तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 130, कुल 199 में से
संदर्भ में पढ़ेंअथानुमानपरिच्छेदः
न्या.बो. अनुमितिकरणमनुमानं, परामर्शजन्यं ज्ञानमनुमितिरित्यनुमानानुमित्यो-
पृ.३६. लक्षणे मूलकारेणोक्ते ते एव व्याख्यातुमारभते—अनुमानं लक्षयतीत्यादिना ।
मूले अनुमितिकरणपदेन व्याप्तिज्ञानं बोधनीयमित्याह—अनुमिताविति ।
अतो व्याप्तिज्ञानमेवानुमानप्रमाणसंज्ञया व्यवह्रियत इति बोद्धव्यम् । अनुमितौ
जननीयायां लक्ष्यिष्यमाणः परामर्श एव व्यापारो भवतीत्याह—परामर्श इति ।
व्याप्तिज्ञानरूपकरण-परामर्शरूपतद्द्व्यापाराभ्यामनुमितिरूपं कार्यमुत्पद्यत
इत्याह – अनुमितिरिति । लक्षणसमन्वयपुरस्सरं परामर्शस्य व्यापारत्वमुप-
पादयति—परामर्शस्येति । परामर्शो हि व्याप्तिज्ञानाज्जायते, व्याप्तिज्ञानजन्या-
मनुमिति जनयति चेत्यतः तज्जन्यत्वे सति तज्जन्यजनकत्वात् परामर्शो व्यापार
इत्युपपन्नम् । अनुमानलक्षणस्वरूपमाह – अनुमितीति । अनुमानपदवाच्यमाह —
अनुमानं व्याप्तिज्ञानमिति । एतस्येति । व्याप्तिज्ञानं हि परामर्शरूपव्यापार-
द्वारा अनुमिति प्रत्यसाधारणकारणं ( कार्यत्वातिरिक्तानुमितित्वधर्मावच्छिन्न-
कार्यतानिरूपितकारणताशालि) भवत्यूतो व्याप्तिज्ञानमनुमितिकरणमिति सिद्धम् ।
परामर्शजन्यत्वरूपमनुमितिलक्षणं व्याख्यातुं प्रतीकमुपादत्ते—परामर्श-
जन्यमिति । परिष्कृतं लक्षणस्वरूपमाह—परामर्शजन्यत्वविशिष्टज्ञानत्व-
मिति । परामर्शजन्यत्वविशेषणस्य फलमाह अत्रेति । ज्ञानत्वमात्रोपादाने
इत्यर्थः । प्रत्यक्षादावतिव्याप्तिरिति । तस्यापि ज्ञानत्वादिति शेषः । तद्-
वारणायेति । प्रत्यक्षस्य इन्द्रियसन्निकर्षजन्यत्वेन परामर्शजन्यत्वाभावाद्
वारणमिति भावः । ज्ञानत्वानुपादाने दोषमाह—परामर्शजन्यत्वमात्रोक्ता-
विति । परामर्शध्वंसो हि परामर्शजन्यो ऽस्ति, यतो हि यदि परामर्श एव न
स्यात्तदा कस्य ध्वंसो भवेत् ? ध्वंसं प्रति प्रतियोगिनः कारणत्वात् । तस्मात्
परामर्शध्वंसस्यापि परामर्शजन्यत्वेन तत्रातिव्याप्तिः, ज्ञानत्वोपादाने तु नाति-
व्याप्तिः, ध्वंसस्य ज्ञानभिन्नत्वादिति भावः ।
न्या.बो. परामर्शलक्षणं व्याख्यातुं पूर्वं तदवतारयति—अनुमितीत्यादि व्याप्ति-
पृ.४०. विशिष्टेत्यन्तम् । व्याप्तिविशिष्टपक्षधर्मताज्ञानत्वं परामर्शस्य लक्षणं मूले
उक्तम् । अत्र व्याप्तिविशिष्टञ्च पक्षधर्मताज्ञानञ्चेति रीत्या कर्मधारयसमासः ।
ननु साहचर्यरूपाया व्याप्तेः हेतावेव वैशिष्ट्यसत्त्वात् कथं तद्वैशिष्ट्यं पक्षधर्मता-
ज्ञाने प्रोक्तमित्यत आह—विशिष्टपदस्य प्रकारतानिरूपकपरत्वादिति । तथा
८