तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
प्रारंभिक पृष्ठ एवं मंगलाचरण
तर्कसंग्रहः
न्यायबोधिन्याः संस्कृत-हिन्दीकलाद्वयव्याख्यया पदकृत्यस्य
हिन्दीटिप्पणेन चोपेतः
आचार्यकेदारनाथत्रिपाठी
तर्कसंग्रहः
तर्कसंग्रहः
सानुवादः
न्यायाबोधिन्याः संस्कृत-हिन्दीकलाद्वयव्याख्यया पदकृत्यस्य
हिन्दीटिप्पणेन चोपेतः
सानुवादव्याख्याद्वयकारः टिप्पणीकारः सम्पादकश्च
आचार्यकेदारनाथत्रिपाठी 'दर्शनरत्नम्'
न्यायवेदान्तसांख्ययोगाचार्यः, काव्यतीर्थः, साहित्यरत्नम्
भूतपूर्वदर्शनविभागाध्यक्षः काशीहिन्दूविश्वविद्यालये, वाराणसी
मोतीलाल बनारसीदास
दिल्ली, मुम्बई, चेन्नई, कोलकाता, बंगलौर,
वाराणसी, पुणे, पटना
द्वितीय संस्करण : १९८५
पुनर्मुद्रण : दिल्ली, १९९१, १९९५, १९९९, २००४
© मोतीलाल बनारसीदास
ISBN: 81-208-2058-4
मोतीलाल बनारसीदास
४१ यू०ए० बंगलो रोड, जवाहर नगर, दिल्ली ११० ००७
८ महालक्ष्मी चैम्बर, २२ भुलाभाई देसाई रोड, मुम्बई ४०० ०२६
२३६ नाइंथ मेन III ब्लाक, जयनगर, बंगलौर ५६० ०११
सनाज प्लाजा, १३०२ बाजीराव रोड, पुणे ४११ ००२
१२० रायपेट्टा हाई रोड, मैलापुर, चेन्नई ६०० ००४
८ केमेक स्ट्रीट, कोलकाता ७०० ०१७
अशोक राजपथ, पटना ८०० ००४
चौक, वाराणसी २२१ ००१
मूल्यः रु० ८०
नरेन्द्रप्रकाश जैन, मोतीलाल बनारसीदास, बंगलो रोड, दिल्ली ११० ००७
द्वारा प्रकाशित तथा जैनेन्द्रप्रकाश जैन, श्री जैनेन्द्र प्रेस,
ए-४५ नारायणा, फेज-१, नई दिल्ली ११० ०२८ द्वारा मुद्रित
किञ्चिन्निवेदनम्
अथेदं प्रस्तूयते 'संस्कृत-हिन्दीकला' द्वयकलिता न्यायबोधिन्या सहिन्दीटिप्पणेन
पदकृत्येन च संवलितस्य 'तर्कसंग्रह' इति सुविदितनामधेयस्य न्यायवैशेषिकयोर्महोप-
योगिनः प्राथमिकस्य प्रकरणग्रन्थस्य संस्करणान्तरं तत्रभवतां भवतां न्यायविद्यारसि-
कानां पुरतः । विदितमेतच्छास्त्रेष्वधीतिनां यत् सकलेषु भारतीयदर्शनेषु महती ह्यस्ति
परम्परा न्यायग्रन्थानाम् । सा च विद्वानामुत्कर्षेण सहैधमानाऽन्तः सर्वत्र निजविजय-
वैजयन्तीमुत्तोलयन्ती क्रमेण भूयसीं ग्रन्थसम्पत्तिं बिभ्रती साम्प्रतं विभ्राजतेतराम् ।
अस्यामेव परम्परायां न्यायसिद्धान्तमुक्तावली-तर्कभाषादिग्रन्थत आरभ्य बाधान्तनव्य-
न्यायग्रन्थाः न्यायभाष्यवार्तिकतात्पर्यटीकापरिशुद्धिप्रभृतयः किरणावली-न्यायमञ्जरी-
न्यायलीलावतीप्रभृतयश्च प्राचीनन्यायवैशेषिकग्रन्थाः स्वगुणगरिम्णा सर्वतः प्रसार-
मानाश्च भूरिश उपकारान् शास्त्रीयजगति विदधतीति न तिरोहितं विदुषाम् । तथापि
तेषां ग्रन्थानां सुकुमारमतीनां बालजनानां दुरवगमतामाकलय्य श्रीमदन्नम्भट्टस्तर्कसङ्ग्रह-
नामानं न्यायवैशेषिकाश्रितं ग्रन्थं प्रणिनाय । तदुपरि च स्वयं मूलकारः श्रीमानन्नम्भट्टः
प्राचीनन्यायसरण्या दीपिकाभिधां व्याख्यां, सुधीगोवर्धनो नव्यन्यायसरण्या न्यायबोधिनीं,
श्रीचन्द्रजसिंहश्च संक्षिप्तमपि गूढाभिप्रायं 'पदकृत्ये'ति यथार्थसंज्ञं व्याख्याग्रन्थं
व्यरचयन् ।
तत्र चेदानीं नव्यन्यायसरण्याः प्रायः सर्वेष्वेव शास्त्रेष्वनुप्रविष्टतया सारल्येन
तस्याः परिचयाभिलाषिणां लाभाय नव्यन्यायनगरप्रवेशे गोपुरायमाणाया न्यायबोधिन्या
उपरि बहोः कालात् सरलां विशदाञ्च व्याख्यां कर्तुमनाः 'संस्कृत-कला' निर्माणेऽहं
प्रावर्तिषि, समपूरं प्राचीकशञ्च तां स्वयमेव । 'संस्कृत-कलायाः' निर्माणावसरे नूनं
पाण्डित्यप्रदर्शनमनभ्याशमित्यमित्यासीन्मम मनसि । अतएव विद्यार्थिभिर्विद्वद्भिश्च
भृशं समादृतत्वात् स्वल्पैरेव वर्षेर्विपणिषु तस्याः संजाताद् दौर्लभ्यादध्येतृवर्गा-
ध्यापकवर्गयोः पुनरस्याः प्रकाशनार्थमुत्सुकतां दृष्ट्वा संस्करणान्तराय प्रायस्यँस्तथा
छात्राणां कृते विशेषोपयोगितादृष्ट्या संस्कृत-कलया सहैव हिन्दीकलयापि न्यायबोधिनीं
समयोजयम् ।
यद्यपि बिहारोत्कलवङ्गप्रान्तेषु न्यायबोधिन्येव प्रायस्तत्रत्यपरीक्षासु पाठघतया
निर्धारिताऽऽस्ते, तथापि सम्पूर्णानन्दसंस्कृतविश्वविद्यालयादिषु च पदकृत्यस्य निर्धारित-
तया तदपि मया गूढस्थलेषु हिन्दीटिप्पणेन सह संयोजितं परीक्षार्थिनामुपकारायेति ।
( vi )
इत्थञ्च 'कलाद्वय' संवलितन्यायबोधिन्या हिन्दीटिप्पणोपेतेन पदकृत्येन च
पुरस्कृतं तर्कसंग्रहमिमं प्रकाशयितुकामाः दुर्लभानां महत्त्वपूर्णानां च संस्कृत-
वाङ्मयग्रन्थानां प्रकाशनादिविधिना संस्कृतविद्यासंरक्षणबद्धादराः हिन्दीसंस्कृता-
ङ्ग्लभाषासुपनिबद्धग्रन्थरत्नानां सुप्रसिद्धप्रकाशकाः श्रीमोतीलाल बनारसीदाससंस्थाया
अध्यक्षा नवसंस्करणेन प्रकाश्य महान्तमुपकारं विहितवन्तो विद्यार्थिनां जिज्ञासूनाञ्चेति
सर्वथा धन्यवादपात्राणि ते ।
तत्रभवान् तर्कसङ्ग्रहप्रणेता श्रीमदन्नम्भट्टो नाम्ना दाक्षिणात्य इति स्पष्टमेव ।
अयं तैलङ्गो ब्राह्मणो राघवसोमयाजिकुले समुत्पन्नो अद्वैतविद्याचार्यस्य तिरुमलस्यात्मज
इति भाष्यप्रदीपोद्द्योतने तेनैव विदुषा लिखितम् । अस्य समयः १६२५-१७०० ई०
वर्षमिति 'इन्ट्रोडक्शन टु तर्कसङ्ग्रह' इति ग्रन्थे अथल्येबोजसाभ्यां प्रतिपादितमित्यु-
द्धृतं डॉ० दयानन्दभार्गवेण तर्कसङ्ग्रहावतरणिकायाम् । १६५० ई० वर्षेऽभूदिति
केचित् । अष्टादशशताब्द्याः प्रथमे पादेऽयमभूदिति बोड़समहोदय आह । श्रीगोड़बोले-
महोदयः स्वरचिते 'भारतखण्डाचा ऐतिहासिक कोष' नाम्नि महाराष्ट्रीयभाषाग्रन्थेऽन्न-
म्भट्टं पञ्चदशे शतके आन्ध्रप्रदेशस्य गरिकपायग्रामे समुत्पन्नमाह । किन्तु अपरे नैतं
तस्य समयमङ्गीकुर्वन्ति गदाधरविश्वनाथन्यायपञ्चाननोत्तरकाले तस्य भावात् ।
अनेनान्येऽपि कतिपयग्रन्था निर्मिताः । काश्यामागत्यायमध्यीतवानिति "काशीगमन-
मात्रेण नान्नम्र्भट्टायते द्विजः" इति लोकोक्त्या विज्ञायते ।
न्यायबोधिनीकर्तुर्गोवर्धनस्य सम्बन्धेऽपि विद्यते मतभेदः । तथाप्ययं मैथिलस्तर्क-
भाषाकर्तुः केशवमिश्रादर्वाचीनः इति तर्कभाषाया उपरि तर्कभाषाप्रकाशनाम्न्याष्टी-
कायाः प्रणयनात् प्रतीयते । अयं बलभद्रविजयश्रियोरात्मजो विश्वनाथपद्मनाभयो-
र्रानुज इति तर्कभाषाटीकारम्भपद्यैः प्रतीयते । पद्मनाभश्च किरणावलीभास्करे
वर्धमानोपाध्यायं स्मरति । अतो गङ्गेशोपाध्यायपुत्राद् वर्धमानोपाध्यायात् पश्चात्काल-
वर्ती अर्वाचीनो गोवर्धन इत्यत्र नास्ति सन्देहः । अस्य विचारस्यान्नम्भट्टकालनिर्णयेन
सामञ्जस्यमुपपद्यते । अत एव १३०० तमे शकाब्दे विद्यमानेन गीतगोविन्दकार-
जयदेवेनोल्लिखिताद् गोवर्धनाचार्यादन्य एवायं न्यायबोधिनीप्रणेता गोवर्धन इति
मन्तव्यम् ।
पदकृत्यनिर्माता चन्द्रजसिंहः चन्द्रसिंहो वा श्रीगुरुदत्तसिंहशिष्य इति ग्रन्थान्त-
पुष्पिकातोऽवगम्यते यत् सम्भवतोऽयं कश्चित् त्यागी महात्मा भवेदिति । पुष्पिकाया-
मुल्लिखितम्—"इति श्रीमत्परमहंसगुरुदत्तसिंहशिष्यश्रीचन्द्रजसिंहविरचितं पदकृत्यं
समाप्तम्" इति । प्रायो महात्मानः स्वपरिचये गुरुनामैवोल्लिखन्ति न पितृनामेति
दृश्यते सम्प्रदायः । सिंहेति कथनात् पञ्चनदप्रान्ती|यो भवेत् । सामग्र्यभावाच्चास्य
विषयेऽधिकमिदानीं वक्तुमर्हमिति मन्ये ।
( vii )
अस्य मदीयव्याख्याग्रन्थस्य पूर्वसंस्करणे भूमिकां लेखितुं मयाऽनुरुद्धाः पण्डित-
प्रकाण्डा न्यायविद्याम्भोधिपारावारीणाः सम्पूर्णानन्दसंस्कृतविश्वविद्यालये न्यायवैशेषि-
कविभागाध्यक्षपदं पुनस्तत्रैव कुलपतिपदं चालङ्कृतवन्तः पण्डितराजा आचार्यबदरी-
नाथशुक्लमहोदयाः प्रास्ताविकलेखनेन मां भृशमनुगृहीतवन्त इति तेषां सततमहं
कृतज्ञतामावहामि । तच्च पूर्वसंस्करणगतं प्रास्ताविकं विद्यार्थिनां कृते बहूपयोगि
मन्यमानः पुनरत्रापि संस्करणे यथावदुद्धरामीति । तत्रत्यनिर्देशानुसारेणात्र पूर्व-
संस्करणगतायास्त्रुटेः परिमार्जनाय प्रयासो मया विहितः । तथापि मुद्रणस्खल-
नान्मानुष्यकनान्तरीयकत्वाद्वा प्रमादाज्जातास्त्रुटीः क्षमिष्यन्ते विपश्चित इति सविनयं
निवेद्यते—
विदुषामाश्रवः
केदारनाथत्रिपाठी
कार्तिकशुक्ला सप्तमी, भूतपूर्वदर्शनविभागाध्यक्षः
२०४१ वि० सं० काशीहिन्दूविश्वविद्यालये
वाराणसी
प्रास्ताविकम्
वाराणसेय सम्पूर्णानन्द-संस्कृतविश्वविद्यालयस्य
पूर्वं न्यायवैशेषिकविभागाध्यक्षपदं
ततः कुलपतिपदञ्चालङ्कृतवतां
आचार्यप्रवरश्रीबदरीनाथशुक्लमहोदयानाम्
सृष्टिचक्रं किलेदमनादि । तद् येभ्यो जीवेभ्यः प्रवर्तते, तेऽप्यनादयोऽनन्ताश्च । ते
हि पूर्वस्यां सृष्टौ विहितनिषिद्धकर्मानुष्ठाने यानि सुकृतानि दुष्कृतानि पुण्यपापापर-
नामान्यदृष्टशब्दव्यपदेश्यान्यर्जयन्ति, तदनुसारेण परमेश्वर उत्तरां सृष्टिं निर्माय समु-
त्पाद्य च नानाविधानुच्चावचान् प्राणिनस्तेषु ग्रहणधारणानुष्ठानक्षमतया वरिष्ठान्
मनुष्यानुद्दिश्य प्राणभृतामनुग्रहाय "आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्चे"ति चतस्रो
विद्या उपदिशति । यथोक्तं — न्यायसूत्रवात्स्यायनभाष्ये "इमाश्चतस्रो विद्याः प्राणभृता-
मनुग्रहायोपदिश्यन्त" इति ।
विद्यास्वासुं प्रथमा पदार्थशास्त्रम्, द्वितीया आचारशास्त्रम्, तृतीया अर्थशास्त्रम्,
चतुर्थी च राजशास्त्रम् । जनजीवनस्य सामग्र्येणाभिरैव निर्वाह्यमाणतया नाभ्यः
काचिदन्या विद्या । नामान्तरैरन्यविद्यात्वेन यत्र तत्र वर्ण्यमानानां सर्वासामेव विद्या-
नामासु चतसृष्वेवान्तर्भावात् ।
तत्रान्वीक्षिकीं निर्ब्रुवता वात्स्यायनेन न्यायसूत्रभाष्ये तावदिदमुक्तं यत् 'प्रत्यक्षा-
गमाभ्यामीक्षितस्यान्वीक्षणमन्वीक्षा, तया प्रवर्तते या विद्या, सान्वीक्षिकी । इयमेव
न्यायविद्या, न्यायशास्त्रं, तर्कशास्त्रं च । यतो विद्येयं पदार्थशास्त्रम्, अनयैव पदार्थाः
परिच्छेद्यन्ते । पदार्थपरिच्छेदपरतन्त्रमेव च सर्वं कार्यजातमतो विद्येयं सर्वविद्यानां
मूर्धन्यभूता । यथोक्तमाचार्यकौटिल्येन "प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् ।
आश्रयः सर्वधर्माणां विद्योद्देशे प्रकीर्तिता" इति ।
तदेवं विद्याया अस्या विधेयं प्रत्यक्षागमाभ्यामीक्षितस्यान्वीक्षणं, तच्च प्रमाणैरर्थ-
परीक्षणं, स एव न्यायः । अनेन विधिना परीक्ष्य निर्णीता अर्था एव आन्वीक्षिकी-
शास्त्रस्य न्यायशास्त्रस्य तर्कशास्त्रस्य वा प्रतिपाद्याः सिद्धान्तभूता विषयाः । एषामेव
सङ्क्षेपतोऽवबोधाय तत्रभवता प्रतिभावता अन्नम्भट्टेन 'तर्कसङ्ग्रह' नामा प्रकरणग्रन्थः
प्रणीतः । यदुल्लेखः तर्कसङ्ग्रहस्यारम्भभागे "निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् ।
बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः ॥" इति ।
( x )
'तर्कसङ्ग्रह' इत्यत्र तर्कशब्दस्तर्कशास्त्रप्रतिपाद्यपरस्तर्कानुग्राह्यपरो वा । सङ्ग्रह-
शब्दश्च संक्षिप्तग्रहसाधनपरः । तथा च तर्कसङ्ग्रहो नाम तर्कानुगृहीतप्रमाणैः परिच्छि-
न्नानां तर्कशास्त्रप्रतिपाद्यानां बोधकः संक्षिप्तः शब्दसमूहः । स च बालशब्देन विवक्षि-
तानां समधीतकाव्यकोशव्याकरणादीनामपधीततर्कशास्त्राणां च जनानां तत्तत्पदार्थस्या-
क्लेशेन बोधनाय ग्रन्थकृता प्रयुक्तः । तमेवाधिकृत्य सुधिया गोवर्धनेन न्यायबोधिनीनामा
व्याख्याग्रन्थो विरचितः । यथोक्तं तदुपक्रमे तेनैव "अखिलागमसञ्चारि श्रीकृष्णाराख्यं
परं महः । ध्यात्वा गोवर्धनसुधीस्तनुते न्यायबोधिनीम् ॥" इति ।
तत्र न्यायो नाम न्यायभाष्यानुसारेण 'प्रमाणैरर्थपरीक्षणं न्यायः', न्यायवार्तिका-
नुसारेण 'वाक्यभावमापन्नानि प्रत्यक्षादीनि प्रमाणान्येव न्यायः', प्राचीनपरिभाषानुसारेण
'समस्तरूपोपपन्नलिङ्गप्रतिपादकं वाक्यं न्यायः', तत्त्वचिन्तामणिकृतो गङ्गेशोपाध्याय-
स्यानुसारेण 'अनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकवाक्यं न्यायः'
दीधितिकृतो रघुनाथस्यानुसारेण 'उचितानुपूर्वीकप्रतिज्ञादिवाक्यपञ्चकं न्यायः' । किन्त्वेषु
न्यायबोधिनीशब्दघटको न्यायशब्दो न कमप्यभिधत्ते, किन्तु न्यायनिर्णीतमर्थसार्थं ब्रूते,
तस्यैव बोधनाय व्याख्याग्रन्थस्यास्य प्रवृत्तेः । तर्कसङ्ग्रहो हि व्याख्येयग्रन्थः, न्याय-
बोधिनी च व्याख्याग्रन्थः, व्याख्येयव्याख्याग्रन्थयोश्च समानविषयत्वं सर्वसम्मतम् ।
अतस्तर्कशास्त्रप्रतिपाद्या न्यायशास्त्रप्रतिपाद्याश्च अर्था अभिन्नाः, तेषामेव सुखावबोधार्थ-
मुभयो ग्रन्थयोरवतारः ।
बालानां सुखबोधाय प्रणीतस्यापि तर्कसङ्ग्रहस्य भविष्यति काले दुर्गमतां विभाव्य
तन्निराचिकीर्षया तर्कसङ्ग्रहेणाहृत्य बोधनानर्हाणां बहूनामर्थानां प्रतिपिपादयिषया च
न्यायबोधिनी निर्मिता तत्रभवता विद्वद्वरेण गोवर्धनेन । वर्तमाने काले न्यायबोधिन्या
अपि दुर्बोधतां विभाव्य सारल्येन तद्गणीयार्थानामानायासं सुस्पष्टञ्च बुबोधयिषया
वर्तमानेषु व्युत्पन्ननैयायिकेष्वन्यतमेन पण्डितप्रवरेण काशीहिन्दूविश्वविद्यालयस्य संस्कृत-
महाविद्यालये दर्शनविभागाध्यक्षेण श्रीकेदारनाथत्रिपाठिना कलानाम्नी तद्व्याख्यां
विधाय न्यायशास्त्रस्य समग्रो विद्यार्थिवर्गो बहुलः शिक्षकवर्गश्च स्थाने उपचिकीर्षितः ।
श्रीत्रिपाठिना पदार्थानां सरलीकरणस्य या कला आत्मनः कलायां प्रदर्शिता, सा
कलाशालासु छात्राणामविकलं फलं जनयितुं भृशं क्षमतेति कतिपयोदाहरणोपन्यासेन
प्रमाणीतुं शक्यते । यथा-षष्ठे पृष्ठे 'अयं भाव' इत्यादिना ग्रन्थेन लक्ष्यत्वलक्षणत्वादीनां
बोधनम्, अष्टमनवमपृष्ठयोः 'अत्रायं भाव' इत्यादिना ग्रन्थेन वायुलक्षणघटकस्य
रूपत्वावच्छिन्नप्रतियोगिताकाभावस्य बोधनम्, द्वात्रिंशपृष्ठे 'अयं भाव' इत्यादिना
त्रयस्त्रिंशे पृष्ठे 'अयमाशय' इत्यादिना च समवायिकारणत्वादीनां बोधनम्, अष्टचत्वा-
रिंशे पृष्ठे 'अयमाशय' इत्यादिना उद्देश्यत्वविधेयत्वादीनां बोधनम्, षट्सप्ततितमे पृष्ठे
परिष्कृतस्यानुभवजन्यत्वस्य बोधनम्, द्व्यशीतितमे पृष्ठे 'एतेषां कथं सप्तस्वन्तर्भाव
इति चेत्, इत्थम्' इत्यादिना ग्रन्थेन प्रमाणादीनां द्रव्यादिपदार्थेष्वन्तर्भावबोधनम् ।
( xi )
तर्कसङ्ग्रहः पदकृत्याख्यव्याख्यया सह बहुत्र शिक्षासंस्थानेषु पाठ्यग्रन्थतया निर्धा-
रितो वर्तते, किन्तु पदकृत्यग्रन्थस्य संक्षिप्तकायतयाऽनेकत्र दुरवबोधता सर्वविदिताऽ-
तस्तदपाचिकीर्षया श्रीत्रिपाठिमहोदयेन भूयसां तदंशानां राष्ट्रभाषया विस्फोटणं कृतं,
यद् विद्यार्थिवर्गस्यात्यन्तमुपकारकम् । यदि ग्रन्थ एष श्रीत्रिपाठिना साकल्येन राष्ट्र-
भाषायाऽवतार्येत, तदा तेन महीयानुपकारो विद्यार्थिनां स्यादिति मे धारणा । एवञ्चै-
तत्संस्करणगता त्रुटिर्नूनं संस्करणान्तरे परिह्रियेतेत्याशासे ।
एभिरेव शब्दैः श्रीत्रिपाठिभिः प्रस्तुतायाः कृतेः परिचयं वितन्वन् तस्या विद्वज्जन-
स्तुत्यतां विद्यार्थिनिवहोपादेयताञ्च कामयमानस्तदर्थं श्रीत्रिपाठिमहोदयमहं सानन्दमभि-
नन्दयामि अनुरुणध्मि च यत्तेनान्या अप्येवंविधाः कृतयः प्रस्तोतव्या, येन न्यायविद्या
लोकस्य सुखप्राप्या भवेत् ।
बदरीनाथशुक्लः
जुलाई, १९७४ [ न्यायवैशेषिकविभागाध्यक्षः ]
वाराणसेयसंस्कृतविश्वविद्यालये
वाराणसी
The provided image appears to be completely blank (pure white) with no visible text or content to transcribe. Please upload or provide a clear image containing the text.
विषयानुक्रमणिका
न्यायबोधिन्यां संस्कृत-हिन्दीकलाव्दयोपेतायाम्
प्रत्यक्षपरिच्छेदः
पृष्ठम्
विषयः हिन्दी-कला संस्कृत-कला
१. मङ्गलार्थनिरूपणम् १ ८३
२. पदार्थविभागनिरूपणम् २ ८४
३. सप्तग्रहणप्रयोजननिरूपणम् २ ८४-८५
४. शक्तेरतिरिक्तपदार्थत्वखण्डनम् २ ८५
५. तमसो दशमद्रव्यत्वखण्डनम् ३-४ ८५-८६
६. पृथिवीलक्षणं प्रसङ्गात् लक्ष्यतादिनिरूपणञ्च ५ ८६-८८
७. वायुलक्षणं प्रसङ्गादव्याप्यादिस्वरूपनिरूपणञ्च ७-८ ८८-८९
८. अव्याप्त्यादीनां निष्कृष्टलक्षणानि ८-९ ८९-९०
९. आकाशलक्षणनिरूपणम् ९ ९०
१०. विभुत्व-मूर्तत्व-भूतत्वनिरूपणम् ९ ९१
११. काललक्षणनिरूपणम् १० ९१
१२. आत्मलक्षणनिरूपणम् ११ ९१
१३. प्रसङ्गात् सम्बन्धानां निरूपणम् ९१-९२
१४. मनोलक्षणनिरूपणम् ११ ९२
१५. रूपलक्षणनिरूपणम् १२-१४ ९२-९४
१६. रसलक्षणनिरूपणम् १४-१५ ९४
१७. गन्धलक्षणनिरूपणम् " "
१८. स्पर्शलक्षणनिरूपणम् १५ ९४
१९. रूपादिचतुष्टयस्य पाकजत्वादिनिरूपणम् १५-१६ ९४-९५
२०. विभागलक्षणनिरूपणम् १७ ९६
२१. गुरुत्वलक्षणनिरूपणम् १८ ९६
२२. स्नेह लक्षणनिरूपणम् १९ ९६-९७
२३. शब्दलक्षणनिरूपणम् १९-२० ९७
२४. बुद्धिस्मृत्योर्लक्षणनिरूपणम् २०-२१ ९७-९८
२५. अनुभवलक्षणनिरूपणम् २१ ९८
२६. यथार्थानुभवलक्षणनिरूपणम् २२-२३ ९८-१०१
२७. अयथार्थानुभवलक्षणनिरूपणम् २३ १०१-१०२
( xiv )
पृष्ठम् पृष्ठम्
विषयः हिन्दी-कला संस्कृत-कला
२८. यथार्थानुभवानां तत्करणानां च चातुविध्यम् २४-२५ १०२-१०३
२९. करणलक्षणनिरूपणम् २५ १०३-१०४
३०. कारणलक्षणनिरूपणम् २६ १०४
३१. कार्यलक्षणनिरूपणम् २६ १०४
३२. समवायिकारणलक्षणनिरूपणम् २७ १०४-१०६
३३. असमवायिकारणलक्षणनिरूपणम् २८-३० १०६-१०८
३४. निमित्तकारणलक्षणम् ३१ १०८
३५. करणलक्षणे व्यापारवत्त्वविशेषणप्रयोजनम् ३१ १०८
३६ प्रत्यक्षप्रमाणलक्षणनिरूपणम् ३२ १०८-१०९
३७. प्रत्यक्षप्रमालक्षणनिरूपणम् ३३ १०९
३८. सविकल्पकनिर्विकल्पकलक्षणनिरूपणम् ३३-३४ १०९-११०
३९. षड्विधसन्निकर्शनिरूपणम् ३५-३८ ११०-११२
अनुमानपरिच्छेदः
४०. अनुमानलक्षणनिरूपणम् ३९ ११३
४१. अनुमितिलक्षणनिरूपणम् ३९ ११३
४२. परामर्शलक्षणनिरूपणम् ४०-४१ ११३-११४
४३. अनुमितिपरमर्शयोः कार्यकारणभावनिरूपणम् ४१-४२ ११५-११६
४४. व्याप्तिस्वरूपनिरूपणम् ४२-४४ ११६
४५ स्वार्थानुमानपरार्थानुमानस्वरूपनिरूपणम् ४४-४५ ११८
४६. न्यायस्वरूपनिरूपणम् ४५ ११८
४७. पञ्चावयवनिरूपणम् ४६ ११८
४८. त्रिविधलिङ्गस्वरूपनिरूपणम् ४६-५० ११९-१२१
४९. पक्षलक्षणनिरूपणम् ५१ १२१
५०. सपक्षविपक्षस्वरूपनिरूपणम् ५२ १२१
५१. हेत्वाभाससामान्यनिरूपणम् ५२-५३ १२२
५२. सव्यभिचारसामान्यनिरूपणम् ५३ १२३
५३. साधारणसाधारणयोः स्वरूपनिरूपणम् ५३-५४ १२३
५४. अनुपसंहारिलक्षणनिरूपणम् ५४-५५ १२३
५५. विरुद्धस्वरूपनिरूपणम् ५६ १२४
५६. सत्प्रतिपक्षस्वरूपनिरूपणम् ५६-५७ १२४
५७. त्रिविधासिद्धिनिरूपणम् ५७-५८ १२४
( xv )
पृष्ठम् पृष्ठम्
विषयः हिन्दी-कला संस्कृत-कला
५८. उपाधिस्वरूपनिरूपणम् ५८-५९ १२४-१२५
५९. बाधितस्वरूपनिरूपणम् ६० १२५
उपमानपरिच्छेदः
६०. उपमानोपमित्योः स्वरूपनिरूपणम् ६१ १२६
शब्दपरिच्छेदः
६१. शब्दप्रमाणनिरूपणम् ६२ १२७
६२. शक्तिस्वरूपनिरूपणम् ६३ १२७
६३. लक्षणास्वरूपनिरूपणम् ६३-६४ १२८
६४. आकाङ्क्षादिस्वरूपनिरूपणम् ६४-६५ १२८
६५. योग्यतासन्निध्योः निरूपणम् ६५-६६
६६. प्रमाणवाक्यानां भेदनिरूपणम् ६६
अवशिष्टपरिच्छेदः
६७. संशयविपर्ययतर्काणां स्वरूपनिरूपणम् ६७-६८ १३०
६८. स्मृतिभेदनिरूपणम् ६८
६९. सुखदुःखयोः स्वरूपनिरूपणम् ६८-६९ १३०-१३१
७०. आत्मविशेषगुणानां निरूपणम् ७०
७१. संस्कारभेदानां स्वरूपनिरूपणम् ७०-७४ १३१-१३३
७२. सामान्यलक्षणनिरूपणम् ७५ १३३
७३. विशेषलक्षणनिरूपणम् ७६-७७ १३३-१३४
७४. समवायनिरूपणम् ७७ १३४-१३५
७५. अभावभेदनिरूपणम् ७८-७९ १३५
७६. सर्वपदार्थानां सप्तस्वान्तर्भावनिरूपणम् ७९-८० १३५-१३७
पदकृत्ये
प्रत्यक्षपरिच्छेदः
७७. बालशब्दार्थनिरूपणम् १३९
७८. उद्देशलक्षणपरीक्षाणां स्वरूपनिरूपणम् १४०
७९. द्रव्यसामान्यलक्षणम् १४०-१४१
८०. अव्याप्त्यादिस्वरूपनिरूपणम् १४१-१४२
८१. नित्यलक्षणनिरूपणम् १४२
८२. शरीरलक्षणनिरूपणम् १४३
८३. विषयलक्षणम् १४३
( xvi )
विषयः पृष्ठम्
८४. अपां लक्षणनिरूपणम् १४३
८५. तेजोलक्षणनिरूपणम् १४३-१४४
८६. वायुलक्षणनिरूपणम् १४४
८७. आकाशलक्षणनिरूपणम् १४४-१४५
८८. काललक्षणनिरूपणम् १४५
८९. दिग्लक्षणनिरूपणम् १४५
९०. आत्मलक्षणनिरूपणम् १४५-१४६
९१. मनोलक्षणनिरूपणम् १४६
९२. रूपलक्षणनिरूपणम् १४६
९३. रसलक्षणनिरूपणम् १४७
९४. गन्धलक्षणनिरूपणम् १४७
९५. स्पर्शलक्षणनिरूपणम् १४८
९६. संख्यालक्षणनिरूपणम् १४८
९७. परिमाणस्वरूपतद्भेदनिरूपणम् १४८-१४९
९८. पृथक्त्वस्वरूपनिरूपणम् १४९
९९. संयोगलक्षणनिरूपणम् १४९
१००. विभागलक्षणनिरूपणम् १४९
१०१. परत्वापरत्वस्वरूपतद्भेदनिरूपणम् १५०
१०२. गुरुत्वलक्षणनिरूपणम् १५०
१०३. द्रवत्वलक्षणनिरूपणम् १५०
१०४. स्नेह लक्षणनिरूपणम् १५०
१०५. शब्दलक्षणनिरूपणम् १५१
१०६. बुद्धिलक्षणनिरूपणम् १५१
१०७. स्मृतिलक्षणनिरूपणम् १५१-१५२
१०८. अनुभवस्य यथार्थानुभवस्य च स्वरूपनिरूपणम् १५२
१०९. अयथार्थानुभवलक्षणनिरूपणम् १५३
११०. यथार्थानुभवे विभिन्नमतानि १५३
१११. करणलक्षणनिरूपणम् १५४
११२. कार्यलक्षणनिरूपणम् १५४
११३. कारणभेदनिरूपणम् १५५
११४. समवायिकारणलक्षणनिरूपणम् १५५
११५. असमवायिकारणलक्षणनिरूपणम् १५५