तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
३८ (१.१.६) तैत्तिरीयब्राह्मणम्
ए॒व प्रति॑तिष्ठति । कार्ष्ममूर्ध्नं देय॑म् । अप॑रिमितस्याव॑रुद्ध्यै
(११) इति ।
आदित्ये तृतीयमप्स्वा॑सी॒त्तत्तेनाव॑रुन्धत स्यादा॑प्यते॒ रेतो॒ऽग्निरे-
क॑मे॒कमे॑तानि ह॒वीग्ँ॑षि॒निर्व॑प॒त्प्रत्यव॑रोहति ददात्यध्व॒र्युर्दे॒यमेक॑ च ।
इति कृष्णयजुर्वेदीयैत्तिरीयब्राह्मणे प्रथमकाण्डे
प्रथमप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥
आग्नीध्रेण तत्तदृतावग्नेरिध्यमानत्वात्तस्मै दत्तेन
द्रव्येणाग्निसहितानामृतूनां प्रीतिः । तस्मै यद्देयमुपबर्हणं शिरसः पृष्ठस्य
वाऽऽधारभूतं तस्य कार्पासाशाणोर्णादिमयैः शुक्लनीलपीतादिवर्णैः सर्वैः
सूत्रैर्निष्पन्नत्वात्तेन रूपाणां प्राप्तिः। अश्वस्य
प्रजापतिचक्षुर्जजन्यत्वात्तेनेन्द्रियप्राप्तिः । दातव्याया धेनोः कामधेनु-
रूपत्वादाशिषां प्राप्तिः । अनड्वाञ्छकटं वहति । अग्निश्च द्रव्यं वहति ।
अध्वर्युरप्यनुष्ठानं वहति । ततः समानत्वाद्बलीवर्दरूपेणाध्वर्यु रूपेण च
वह्निर्नैव यज्ञस्य वह्नियज्ञसंबन्धिहविर्वाहनमग्निं प्राप्नोति । गोमिथुनेन
मनुष्यमिथुनं प्राप्तिः । वाससः सर्वदेवत्यत्वं दीक्षा-
प्रकरणे-“अग्नेस्तूर्षाधानं वायोर्वातपानम्” इत्यादिवाक्येन प्रति-
पादितम् । आ द्वादशभ्यो गोभ्य इति शेषः । उक्तदक्षिणाभ्य ऊर्ध्वं-“षड्
देया द्वादश देयाः” इत्यादिशाखान्तरोक्तं बहुपक्षानुसारेण स्वाभिमतं
यावत्तावद्देयम् । तेनापरिमितफलप्राप्तिः । अत्र मीमांसा ।
एकादशाध्यायस्य चतुर्थपादे चिन्तितम्-
पवमानेष्टिहविषां तन्त्रं भेदोऽथ वाऽग्रिमः ।
साध्यदेशाद्यभेदान्नो काम्ये भेदोक्तितोऽन्तिमः ॥ इति ।
आधानप्रकरणे पठ्यते-“अग्नये पवमानायाष्टाकपालं निर्वपेदग्नये
पावकाथाग्नये शुचये” इति । तैरेतैर्हविर्भिः
साध्यस्याग्नेरेकत्वाद्देशाद्यभेदाच्चाङ्गानां तन्त्रमिति प्राप्ते ब्रूमः-“यः
कामयेतोत्तरं वसीयाञ्छ्रेयान्स्यामिति तस्याग्नये पवमानाय निरूप्याथ
पावकाय शुचये चोत्तरे हविषी समानबर्हिषी निर्वपेत्” इति
वचनात्काम्यप्रयोगे प्रथमस्य हविषोऽङ्गभेदः । उत्तरयोस्तन्त्रम् ।
नित्यप्रयोगे तु त्रयाणां तन्त्रम् । द्वादशाध्यायस्य चतुर्थपादे चिन्तितम्-
तैत्तिरीयब्राह्मणम् (१.१.७) ३९
एका देया समुच्चेयं विकल्प्यं वाऽऽद्य आनतेः ।
सौलभ्यादन्तिमौ नैरपेक्ष्यात्संख्यान्तरादपि ॥ इति ।
आधाने श्रूयते- “एका देया षड् देया द्वादश देयाः” इत्यादि । तत्र
सोमक्रयन्यायेनाऽऽनतेः सौलभ्यात्समुच्चय इति चेत् । मैवम् । संख्यानां
व्रीह्यादिवत्परस्परनैरपेक्ष्यावगमात् । समुच्चये तु श्रूयमाणाभिः संख्याभिः
संख्यान्तरस्य दुर्वारत्वाच्च । तस्माद्विकल्पः ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
प्रथम प्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥
अथ सप्तमोऽनुवाकः ।
षष्ठे हविर्विशेषा दक्षिणाश्चोक्ताः । अथ सप्तम आधानमन्त्रा
उच्यन्ते । तत्राऽऽदौ गार्हपत्यविषयं मन्त्रमाह-
घ॒र्मः शिर॒स्तदय॒म॒ग्निः । संप्रि॑यः प॒शुभि॑र्भुवत् । छ॒-
र्दिस्तो॒काय॒ तन॑याय॒ यच्छ॑, इति ।
घर्मो दीप्तिज्वाला स च घर्मोऽग्निशरीरस्य शिरः स्थानीयः । तच्च
शिरोऽयं पुरोवर्ती गार्हपत्योऽग्निः । तादृश हे गार्हपत्याग्ने त्वमस्मदीयैः
पशुभिः सहसंप्रियो भुवत्सम्यक्प्रीतियुक्तो भव । ततोऽस्मदपत्याय
तदीयापत्याय च च्छर्दैर्यच्छ तेजो देहि ।
अथान्वाहार्यपचनविषयं मन्त्रमाह-
वातः॑ प्रा॒णस्तदय॒म॒ग्निः । संप्रि॑यः प॒शुभि॑र्भुवत् । स्व॒दि॒तं
तो॒काय॒ तन॑याय पि॒तुं प॑च, इति ।
योऽयमग्निसखो वायुः सोऽग्नेः प्राणस्तत्प्राणरूपमयमाधीय-
मानोऽन्वाहार्यपचनोऽग्निः । हेऽन्वाहार्यपचन त्वमस्मदीयैः पशुभिः सह
संप्रियो भव । अस्मत्पुत्राय तत्पुत्राय च स्वदितं स्वादुयुक्तं पितुमन्नं पच
पक्वं कुरु ।
अथाऽऽहवनीयदेशं प्रति गमनमन्त्रमाह-
प्राची॒मनु॑प्र॒दिशं॒ प्रेहि॑ वि॒द्वान् अ॒ग्नेर॒ग्ने पु॒रो अ॒ग्निर्भ॑वे॒ह ।
विश्वा॒ आशा॒ दीद्या॑नो॒ विभा॑हि । ऊर्जं॑ नो धेहि । द्वि॒पदे॒
चतु॑ष्पदे (१), इति ।
हेऽग्ने त्वं विद्वान्मागं जानन्प्राचीं प्रदिशमनु प्रागाख्यां प्रकृष्टां
दिशमनु लक्ष्य प्रेहि प्रकर्षण गच्छ । गत्वा चेहाऽऽयतने प्रथममाहितस्य
गार्हपत्यस्याग्नेः पुरोऽग्निः पूर्वदिग्वर्ती वह्निर्भव । ततो॑ दीद्यानः
प्रकाशमानो विश्वाआशाः सर्वा दिशो विभाहि विशेषेण प्रकाशय ।
नोऽस्मदीयाय द्विपदे मनुष्याय चतुष्पदे पशवे चोर्जं धेहि देह्यन्नरसं
संपादय ।
अथाऽऽहवनीयविषयं मन्त्रमाह-
अ॒र्कश्चक्षु॒स्तद॒सौ सूर्य॒स्तदयम॒ग्निः । संप्रि॒यः प॒शुभ॑र्भुवत् ।
यत्ते॑ शु॒क्रं शु॒क्रं वर्च॑: शु॒क्रा त॒नूः । शु॒क्रं ज्योति॒रज॑स्रम् ।
तेन॑ दीदिहि॒ तेन॒ त्वाऽऽद॑धे । अ॒ग्निना॑ऽग्ने॒ ब्रह्म॑णा, इति ।
अर्कोऽर्चमानो मण्डलात्मा वह्निशरीरस्य चक्षुःस्थानीयस्तच्चक्षुः
स्वरूपमसौ दिवि दृश्यमानः सूर्यरूपः स सूर्योऽयमाधीयमान
आहवनीयोऽग्निः । ह आहवनीयास्मदीयैः पशुभिः संप्रियो भव । हे शुक्र
ऽऽहवनीय ते त्वदीयं यच्छुक्रं वर्चो बहिः प्रसृतं दीप्तिरूपं तेजो या च
शुक्रा तनूर्ज्वालाः रूपं शरीरं यदप्यजस्रं शुक्रं ज्योतिः सर्वदा वर्तमानो
भारूपशरीरगतप्रकाशस्तेन सर्वेण मे दीदिहि मां प्रकाशय । हेऽग्ने
परिवृढेन-“अर्कश्चक्षुः” इति मन्त्रेण तेन पूर्वोक्तगुण-
युक्तेनाग्निनाऽऽहवनीयरूपेण त्वामिहाऽऽदधे ।
अथाऽऽहितस्याग्नेरभिमन्त्रणमन्त्रमाह-
आन॑शे॒ व्यान॑शे॒ सर्व॒मायु॒र्व्यान॑शे, इति ।
अयमग्निरानशे जाठराग्निरूपेण भोक्तृशरीरं व्याप्तवान् । तथा
व्यानशे विविधं भोग्यजातं व्याप्तवान् । तथा
सर्वमायुर्व्यानशेऽपमृत्युपरिहारेण संपूर्णमायुः संपादितवान् ।
ये ते॑ अग्न शिवे॒ तनुवौ॑ । वि॒राट् च॑ स्व॒राट् च॑ । त मा॑
विश॑तां॒ ते मा॑ जिन्वताम् (२) । ये ते॑ अग्ने शिवे॒ तनुवौ॑ ।
स॒म्राट् चा॑भि॒भूश्च॑ । ते मावि॑शतां॒ ते मा॑ जिन्वताम् । ये
सप्तमोऽनुवाकः ॥ ७ ॥
तैत्तिरीयब्राह्मणम् (१.१.७) ४१
ते॑ अ॒ग्ने॒ शि॒वे त॒नुवौ॑ । वि॒भूश्च॑ परि॒भूश्च॑ । ते मा॑ वि॒शता॒न्
त मा॑ जिन्वताम् । ये ते॑ अ॒ग्ने॒ शि॒वे त॒नुवौ॑ । प्र॒भ्वी च॑
प्र॒भूति॑श्च । ते मा॑ वि॒शता॒न् ते मा॑ जिन्वताम् । यास्तै॑ अग्ने
शि॒वास्त॒नुवः॑ ताभि॒स्त्वाऽऽद॑धे, (इति) ।
कल्पः-“अथ यजमानः शिवा जपति-ये ते अग्ने शिवे तनुवौ
विराट् च स्वराट् च ते मा विशतां ते मा जिन्वतां ये त अग्ने शिवे
तनुवौ सम्राट् चाभिभूश्च ते मा विशतां ते मा जिन्वतां ये ते अग्ने शिव
तनुवौ विभूश्च परिभूश्च ते मा विशतां ते मा जिन्वतां ये ते अग्ने शिवे
तनुवौ प्रभ्वी च प्रभूतिश्च ते मा शिवतां ते मा जिन्वतां यास्ते अग्ने
शिवास्तनुवस्ताभिस्त्वाऽऽदधे ” इति । विराडादिभिः प्रभूतिपर्यन्तैरष्टाभिः
शब्दैरुक्ता अग्नेः शिवाः शान्तास्तनुवः । हेऽग्ने ते त्वदीये विराट्-
स्वराडाख्ये ये शान्ते तनू ते उभे मां प्रविश्य प्रीणयताम् । एवमुत्तरत्रापि ।
विविधं राजत इति विराट् । स्वयमेव राजत इति स्वराट् । सम्यग्राजत
इति सम्राट् । वैरिणोऽभिभवतीत्यभिभूः । विशिष्टेन रूपेण भवतीति
विभूः । परितो भवतीति परिभूः । आज्ञालक्षणेन प्रभुत्वेन युक्ता प्रभ्वी ।
प्रकृष्टैनैश्वर्येणोपेता प्रभूतिः । हेऽग्ने या एतास्ते त्वदीयाः
शिवास्तनुवस्ताभिर्युक्तं त्वामिहाऽऽदधे ।
यास्तै॑ अग्ने घो॒रास्त॒नुवः॑ । ताभि॒र॒मुं ग॑च्छ (३), (इति) ।
चतु॑ष्पदे जिन्वतां त॒नुव॒स्त्रीणि॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे
प्रथमप्रपाठके प्रथमाष्टके प्रथमाध्याये
सप्तमोऽनुवाकः ॥ ७ ॥
कल्पः-“यास्ते अग्ने घोरास्तनुवस्ताभिरमुं गच्छ इति यजमानो
द्वेष्याय प्रहिणोति” इति । घोरतनवः क्षुत्तृष्णादिरूपाः । तथा
चाऽऽरण्यकाण्डे समाम्नातम् “यास्ते अग्ने घोरास्तनुवः क्षुञ्च तृष्णा च”
इत्यादि । ताभिर्घोराभिस्तनुभिरमुं शत्रुं गच्छ प्राप्नुहि ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
प्रथमप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥
४२ (१.१.८) तैत्तिरीयब्राह्मणम्
अथाष्टमोऽनुवाकः ।
आधानमन्त्राः सप्तमेऽभिहिताः । अष्टमे तद्ब्राह्मणमुच्यते । तत्र
त्रीनाधानमन्त्रान्विनियुङ्क्ते-
इ॒मे वा ए॒त लो॒का अ॒ग्नय॑ः। ते यद॒व्या॑वृत्ता आधी॒येर॑न् ।
शो॒चये॑यु॒र्यज॑मानम् । घ॒र्मः शिर॒ इति॑ गार्हप॒त्यमाद॑धाति ।
वातः॑ प्रा॒ण इत्य॑न्वाहार्यप॒चन॑म् । अ॒र्कश्चक्षु॒रित्या॑-
हव॒नीय॑म् । तेनै॒वैना॒न्व्याव॑र्तयति । तथा॒ न शौच॑यन्ति॒
यज॑मानम्, इति ।
एते त्रयोऽग्नयस्त्रित्वसाम्यादिमे त्रयो लोका भवन्ति । ते यदि
परस्परम्-व्यावृत्ताः समुदिता आधीयेरंस्तदा दाहाधिक्येन यजमानं
संतापयेयुः । अतस्त्रिभिर्मन्त्रैः पृथगादध्यात् । तेन व्यावृत्ताः सन्त
स्तापाधिक्याभावाद्यजमानं नैव संतापयन्ति ।
अथाऽऽधानकाले सामगानं विधत्ते-
र॒थं॒त॒र॒म॒भिगा॑यते गार्हपत्य आधी॒यमा॑ने । राथन्त॒रो वा
अ॒यं लो॒कः (१) । अ॒स्मिन्ने॒वैनं॑ लो॒के प्रति॑ष्ठित॒माध॑त्ते ।
वा॒म॒दे॒व्य॒म॒भिगा॑यत उ (द्) ध्रिय॒माणे॑ । अ॒न्तरि॑क्षं॒ वै
वा॑मदे॒व्यम् । अ॒न्तरि॑क्ष ए॒वैनं॑ प्रति॑ष्ठित॒माध॑त्ते । अथो॒
शान्ति॒र्वै वा॑मदे॒व्यम् । शान्त॑मे॒वैनं॑ पशू॒व्यमुद्ध॑रते ।
बृ॒हद॒भिगा॑यत आहव॒नीय॑ आधी॒यमा॑ने बाह॑तो॒ वा अ॒सौ
लो॒कः । अ॒मुष्मि॑न्ने॒वैनं॑ लो॒के प्रति॑ष्ठित॒माध॑त्ते, इति ।
“अभि त्वा शूर नोनुमः ” इत्यस्यामृच्युत्पन्नं रथंतरम् । “कया
नश्चित्र आभुवत् ” इत्यस्यामृच्युत्पन्नं वामदेव्यम् । “त्वामिद्धि हवामहे”
इत्यस्यामृच्युत्पन्नं बृहत् । रथंतरादीनां भूरादिलोक-
भोगहेतुत्वाल्लोकरूपत्वम् । अत एतेषां गाने सति तत्तल्लोकेऽग्निः
प्रतिष्ठितो भवति । अपि च वामदेव्यस्योपद्रवशान्ति-
करत्वात्पशुप्राप्तिहेतुत्वाच्चैनमुद्ध्रियमाणमग्निं शान्तं पशुसाधनं च
कृत्वोद्धरति ।
पुनरपि सामद्वयं विधत्ते-
तैत्तिरीयब्राह्मणम् (१.१.८) ४३
प्र॒जाप॑तिर॒ग्निम॑सृजत (२) । सोऽश्वो॑ वा॒रो भू॒त्वापरा॑ङ्डत् ।
तं वार॑वन्ती॒येना॑वारयत । तद्वा॑रवन्ती॒यस्य॑
वारवन्ती॒यत्वम् । श्यै॒तेन॑ श्ये॒ती अ॑कुरुत । तच्छ्यै॒तस्य॑
श्यै॒तत्वम् । यद्वा॑रवन्ती॒यम॒भिगा॑य॑ते । वा॒र॒यि॒त्वैवैनं॑
प्रति॑ष्ठित॒माध॑त्ते । श्यै॒तन॑ श्ये॒ती कु॑रुते, इति ।
यः प्रजापतिना सृष्टोऽग्निः स वारोऽश्वो भूत्वा पुनरावृत्तिरहितः
पलायनमकरोत् । यो हस्तद्वयेन खलिनं गृहीत्वा बलान्निवारणीयः स
वारः । तं वारमश्वं पलायमानं वारवन्तीयेन साम्ना
प्रजापतिर्निवारयामास । “अश्वं नत्वा वारवन्तम् ” इत्यस्यामृच्युत्पन्नं
वारवन्तीयम् । निवारणहेतुत्वात्तस्य वारवन्तीयं नाम संपन्नम् ।
निवारितमश्वं श्यैतसाम्ना श्येतीकृतवान्स्वाधीनीकृतवानित्यर्थः । “अभि
प्रवः सुराधसम्' इत्यस्यामृच्युत्पन्नं श्यैतम् । स्वाधीनीकरणहेतुत्वात्तस्य
श्यैतनाम संपन्नम् । अतो वारवन्तीयसाम्ना पलायनं निवार्य
प्रतिष्ठितमग्निमाधाय श्यैतगानेनाग्निं स्वाधीनं करोति ।
आधानमन्त्रे शिरः शब्दतात्पर्यं दर्शयति-
घ॒र्मः शिर॒ इति॑ गार्ह॑पत्य॒माद॑धाति । सशी॒र्षाण॑मे॒वैन॒माध॑त्ते
(३) । उपैन॒मुत्त॑रो य॒ज्ञो न॑मति, इति ।
अग्नेः शिरःसहितत्वे सति न्यूनत्वाभावादुत्तरो
दर्शपूर्णमाससोमादिरेनं प्राप्नोति ।
संप्रियशब्दतात्पर्यं दर्शयति-
रु॒द्रो वा ए॒षः यद॒ग्निः । स आ॑धीयमा॑न ईश्व॒रो यज॑मानस्य
प॒शून्हि ँ सि॑तोः । संप्रि॑यः प॒शुभि॑र्भुव॒दित्या॑ह ।
प॒शुभि॑रे॒वैन ँ संप्रि॑यं करोति । प॒शूनामहिँ॑सायै, इति ।
आधीयमानस्याग्नेः क्रूरत्वेन पशून्हिंसितुं समर्थत्वादहिंसार्थं
पशुभिः सह संप्रीतिं मन्त्रेण करोति ।
यच्छेति पदस्याऽऽशीरर्थं दर्शयति-
छ॒र्दिस्तो॒काय॒ तन॑याय य॒च्छेत्या॑ह । आ॒शिष॑मे॒वै :
४४ (१.१.८) तैत्तिरीयब्राह्मणम्
तामाशा॑स्ते, इति ।
प्राणशब्दस्य तात्पर्यं दर्शयति-
'वातः॑ प्रा॒ण इत्य॑न्वाहार्य॒पच॑नम् (४) । सप्रा॑णमे॒वैन॑माध॒त्ते,
इति ।
स्वदितपितुशब्दयोस्तात्पर्यं दर्शयति-
स्व॒दितं॑ तो॒काय॒ तन॑याय पि॒तुं प॑चेत्या॑ह । अन्न॑मे॒वास्मै॑
स्वदयति, इति ।
प्राचीं प्रेहीति पदद्वयस्य तात्पर्यं दर्शयति ।
प्राची॒मनु॑ प्र॒दिशं॑ प्रेहि वि॒द्वानित्या॑ह । विभ॑क्तिरे॒वैन॑योः
सा । अथो॒ नाना॑वीर्यावे॒वैनौ॑ कुरुते, इति ।
येयं प्राच्यां दिशि गतिरयमेवैनयोराहवनीयगार्हपत्ययोर्विभागः ।
अपि च विभागे सति पूर्वोक्तरीत्या द्वयोः पृथक्सामर्थ्यं भवति ।
धेहीति पदस्याऽऽशीर्र्थत्वं दर्शयति-
ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पद॒ इत्या॑ह ।
आ॒शिष॑मे॒वैतामाशा॑स्ते, इति ।
अर्कशब्दस्य तात्पर्यं दर्शयति-
अ॒र्कश्च॒रित्या॑हव॒नीय॑म् । अ॒र्को वै दे॒वाना॒मन्न॑म् (५) ।
अन्न॑मे॒वाव॑रुन्द्धे, इति ।
अर्चनीयत्वव्युत्पत्या देवानाम्नकारित्वादन्नप्राप्तिः ।
दीदिहिशब्दस्य समिन्धनार्थत्वं दर्शयति-
तेन॑ मे दीदि॒हीत्या॑ह । समि॑न्ध ए॒वैन॑म्, इति ।
पूर्वपक्षहेतुत्वेन मंत्रस्य कंचिद्विनियोगं दर्शयति-
आ॒न॒शे व्या॑न॒श इति॑ त्रि॒रुर्दि॒ङ्गय॑ति । त्र्य॑ इ॒मे लो॒काः॑ ।
तैत्तिरीयब्राह्मणम् (१.१.८) ४५
ए॒ष्वे॒वैनं॑ लो॒केषु॒ प्रति॑ष्ठितमा॒धत्ते॒, इति॑ ।
हस्ते धृतस्याग्नेस्त्रिवारमूर्ध्वचलनेन लोकत्रयप्रतिष्ठा ।
तमेतं दूषयित्वा विनियोगान्तरं दर्शयति-
तत्तथा॒ न का॒र्यम् । वीऽङ्गित॒मप्र॑तिष्ठितमाद॑धीत ।
उ॒द्धृत्यै॒वाऽऽधाया॑भिमन्त्र्यः । अवी॑ङ्गितमे॒वैनं॒
प्रति॑ष्ठितमाध॒त्ते, इति॑ ।
त्रिरूर्ध्वचलनेन वीङ्गितं विविधं चालितमप्रतिष्ठितमग्निमाहित-
वान्भवोत् । तस्मात्तथोर्ध्वचलनं न कार्यम् । किंतु हस्ते
सकृदुद्धृत्यैवाऽऽयतने तमग्निमाधाय पश्चात्सोऽग्निरनेन मन्त्रेण
मन्त्रणीयः । तथा सति विविधचलनरहितं स्थिरत्वेन
प्रतिष्ठितमग्निमाहितवान्भवति ।
विराडादिशब्दानां तात्पर्यं दर्शयति-
वि॒राट् च॑ स्व॒राट् च॑ यास्तै॑ अग्ने
शि॒वास्त॒नुव॒स्ताभि॑स्त्वाऽऽद॑ध॒ इत्या॑ह । ए॒ता वा अ॒ग्नेः
शि॒वास्त॒नुव॑ः। ताभि॑रे॒वैन॒ ँ॒सम॑र्धयति, इति॑ ।
मन्त्रान्तरं विनियुङ्क्ते-
यास्तै॑ अग्ने घो॒रास्त॒नुव॒स्ताभि॑र॒मुं ग॑च्छेति॑ ब्रूया॒द्यं
द्वि॒ष्यात् । ताभि॑रे॒वैनं॑ परा॑भावयति (६), इति॑ ।
लो॒केऽसृ॑जत्तै॒नमाध॑त्तेऽन्वाहार्यप॒चनं॑ दे॒वाना॒मन्न॒मेनं॒ प्रति॑ष्ठित॒माध॑त्ते
पञ्च॑ च ।
इति कृष्णयजुर्वेदीयतेत्तिरीयब्राह्मणे प्रथमाष्टके
प्रथमाध्यायेऽष्टमोऽनुवाकः ॥ ८ ॥
यं पुरुषमसौ यजमानो द्विष्यात्तं प्रत्येतं मन्त्रं ब्रूयात् । तथा सति
ताभिरेव घोराभिस्तनुभिरेनं द्वेष्यं विनाशयति । अथ मीमांसा ।
दशमाध्यायस्याष्टमपादे चिन्तितम्-
उन्नेयो ब्रह्मगानस्य निषेधो विहितस्तुतिः ।
विकल्पितो वा शून्योऽपि वपोत्खेद इव स्तुतिः ॥
४६ (१.१.८) तैत्तिरीयब्राह्मणम्
विध्यन्वयतोऽस्तोत्रं ब्रह्मोद्गाता तथा सति ।
विषयैक्याद्विकल्पोऽत्र षोडशिग्रहवन्मतः ॥ (इति) ।
आधाने वामदेव्यादिसाम्नां गानानि विहितानि । आधान
एववेदमपरमाम्नायते-“उपवीता वा एतस्याग्नयो यस्याग्न्याधेये ब्रह्मा
सामानि गायति” इति । उपशब्दः सामीप्यं ब्रूते । वीता विगताः
कालविलम्बमन्तरेण परित्यक्ता इत्यर्थः । अनया निन्दया ब्रह्मणः
सामगाननिषेध उन्नीयते । स निषेध उद्गातृविहितं वामदेव्यादिसामगानं
स्तौति । ननु ब्रह्मणः सामगानमप्रसक्तम् । अतस्तन्निषेधोऽ
त्यन्तमसंभावितत्वाच्छशविषाणवच्छून्यः । न हि वन्ध्यापुत्रो वा तद्वधो
वा संभावयितुं शक्यते । तथा सति तादृशेन निषेधेन कथं स्तुतिरिति
चेत् । वपोत्खेदवदिति ब्रूमः। स आत्मनो वपामुदखिद-
दित्यनेनात्यन्तासंभावितार्थेन यथा प्राजापत्यस्य तूपरस्याजस्य विधिः
स्तूयते तद्वदिति प्राप्ते ब्रूमः । नेदं वामदेव्यादि साम विधीनां स्तोत्रं
भवितुमर्हति । विधीनामनेकत्वेन स्वस्वसंनिधिपठितैर-
र्थवादैर्निराकाङ्क्षत्वेन च तदन्वयायोगात् । का तर्ह्यस्य वाक्यस्य गतिरिति
चेत् । उच्यते ब्रह्मशब्दोऽत्र विप्रत्वजातिद्वारेणोद्गातारं ब्रूते । यस्य च गानं
प्रसक्तं तस्मिन्निषेधे सति विधिनिषेधाभ्यामेकविषयाभ्यामुद्गातृगानं
विकल्प्यते । (अथ) मीमांसा । एकादशाध्यायस्य तृतीयपादे चिन्तितम्-
प्रतिकर्म पृथक्कार्यमाधानं यदि वा सकृत् ।
अन्याङ्गवत्पृथङ्गैवं स्वकालत्वसमत्वतः ॥
वसन्ते ब्राह्मणोऽग्निमादधीतेति विहितमाधानं
प्रयाजाद्यङ्गवत्प्रतिकर्म पृथक्कार्यमिति चेत् । मैवम् । आधानस्य
स्वातन्त्र्येण'वसन्तादिकाले विहिते तत्तत्कर्मकालेषु पृथगनुष्ठानायोगात् ।
स्वकालेऽनुष्ठितस्य सर्वैः कर्मभिः संबन्धः समानः । न च प्रकरणेन
विशेषो नियन्तुं शक्यः । आधानस्यानारभ्याधीतत्वात् । “आहवनीये
जुहोति” इत्यादिवाक्येन त्वैष्टिकपाशुकसौमिकदार्विकहोमेषु संबन्धः
साधारणः प्रतिपाद्यते । तस्मात्तन्त्रेणानुष्ठेयम् । यद्यप्याधानं नेष्ट्यादिकर्मणां
साक्षादङ्गं तथाऽपि पृथक्फलाभावादाहवनीयादिद्वारा
कर्मोपकारित्वाच्चाङ्गत्वमभ्युपेत्येयं चिन्ता ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
प्रथमप्रपाठ केऽष्टमोऽनुवाकः ॥ ८ ॥
तैत्तिरीयब्राह्मणम् (१.१.९) ४७
अथ नवमोऽनुवाकः ।
अष्टम आधानमन्त्रव्याख्यानमुक्तम् । अथ नवमे ब्रह्मौदनमुच्यते ।
तत्राऽऽदौ तावद्ब्रह्मौदनात्पराचीनमाधानात्प्राचीमग्निमन्थनमुच्यते ।
यदुक्तं सूत्रकारेण-“ब्राह्मौदनिकाद्भस्मापोह्य तस्मिञ्शमीगर्भादग्निं
मन्थति” इति । तदिदं विधत्ते-
श॒मी॒गर्भा॒द॒ग्निं म॑न्थति । ए॒षा वा अ॒ग्नेर्य॒ज्ञिया॑ त॒नूः ।
ता॑मे॒वास्मै॑ जनयति, इति ।
आधानदिनात्पूर्वेद्युर्ब्रह्मौदनं पक्त्वाऽपरेद्युरुद्युदयात्पूर्वं तस्मा-
ब्राह्मौदनिकादग्नेर्भस्मापोह्य तस्मिन्स्थाने शमीवृक्षस्य गर्भंगतेनाश्वत्थेन
निष्पादितामरणिमवस्थाप्याग्निं मन्थेत् । तस्माच्छमीगर्भा-
दुत्पन्नायाऽग्नेस्तनूरेषा यज्ञार्हाऽतस्तामेव जनयति ।
अथ ब्रह्मौदनं विधत्ते-
अदि॑तिः पु॒त्रका॑मा । सा॒ध्येभ्यो॑ दे॒वेभ्यो॑ ब्र॒ह्मौद॒नम॑पचत् ।
तस्या॑ उ॒च्छेष॑णमददुः । तत्प्राऽऽश्ना॑त् । सा रेतो॑ऽधत्त ।
तस्यै धा॒ता चार्य॒मा चा॑जायेताम् । सा द्वि॒तीय॑मपचत् (१) ।
तस्या॑ उ॒च्छेष॑णमददुः । तत्प्राऽऽश्ना॑त् । सा रेतो॑ऽधत्त ।
तस्यै॑ मि॒त्रश्च॒ वरु॑णश्चाजायेताम् । सा तृ॒तीय॑मपचत् ।
तस्या॑ उ॒च्छेष॑णमददुः । तत्प्राऽऽश्ना॑त् । सा रेतो॑ऽधत्त ।
तस्या॒ अ ँशो॑श्च॒ भग॑श्चाजायेताम् । सा च॒तुर्थ॑मपचत्
(२) । तस्या॑ उ॒च्छेष॑णमददुः । तत्प्राऽऽश्ना॑त् । सा रेतो॑ऽ
धत्त । तस्या॒ इन्द्र॑श्च वि॒वस्वाँ॑श्चाजायेताम् । ब्र॒ह्मौद॒नं
प॑चति । रेत॑ ए॒व तद्द॑धाति, इति ।
ब्रह्मणं देवमुद्दिश्य होमार्थं ब्राह्मणानामृत्विजां प्राशनार्थं च पच्यमान
ओदनो ब्रह्मौदनः । तं कदाचिददितिर्देवी पुत्रकामा सती साध्येभ्यो देवेभ्य
उत्पादनीयधात्रादिदेवार्थमपचत् । तदानीमृत्विजो होमं प्राशनं च कृत्वा
शिष्टमोदनं तस्या अदितये प्रायच्छन् । सा च यदुच्छेषणं प्राश्य
४८ (१.१.९) तैत्तिरीयब्राह्मणम्
गर्भमाधत्त । तस्माद्गर्भाद् द्वादशादित्यानामादिभूतौ धाता चार्यमा
चेत्युभावजायेताम् । एवमुत्तरेषु त्रिष्वपि पर्यायेषु योज्यम् ।
तस्मादावित्सुर्ब्रह्मौदनं पचेत् । तेन पुत्रोत्पादकं रेत एव तद्दधाति ।
ऋत्विजां प्राशनं विधत्ते-
प्राश्न॑न्ति ब्राह्म॒णा औद॑नम्, इति ।
तस्मात्प्राशनात्पूर्वं समिदाधानं विधत्ते-
यदाज्य॑मुच्छि॒ष्यते॑ । तेन॑ स॒मिधो॑ऽभ्यज्याऽऽद॑धाति ।
उ॒च्छेष॑णाद्वा अदि॑ती॒ रेतो॑ऽधत्त (३)। उ॒च्छेष॑णादे॒व तद्रेतो॑
धत्ते, इति ।
होमोच्छिष्टं समिदञ्जनसाधनमाज्यं प्रशस्य तेनाभ्यक्ताः
समिधः प्रशंसति-
अस्थि॒ वा ए॒तत् । यत्स॒मिध॑ः । ए॒तद्रेतः॑ । यदाज्य॑म् ।
यदाज्ये॑न स॒मिधो॒ऽभ्यज्या॒ऽऽदधा॑ति । अस्थ्ये॒व तद्रेत॑सि
दधाति, इति ।
काठिन्यसाम्यात्समिधामस्थित्वम् ।
समित्संख्यां विधत्ते-
ति॒स्र आद॑धाति मिथु॒नत्वाय॑, इति ।
सपुत्रयोर्मातापित्रोर्मिथुनरूपयोस्त्रित्वसाम्यम् । अत एवा-
न्यत्राऽऽम्नातम्-“माता पिता पुत्रस्तदेव तन्मिथुनम् ” इति ।
प्रादेशाभिनयेन समिधा परिमाणं विधत्ते-
इय॑तीर्भवन्ति । प्र॒जाप॑तिना यज्ञमु॒खेन॒ संमि॑ताः (४) ।
इय॑तीर्भवन्ति । य॒ज्ञपु॑रुषा॒ संमि॑ताः । इय॑तीर्भवन्ति ।
ए॒ताव॒द्वै पुरु॑षे वी॒र्यम्॑ । वी॒र्यसं॑मिताः, इति ।
इयत्यः प्रादेशपरिमिताः । प्रजापत्यवतारस्य यज्ञपुरुषस्य मुखं
मूर्धानमारभ्य चुबुकपर्यन्तं प्रादेशपरिमितं भवति । अवस्तत्तुल्यत्वम् ।
तैत्तिरीयब्राह्मणम् (१.१.९) ४९
यज्ञस्य परु पर्वावयवविशेषः पवित्ररूपः । तस्य च प्रादेशप्रमाणं तन्मन्त्रे
समाम्नातम् -“त्रिवृत्पलाशे दर्भ इयान्प्रादेशसंमितः” इति । अतो
यज्ञपर्वणा तुल्यत्वम् । किंच पुरुषविशेषे चक्षुःश्रोत्रादिज्ञानेन्द्रियसामर्थ्यं
प्रादेशपरिमिते मुखे वर्तते । अतस्तेन वीर्येण तुल्यत्वम् ।
तासां समिधां शुष्कत्वं वारयितुं विधत्ते-
आ॒र्द्रा भ॑वन्ति । आ॒र्द्रमि॑व॒ हि रेत॑: सि॒च्यते॑, इति । इवशब्द
एवकारार्थः ।
समिधां वृक्षविशेषं विधत्ते-
चित्रिय॑स्याश्व॒त्थस्याऽऽद॑धाति । चि॒त्रमे॒व भ॑वति, इति ।
अश्वत्थग्रामोऽश्वत्थचित्रक इत्युच्यते ।
योऽश्वत्थो ग्रामादेश्चिह्नीभूतस्तदीयाः समिध आदध्यात् । तेन
विचित्रमेवैश्वर्यं भवति ।
समिदाधानार्थानृग्विंशेषान्विधत्ते-
घृ॒तव॑तीभि॒राद॑धाति (५) । ए॒तद्वा अ॒ग्नेः प्रि॒यं धाम॑ । यद्
घृ॒तम् । प्रि॒येणै॒वैनं॒ धाम्ना॒ समर्धयति । अथो॒ तेज॑सा, इति ।
घृतशब्दो यास्वृक्षु स्थितस्ता घृतवत्यः । घृ॒तेना॑र्धयतातिथि॒मित्येवं
घृतशब्दस्तत्र श्रूयते । घृतेन ज्वालाभिवृद्धेरग्नेर्घृतप्रियत्वम् । अतस्तेन
घृतयुक्तेन मन्त्रेण समिध आदधानः प्रियेण स्थानेन समृद्धो भवति । अपि
च तेजसा समृद्धो भवति ।
अधिकारिभेदादृग्व्यवस्थां विधत्ते-
गा॒य॒त्रीभि॑र्ब्राह्म॒णस्याऽऽद॑ध्यात् । गा॒य॒त्रच्छ॑न्दा॒ वै
ब्राह्म॒णः । स्वस्यै॒व च्छन्द॑सः प्रत्यय॒नुस्त्वार्य॑ । त्रि॒ष्टुभी॑
रा॒ज॒न्य॑स्य । त्रि॒ष्टुप्छ॑न्दा॒ वै रा॒ज॒न्य॑ः । स्वस्यै॒व च्छन्द॑सः
प्रत्यय॒नुस्त्वार्य॑ (६) । जग॑तीभि॒र्वैश्य॑स्य । जग॑तीछन्दा॒ वै
वैश्य॑: । स्वस्यै॒व च्छन्द॑सः प्रत्यय॒नुस्त्वार्य॑, इति ।
प्रथमोऽनु धर्मः” इत्याद्यास्त्रिष्टुभः । “त्वामग्ने समिधानम्” इत्याद्या
५० (१.१.९) .तैत्तिरीयब्राह्मणम्
“समिधाऽग्निं दुवस्यत” इत्याद्या गायत्र्यः । “समिध्यमानः
प्रथमोऽनु धर्मः” इत्याद्यास्त्रिष्टुभः । “त्वामग्ने समिधानम्” इत्याद्या
जगत्यः । एताश्चोपरितनप्रपाठक आम्नास्यन्ते । गायत्रीब्राह्मणयोरेकमुखत्वं
संबन्धः। अतः स्वकीयस्यैव गायत्रीछन्दसः प्रत्ययनस्त्वाय पुनः प्राप्तये
गायत्रीभिर्ब्राह्मणास्याऽऽदध्यात् । एवमुत्तरयोर्वाक्ययोर्योज्यम् ।
समिद्धस्य ब्राह्मौदनिकाग्नेश्चिरावस्थानं विधत्ते-
त ँसंव॑त्स॒रं गोपायेत॒ । सं॒व॒त्स॒र ँहि॒ रेतो॑ हि॒तं वर्ध॑ते,
इति ।
यस्माल्लोके गर्भाशये स्थापितं रेतः संवत्सरं वर्धते
तस्मादग्निरूपस्य गर्भस्य वृद्धये संवत्सरमभिरक्षेत् ।
यदुक्तं सूत्रकारेण-“यद्येन ँ संवत्सरेऽग्न्याधेयं नोपनमेद्ब्रह्मौदनं
पक्त्वा समिध आधाय यदैवेनमुपनमेदथाऽऽदधीत” इति । तदिदं विधत्ते-
यद्ये॑न ँसंवत्स॒रे नोप॒नमे॑त् । स॒मिधः॒ पुन॒राद॑ध्यात् । रेत॑
ए॒व तद्धि॒तं वर्ध॑मानमेति, इति ।
केनापि द्रव्यराहित्यादिना निमित्तेनास्य यजमानस्या-
ग्न्याधेयप्राप्तिर्यदि न स्यात्तदा संवत्सरगोपिते तस्मिन्ब्राह्मौदनिकेऽग्नौ
समिध आधाय तत्सिद्धिपर्यन्तं गोपायेत् । तेन गर्भाशये स्थापितं रेतः
संवत्सरं वर्धते । तस्मादग्निरूपस्य गर्भस्य वृद्धये संवत्सरमभिरक्षेत् ।
तेन गर्भाशये स्थापितं वर्धमानं रेतः प्राप्नोति ।
ब्राह्मौदनिकस्य रक्षणकर्तुर्नियमविशेषं विधत्ते-
न मा॒ ँसम॑श्नीयात् । न स्त्रिय॑मु॒पेयात् (७), इति ।
व्यतिरेकमुखेन नियमं प्रशंसति-
यन्मा॒ ँसम॑श्नी॒यात् । यत्स्त्रिय॑मुपे॒यात् । निर्वी॑र्यः स्यात् ।
नैन॑म॒ग्निरुप॑नमेत्, इति ।
अग्न्याधेयं न प्राप्नुयादित्यर्थः ।
आधानदिनात्पूर्वदिने पुनर्ब्रह्मौदनं विधत्ते-
तैत्तिरीयब्राह्मणम् (१.१.९) ५१
श्व आधा॑स्यमा॑नो ब्रह्मौद॒नं प॑चति । आ॒दि॒त्या वा इ॒त
उत्त॑माः सु॑व॒र्गं लो॒कमा॑यन् । ते वा इ॒तो यन्तं॑ प्रति॒नुद॑न्ते ।
ए॒ते खलु॒ वावाऽऽदि॒त्याः । यद्ब्राह्म॑णाः । तैरे॒व स॒न्तवं॑
ग॑च्छति (८) । नैनं॒ प्रति॑नुदन्ते, इति ।
पुरा कदाचिदादित्या इतो भूलोकादुद्गततमाः स्वर्गं प्राप्ताः । ते
चान्यं पुरुषमितः स्वर्गे गच्छन्तं प्रतिबध्नन्ति । भूलोकवर्तित्वात् । ब्राह्मणा
एवादितिसंबन्धादादित्याः । अनेन ब्रह्मौदनेन तुष्टैस्तैर्ब्राह्मणैरादित्यैः
सहस्वर्गप्राप्तौ संमतत्वं गच्छति । तत एनं न प्रतिबध्नन्ति ।
तस्य ब्राह्मौदनिकाग्नेः समिन्धनं तस्मिन्नरणिप्रतापनं च विधत्ते-
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । क्वा॑ सः । अ॒ग्निः कार्यः॑ । यो॑ऽ
स्मै॑ प्र॒जां प॒शून्प्र॑ज॒नयतीति॑ । शल्कै॒स्ता ँ रात्री॒म्
ग्निमि॑न्धीत । तस्मि॑न्नुपव्यु॒षम॑रणी॒ निष्ट॑पेत् । यथ॑र्ष॒भाय॑
वा॒शिता॒यावि॑च्छा॒यति॑ । ता॒दृगे॒व तत्, इति ।
आधातव्यो योऽग्निरस्मा आहिताग्नये प्रजां पशूंश्च संपादयति
सोऽग्निः क्व कार्यः कुत्र संपादनीय इति ब्रह्मवादिनां प्रश्नः।
तस्यैतदुत्तरम् । तस्यां रात्रौ निरन्तरं तस्मिन्काष्ठालैशैरग्निं
समिन्ध्यऽग्नावुषः कालसमीपे मन्थनसाधनमरणिद्वयं निष्टपेन्निःशेषेण
तपेत् । तेन स ब्राह्मौदनिकोऽग्निररण्योः प्रविशति । यथा लोके
कस्मैचिदृषभाय प्रियाणि वाशितानि किकिटादिशब्दजातानि
तदागमनाय विशेषेण संपादयति । तदरणिप्रतापनं तादृगेवेति द्रष्टव्यम् ।
अथ देशविशेषे मन्थनं विधत्ते-
अपोदू॒ह्य भस्मा॒ग्निं मं॑न्थति (९) । सैव साऽग्नेः संत॑तिः,
इति ।
ब्राह्मौदनिकाग्निसंबन्धिभस्मान्यपोदूह्य निःसार्य तस्मिन्स्थाने
तप्ताभ्यामरणीभ्यामग्निं मन्थेत् । तस्मिन्स्थाने येयं मन्थनक्रिया सैव
ब्राह्मोदनिकस्याग्नेरुत्पत्स्यमानेनाग्निना सह सा संततिः । तथाविधो
विच्छेदाभावः।
५२ (१.१.९) तैत्तिरीयब्राह्मणम्
मथितस्याग्नेर्गार्हपत्याधानार्थमुद्धरणं विधत्ते-
तं म॑न्थि॒त्वा प्राञ्च॒मुद्ध॑रति । सं॒व॒त्स॒रमे॒व तद्रेतौ॑ हि॒तं
प्र॒जन॑यति, इति ।
अरणावुत्पन्नं मथितमग्निं कस्मिंश्चित्पात्रे प्राञ्चमुद्धरति, न तु
प्रत्यञ्चम् । यथा लोके संवत्सरं गर्भे धत्ते रेतोऽन्ते प्रजनयति
तद्वदेतद्भवति ।
ब्राह्मौदनिकेऽग्नौ गायत्र्यादिभिर्यः समिदाधानविधौ
विधिरुक्तस्तमेव पक्षान्तरविधानाय पुनः परामृशति-
अना॑हि॒तस्तस्या॒ग्निरित्या॑हुः । यः स॒मिधो॒ऽ
ना॑धा॒या॒ग्निमाद॑धत॒ इति॑ । ताः सं॑वत्स॒रे पु॒रस्ता॒दाद॑ध्यात् ।
सं॒व॒त्स॒रादे॒वैन॑मव॒रुध्याऽऽध॑त्ते, इति ।
समिदाधानाभावे कृतमप्याधानमकृतमेव स्यादित्यभिज्ञा आहुः ।
तस्मादाधानात्पुरस्तात्संवत्सरपरिमिति काले समिदाधानं मुख्यः पक्षः।
तमेतं मुख्यं पक्षमनूद्य तदसंभवेऽनुकल्पं विधत्ते-
यदि॑ संवत्स॒रे नाऽऽद॑ध्यात् । द्वाद॒श्यां पु॒रस्ता॒दाद॑ध्यात् ।
सं॒व॒त्स॒रप्र॑तिमा॒ वै द्वाद॑श रात्र॑यः ।
सं॒व॒त्स॒रमे॒वाऽऽस्याहि॑ता भवन्ति, इति ।
आधानदिनमारभ्याधस्तनतिथिगणनायां या द्वादशसंख्यापूरणी
तिथिस्तस्यां ताः समिध आदध्यात् । द्वादशानां रात्रीणां मासस्थानीयत्वेन
मिलित्वा संवत्सरसादृश्यम् ।
पुनरप्यसंभवेऽनुकल्पान्तरं विधत्ते-
यदि॑ द्वाद॒श्यां नाऽऽद॑ध्यात् । त्र्य॒हे पु॒रस्ता॒दाद॑ध्यात् ।
आहि॑ता ए॒वास्य॑ भवन्ति (१०), इति ।
तैत्तिरीयब्राह्मणम् (१.१.१०) ५३
द्वि॒तीय॑मपच॒च्चतु॑र्थमपच॒द्दितीर॑तोऽधत्त सं॒मिताघृ॒तवती॑भिरा॒र्दधा॑ति
रा॒जन्य॑:स्व॒स्य छन्द॑सः प्र॒त्यय॑न॒स्त्वो॑र्येयाद॒गच्छ॑ति । म॑न्थति रा॒त्र॑यश्च॒त्वारि॑
च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
प्रथमाध्याये नवमोऽनुवाकः ॥ ९ ॥
पूर्ववद् व्याख्येयम् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
प्रथमप्रपाठके नवमोऽनुवाकः ॥ ९ ॥
अथ दशमोऽनुवाकः ।
नवमे ब्रह्मौदनाऽभिहितः । अथ दशमं पञ्चाग्न्याधानमभिधीयते ।
पूर्वं पञ्चमेऽनुवाके यत्रेधाऽग्निरधीयत इत्यग्नित्रयाधानपक्ष
एवाभिहितः। इह तु पञ्चाग्न्याधानं विधातुमाख्यायिकामाह-
प्र॒जाप॑तिः प्र॒जा असृ॑जत । स रि॑रिचा॒नोऽम॑न्यत । स
तपो॑ऽतप्यत । स आ॒त्मन्वी॒र्य॑मपश्यत् । तद॑वर्धत ।
तद॑स्मा॒त्सह॑सो॒र्ध्वमसृ॑ज्यत । सा वि॒राड॑भवत् । तां
दैवा॑सु॒रा व्य॑गृह्णत । सोऽब्रवीत्प्र॒जाप॑तिः । मम॒ वा ए॒षा
(१) । दोहो॑ ए॒व यु॒ष्माक॒मिति॑, इति ।
प्रजापतिः प्रजाः सृष्ट्वा स्वकीयस्य वीर्यस्योपक्षयेण रिक्तोऽहमिति
मत्वा वीर्यलाभाय स तपस्तप्त्वा स्वात्मनि किंचिद्वीर्यमपश्यत् । तच्च
वीर्यं कालेनावर्धत । तत्प्रवृद्धं वीर्यं धारयितुमशक्यं
सच्छीघ्रमेवास्मात्प्रजापतेरूर्ध्वं निर्गत्य केनचिद्रूपेण सृष्टमभूत् । सा सृष्टा
निष्पन्ना विविधं राजमाना काचिद्गौरभवत् । तामुद्दिश्य देवाश्चासुराश्च
वयमेवैतां गृह्णीम इत्येवं परस्परं विग्रहमकुर्वन् । तदा विग्रहशान्तये
प्रजापतिरेवमब्रवीत् । एषा गौर्ममैवेति । युष्माकं तु दोहा एव
क्षीराण्येवेति ।
सा ततः॒ प्राच्युद॑क्रामत् । तत्प्र॒जाप॑तिः पर्य॑गृह्णात् । अथ॑र्व
पि॒तुं मे॑ गोपायेति॑ । सा द्वि॒तीय॒मुद॑क्रामत् । तत्प्र॒जाप॑तिः
पर्य॑गृह्णात् । नर्य॑ प्र॒जां मे॑ गोपायेति॑ । सा तृ॒तीय॒मुद॑क्रामत् ।
५४ (१.१.१०) तैत्तिरीयब्राह्मणम्
तत्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । शस्य॑ ँ॑प॒शून्मै॑ गोपा॒येति॑ (२) ।
सा च॑तु॒र्थमुद॑क्रामत् । तत्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । सप्र॑थ
सभां॑ मे॑ गोपा॒येति॑ । सा प॑ञ्च॒ममुद॑क्रामत् । तत्प्र॒जाप॑तिः॒
पर्य॑गृह्णात् । अहे॑ बु॒ध्निय॒ मन्त्रं॑ मे गोपा॒येति॑ । अ॒ग्नीन्वाव
सा तान्व॑क्रमत । तान्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । अथो॑
पा॒ङ्क्तमे॒व, इति ।
येयं गौः प्रजापतिना स्वार्थमेव स्वीकृता विराट् सा प्रजापतेः
सकाशात्प्राङ्मुखी सत्युदक्रामत् . तदा प्रजापतिरथर्वेति मन्त्रेण तां विराजं
परितो निरुद्धवान् । हेऽथर्व चतुर्थवेदप्रवर्तकाचार्यरूप दक्षिणाग्ने, यद्वा
हिंसारहितं मे पितुं मदीयमन्रं गोपाय । एवमुत्तरेषु चर्तुषु योज्यम् । नरेभ्यो
मनुष्येभ्यो हितो नर्यो गार्हपत्यः । ऋत्विग्भिः प्रशंसनीयरूपत्वाच्छंस्य
आहवनीयः । प्रथया कीर्त्या सह वर्तमानत्वात्सप्रथः सभ्यः ।
अहिंसकत्वादबुध्ने मूले जगदादावुत्पन्नत्वादहिर्बुध्निय आवसथ्यः ।
ऋगादिर्भन्त्रः । इत्थं सैव विराट् तानग्नीन्पञ्चधा विवेक्तुं पञ्चवारं
व्यक्रामत् । तान्यञ्चाग्नीन्प्रजापतिः परितः स्वीकृतवान् । अपि च
क्रमेणावस्थानात्पञ्चसंख्यान्वयाद्वा पङ्क्तमेवैतावदग्निविषयां
गृहीतवान् ।
इदानीं विधत्ते-
पा॒ङ्क्तिर्वा ए॒षा ब्राह्म॑णे प्रवि॑ष्टा (३) । तामा॒त्मनोऽधि॑
निर्मि॑मीते । यद॒ग्निरा॑धी॒यते॑ । तस्मा॑दे॒ताव॑न्तो॒ऽग्नय॑
आधी॑यन्ते । पा॒ङ्क्त वा इद ँसर्व॑म् । पा॒ङ्क्तेनै॒व पा॒ङ्क्त ँ
स्पृणोति, इति ।
पूर्वोक्तानामाथर्वंत्यादीनां मन्त्राणां ब्राह्मणेनाधीतत्वात्प्रजापति-
प्रतिपाद्यत्वाद्वा पङ्क्तिर्विप्रे प्रविष्टा । तथा सत्यग्न्याधानेन तां पङ्क्तिं
तस्मादुत्पादयति । तस्मादेतावन्तः पञ्चाग्नय आधातव्याः । यदिदं
मनुष्यपश्वादिरूपं जगत्सर्वं पञ्चसंख्यॉपेतत्वात्पाङ्क्तम् । शिरो हस्तौ
पादौ चेत्येवं मनुष्याणां पञ्चावयवाः । शिरसा पुच्छेन वा सह चत्वारः
पादाः पशूनां पञ्चावयवाः। अतः पञ्चसंख्यायुक्तेनैवाग्निना
पञ्चसंख्यायुक्तं जगत्प्रीणयति ।
अथ मन्त्राणां तात्पर्यं क्रमेण दर्शयति-
तैत्तिरीयब्राह्मणम् (१.१.१०) ५५
अथ॑र्व पि॒तुं मे॑ गोपायेत्या॑ह । अ॒न्नमे॒वैतेन॑ स्पृणोति । नर्य॑
प्र॒जां मे॑ गोपायेत्या॑ह । प्र॒जामे॒वैतेन॑ स्पृणोति । शस्य॑ ँ
प॒शून्मे॑ गोपायेत्या॑ह (४) । प॒शूने॒वैतेन॑ स्पृणोति । स॒प्रथ॑
सभां मे॑ गोपायेत्या॑ह । स॒भामे॒वैतेनै॑न्द्रि॒य ँ स्पृ॑णोति । अ॒हे॑
बु॒ध्निय॒ मन्त्रं॑ मे गोपायेत्या॑ह । मन्त्र॑मे॒वैतेन॑ । श्रिय॑ ँ
स्पृणोति, इति ।
मन्त्रे तानिन्द्रियावत इत्यभिधानादिन्द्रियप्रीतिः । सा हि
श्रीरित्यभिधानाच्छ्रियः प्रीतिः ।
पञ्चानामग्नीनां पृथगुपयोगं दर्शयन्प्रशंसति-
यद॑न्वाहार्यपच॑नेऽन्वाहार्यं॒ पच॑न्ति । तेन॒ सो॑ऽस्या॒भीष्ट॑:
प्री॒तः । यद्गा'हपत्य॒ आज्य॑मधिश्रय॑न्ति संपत्नी॑र्य॒जय॑न्ति ।
तेन॒ सो॑ऽस्या॒भीष्ट॑: प्री॒तः । यदा॑हव॒नीये॑ जु॒ह्वति॑ (५) । तेन॒
सो॑ऽस्या॒भीष्ट॑: प्री॒तः । यत्स॒भायां वि॒जय॑न्ते । तेन॒
सो॑ऽस्या॒भीष्ट॑: प्री॒तः । यदा॑वस॒थेऽन्न॑ ँ हर॑न्ति । तेन॒
सो॑ऽस्या॒भीष्ट॑: प्री॒तः । तथा॑ऽस्य॒ सर्वे॑ प्री॒ता अ॒भीष्टा॒
आधी॑यन्ते, इति ।
दर्शपूर्णमासकर्मणि ऋत्विजामनु दक्षिणार्थं आह्नियत इत्योदनो
ऽन्वाहार्यः । स च पच्यते यस्मिन्दक्षिणाग्नौ सोऽयमन्वाहार्यपचनः ।
तेनौदनपाकेनोपयुक्तत्वात्स दक्षिणाग्निरस्य यजमानस्याभीष्टोऽपि भवति ।
एतदीयपरिचर्यया प्रीतश्च भवति । एवमुत्तरत्रापि । गार्हपत्ये ह्याज्यं
विलापयन्ति । देवपत्नीश्च संयाजयन्ति । अतः पत्नीसंबन्धाद् गृहपतिना
संयुक्त इति गार्हपत्यः । प्रधानाहुति जुहोत्यस्मिन्नित्याहवनीयः । अथ
सभाया मध्येऽधिदेवनमुद्धृत्येत्यादिना द्यूतविजयः सूत्रेऽभिहितः । तां
द्यूतसभामर्हतीति सभ्यः । “तदन्नं संस्कृत्य सभासद्भ्य-उपहरन्त्यावसथे
भुञ्जते” इति .सूत्रेऽन्नहरणमुक्तम् । तद् गृहमावसथः ।
तमर्हतीत्यावसथ्यः । तेनोक्तप्रकारेण सर्वेऽप्यग्नयोऽस्य यजमानस्य
प्रीतिपूर्वकमभीष्टं संपादयन्त आहिता भवन्ति ।
५६ (१.१.१०) तैत्तिरीयब्राह्मणम्
पूर्वोक्तैरथर्व पितुमित्यादिमन्त्रैरुपस्थानं विधत्ते-
प्र॒वस॒न्मेष्य॒न्नेवमु॑पतिष्ठे॒तैक॑मे॒कम् । यथो॑ ब्राह्म॒णाय॑
गृ॒हेवा॒सिने॑ परि॒दाय॑ गृ॒हानेति॑ । ता॒दृगे॒व तत्, इति ।
आहिताग्निर्यदा देशान्तरं गमिष्यति तदा पूर्ववदुपतिष्ठेत ।
पूर्ववत्प्रजापतिर्विराजः क्रमेणाथर्व पितुमित्यादिमन्त्रैर्विराजं
परिगृहीतवानित्यर्थवाद उक्तः । तेनार्थवादेनाऽऽधानकालीनस्यो-
पस्थानस्य विधिरुन्नेयः । अत एव सूत्रकार आधानादूर्ध्वं पवमानेष्टिभ्यः
पूर्वमेतदुवाच-“अथ विराट् क्रमैर्यजमान उपतिष्ठते, अथर्वपितुं मे
गोपाय” इत्यादि । अत आधानाकालीनमुपस्थानं
दृष्टान्तीकर्तुमेवमित्युक्तम् । यथा लोके गृहस्वामी कश्चिदन्यं कंचिद्ब्राह्मणं
गृहरक्षार्थं वासयित्वा तस्मै ब्राह्मणाय गृहान्परिदाय त्वमेवमेवं रक्षेति
बुद्धिप्रदानं कृत्वा ग्रामान्तरं गच्छति तादृगेव तदुपस्थानं द्रष्टव्यम् ।
उपस्थानान्तरं विधत्ते-
पुन॑रा॒गत्योप॑तिष्ठते । साऽभा॒गेय॑मे॒वैषां॒ तत् । सा तर्त॑
ऊ॒र्ध्वाऽऽरो॑हत् । सा रो॑हि॒ण्य॑भवत् । तद्रो॑हि॒ण्यै
रो॑हिणि॒त्वम् । रो॒हि॒ण्याम॒ग्निमाद॑धीत । स्व ए॒वैनं॒ योनौ॑
प्रति॑ष्ठित॒माध॑त्ते । ऋ॒ध्नोत्ये॑नेन (६), इति ।
एषा पशून्मे॑ गोपायेति॒ प्रवि॑ष्टा पशून्मे॑ गोपायेत्या॑हु जुहो॑ति तिष्ठ॑ते
सप्त च॑ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे
प्रथमप्रपाठके दशमोऽनुवाकः ॥ १० ॥
ग्रामान्तरादागत्य पुनरप्याहिताग्नीनथर्व पितुमित्यादिमन्त्रै-
रुपतिष्ठेत । ते च प्रत्येकमुपस्थानमन्त्राः संध्योपस्थानमन्त्रस्तु पञ्चधाऽ
ग्नीन्व्यक्रामदित्यादिः । स चैवमुत्तरप्रपाठके पठिष्यते-‘
‘पञ्चधाऽग्नीन्व्यक्रामत् । विराट् सृष्टा प्रजापतेः। ऊर्ध्वाऽऽरोहद्रोहिणी ।
योनिरग्नेः प्रतिष्ठितिः” इति । गेयमित्यादिना तदीयतात्पर्यमुच्यते । येयं
प्रजापतिसृष्टा विराट् सेयं तदानीमेषामग्नीनां भागरहिताऽभूत् । अन्वाहार्यं
पचन्त्याज्यमधिश्रयन्तीत्याद्युपयोगो यथाऽग्नीनामभिहितो न तथा विराजः
कश्चिदुपयोग उक्तः । तस्मादभागत्वम् । सा च भागरहिता ततो देशादूर्ध्वा
अनुवाका दश प्रोक्ताः प्रथमेऽस्मिन्प्रपाठके।
तैत्तिरीयब्राह्मणम् (१.१.१०) ५७
भूत्वा दिवमारोहत् । आरुह्य च रोहिणीनक्षत्ररूपाऽभूत् । रोहनीति
व्युत्पत्या रोहिणी नाम संपन्नम् । एवं च सति रोहिण्यामग्न्याधानेन
स्वकारण एवाग्निः प्रतिष्ठित आहितोभवति । रोहिण्या विराड्-
रूपेणाग्निकारणत्वात् । तथा च सत्युपयुक्तत्वाद्विराट् सभागा संपद्यते।
आधाता च समृद्धिं प्राप्नोति। अत एव पूर्वत्र-यो रोहिण्यामग्निमाधत्ते ।
ऋध्नोत्येव' इति विहितम् । अत्र तु तद्विध्यनुवादेन विराण्मन्त्रः प्रशस्यते ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
प्रथमप्रपाठके दशमोऽनुवाकः॥ १० ॥
ब्रह्म॒ संध॑त्तं कृत्तिकासूद्ध॑न्ति द्वादशसु॑ प्र॒जाप॑तिर्वाचो॒ दैवा॑सुरा धर्मः
शिर॒ इ॒मे वै श॑मीग॒र्भात्प्र॒जाप॑तिः स रिंरिचा॒नः स तपः स आ॒त्मन्वी॒र्यं॑
दश॑ ।।
ब्रह्म॒ संध॑त्तं तौ दि॒व्यावथौ॑ शन्त्वा॒य प्राच्यैषां॒ यदु॒पर्य॑परि॒ यत्स॒द्यः
सोऽश्वं॒ वारो॑ भू॒त्वा जग॑तीभिरशी॒तिः ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे
प्रथमप्रपाठके प्रथमोऽध्यायः ॥ १ ॥
अस्य प्रपाठकस्य विनियोगसंग्रहः-
अनुवाका दश प्रोक्ताः प्रथमेऽस्मिन्प्रपाठके।
शुक्रामन्थिगता मन्त्रा आधाने कालनिर्णयः ॥ १ ॥
संभारविधिरोधानं तत्प्रकारस्तथेष्टयः ।।
आधानमन्त्रव्याख्यानं ब्रह्मोदनविधस्तथा ।
पञ्चाग्निपक्ष इत्येवमनुवाका उदीरिताः ।। २ ।।
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थंश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ।। ३ ।।
इति श्रीमद्वीरबुक्कणसाम्राज्यधुरंधरश्रीमत्सायणाचार्यविरचिते माधवीये
वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
प्रथमः प्रपाठकः समाप्तः ॥ १ ॥
(मूलक्रमेण-अष्ट० १ अध्या. १ अनु. १०)
(भाष्यक्रमेण-का. १ प्रपा. १ अनु. १०) ।