तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 128, कुल 199 में से
संदर्भ में पढ़ेंकारणम् । अत्र चक्षुःसंयुक्तं द्रव्यं, तत्र समवायो रूपस्येति । द्रव्यसमवेतं
रूपादिकं तत्समवेतं शुक्लत्वनीलत्वादिकं तद्वृत्तिविषयतासम्बन्धेन चाक्षुषत्वाव-
च्छिन्नं प्रति, अर्थात् शुक्लत्वादेः प्रत्यक्षे करणीये चक्षुःसंयुक्तसमवेतसमवायः
कारणम् । अत्र चक्षुःसंयुक्तं भूतलादिद्रव्यं, तत्समवेतं रूपं तत्र समवायः शुक्ल-
त्वादेरस्तीति समन्वयः ।
न्या.बो. अन्यत्राप्युदाहर्तुं द्रव्यग्राहकत्वं पूर्वमवधारयति—द्रव्यग्राहकाणीति ।
पृ. ३६. घ्राणरसनश्रवणानि तु गुणमात्रग्राहकाणीत्यतस्तानि पश्चादुदाहरिष्यन्ते इत्याह—
अन्यानीति । त्वगिन्द्रियस्थले उदाहरति—अत इति । द्रव्यप्रत्यक्षे त्वक्-
संयोगः कारणमिति प्रथमवाक्यार्थः । द्रव्यसमवेतशीतस्पर्शादिप्रत्यक्षे त्वक्संयुक्तं
द्रव्यं तत्र यः शीतादेः समवायस्तद्रूपः सन्निकर्षः कारणमिति द्वितीयवाक्यार्थः ।
द्रव्यसमवेतः शीतस्पर्शादिः तत्समवेतं शीतत्वादिकं, तत्प्रत्यक्षे, त्वक्संयुक्तद्रव्य-
समवेते शीतस्पर्शादौ यः शीतत्वादेः समवायः, तद्रूपः सन्निकर्षः कारणमिति
तृतीयवाक्यार्थः ।
आत्मरूपद्रव्यप्रत्यक्षमुदाहरति—एवमिति । आत्मप्रत्यक्षे चक्षुरादीनाम-
सामर्थ्यात् मनसैव तत्प्रत्यक्षं जायतेऽतस्तत्प्रत्यक्षं तद्वृत्तिसुखदुःखादिप्रत्यक्षञ्च
मानसप्रत्यक्षनाम्ना व्यवह्रियते । तत्रात्मनो मानसप्रत्यक्षे आत्मना सह मनः-
संयोगः कारणम् । आत्मसमवेतं यत् सुखदुःखादिकं, तस्य मानसप्रत्यक्षे मनः-
संयुक्तसमवायः कारणम् । अत्र मनःसंयुक्त आत्मा तस्मिन् समवायः सुखादेर-
स्तीति । एवमात्मसमवेते सुखादिके समवेतं यत् सुखत्वादिकं तत्प्रत्यक्षं प्रति
मनःसंयुक्तसमवेतसमवायः कारणम् । अत्र च मनःसंयुक्त आत्मा, तत्समवेतं
सुखादिकं, तत्र समवायः सुखत्वादेरिति भावः । रसनघ्राणयोस्त्विति । तद्गत-
जातिः—रसगन्धगता रसत्वगन्धत्वादिजातिः । द्वितीयतृतीययोरिति ।
संयुक्तसमवायसंयुक्तसमवेतसमवाययोरित्यर्थः । रसगन्धप्रत्यक्षे आद्यः, रसत्वगन्ध-
त्वप्रत्यक्षे द्वितीयः सन्निकर्षः कारणमित्यर्थः ।
न्या.बो. समवाय-समवेतसमवायसन्निकर्षावुदाहरति—श्रवणेति । शब्दप्रत्यक्षे
पृ. ३७. समवायसन्निकर्षः कारणम् । यतो हि श्रवणेन्द्रियं नाकाशस्वरूपाद् भिन्नमस्ति ।
अत आकाशस्वरूपे श्रोत्रेन्द्रिये शब्दस्य समवायसम्बन्धाङ्गीकार इति भावः ।
ककारादिशब्दवृत्तिकत्वादिप्रत्यक्षे समवेतसमवायः कारणमित्याह—शब्द-
वृत्तीति ।
अभावप्रत्यक्षहेतुभूतं विशेषणविशेष्यभावसन्निकर्षं व्याख्यातुमाह—अभाव-
प्रत्यक्ष इतीति । मूलोक्तसन्निकर्षस्यार्थमाह-- विशेषणविशेष्यभाव इति ।
कीदृशाभावप्रत्यक्षे किंविधो विशेषणतासन्निकर्षः कारणमिति स्फोरणायाह—