। इति तर्कसंग्रहन्यायबोधिनीव्याख्यायां कलायां शब्दपरिच्छेदः ।
—:०:—
९

अथावशिष्टपरिच्छेदः
न्या.बो. पूर्वं यथार्थानुभवभेदा व्याख्याता इदानीमयथार्थानुभवभेदान् व्याख्यातु-
पृ. ६७. माह—यथार्थानुभवमिति । एकस्मिन्नित्यादिसंशयस्वरूपं व्याचष्टे—एकधर्मा-
वच्छिन्नेति । एकधर्मविच्छिन्ना या विशेष्यता, तादृशविशेष्यतानिरूपिता या
भावाभावोभयनिष्ठा प्रकारता, तादृशप्रकारतानिरूपकं यज्ज्ञानं तत् संशय इत्यर्थः ।
यथा जीवो नित्यो नवेति ज्ञानं संशयः । अत्रैकधर्मः जीवत्वं, तदवच्छिन्ना विशेष्यता
जीवनिष्ठा, तन्निरूपिता प्रकारता नित्यत्वतदभावयोरुभयोरस्ति, तादृशप्रकारताक-
मिदं ज्ञानमतोऽत्र लक्षणसमन्वयः । ननूक्तलक्षणानुसारं यत्रैकस्मिन् विशेष्ये भावा-
भावौ विशेषणीभूतौ स्याताम्, तदेव ज्ञानं संशयः कथ्येत, किन्तु अयं स्थाणुर्वा
पुरुषो वेति ज्ञानं संशयो न भवेत्, तत्र स्थाणुत्वपुरुषत्वयोर्भावयोरेव विशेषणत्वा-
दिति शङ्कामपाकर्तु माह—भावद्वयेति । अप्रसिद्धेरिति । भावद्वयकोटिकः
संशयो मयाऽपि नाङ्गीक्रियत इति भावः । शङ्कितस्थले सशयत्वमुपपादयति —
स्थाणुर्वेत्यत्रेति ।
न्या.बो. व्याप्यारोपेणेतीति । यथा—पर्वतो वह्निमान् इत्यनुमितौ शङ्कानिवा-
पृ. ६८. रणाय “यद्यत्र वह्निर्न स्यात् तर्हि धूमोऽपि न स्यात्” इति तर्कः प्रयुज्यते । अत्र
वह्नयभावो व्याप्यो धूमाभावश्च व्यापकः । तर्के किं कारणमित्याह—तर्के
इति । व्याप्यस्य वह्नयभावादेः व्यापकस्य धूमाभावादेः पर्वतादावभावनिश्चय
इत्यर्थः । अन्यथेति । ‘यदि वह्निर्न स्यात् धूमोऽपि न स्यात्’ इत्युक्तौ न स्याद्-
धूमोऽपि, का नो हानिरिति परे ब्रूयादिति भावः ।
सुखलक्षणं व्याख्यातुमाह—सुखं निरूपयतीति । इतरविषयीणी येच्छा,
तदनधीना येच्छा, तद्विषयीभूतं यत् तत् सुखमित्यर्थः । इष्टं वस्तु द्विविधं भवति,
साक्षात् परम्परया च । साक्षादिष्टं सुखं परम्परया चेष्टं तत्साधनम् । सुख-
साधनीभूते भोजनादौ तदैवेच्छा भवति, यदा पूर्वं सुखस्येच्छा स्यात् । अतो
भोजनेच्छा सुखेच्छाधीना । तथा च सुखेच्छाधीनेच्छाविषयत्वात् भोजने न सुख-
लक्षणातिप्रसङ्गः । सुखेच्छा तु नेतरेच्छाधीनाऽत इतरेच्छानधीनेच्छाविषयत्वात्
सुखे लक्षणसमन्वयः ।
यथाश्रुतेऽनुकूलत्वप्रकारकज्ञानविशेष्यत्वरूपे सुखलक्षणेऽभिप्रेते घटोऽनुकूल इति
ज्ञानस्यानुकूलत्वप्रकारकघटविशेष्यकतया विशेष्यीभूते घटे सुखलक्षणातिव्याप्ति-
न्या.बो.रित्याह—यथाश्रुते इति । निष्कृष्टलक्षणे इतरेच्छानधीनेति विशेषणानुक्तौ
पृ. ६८. इच्छाविषयत्वमात्रस्य सुखलक्षणत्वे दोषमाह – सुखेच्छाधीन इति । तथा