सामग्री पर जाएँ
सर्वकोश
तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

पृष्ठ 141, कुल 199 में से

संदर्भ में पढ़ें
पृष्ठ 141

१२४ तर्कसंग्रहे [ अनुमानपरिच्छेदः
न्या.बो. विरुद्धं हेत्वाभासं व्याख्यातुमुपक्रमते—विरुद्धं लक्षयतीति । साध्या-
पृ.५६.भावव्याप्त इति । साध्याभावव्याप्तिमानित्यर्थः । का साध्याभावव्याप्ति-
रित्याह—साध्याभावव्याप्तिः साध्याभावनिरूपितव्यतिरेकव्याप्तिरिति । एतस्या
एव पूर्वोपदर्शितं स्वरूपमाह—साध्यव्यापकीभूताभावप्रतियोगित्वमिति ।
साध्यं सिषाधयिषुर्वादो साध्यव्याप्तं हेतुमनुपन्यस्य साध्याभावव्याप्तमेवोपन्यस्त-
वानतः स स्वयमेव निगृहीतो भवतीत्याशयानः टीकाकार एतज्ज्ञानफलमाह—
तथा चेति । सत्प्रतिपक्षस्थलेऽपि एवमेवानुमितिप्रतिबन्ध इत्यतिदिशति—
एवमिति । ननु यदि विरुद्धसत्प्रतिपक्षयोरुभयत्रापि एकदिशैवानुमितिप्रतिबन्ध-
स्तदा तयोः को भेद इत्याह - विरुद्धसत्प्रतिपक्षयोरिति । विरुद्धस्थले एक
एव हेतुर्भवति यः साध्यसाधकत्वेनोपन्यस्यमानोऽपि साध्याभावमेव साधयति,
सत्प्रतिपक्षस्थले तु द्वौ हेतू भवतः, एकः साध्यसाधकत्वेनोपन्यस्तोऽपरश्च साध्या-
भावसाधकत्वेनोपन्यस्त इति तयोर्भेदः ।
न्या.बो. सत्प्रतिपक्षस्वरूपमाह—साध्याभावेति । साध्याभावव्याप्यः प्रतिहेतुरर्थात्
पृ.५७.द्वितीयः प्रतिद्वन्द्वी हेतु., तद्वान् पक्षो यद्धेतो सति, स सत्प्रतिपक्ष इत्यर्थः ।
तयोरपरं भेदकारणमाह—साध्याभावेति । साध्याभावसाधकस्यैव हेतोः अज्ञान-
वशात् साध्यसाधकत्वेनोपन्यस्तत्वात् वादिनोऽतितरामसामर्थ्यं सूचितं भव-
तीत्याशयः ।
नामतोऽसिद्धभेदाः प्रतिपादिता अपि लक्षिता नेति तल्लक्षणमाह—आश्रया-
सिद्धिमिति । पक्षताया अवच्छेदको यो धर्मस्तद्विशिष्टस्य पक्षस्याप्रसिद्धि-
रित्यर्थः । मूलोपदर्शितादेवोदाहरणात् एतज्ज्ञानफलमाह—अत्रेति । गगनीयत्वं
गगनसम्बन्धित्वमित्यर्थः ।
न्या.बो. स्वरूपासिद्धिमाह—स्वरूपासिद्धिनमिति । एतादृशो हेतुरुपादीयते यश्च
पृ.५८. पक्षे स्यादेव नेत्यर्थ ! एतज्ज्ञानफलमाह—तथा चेति । परामर्शे हि पक्षो हेतु-
मत्तया ज्ञायते, तथा च पक्षस्य हेतुशून्यत्वेऽनुमितिहेतुभूतः परामर्श एव नोत्पद्यते
इत्यर्थः ।
व्याप्यत्वासिद्धं हेत्वाभासं व्याख्यातुं प्रतीकमूपादते—व्याप्यत्वासिद्ध
इतीति । सोपाधिको हेतुर्व्याप्यत्वासिद्ध इति मूलोक्तं लक्षणम् । उदाहरणमपि
मूल एवास्ति । इतः “व्यभिचारस्यानुमानमुपाधेस्तु प्रयोजनम्” इति रीत्या
कथमुपाधिना हेतौ व्यभिचारित्वमनुमीयत इति स्पष्टयितुं पूर्वं भूमिका-
मारचयति—प्रकृते इति । उपाधिर्हि साध्यव्यापकत्वे सति साधनाव्यापकः ।
यथा धूमवान् वह्नेरित्यनुमितिस्थले साध्यो धूमः साधनं वह्निरस्ति । यत्र यत्र
धूमोऽस्ति तत्र तत्रार्द्रेन्धनसंयोगोऽस्ति अत आर्द्रन्धनसंयोगो धूमव्यापकः । एवं