सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 67, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 67

३८ (१.१.६) तैत्तिरीयब्राह्मणम्
ए॒व प्रति॑तिष्ठति । कार्ष्ममूर्ध्नं देय॑म् । अप॑रिमितस्याव॑रुद्ध्यै
(११) इति ।
आदित्ये तृतीयमप्स्वा॑सी॒त्तत्तेनाव॑रुन्धत स्यादा॑प्यते॒ रेतो॒ऽग्निरे-
क॑मे॒कमे॑तानि ह॒वीग्ँ॑षि॒निर्व॑प॒त्प्रत्यव॑रोहति ददात्यध्व॒र्युर्दे॒यमेक॑ च ।
इति कृष्णयजुर्वेदीयैत्तिरीयब्राह्मणे प्रथमकाण्डे
प्रथमप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥
आग्नीध्रेण तत्तदृतावग्नेरिध्यमानत्वात्तस्मै दत्तेन
द्रव्येणाग्निसहितानामृतूनां प्रीतिः । तस्मै यद्देयमुपबर्हणं शिरसः पृष्ठस्य
वाऽऽधारभूतं तस्य कार्पासाशाणोर्णादिमयैः शुक्लनीलपीतादिवर्णैः सर्वैः
सूत्रैर्निष्पन्नत्वात्तेन रूपाणां प्राप्तिः। अश्वस्य
प्रजापतिचक्षुर्जजन्यत्वात्तेनेन्द्रियप्राप्तिः । दातव्याया धेनोः कामधेनु-
रूपत्वादाशिषां प्राप्तिः । अनड्वाञ्छकटं वहति । अग्निश्च द्रव्यं वहति ।
अध्वर्युरप्यनुष्ठानं वहति । ततः समानत्वाद्बलीवर्दरूपेणाध्वर्यु रूपेण च
वह्निर्नैव यज्ञस्य वह्नियज्ञसंबन्धिहविर्वाहनमग्निं प्राप्नोति । गोमिथुनेन
मनुष्यमिथुनं प्राप्तिः । वाससः सर्वदेवत्यत्वं दीक्षा-
प्रकरणे-“अग्नेस्तूर्षाधानं वायोर्वातपानम्” इत्यादिवाक्येन प्रति-
पादितम् । आ द्वादशभ्यो गोभ्य इति शेषः । उक्तदक्षिणाभ्य ऊर्ध्वं-“षड्
देया द्वादश देयाः” इत्यादिशाखान्तरोक्तं बहुपक्षानुसारेण स्वाभिमतं
यावत्तावद्देयम् । तेनापरिमितफलप्राप्तिः । अत्र मीमांसा ।
एकादशाध्यायस्य चतुर्थपादे चिन्तितम्-
पवमानेष्टिहविषां तन्त्रं भेदोऽथ वाऽग्रिमः ।
साध्यदेशाद्यभेदान्नो काम्ये भेदोक्तितोऽन्तिमः ॥ इति ।
आधानप्रकरणे पठ्यते-“अग्नये पवमानायाष्टाकपालं निर्वपेदग्नये
पावकाथाग्नये शुचये” इति । तैरेतैर्हविर्भिः
साध्यस्याग्नेरेकत्वाद्देशाद्यभेदाच्चाङ्गानां तन्त्रमिति प्राप्ते ब्रूमः-“यः
कामयेतोत्तरं वसीयाञ्छ्रेयान्स्यामिति तस्याग्नये पवमानाय निरूप्याथ
पावकाय शुचये चोत्तरे हविषी समानबर्हिषी निर्वपेत्” इति
वचनात्काम्यप्रयोगे प्रथमस्य हविषोऽङ्गभेदः । उत्तरयोस्तन्त्रम् ।
नित्यप्रयोगे तु त्रयाणां तन्त्रम् । द्वादशाध्यायस्य चतुर्थपादे चिन्तितम्-