सामग्री पर जाएँ
सर्वकोश
तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

पृष्ठ 143, कुल 199 में से

संदर्भ में पढ़ें
पृष्ठ 143

अथोपमानपरिच्छेदः
न्यायबोधिनी. उपमानम् = उपमाननामकं तृतीयं प्रमाणम् । लक्षयति = लक्षणद्वारा
पृ. ६१. बोधयति । उपमितिकरणमितीति । उपमितिनामिकायाः तृतीयप्रमितेः करण-
मुपमानं प्रमाणमित्यर्थः । कीदृशमितिनाम्नी प्रमितिरिति जिज्ञासायां प्रदर्शितां तां
व्याख्यातुं प्रतीकमुपादत्ते—उपमिति लक्षयतीति । संज्ञा का ? संज्ञी कः ?
तयोः सम्बन्धश्च क इति संज्ञासंज्ञीतिप्रतीकोपादानपुरःसर प्रदर्शयति—संज्ञा
नामेति । निष्कर्षमाह—तथा चेति । उपमानप्रमाणपदेन किं ग्राह्यमित्यत आह—
उपमानं नामेति । आरण्यकपुरुषोक्त "गोसदृशो गवय" इत्यतिदेशवाक्यार्थ-
विषयक ज्ञानमित्यर्थः । 'अयं गवयशब्दवाच्य' इत्युपमित्युत्पत्तौ अतिदेशवाक्यार्थ-
विषयक शाब्दज्ञानं करणम् । व्यापारोऽत्र क इत्यत आह—अतिदेशवाक्यार्थस्य
स्मरणं व्यापार इति । फलमाह—उपमितिरिति । उपमितिकरणभूतमुपमान-
प्रमाणं स्फुटयति—गोसदृश इति । अस्मिन् 'गोसदृशो गवयपदवाच्य' इत्यतिदेश-
वाक्यार्थबोधे गोसदृश इति विशेष्यम्, गवयपदवाच्यत्वं प्रकारः, अतो गोसादृश्या-
वच्छिन्नविशेष्यकं गवयपदवाच्यत्वप्रकारकं ज्ञानं लभ्यते इति भावः ।
। इति तर्कसंग्रहन्यायबोधिनीव्याख्यायां कलायामुपमानपरिच्छेदः ।