सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 81, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 81

५२ (१.१.९) तैत्तिरीयब्राह्मणम्
मथितस्याग्नेर्गार्हपत्याधानार्थमुद्धरणं विधत्ते-
तं म॑न्थि॒त्वा प्राञ्च॒मुद्ध॑रति । सं॒व॒त्स॒रमे॒व तद्रेतौ॑ हि॒तं
प्र॒जन॑यति, इति ।
अरणावुत्पन्नं मथितमग्निं कस्मिंश्चित्पात्रे प्राञ्चमुद्धरति, न तु
प्रत्यञ्चम् । यथा लोके संवत्सरं गर्भे धत्ते रेतोऽन्ते प्रजनयति
तद्वदेतद्भवति ।
ब्राह्मौदनिकेऽग्नौ गायत्र्यादिभिर्यः समिदाधानविधौ
विधिरुक्तस्तमेव पक्षान्तरविधानाय पुनः परामृशति-
अना॑हि॒तस्तस्या॒ग्निरित्या॑हुः । यः स॒मिधो॒ऽ
ना॑धा॒या॒ग्निमाद॑धत॒ इति॑ । ताः सं॑वत्स॒रे पु॒रस्ता॒दाद॑ध्यात् ।
सं॒व॒त्स॒रादे॒वैन॑मव॒रुध्याऽऽध॑त्ते, इति ।
समिदाधानाभावे कृतमप्याधानमकृतमेव स्यादित्यभिज्ञा आहुः ।
तस्मादाधानात्पुरस्तात्संवत्सरपरिमिति काले समिदाधानं मुख्यः पक्षः।
तमेतं मुख्यं पक्षमनूद्य तदसंभवेऽनुकल्पं विधत्ते-
यदि॑ संवत्स॒रे नाऽऽद॑ध्यात् । द्वाद॒श्यां पु॒रस्ता॒दाद॑ध्यात् ।
सं॒व॒त्स॒रप्र॑तिमा॒ वै द्वाद॑श रात्र॑यः ।
सं॒व॒त्स॒रमे॒वाऽऽस्याहि॑ता भवन्ति, इति ।
आधानदिनमारभ्याधस्तनतिथिगणनायां या द्वादशसंख्यापूरणी
तिथिस्तस्यां ताः समिध आदध्यात् । द्वादशानां रात्रीणां मासस्थानीयत्वेन
मिलित्वा संवत्सरसादृश्यम् ।
पुनरप्यसंभवेऽनुकल्पान्तरं विधत्ते-
यदि॑ द्वाद॒श्यां नाऽऽद॑ध्यात् । त्र्य॒हे पु॒रस्ता॒दाद॑ध्यात् ।
आहि॑ता ए॒वास्य॑ भवन्ति (१०), इति ।